प्राच्यदर्शनेषु अन्यतमदर्शनमिदं न्यायदर्शनम्। महर्षिणा गौतमेन प्रोक्तत्वात् गौतमदर्शनमिति नामान्तरेणापि प्रसिद्धम्। आन्वीक्षिकी, तर्कशास्त्रम्, प्रमाणशास्त्रम्, हेतुशास्त्रं वेति अन्यानि नामान्तराणि अस्य दर्शनस्य। यद्यपि दर्शनस्यास्य प्रणेता महर्षिः गौतमः, अतः गौतमादेव प्रारब्धमिदं दर्शनमिति वक्तुं शक्यम्, तथापि वेदस्मृतिपुराणादिशास्त्रेषु च एतद्दर्शनवर्णिताः विषयाः प्राप्यन्ते, महर्षेः गौतमस्य नामानि च समुपलभ्यन्ते इत्यतः दर्शनमिदमनादि इत्यपि वक्तुं शक्यम्।
श्याममणिः नेपालः
उपप्राध्यापक:, न्याविभाग:
नेपालसंस्कृत-विश्वविद्यालय:
वाल्मीकिविद्यापीठम्, काष्ठमण्डपस्थम्
su.philosophy.np@gmail.com
लेखसारः
प्राच्यदर्शनेषु अन्यतमदर्शनमिदं न्यायदर्शनम्। महर्षिणा गौतमेन प्रोक्तत्वात् गौतमदर्शनमिति नामान्तरेणापि प्रसिद्धम्। आन्वीक्षिकी, तर्कशास्त्रम्, प्रमाणशास्त्रम्, हेतुशास्त्रं वेति अन्यानि नामान्तराणि अस्य दर्शनस्य। यद्यपि दर्शनस्यास्य प्रणेता महर्षिः गौतमः, अतः गौतमादेव प्रारब्धमिदं दर्शनमिति वक्तुं शक्यम्, तथापि वेदस्मृतिपुराणादिशास्त्रेषु च एतद्दर्शनवर्णिताः विषयाः प्राप्यन्ते, महर्षेः गौतमस्य नामानि च समुपलभ्यन्ते इत्यतः दर्शनमिदमनादि इत्यपि वक्तुं शक्यम्। सूत्रकाराद् गौतमादारभ्य उदयनाचार्यपर्यन्तं सूत्रपरम्परायाम्, पुनः गंगेशोपाध्यायादारभ्य अधुना यावत् नव्यपरम्परायाञ्च बहुभिः नैयायिकैः न्यायदर्शनस्य विस्तारः कृत इति एतद्दर्शनेतिहासाध्ययनेन ज्ञायते। ईशायाः पञ्चमशताब्दिपूर्वकालः महर्षेः गौतमस्य काल इतीतिहासविद्भिः उच्यते। तत ईशायाः पञ्चशतवर्षपूर्वकालाद् ईशायाः दशमशताब्दीं यावत् भाष्यकारः वात्स्यायनः, वार्तिककार उद्योतकरः, तात्पर्यटीकाकारः वाचस्पतिमिश्रः, परिशुद्धिकारः उदयनाचार्यश्च प्राचीनसूत्रपरम्परायाः आचार्याः मन्यन्ते चेत् तदनन्तरं गंगेशोपाध्यायेन न्यायदर्शने विचित्रा नव्यशैली प्रतिपादिता इत्यतः तस्मादारभ्य इदानीन्तकालं यावत् नव्यन्यायदर्शनकाल इत्यपि वक्तुं शक्यते। नव्यन्यायपरम्परायाञ्च गंगेशोपाध्यायेन सहैव पक्षधरमिश्रः, वासुदेवसार्वभौमः, रघुनाथशिरोमणिः, मथुरानाथतर्कवागीशः, जगदीशभट्टचार्यः, गदाधरभट्टाचार्यः, अन्ये च बहव आचार्याः समागताः, यैः तत्तत्काले विशेषग्रन्थप्रणयनेन न्यायदर्शनस्य साहित्यभण्डारः सुसमृद्धः कृत इति वक्तुं शक्यते। न्यायाचार्याणां योगदानेनैव अधुना प्रायः सर्वेष्वपि दर्शनेषु प्रमेयचिन्तने प्राचीनन्यायस्य, प्रमाणचिन्तने, चिन्तनपरिष्करणेच च नव्यन्यायस्य प्रभावः अनुभूयते, तत्तद्दर्शनग्रन्थेषु दृश्यते च। अतोऽस्मिन् लेखे श्रुतिषु, स्मृतीतिहासपुराणेषु च न्यायदर्शनविषयाः कथं प्राप्यन्ते, गौतमकालादारभ्य अधुना यावत् मुख्यरूपेण के के आचार्याः दार्शनिकाश्च बभुवुः, तैः कीदृशानि ग्रन्थरत्नानि प्रणीतानि, तेषां प्रभावश्च आधुनिकदर्शनजगति कीदृशस्चास्तीति विषयाः परिशीलिताः सन्ति ॥
मुख्यशब्दाः : तर्कशास्त्रम्, हेतुविद्या, आन्वीक्षिकी, प्राचीनन्यायः, नव्यन्यायः।
विषयप्रवेशः
प्राच्यपाश्चात्त्यभेदेन द्विधा विभक्तानि नैकानि दर्शनानि समुपलभ्यन्ते दर्शनजगति। तत्रापि प्राच्यदर्शनेषु च वैदिकावैदिकभेदेन द्विविधो भेदो वर्तते। तत्र अवैदिकदर्शनेषु चार्वाक–बौद्ध–जैनदर्शनानि परिगण्यन्ते चेत् वैदिकदर्शनेषु न्याय–वैशेषिक–साङ्ख्य–योग–पूर्वमीमांसा–वेदान्तदर्शनानि परिगण्यन्ते। इदानीं तावद् वैदिकदर्शने आस्तिकदर्शने वा परिगणितस्य न्यायदर्शनस्य इतिहासः कः, कदारभ्य दर्शनमिदं प्रारब्धम् ? तत्र च के के आचार्याः समागताः ? तैश्च के ग्रन्थाः प्रणीता इत्यादिविषयस्य ज्ञानं दर्शनशास्त्राध्येतृणां कृते सुतरामावश्यकमेव। प्राचीनकाले इदं न्यायशास्त्रं हेतुशास्त्रं, हेतुविद्या, तर्कविद्या, तर्कशास्त्रं, वादविद्या, न्यायविद्या, प्रमाणशास्त्रं, तक्वी, विमंसी, तर्कीत्यादिशब्दैः प्रचलितमासीदिति प्राचीनग्रन्थावलोकनेन ज्ञायते। तत्रापि ‘आन्वीक्षिकी’ इति नाम तु अत्यधिकं प्रचलितमासीत्। तदेव भाष्यकारेण वात्स्यायनेन आन्वीक्षिकीत्यस्य न्यायशास्त्रमेवार्थ इति स्पष्टमुक्तं स्वकीये भाष्ये – ‘प्रत्यक्षागमाश्रितमनुमानं सा अन्वीक्षा, प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा, तया प्रवर्तते इत्यान्वीक्षिकी न्यायविद्या न्यायशास्त्रमित्यर्थः’(वात्स्यायनः, वि.सं. २०६९ : पृ. ८) इति।
इयमेव आन्वीक्षिकी न्यायविद्या वैदिककालादारभ्यैव प्रवृत्ता आसीदिति इतिहासाध्ययने स्पष्टं भवति। अतः लेखेऽस्मिन् तदानीमस्या विद्यायाः स्वरूपं कथमासीदिति अत्र क्रमेण परिशील्यते। तथैव न्यायदर्शनस्याचार्याणां स्थानकालादीनां परिचयः, तैः प्रतिपादितानां ग्रन्थानाञ्च परिचयश्च लेखेऽस्मिन् परिशील्यते। लेखस्य विस्तरभयात् एतद्दर्शनस्य परिचयमदत्वैव साक्षाद् विषये एव प्रविश्यते, दर्शनपरिचयस्तु अन्यत्रैव बहुत्र प्रतिपादितत्वात्। यद्यपि दर्शनानामितिहासविषये परिचयादिविषये च पूर्वमपि बहुभिः विद्वद्भिः बहुधा अध्ययनं कृतं वर्तते, संस्कृतहिन्दीनेपाल्यादिभाषासु नैके ग्रन्थाश्च समुपलभ्यन्ते तथापि एतद्दर्शनस्यैव समग्रेतिहासमादाय स्पष्टमध्ययनं न लभ्यते इत्यत एतस्येतिहासाचार्यादीनामध्ययनाय मे प्रवृत्तिः।
समस्याकथनम्
अत्र प्रस्तुते न्यायदर्शनस्येतिहासः आचार्याश्च इत्यस्मिन् विषये सन्ति नैकाः समस्याः। तासु काश्चन मुख्यत्वेन दृश्यन्ते। ताश्चाधोनिर्दिष्टानुसारं वर्तन्ते –
(क) न्यायदर्शस्येतिहासः कः ?
(ख) न्यायदर्शनस्याचार्याणां देशकालादीतिवृत्तं किम् ?
(ग) प्राचीननव्यन्यायभेदे बिजं किं, कानि च साहित्यानि ?
अध्ययनस्योद्देश्यम्
लेखस्यास्य मुख्यमुद्देश्यं न्यायदर्शनस्येतिहासः आचार्याश्च इत्याख्ये विषये केन्द्रीभूय समस्याकथने उपस्थापितानां समस्यानां समाधानान्वेषणमेव अस्ति। फलतोऽस्य लेखस्य उद्देश्यमधोनिर्दिष्टानुसारमस्ति –
(क) न्यायदर्शनस्येतिहासपरिशीलनम्।
(ख) न्यायदर्शनस्याचार्याणां देशकालादीनां परिशीलनम्।
(ग) प्राचीननव्यभेदे बीजान्वेषणम्, साहित्यादीनां परिशीलनञ्च।
अध्ययनविधिः
अस्य लेखस्य कृते आवश्यकसामग्रीणां सङ्कलनाय पुस्तकालयीयाध्ययनविधिरेव प्राधान्येन स्वीकृतः अस्ति। तत्र चास्मिन् लेखे न्यायदर्शनविषयप्रतिपादकाः संस्कृतमूलाकरग्रन्थाः, इतिहासवर्णनपरा ग्रन्थाः, नेपालीभाषायां हिन्दीभाषायाञ्च प्रकाशिता न्यायदर्शनसम्बद्धा विविधा ग्रन्था एव प्राथमिकसामग्रीत्वेन गृहीताः सन्ति। अन्यदर्शनेषु प्रतिपादिता इतिहाससम्बद्धविषयाः, पौरस्त्यदर्शनविशारदैर्लिखिता लेखाश्च द्वितीयकसामग्रीत्वेन प्रयुक्ताः सन्ति। एवमेव अस्मिन् लेखे यथावश्यकमागमनात्मकविधेर्निगमनात्मकविधेश्च प्रयोगं विधाय व्याख्यात्मको विश्लेषणात्मको विधिश्च प्रयुक्तः अस्ति।
सैद्धान्तिकी अवधारणा
प्राच्यदर्शनानि खलु तत्त्वप्रतिपादनाय प्रवृत्तानि। श्रुतिस्मृतिपुराणेतिहासेषु शास्त्रेषु विचारत्वेन लिखितानां सिद्धान्तानां ग्रन्थाकारे प्रवर्तनं तत्तत्काले महर्षिभिः सूत्राणि विरचय्य कृतमस्ति। न केवलं वैदिकदर्शनानामपि तु अवैदिकदर्शनानाञ्च सिद्धान्ता वैदिकवाङ्मयेषु लभ्यन्ते इति सूक्ष्माध्ययनेन ज्ञायते। वैदिकदर्शनानां तु मूलबीजमेव श्रुतिस्मृत्यादिवाङ्मयमिति निश्चप्रचमेव वक्तुं शक्यते। तानेव विचारानादाय महर्षिणा बादरायणेन ब्रह्मसूत्राणि विरचय्य वेदान्तदर्शनं प्रणीतञ्चेत् महर्षिणा जैमिनिना मीमांसासूत्राणि विरचय्य पूर्वमीमांसादर्शनं प्रवर्तितम्। तथैव महर्षिणा कपिलेन सांख्यदर्शनं प्रचारितञ्चेद् पतञ्जलिना योगदर्शनं प्रणीतम्। एवमेव महर्षिणा कणादेन वैशेषिकसूत्राणि विरचितानि चेत् गौतमेन न्यायसूत्राणि प्रणीतानि। एवञ्च इमे एव महर्षयः तत्तद्दर्शनानां प्रवर्तकत्वेन लोकविश्रुताः सन्ति। सूत्रकारानन्तरं तत्तत्समये बहुभिः विद्वद्भिः सूत्राणां भाष्याणि कृतानि, ततः अन्यैः विद्वद्भिः भाष्याणामपि व्याख्योपव्याख्यानं कृतमस्ति। एवञ्च समेषां दर्शनानाम् इतिहासः वैदिकवाङ्मयेषु कथं प्राप्यते इति अनुसन्धानमवश्यं कर्तव्यमेव। तथैव कस्मिन् काले देशे सूत्राणि रचितानि, भाष्याणि कृतानि, व्याख्यानानि च कृतानीति विषये च अनुसन्धानमावश्यकमस्ति। एवमेव अन्यैश्च कैः कैः विद्वद्भिः कस्मिन् कस्मिन् काले, कस्मिन् कस्मिन् देशे च स्वतन्त्रान् ग्रन्थान् विरचय्य तत्तद्दर्शनानां साहित्यागारः वर्धित इत्यस्मिन् विषये च अध्ययनं कर्तव्यं भवति अध्येतृभिः। परन्तु एकस्मिन् लघुनि लेखे एव समग्रस्य प्राच्यवाङ्मयस्य सर्वेषां दर्शनानां वेतिहासाध्ययनं कर्तुं न शक्यते इत्यतः अस्मिन् लेखे केवलं न्यायदर्शनस्य इतिहासाचार्यसाहित्यानामध्ययनं कर्तव्यमिति विषयमुररीकृत्य न्यायदर्शसिद्धान्तमादायैव एतद्दर्शनस्येतिहासस्य परिशीलनं क्रियते।
श्रुतिषु न्यायशास्त्रम् –
मानवसृष्टेः आदिकाल एव वैदिककालः। अधुना तत्कालीनग्रन्था वेदा उपनिषदो लभ्यन्ते। तत्र न्यायशास्त्रस्य (हेतुविद्यायाः) सर्वापेक्षया प्राचीनोल्लेख आदिग्रन्थस्य ऋग्वेदस्य नासदीयसूक्ते संकेतरूपेण कृतोऽस्ति। ‘सतो बन्धुमसति निरविन्दन् हृदि प्रतीप्या कवयो मनीषा’ (ऋग्वेदः १०–१२९–४) अत्र मनीषाशब्दः परमतत्त्वस्य दर्शनस्य साधनरूपेण प्रत्युक्तोऽस्ति। इदमेव साधनं न्यायशास्त्रे हेतुरित्युच्यते। छान्दोग्योपनिषदि च सङ्केतरूपेण तर्कशास्त्रस्य प्रसङ्गो दृश्यते। तत्रोक्तासु विद्यासु तर्कविद्यापि एकेति तदध्ययनेन ज्ञायते। तथा हि – ‘स होवाचर्ग्वेदं भगवोऽध्येमि यजुर्वेदग् सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यग् राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याग् सर्पदेवजनविद्यामेतद्भगवोऽध्येमि’ (छान्दोग्योपनिषत् ७–१–२) अत्रोक्तेन वाकोवाक्यमिति पदेन तर्कशास्त्रमुच्यत इति शंकराचार्याः। अन्यत्रापि छान्दोग्योपनिषदि एव शब्द आकाशाश्रित इति स्वीक्रियते, एतदेव न्यायशास्त्रे ‘शब्दगुणकमाकाशम्’ इति पदेन शब्दस्याश्रय आकाश एवेति स्वीकृतः। ‘आकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रतिश्रृणोत्याकाशे रमत आकाशे न रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति’ (छान्दोग्योपनिषत् ७–१२–१) इत्यनेन ज्ञायते यत् न्यायशास्त्रस्य शब्दस्य आकाशगुणत्वकथनस्य बीजमुपनिषदेव आसीदिति। बृहदारण्यकोपनिषदि अपि तर्कस्य सङ्केतः प्राप्यते। तथा हि –‘आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृहदारण्यकोपनिषत् २–४–५) इति। अत्र मन्तव्य इति पदेन तर्कस्य सङ्केतः क्रियते। आत्मविषये खलु अज्ञानावस्थायां सन्देहो भवति, तस्यैव सन्देहस्य शमाय विविधतर्कैः मननं क्रियते, तस्यैव तर्कस्य सङ्केतरूपं ‘मन्तव्यः’ इति पदम्। श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः। मत्वा तु सततं ध्येयमेते दर्शनहेतवः’ इति प्रसिद्धवाक्येन हेतुभिः मन्तव्य इति कथनात्, उपपत्तिशब्दस्य हेतुरित्यर्थः। तथैव न्यायशास्त्रस्य प्रमाणभूतस्यानुमानप्रमाणस्य उल्लेखो मुण्डकोपनिषदि लभ्यते, ‘नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात्’ (मुण्डकोपनिषत् ३–२–४) इति। अत्र अलिङ्गादितिपदेन नानुमानात् इति स्पष्टं ज्ञायते। तथैव तैत्तिरीयारण्यकेऽपि अनुमानशब्दस्य प्रयोगः प्राप्यते। ‘स्मृतिः प्रत्यक्षमैतिह्यमनुमानचतुष्टयम्। एतैरादित्यमण्डलं सर्वैरेव विस्यते’(तैत्तिरीयारण्यकम् १–२), अत्रापि अनुमानशब्देन न्यायाङ्गभूतस्य अनुमानस्यैव ग्रहणं भवति। इत्यादिभिः तथ्यैः निश्चीयते यत् श्रुतिषु तर्कशास्त्रस्य सङ्केतसत्त्वात् प्राचीनवैदिककाले न्यायशास्त्रं सङ्केतरूपेणासीदिति।
स्मृतिषु न्यायशास्त्रम् –
प्राचीनस्मृतौ याज्ञवल्क्ये न्यायशास्त्रं चतुर्दशविद्यासु एकविद्येति स्वीकृतमस्ति – ‘पुराणं न्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ (या.स्मृ. १–३)। तथैवान्यत्रापि – ‘अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः। पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ॥ (वि.पु. ३–६–२८)। उक्तश्लोकद्वयेऽपि न्यायपदेन न्यायशास्त्रस्यैव ग्रहणं भवति। तथैव मनुस्मृतौ तर्कशास्त्रस्य महत्त्वं प्रतिपादयन् लिखितमस्ति – ‘आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥ (मनुस्मृति १२–१०६)। अत्र अनुसन्धानार्थं तर्कस्य आवश्यकता प्रदर्शिता। एवमेव अन्यत्रापि मनुस्मृतावेव – त्रैविद्यो हेतुकस्तर्को नैरुक्तो धर्मपाठकः। त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा ॥ (मनुस्मृतिः १२–१११)। कौटिल्येन च स्वकीयेऽर्थशास्त्रे आन्वीक्षिकीविद्याया लोकोपकारकत्वं प्रदर्शितमिति भाष्यकारेण वात्स्यायनेन उद्धृतं वर्तते – प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां सेयमान्वीक्षिकी मता ॥ (वात्स्यायनः, वि.सं. २०६९, पृ.५) इति। अनेन ज्ञायते यत् स्मृत्यादावपि प्रशस्तरूपेण न्यायशास्त्रस्यास्य उल्लेख आसीदिति।
पुराणेतिहासेषु न्यायशास्त्रम् –
यथोपनिषत्सु स्मृत्यादौ वा न्यायशास्त्रस्योल्लेखो दृश्यते, तथैव पुराणेतिहासेष्वपि शास्त्रस्यास्य बहुत्र उल्लेखः प्राप्यते। मत्स्यपुराणे न्यायः मीमांसा चेति द्वयमपि शास्त्रं प्रमाणप्रधानमति उक्तमस्ति यथा – अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः। मीमांसान्यायविद्याश्च प्रमाणाष्टकसंयुगाः ॥ (म.पु. ३–४)। अत्र ‘च’ इति पदेन ज्ञायते यत् अत्रोक्ता न्यायविद्या न मीमांसारूपन्यायविद्या, अपि तु मीमांसाभिन्ना स्वतन्त्रा न्यायविद्या। तथैव पद्मपुराणे न्यायवैशेषिकसांख्यदर्शनानां तत्प्रवर्तकानां च नामानि स्पष्टरूपेण प्राप्यन्ते। यथा – कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत्। गोतमेन तथा न्यायं सांख्यं तु कपिलेन वै ॥ (प.पु.उ.ख २६३)। एवमेव स्कन्दपुराणे कलिकाखण्डेऽपि गौतमस्य नाम उद्धृतमस्ति – गोतमः स्वेन तर्केण खण्डयन् तत्र तत्र हि। (स्क.पु.का.ख. अध्याय १७) इति। तथैव वाल्मीकिरामायणे आन्वीक्षिकीविद्याया उल्लेखो दृश्यते – धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः। बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते (वा.रा.अयो. १००–३९) इति ॥ तथैव महाभारतेऽपि आन्वीक्षिकीविद्याया उल्लेखः प्राप्यते – अहमासं पण्डितको हैतुको वेदननिन्दकः। आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् (महाभारत, शान्तिपर्व १८७–४७) इति ॥ अनेन ज्ञायते यत् पुराणेतिहासेष्वपि न्यायशास्त्रस्योलेखः प्राप्यते इति।
एतावता परिशीलनेन सूत्ररचनायाः पूर्वकाले न्यायशास्त्रस्य स्वरूपं कीदृशमासदिति ज्ञातम्। इदमेव उपनिषदादिषूक्तं न्यायशास्त्रं स्वतन्त्रदर्शनत्वेन कदारभ्य आगतम्, को वाऽस्य प्रवर्तकः ? इति परिशील्यते। अस्मिन् प्रकरणे न्यायशास्त्रस्य स्वतन्त्ररूपेण उदयः, विकासः, तत्कर्तारः, आचार्याः, तेषां ग्रन्थाः कालश्चेत्यादिविषयाः परिशील्यन्ते।
प्राचीननव्यभेदः –
न्यायदर्शनस्येतिहासो द्विसहस्रवर्षेभ्यः पूर्वतः एवारब्ध आसीत्। तस्य प्रवर्तको महर्षिः गौतमः। वस्तुतः अस्य न्यायदर्शनस्य द्वे धारे वर्तेते। तत्र प्रथमधारा महर्षिगौतमस्य न्यायसूत्राद् आरभ्यते चेद् द्वितीयधारा तु महामहोपाध्यायाचार्यगङ्गेशस्य तत्त्वचिन्तामणेः आरभ्यते। अतः महर्षिगौतमरचितसूत्रक्रमेण आगता प्रथमधारा एव ‘प्राचीनन्यायः’ इति पदेनाभिधीयते। गङ्गेशविरचिततत्त्वचिन्तामणित आगता धारा तु ‘नव्यन्यायः’ इति पदेनाभिधीयते। तत्र प्रथमधारायां प्रमाणादिषोडशपदार्थानां निरूपणनात् सा धारा पदार्थमीमांसा इति नाम्ना प्रख्याता अस्ति, द्वितीयधारायान्तु विशेषतः प्रमाणानां निरूपणनात् सा धारा प्रमाणमीमांसा इति नाम्ना प्रसिद्धा अस्ति।
वस्तुतस्तु द्वितीयधारारूपेण आगतोऽयं नव्यन्यायः प्राचीनन्यायमूलक एव तथापि तत्र प्रमाणानां प्रतिपादनशैली–शब्दसंयोजनादिकं च महदन्तरं वर्तते। न केवलं प्रतिपादनशैली एव अपि तु प्रमेयपदार्थस्वरूपेऽपि क्वचित् क्वचित् मतभेदः प्राप्यते। प्राचीनन्यायः अध्यात्मप्रधानः, नव्यस्तु तर्कप्रधानः। यद्यपि प्राचीनन्यायेऽपि बहवस्तर्काः प्राप्यन्ते, वादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानि तर्कमूलान्येव तथापि न तावान् शुष्कतर्को विद्यते प्राचीनन्याये, यावान् नव्यन्याये। अतो नव्यन्यायः स्वतन्त्ररूपेण जगति व्याप्तः। यदा नव्यन्यायस्य आरम्भो गङ्गेशोपाध्यायेन कृतः, तदनन्तरं तु तस्य प्रभावो न केवलं भारतीयदर्शनेषु अपि तु पाश्चात्यदर्शनेष्वपि दृश्यते। परन्तु इदानीं सा शैली क्षीयमाणा दृश्यते। अतो दर्शनाध्येतृणां प्रवृत्तिः पुनः प्राचीनग्रन्थेषु अधिका दृश्यते। साररूपेण इदं तथ्यं वक्तुं शक्यते प्राचीनन्यायस्य लक्ष्यम् एकविंशतिप्रभेददुःखाद् आत्यन्तिकी मुक्तिरासीत् चेत् नव्यन्यायस्य लक्ष्यं शुष्कतर्केण पाण्डित्यप्रदर्शनपूर्वकम् इतरमतखण्डनमेवासीदिति। अत्र क्रमशः प्राचीननैयायिकानां नव्यनैयायिकानाञ्च परिचयः, साहित्यकालादिविषयस्य च परिचयः प्रदर्श्यते।
प्राचीनन्यायशास्त्रस्य आचार्याः साहित्यानि च –
न्यायदर्शने प्राचीननव्यभेदः कुतः प्रारब्ध इति पूर्वमुक्तम्। अतश्च न्यायदर्शने यैः आचार्यैः गौतमसूत्रपरम्परायां ग्रन्था रचिताः ते आचार्याः प्राचीनन्यायाचार्यत्वेन प्रख्याताः सन्ति चेत् यैः आचार्यैः गङ्गेशोपाध्यायस्य तत्त्वचिन्तामणिग्रन्थाधारेण तत्शैल्या वा ग्रन्था रचिताः ते आचार्याः नव्यन्यायाचार्यत्वेन प्रख्याताः सन्ति। अतोऽधुना प्रथमं क्रमशः प्राचीनन्यायाचार्याणां कालस्थानकृतीनां परिचयं परिशील्य तदनन्तरम् नव्यन्यायाचार्याणां कालस्थानकृतीनां परिचयः परिशील्यते।
गौतमः –
न्यायसूत्रकर्ता महर्षिः गौतम एव नात्र विवादः। अयमेव गौतम रामायणे उक्त अहल्यापतिः वा तद्भिन्नो वा इत्यत्रापि विवाद एव दृश्यते। यद्यपि न्यायपरिचयकारः फणिभूषणतर्कवागीशः अयमेव गौतमः अहल्यापतिः इति कथयन् स्कन्दपुराणस्य कञ्चन श्लोकं प्रदर्शयति – अक्षपादो महायोगी गौतमाख्योऽभवन्मुनिः। गोदावरीसमानेता अहल्यायाः पतिः प्रभुः ॥ (फणिभूषण, सन् १९६८ : पृ.४० )। परन्तु अस्य श्लोकस्य प्रामाण्ये अस्ति विवादः पण्डितानाम्। यदि अहल्यायाः पतिरेव न्यायशास्त्रप्रवर्तक इति स्वीक्रियेत तर्हि रामायणानुसारमस्य कालः त्रिसहस्रवर्षेभ्यः पूर्वं वक्तव्यं भवति, तथा सति रामायणादपि प्राचीनं न्यायसूत्रमिति स्वीकर्तव्यं भवति तच्च न शक्यते। तस्माद् अयं श्लोकः क्षेपक इति मन्तव्यम्। अतो नायं गौतमो रामायणे उक्तः अहल्यापतिः। गौतमस्यैवापरं नाम ‘अक्षपादः’ इति। अयं मिथिलादेशीयः आसीदिति केचित्। न्यायसूत्रकारो गौतम एव अक्षपादो वा तद्भिन्नो वा ? इत्यत्रापि विवदन्ति विद्वांसः। डा.सतीशचन्द्रविद्याभूषणः गौतममक्षपादञ्च विभिन्नौ पुरुषौ इति मनुते। तस्य मते गौतमो न्यायसूत्रकारः, अक्षपादस्तु तस्य प्रतिसंस्कर्ता इति। महर्षिर्गौतमः अध्यात्मप्रधानसूत्राणां कर्ता अस्ति चेद् इतरपदार्थानां निरूपयिता तथा क्रमबद्धप्रमाणस्वरूपविचारकस्तु अक्षपाद इति तस्य मतम्। यथा आयुर्वेदस्य प्रसिद्धतमो ग्रन्थः ‘चरकः’ महर्षि–अग्निवेशेन प्रवर्तितः, स एव ग्रन्थश्चरकेण संपादितः। अत्र चरक एव तस्य प्रतिसंस्कर्ता इति स्वीक्रियते तथैव न्यायदर्शनस्यापि मूलप्रणेता गौतमः, तस्य प्रतिसंस्कर्ता अक्षपाद इति। अस्मिन् विषये दासगुप्तस्य मतं – गौतमः मेधातिथिश्च एक एव, परन्तु अयं केवलं काल्पनिकः पौराणिको वा न तु न्यायसूत्राणां कर्ता। गौतमेन नैकोऽपि ग्रन्थः प्रणीतः । अतः अक्षपाद एव न्यायदर्शनप्रणेता ‘न्यायसूत्रकारः’ इति तस्य मतम्।
अन्ये तु प्रायः सर्वेऽपि विद्वांसो गौतमाक्षपादयोः ऐक्यमेव कथयन्ति। मेधातिथिः, अक्षपादः, अक्षचरणः, गौतमः एतानि सर्वाण्यपि एकस्यैव पुरुषस्य नामानि। वात्स्यायनेन, उद्योतकरेण, वाचस्पतिमिश्रेण, विश्वनाथपञ्चाननभट्टेन च गौतम एव अक्षपाद इति स्वीकृतमस्ति, पद्मपुराणे, स्कन्दपुराणे च न्यायशास्त्रकारः गौतम एव इति उल्लिखितः। अतः न्यायसूत्राणि एकेनैव गौतमेन रचितानि न तु अन्येन केनचिदपि। तस्मात् निश्चयेन वक्तुं शक्यते यत् न्यायसूत्रकारगौतमस्यैव अपरं नाम अक्षपाद इति। अस्य गौतमस्य कालविषये तु इतोऽपि महान् विवादो लभ्यते। वस्तुतः, न केवलं गौतमस्य अपि तु प्रायः सर्वेषां प्राचीनसंस्कृत–साहित्यकाराणां कालः क इति नास्ति किञ्चिदपि दृढं प्रमाणम्। अतः सर्वैरपि तेषु तेषु ग्रन्थेषु वर्णितविषयान् आदायैव तेषां कालोऽनुमीयते। एतस्मिन् विषये कस्य कस्य विदुषः दार्शनिकस्य वा किं मतमस्तीति विषये चन्द्रधरशर्मणा स्वीये भारतीयदर्शन इत्याख्ये हिन्दीभाषायां लिखिते ग्रन्थे उल्लिखितं वर्तते इत्यतः चन्द्रधरशर्मणा उल्लिखितानि मतानि अत्र प्रदर्श्यन्ते। जर्मनदार्शनिकः याकोवी (jacobi) गौतमस्य कालः तृतीयशताब्दीति मनुते। तस्य मते न्यायसूत्रे शून्यवादस्य खण्डनं कृतमस्ति। अतोऽस्य कालः शून्यवादानन्तरं विज्ञानवादात्पूर्वं ‘तृतीयशताब्दी’ आसीदिति। महामहोपाध्यायहरप्रसादशास्त्रिणो मते न्यायसूत्रस्य प्रणयनं द्वितीयशताब्द्यामासीदिति। केषाञ्चन मतमस्ति न्यायसूत्रे बौद्धमतखण्डनात् अस्य कालः पञ्चमशताब्दीति। परन्तु न्यायमञ्जरीकारस्य जयन्तभट्टस्य मते बौद्धोक्तशून्यवाद–बाह्यार्थभङ्गवादादिविषया बुद्धात् पूर्वमेव प्रवृत्ता आसन्। अतस्तत्खण्डनाय न्यायसूत्राणि रचितानि। अतो न्यायसूत्रं बौद्धमतपूर्ववर्ति एवेति। यथा पाणिनेः पूर्वमपि व्याकरणशास्त्रमासीत् तथैव सर्वेऽपि वादाः, विषयाः, पूर्वत एवासन्। अतः केवलं बौद्धमतस्य खण्डनं दृष्ट्वा न्यायशास्त्रस्य अर्वाचीनत्वं वक्तुं न तावत् युक्तियुक्तं भवति, विषयाणां पूर्वत एव सद्भावात्। तत्खण्डनं न्यायसूत्रे प्राप्यते। अतो न्यायसूत्रं बुद्धकालादर्वाचीनमेव। अस्य कालस्तु बुद्धावतारानन्तरं नागार्जुनादिपूर्वं तन्मध्ये प्रायः ई.पू.चतुर्थशताब्दी (ई.पू.४००) आसीदित्येव अधिकतरैरनुमीयते। (चन्द्रधरशर्मा : सन् १९९८ : पृ…)। न्यायसूत्ररचनाकाले बौद्धधर्मस्य महान् प्रभाव आसीत् भारतदेशे। बौद्धैः आस्तिकत्वं प्रायो नाशितमेवासीत्। बौद्धधर्मस्य खण्डनार्थं जनेषु वैदिकधर्मे आस्तिकत्वसम्पादनार्थं च नवीना एका तर्कप्रणाली महर्षिगौतमेन आविष्कृता। सा एव तर्कप्रणाली न्यायदर्शनरूपेण आगता। न्यायदर्शने प्रतिपादितैः वादजल्पवितण्डादिपदार्थैः एतदेव सिद्धं भवति यत् न्यायसूत्रं परमतं खण्डयित्वा आस्तिकमतसंरक्षणार्थमागतमिति। अत एव प्रमाणेषु प्रमेयेषु वा यथासम्भवम् अन्तर्भूता अपि संशयादयः पदार्थाः पुनः विशेषतः प्रतिपादिताः। शास्त्रार्थव्यवहारे प्रतिपक्षस्य पराजयार्थं स्वमतस्थापनार्थं च प्रमाण–प्रमेय–संशय–प्रयोजन–दृष्टान्त–सिद्धान्त–अवयव–तर्क–निर्णय–वाद–जल्प–वितण्डा–हेत्वाभास–च्छल–जाति–निग्रहस्थानपदार्थानाम् उपयोगो दृश्यते। अस्मिन् न्यायसूत्रे पञ्च अध्यायाः, दश आह्निकानि, चतुरशीतिः प्रकरणानि, अष्टाविंशत्युत्तरपञ्चशतानि सूत्राणि, षट्षष्ट्युत्तरैकोनविंशतिशतानि पदानि, पञ्चाशीत्युत्तरत्र्यशीतिशतानि अक्षराणि च सन्ति। गणनेयं वाचस्पतिमिश्रस्य न्यायसूचिनिबन्धानुसारेणाऽस्ति। अन्त्ये वक्तुं शक्यते यत् न्यायदर्शने न्यायसूत्रस्य महत्स्थानमस्ति। न्यायसूत्रमेव न्यायदर्शनस्य प्रथमः स्वतन्त्रो ग्रन्थः। महर्षिगौतमोऽस्य प्रणेता। अत एव गौतमस्य नाम श्रद्धापूर्वकं गृह्यते सर्वैः दार्शनिकैः।
वात्स्यायनः –
अयं खलु वात्स्यायनः न्यायसूत्राणां भाष्यकर्ता। इदमेव भाष्यं ‘वात्स्यायनभाष्यम्’ इति नाम्ना प्रसिद्धमस्ति। वात्स्यायन एव न्यायभाष्यकर्ता इत्यत्र तु स्वयं भाष्यकारः एव प्रमाणम् – योऽक्षपादमृषिं न्यायः प्रत्यभाद्वदतां वरम्। तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् ॥ ( न्यायभाष्यम्, अन्त्यमङ्गलाचरणम् ) इति। अस्य वात्स्यायनस्यापि कालनिर्णये सन्ति विभिन्नानि मतानि विदुषाम्। केचन विद्वांसो वात्स्यायनः अर्थशास्त्री कौटिल्यश्च एक एवेति कथयन्ति। परमेषां मतमिदं न संगच्छते। यतः कौटिल्यस्य काल ईशापूर्वं चतुर्थशताब्दी (ई.पू. ४००) इति इतिहासविद्भिः निर्णितोऽस्ति गौतमस्यापि स एव काल इत्युक्तमेव। अतः समानकालिकेनैव कौटिल्येन वात्स्यायननाम्ना भाष्यं रचितमिति तु न युक्तियुक्तम्। वात्स्यायनेन भाष्ये बहूनि प्राचीनवार्तिकानि उद्धृतानि सन्ति, तेन ज्ञायते सूत्रकारभाष्यकारयोर्मध्ये बहु–अन्तरालमासीदिति। तन्मध्ये एवान्यैः विद्वद्भिः न्यायसूत्रे टिप्पणी कृता स्यात्, यस्योद्धरणं वात्स्यायनेन कृतं स्यात्। वात्स्यायनेन नागार्जुनस्य आक्षेपस्य निराकरणं कृतमस्ति। वात्स्यायनस्य तर्कस्य च खण्डनं वसुबन्धुदिङ्नागप्रभृतिभिः बौद्धैः कृतमस्ति। अनेन वक्तुं शक्यते यत् वात्स्यायनो नागार्जुनानन्तरकालिकः, वसुबन्धोस्तु पूर्वकालिक इति। नागार्जुनस्य काल ईशापूर्वं द्वितीयशताब्दी (ई.पू.२००) आसीदिति इतिहासविद्भिः निर्णीतं वर्तते। वसुबन्धुदिङ्नागयोः कालस्तु ईशायाः तृतीय–चतुर्थशताब्दीमध्ये (ई.सं. ३००–४००) आसीदिति स्वीक्रियते। तथा सति वात्स्यायनस्य समयः ईशापूर्वं प्रथमशताब्दी (ई.पू. १००) आसीदिति अनुमीयते। केचन विद्वांसस्तु अयमेव वात्स्यायनः ‘कामसूत्रकारः’ इत्यपि मन्यन्ते। न्यायभाष्यस्य टीकाकारेण सुदर्शनाचार्येण स्वकृतप्रसन्नपदाख्यटीकायां कामसूत्रकार एव न्यायभाष्यकर्ता इत्युक्त्वा कामुकः, उन्मत्त इत्यादिशब्दैः भर्त्सितोऽयं बहुत्र। अत्र प्रमाणरूपेण सुदर्शनाचार्येण अयं श्लोक उद्धृतः – ‘वात्स्यायनो मल्लिनागः कौटिल्यश्चणकात्मजः। द्रामिलः पक्षिलस्वामी विष्णुगुप्तोऽङ्गुलश्च सः ॥ इति। (वात्स्यायनः, सन् १९९८ : भूमिकायाः प्रथमपृष्टम्)। परन्तु पुरुषोत्तमदेवकृतत्रिकाण्डशेषकोशे चाणक्यस्य पञ्च नामानि, वात्स्यायनस्य च त्रीणि नामान्युक्तानि – विष्णुगुप्तस्तु कौटिल्यश्चाणक्यो द्रामिलोंऽशुलः। वात्स्यायनो मल्लिनागपक्षिलस्वामिनावपि ॥ इति। (पूर्ववत्)। अनेन ज्ञायते यत् विष्णुगुप्तः, कौटिल्यः, चाणक्यः, द्रामिलः, अंशुलः इति पञ्च नामानि कौटिल्यस्य तथैव वात्स्यायनः, मल्लिनागः, पक्षिलस्वामी इति त्रीणि नामानि वात्स्यायनस्य। अतो वात्स्यायनः कौटिल्यश्च भिन्नौ द्वौ पुरुषौ। यदि वात्स्यायन एव कौटिल्य इति स्वीक्रियते चेदपि चाणक्यः राजनीतिज्ञः, अर्थशास्त्री च आसीदिति प्रसिद्धमस्ति परन्तु नैयायिकोऽप्यासीदिति न कुत्रापि प्राप्यते। तस्मात् ‘वात्स्यायनः’ न्यायसूत्रभाष्यकारस्तु कौटिल्याद् भिन्न एव। अतः सुदर्शनाचार्यस्य भर्त्सनमबद्धमेव। अस्यैव वात्स्यायनस्य अपरं नाम ‘पक्षिलस्वामी’ इत्यासीत्। वाचस्पतिमिश्रेण तात्पर्यटीकायां ‘भगवता पक्षिलस्वामिना’ (वाचस्पतिमिश्रः, वि.सं. २०७० : पृ. १) इत्यादिपदेन वात्स्यायनस्य सम्मानं कृतमस्ति। उद्योतकरेणापि वार्तिके अक्षपादतुल्यो वात्स्यायन इत्युक्तमस्ति – ‘यदक्षपादप्रतिमो भाष्यं वात्स्यायनो जगौ। अकारि महतस्तस्य भारद्वाजेन वार्तिकम्। (न्यायवार्तिकम् : अन्त्यमङ्गलाचरणम्) इति। अयमपि वात्स्यायनो गौतमस्य समानदेशीयो मैथिलीय एव आसीदित्यपि विदुषां मतं प्राप्यते। एतस्य वात्स्यायनस्य कालस्थानादिविषये वाराणसीस्थेन चौखम्बासंस्कृतभवनेन प्रकाशितस्य न्यायवार्तिकमिति ग्रन्थस्य भूमिकायां महामहोपाध्यायेन विन्ध्येश्वरीप्रसादद्विवेदिना बहुविचार्य अन्त्ये भाष्यकारः वात्स्यायनः मैथिलीय एवासीदिति निर्णीतं वर्तते। (विन्ध्येश्वरीप्रसादद्विवेदी, वि.सं.२०६४, न्यायवार्तिकभूमिकायाम्)। अन्त्ये साररूपेण वक्तुं शक्यते यत् पक्षिलस्वामी इति अपरनामकोऽयं वात्स्यायनो न्यायसूत्रभाष्यकारः। अयं च मैथिलीयः । अस्यापि नाम दर्शनक्षेत्रे सादरेण गृह्यते सुधीभिः।
उद्योतकरः –
वात्स्यायनानन्तरं प्रसिद्धनैयायिकरूपेण अस्यैव विद्वत्प्रवरस्य उद्योतकरस्य नाम आयाति। अयं खलु उद्योतकरो ‘भारद्वाज–उद्योतकरः’ इति नाम्नापि प्रसिद्धोऽस्ति। भारद्वाज इति तु अस्य गोत्रनाम। गौतमप्रणितसूत्राणां नागार्जुनेन शतशः खण्डनं कृतं, तस्य च खण्डनं वात्स्यायनेन भाष्यं विरच्य कृतम्। तदनन्तरं बौद्धानां जगति एव प्राबल्यमागतम्। वसुबन्धु–दिङ्नागप्रभृतिभिः सर्वैः कुतर्केण न्यायशास्त्रं जर्जरीकृतम्। न्यायशास्त्रं लुप्तप्रायः जातं तत्समये। अतोऽनेन आचार्योद्योतकरेण वात्स्यायनभाष्ये वार्तिकं विरच्य न केवलं शास्त्रोद्धारः कृतः अपि तु बौद्धमतस्य समूलध्वंसोऽपि कृतः। वार्तिककरणस्य प्रयोजनमाह स्वयमुद्योतकरः – यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद। कुतार्किकाज्ञाननिवृत्तिहेतुः, करिष्यते तस्य मया निबन्धः ॥ (न्यायवार्तिकम् : मङ्गलाचरणम्) इति। अत्र कुतार्किकपदेन दिङ्नागादय एव गृह्यन्ते इति तात्पर्यटीकां दृष्ट्वा ज्ञायते। तत्र किल मिश्र आह – ‘यद्यपि भाष्यकृता कृतव्युत्पादनमेतत् तथापि दिङ्गनागप्रभृतिभिः अर्वाचीनैः कुहेतुसन्तमससमुत्थापनेन आच्छादितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमित्युद्योतकरेण स्वनिबन्धोद्योते तदपनीयत इति प्रयोजनवानयमारम्भः (वाचस्पतिमिश्रः, वि.सं. २०७० : पृ. २) इति। अनेनैव स्पष्टं भवति यद् अयमुद्योतकरो दिङ्नागादनन्तरकालिक एवेति। बौद्धपण्डितेन धर्मकीर्तिना च उद्योतकरकस्य खण्डनं कृतं स्वकीयशास्त्रे वादन्याये – ‘प्रतिदृष्टान्तधर्माऽभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः, निग्रहस्थानम् इत्यत्र भाष्यकारमतं दूषयित्वा वार्तिककारोऽयं स्थितिपक्षमाह इति। अनेन ज्ञायते वार्तिककारोऽयमुद्योतकरः दिङ्नागधर्मकीर्त्योः मध्यकालिक इति। तथा च दिङ्नागस्य कालः ईशायाः पञ्चमशताब्दी (ई.सं.५००) आसीत्, धर्मकीर्तेश्च कालः (ई.पू.६९०) ईशायाः षष्ठशताब्द्याः अन्तिमः कालः आसीदिति बुधैः निर्णीतमस्ति। अतो वक्तुं शक्यते यत् ‘उद्योतकरः’ ईशायाः पञ्चमशताब्द्याः उत्तरसमये षष्ठशताब्द्याः प्रारम्भे (ई.सं.४५०–५५०) आसीदिति। अस्य स्थानविषये तु नास्ति निश्चयः। डा.सतीशचन्द्रविद्याभूषणो वार्तिके ‘शुघ्नः’ इति शब्ददर्शनात् अयं थानेश्वरस्य निवासी आसीदिति मतं प्रदर्शयति। थानेश्वरः शुघ्नात् प्रायः ६० मिल (MILE) दूरे वर्तते। एतदपि सम्भवति अयमुद्योतकरः थानेश्वरस्य प्रासादे स्यात् यतः तत्काले तत्र विदुषां संघातः आसीत् इति कथयति। केचन तु वार्तिकस्य पुष्पिकायां ‘पाशुपताचार्योद्योतकरविरचितं न्यायसूत्रवार्तिकम्’ इति उल्लेखितत्वात् अयं वार्तिककारः ‘काश्मीरी शैवः’ आसीदिति मन्यन्ते। किन्तु महामहोपाध्यायेन विन्ध्येश्वरप्रसादद्विवेदीमहोदयेन सिद्धं कृतमस्ति यत् गौतम वात्स्यायनवाचस्पति–उदयनादयः सर्वेऽपि नैयायिका मैथिलीया आसन्, अतः उद्योतकरोऽपि मैथलीय एवासीदिति। (विन्ध्येश्वरीप्रसादद्विवेदी, वि.सं.२०६४, न्यायवार्तिकभूमिकायाम्)। मृतप्रायस्य न्यायशास्त्रस्यास्य वार्तिकनामकं प्रौढग्रन्थं रचित्वा उद्धारकृतत्वात् दर्शनाकाशे अस्योद्योतकरस्य नाम भानुवत् जाज्वल्यते।
वाचस्पतिमिश्रः –
संस्कृतवाङ्मये अयमाचार्यो वाचस्पतिमिश्र उडुराज इव भासते। अयमाचार्यः सर्वतन्त्रस्वतन्त्र आसीत्। अनेन सर्वेष्वास्तिकदर्शनेषु टीका रचिता। परन्तु वैशेषिकदर्शनस्य टीका अधुना नोपलभ्यते। अतः ‘षड्दर्शनटीकाकारः’ इति नाम्नापि प्रसिद्धो वर्तते अयम्। सर्वेष्वपि दर्शनेषु टीकासु कृतासु अपि वाचस्पतिः वस्तुतः नैयायिक एवासीत् यतः अनेन अस्मिन्नेव दर्शने बहवो ग्रन्था रचिताः। उद्योतकरस्य वार्तिकस्य बौद्धाचार्येण धर्मकीर्तिना शतशः खण्डनं कृतं, पुनश्च तत्वार्तिकं सामान्यमतिमतां कृते दुस्साध्यमभूत्। अतोऽनेन तस्य वार्तिकस्य व्याख्यानं कृत्वा ‘एको मार्गः द्वे कार्ये’ इत्युक्तिः सार्थकीकृता। तात्पर्यटीकया एवानेन सामान्यमतिमतां कृते दुस्साध्यं वार्तिकं सुसाध्यं कृतं तथैव धर्मकीर्तेः आक्षेपाणामपि विनाशः कृतः। मङ्गलश्लोक एव अयं प्रतिज्ञापयति इत्थम् – इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम्। उद्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥ (न्यायवार्तिकतात्पर्यटीका : मङ्गलाचरणम् ४) इति। अनेन न्यायदर्शने तात्पर्यटीका, न्यायसूचिनिबन्धः, न्यायकणिका, तत्त्वबिन्दुः, इत्यादिग्रन्था रचिताः, सांख्ये सांख्यकारिकायाः व्याख्या ‘सांख्यतत्त्वकौमुदी’ कृता, योगे ‘तत्त्ववैशारद, वेदान्ते शाङ्करभाष्ये ‘भामती’ मीमांसायां च विधिविवेकटीका च कृताः सन्ति। केचन पण्डिता भामतीकारः तात्पर्यटीकाकारश्च भिन्नाविति कथयन्ति, परन्तु प्रायः सर्वे विद्वद्भिः तन्मतं निरस्तमेव। अस्य कालनिर्णयस्तु सुलभः। यतः अनेन न्यायसूचिनिबन्धस्यान्ते स्वेनैव स्वस्य काल उल्लिखितः – ‘न्यायसूचिनिबन्धोऽसावकारि सुधियां मुदे। श्रीवाचस्पतिमिश्रेण वस्वङ्कवसुवत्सरे ॥ (वाचस्पतिमिश्रः, न्यायसूचिनिबन्धः, अन्त्यमङ्गलाचरणम्) इति। अत्र वस्वङ्कवसु(८९८) इति कथनेन अस्य कालो निश्चितः, परन्तु अयं न ईशवीयसम्वत्सरः, अपि तु विक्रमसम्वत्सरः। अत्रापि पण्डिताः परस्परं विवदन्ते, शकसम्वत्सरो वा, ईशवीयसम्वत्सरो वा शालीवाहनीयसम्वत्सरो वा, विक्रमसम्वत्सरो वेति। अयं मैथिलीय आसीत्। तत्काले प्रायः सर्वत्र भारतदेशे विक्रमसम्वत्सरस्यैव प्रचलनमासीत्। अंग्रेजानां भारतागमनानन्तरमेव ईशवीयसम्वत्सरस्य प्रचारो जातः। अधुनापि मिथिलाप्रान्ते तत्समीपस्थे नेपालदेशे च विक्रमसम्वत्सरः एव प्रचलति। अतस्तेन उक्तश्लोके विक्रमसम्वत्सरस्यैव उल्लेखः कृत इति निश्चयेन वक्तुं शक्यते। तथा च अस्य कालः ८९८ वि.सं, ८९८–५७= ८४१ ई.सं.आसीत्। अनेन ज्ञायते यत् अयं नवमशताब्द्यामासीदिति। तथैव अस्य जन्मुभूमिः अपि मिथिलाप्रान्त एवात्र नास्ति विवादः। वर्तमाने कालेऽपि मिथिलाप्रान्ते अस्य जनिभूसमीपे ‘वाचस्पतिनगरम्’ इति नामकं रेलवेस्टेसन(Raliway-station)स्थानं वर्तते।
उदयनाचार्यः –
यद्यपि स्थितिकालदृष्ट्या अयमुदयनाचार्यो जयन्तभट्टभासर्वज्ञाभ्यामनन्तरकालिक एव, अतोऽस्य विषये जयन्तभासर्वज्ञाभ्यामनन्तरमेव विवेचना कर्तव्यासीत् तथापि न्यायदर्शने ‘पञ्चग्रन्थी’परम्परा वर्तते, तस्यां परम्परायां गौतमादारभ्य उदयनपर्यन्तं पञ्चाचार्या आगच्छन्ति। ते च पञ्चाचार्याः– गौतम–वात्स्यायन–उद्योतकर–वाचस्पति–उदयनाचार्याः। गौतमेन सूत्राणि रचितानि, तत्र वात्स्यायनेन भाष्यं कृतं, तस्मिन् भाष्ये उद्योतकरेण वार्तिकं विरचितं, तस्मिन् वार्तिके वाचस्पतिना ताप्पर्यटीका रचिता, टीकायामुदयेन तात्पर्यपरिशुद्धिः कृता। एते एव पञ्चग्रन्था न्यायशास्त्रे ‘पञ्चग्रन्थी’ इति पदेन व्यवह्रियन्ते। अत इदानीं क्रमवशात् उदयनस्यैव चर्चा क्रियते। ‘एकश्चन्द्रस्तमो हन्ति’ इति वाक्यमनेनैव उदयनेन सार्थकीकृतम् । वेदविरुद्धतया सर्वेषां वैदिकमार्गाणां खण्डनं कृत्वा जगति ज्ञानमाच्छाद्य नास्तिकमार्गे जनान् नेतुम् उद्युक्तान् तमोरूपान् बौद्धान् अयमेव उदयनाचार्यः प्रसिद्धतर्कबलेन सर्वानपि खण्डयामास। स्वयमेव वक्ति आत्मतत्त्वविवेकस्यान्ते – तदिदमुदयनेन न्यायलोकागमानां व्यतिहतमवधूय व्यञ्जितं वर्त्म मुक्तेः’ (उदयनाचार्यः, आत्मतत्त्वविवेकः, अन्त्यमङ्गलाचारणम् १) इति। अस्य काल ईशाया दशमशताब्द्या अन्तिमभाग आसीदिति तेन स्वेनैव रचितस्य लक्षणावलीग्रन्थस्य अन्तिमश्लोके निर्दिष्टकालसंख्यया ज्ञायते। तत्र लिखति यत् – तर्काम्बराङ्कप्रमितेष्वतीतेषु शकान्ततः। वर्षेषूदयनश्चक्रे सुबोधां लक्षणावलीम् ॥ इति। (विन्ध्येश्वरीप्रसादद्विवेदी, वि.सं.२०६४, न्यायवार्तिकभूमिकायाम् पृ. १५९)। अत्र तर्काम्बराङ्क(९०६) शकसंवत्सर उल्लिखितोऽस्ति। अयं सम्वत्सर ईशायाः ९०६+७८=९८४ सम्वत्सरो भवति। अनेन निश्चीयते उदयनस्य स्थितिकालः। अस्य स्थानमपि केचन बङ्गालदेश इति कथयन्ति, केचन तु दक्षिणदेश इति कथयन्ति। परन्तु द्वयमपि न संगच्छते, यतो भविष्यत्पुराणे अस्य स्थानविषये स्पष्ट उल्लेखः प्राप्यते। तत्र – अथ वक्ष्ये तृतीयस्य हरेरंशस्य धीमतः। उदयनाचार्यनाम्नस्तु महात्म्यं लोकहर्षणम् ॥ भूत्वा स मिथिलायां तु शास्त्राण्यध्यैष्टसर्वशः। विशेषतो न्यायशास्त्रे साक्षाद्वै गौतमोमुनिः ॥ बौद्धसिद्धान्तमुग्धान्तः सुखाय हितकारिणीम्। वितेने विदुषां प्रीत्यै विमलां किरणावलीम् ॥ (भविष्यपुराणम्, ३०–१२३)। अत्र स्पष्टं ‘मिथिलायां भूत्वा’ इत्युक्तं तेन उदयनस्य जनिभूः मिथिला आसीदिति निश्चप्रचम्। उदयनाचार्येण न्याशास्त्रे तात्पर्यपरिशुद्धिः, न्यायकुसुमाञ्जलिः, आत्मतत्त्वविवेकः, लक्षणावली–इत्यादिग्रन्था रचिताः। पुनः वैशेषिकशास्त्रे प्रशस्तपादभाष्योपरि ‘किरणावली’ टीका च रचिता। अस्य एते सर्वेऽपि ग्रन्था विषयप्रतिपादनदृष्ट्या उत्कृष्टतमाः। दर्शनक्षेत्रे एषां सर्वेषामपि ग्रन्थानां महत् सम्मानं वर्तते। अयं भक्तशिरोमणिश्चासीदित्यस्य जीवनचरित्रं पठित्वा ज्ञायते। वेदान् निरस्य ईश्वरोऽपि नास्ति इति कथयतां हैतुकानां मतमनुमानेनैव निरस्य अनुमानेनैव ईश्वरोऽपि प्रतिपादितोऽनेन कुसुमाञ्जलौ। तत्रैकमनुमानमित्थं प्रदर्शयति– ‘क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति। न केवलमेतदेव अपि तु अन्या अपि युक्तयः प्रदर्शिता अनेनेश्वरसाधनाय कुसुमाञ्जलौ। तत्रोक्तम् – कार्याऽऽयोजनधृत्यादेः,पदात् प्रत्ययतः श्रुतेः। वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ (न्यायकुसुमाञ्जलिः, ५–१) इति ॥ अतोऽयमीश्वरसत्तारक्षणाय, वेदरक्षणाय, धर्मस्थापनाय, नास्तिकमतनिरासनाय चागतासीदिति सर्वैः दार्शनिकैः एकस्वरेणोच्यते।
जयन्तभट्टः –
जयन्तभट्टो जरन्नैयायिकरूपेण दर्शनक्षेत्रे प्रसिद्धोऽस्ति। अनेन ‘न्यायमञ्जरी’ नामकः प्रौढग्रन्थो लिखितः। अयं काश्मीरदेशीय आसीत्। अस्य पिता चन्द्रनामकः कश्चन विद्वान् आसीदिति न्यायमञ्जर्या अन्तिमे स्वयमेव लिखति – वादेष्वात्तजयो जयन्त इति यः ख्यातस्सतामग्रणीः। अन्वर्थो नववृत्तिकार इति यं शंसन्ति नाम्ना बुधाः ॥ सूनुर्व्याप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्रत्विषा। चक्रे चन्द्रकलार्धचूडचरणध्यायी स धन्यां कृतिम्। (न्यायमञ्जरी, अन्त्यमङ्गलाचरणम् ३) इति। अस्य पुत्रः अभिनन्दनपण्डितः स्वीयरचनायां कादम्बरीकथासारे स्ववंशपरिचयं ददाति। तेन ज्ञायते यत् जयन्तभट्टः काश्मीरराज्ञो मुक्तापीडस्य अमात्यस्य शक्तिस्वामिनः प्रपौत्र आसीदिति। अनेनानुमीयते यत् मुक्तापीडस्य प्रायो द्विशतवर्षाभ्यन्तरे एवास्य जन्म आसीदिति। न्यायमञ्जर्यामनेन ‘आचार्या’ इत्युक्त्वा वाचस्पतिमिश्रस्य नाम गृहीतमस्ति, तेनेदमपि वक्तुं शक्यते अयं वाचस्पतिमिश्रात् अनन्तरकालिक एवेति। वाचस्पतिमिश्रस्य कालस्तु ई.सं. ८४१ आसीदिति पूर्वं प्रदर्शितम्। अतः तदनन्तरं प्रायः दशमशताब्द्या उत्तरकाले एवास्य स्थितिकालः स्यात्। काश्मीरराज्ञो मुक्तापीडस्य काल ई.सं. ७१०–७६० आसीत्। तस्य मन्त्रिणः शक्तिस्वामिनः काल ई.सं.७५०–८२० आसीत्। पुनस्तस्यापि पुत्रस्य चन्द्रस्य काल ई.सं. ८१०–८७० आसीत्। एवञ्च तस्य पुत्रस्य जयन्तस्य काल ई.सं. ८५०–९१० आसीदिति निश्चीयते। आहत्य ईशाया दशमशताब्दी एवास्य स्थितिकाल इति निश्चितम्। न्यायमञ्जरी एकः स्वतन्त्रः प्रबन्धरूपो ग्रन्थः, तथापि तत्र सूत्रोक्तानां प्रमाणादिषोडशपदार्थानामेव प्रतिपादनात् सूत्रमूलक एव। अस्मिन् ग्रन्थे द्वादश आह्निकानि सन्ति। प्रमेयशोधनदृष्ट्या तु न्यायमञ्जरी एव न्यायस्य सर्वोत्तमो ग्रन्थः, अतोऽनेनैव एकेन ग्रन्थेन अयमाचार्यो जयन्तभट्टः दर्शनक्षेत्रे सुप्रसिद्धः सञ्जातः।
भासर्वज्ञः –
अयं पण्डितप्रवर आचार्यो भासर्वज्ञः काश्मीरब्राह्मण आसीत्। अनेन स्वतन्त्ररूपेण ‘न्यायसार’नामको ग्रन्थो रचितः। अस्यैव न्यायभूषणनामकं व्याख्यानं च स्वेनैव कृतम्। अनेन एकेनैव ग्रन्थेन अस्य ख्यातिरागता जगति। न्यायसारः अत्यन्तप्रसिद्धो ग्रन्थ इति तदुपरि विद्वद्भिः लिखिता टीका अवलोकनेन ज्ञायते यतोऽस्य अष्टादश टीका लभ्यन्ते। भासर्वज्ञस्य वैशिष्ट्यमस्ति यत् अयं न केवलं विजातीयान् बौद्धादीन् पराकरोति अपि तु सगोत्रीयान् सूत्रकारादीन् अपि विगणयितुं न करुणायते क्वचित् क्वचित्। अयं कर्मणो गुणेऽन्तर्भावं करोति। स्नेहसंख्यापृथक्त्वादीनां पृथक्गुणत्वं नाङ्गीकरोति। मोक्षविषये तु अस्य मतस्य प्रसिद्धिरेवागता। नैयायिकैः सर्वैरपि सुखादिरहितो मोक्षः स्वीक्रियते, अयं तु सर्वथा आनन्दमयं मोक्षं स्वीकरोति। निर्विषयकमोक्षस्य तु उपहासं करोति इत्थम् –
दुःखहानाय नो युक्तं सुखं दुःखात्मकं वरम्। न हि कश्चित् पदार्थज्ञो मोहसिद्ध्यै प्रवर्तते ॥
वरं वृन्दावने रम्ये श्रृगालत्वं वृणोम्यहम्। न तु निर्विषयं मोक्षं गौतमो गन्तुमिच्छति ॥
वैशेषिकोक्तमोक्षे तु सुखलेशविवर्जितात् ॥ ( भासर्वज्ञः, सन् १९६८ : पृ. ५९४) इति।
प्राचीनन्याये सूत्रपरम्परां विहाय स्वतन्त्ररूपेण ग्रन्थकर्ता अयमेक एव पण्डितः। परन्तु अस्य सूत्रविरुद्धांशस्य सर्वस्यापि खण्डनमुदयनाचार्येण किरणावल्यां कृतमस्ति। अनेन अस्य कालोऽपि उदयनात् पूर्व एवासीदिति ज्ञायते। तथा चायं प्राय ईशाया नवमशताब्द्या अन्ते दशमशताब्द्याः प्रथम एव (ई.सं.८७५–९२५) स्यादिति अनुमीयते। एतदनन्तरं प्राचीनन्याये उदयनाचार्य आगच्छति अस्य चर्चा तु पूर्वमेव कृता खलु। उदयन एव प्राचीनन्यायस्य अन्तिम आचार्यः तदनन्तरं तु नव्यन्यायरूपा द्वितीयधारा प्रवहति लोके।
नव्यन्यायस्य आचार्याः साहित्यानि च –
एतावत्पर्यन्तं प्राचीनन्यायस्य उदयविकासक्रमः, आचार्याश्च परिशीलिताः, इतः न्यायस्य द्वितीयधारा (नव्यन्याधारा) तत्रागता आचार्याः साहित्यानि च यथामति परिशील्यन्ते।
आचार्यगङ्गेशोपाध्यायः –
आचार्यगङ्गेशोपाध्याय एव नव्यन्यायस्य प्रतिष्ठापकः। ‘तत्त्वचिन्तामणिः’ अस्य प्रमुखो ग्रन्थः। तत्त्वचन्तिामणिं लिखित्वा अनेन न केवलं न्यायदर्शने अपि तु सकलभारतीयसाहित्ये क्रान्तिः कृता। अनेन चिन्तनस्य लेखनस्य च प्रक्रिया एव परिवर्तिता। तत्त्वचिन्तामणेः रचनानन्तरमितरभारतीयदर्शनेषु, व्याकरणसाहित्यादिषु च शास्त्रेषु गङ्गेशाविष्कृतभाषा ‘अवच्छेदकावच्छिन्नरूपा’ स्वीकृता। गङ्गेशस्योपलब्धिः दर्शनेतिहासे अद्वितीयास्ति। भारतीयदर्शनस्य सम्पूर्णमध्यकालस्य शास्त्रीयेतिहासे तादृशो नैकोऽपि लेखको जातो यस्य कृतिना तावान् प्रभावः कृतः, यावान् गङ्गेशस्य एकेनैव कृतिना तत्त्वचिन्तामणिना कृतः। तत्त्वचिन्तामणिः सर्वेषु ग्रन्थेषु ‘शिरोमणिः’ एवासीदिति प्रमाणं तु अस्योपरि रचिताः टीकाः दृष्ट्वैव ज्ञायते। अस्योपरि यावत्यः टीकाः लिखिताः तावत्यः टीका न जातु अन्यस्य कस्यचन ग्रन्थस्य स्यात्। डा. विद्याभूषणस्य मतानुसारं त्रिशत(३००)पुटसंख्याकस्य अस्य ग्रन्थस्य टीकानां पुटसंख्या आहत्य दशलक्षेभ्योऽपि (१०,००,०००) अधिका वर्तन्ते। वस्तुतः गङ्गेशाविर्भूतायाः शैल्या अत्यद्भूतविशेषोऽस्ति यत् – अस्यां शैल्यां सूक्ष्मातिसूक्ष्मविषया अपि अल्पाक्षरेषु प्रस्तूयन्ते। प्राचीनैः विषयप्रतिपादने प्रयासः कृतः, परन्तु गङ्गेशेन तार्किकशैलीप्रतिपादने प्रयासः कृतः। एवं वक्तुं शक्यते, न्यायदर्शनस्य पदार्थशास्त्रीयपद्धतेः स्थानं गङ्गेशस्य प्रमाणशास्त्रीयपद्धत्या गृहीतम्। तत्त्वचिन्तामणेः शैलीमादायैव न्यायदर्शनस्य द्वे महती पीठे स्थापिते। तत्र एकन्तु मिथिलायां मिथिलापीठम्, द्वितीयन्तु नदियाग्रामे (बंगालप्रान्ते) नवद्वीपपीठम्। अनयोर्मध्येऽपि मिथिलापीठमेव नव्यन्यायस्य प्रमुखं स्थानमिति निश्चयेन वक्तुं शक्यते, यतः अत्रैव गङ्गेशस्य जन्म आसीत्। अस्य कालस्तु ईशायाः चतुर्दशशताब्दी (ई.सं.१४००) आसीदिति सर्वैः स्वीक्रियते ॥
पक्षधरमिश्रः –
अयमपि पण्डितप्रवरः पक्षधरमिश्रो मिथिलादेशीय एव। अयमेव प्रथमाचार्यः अस्ति येन तत्त्वचिन्तामणौ टीका लिखिता। अनेन विदुषा तत्त्वचिन्तामणेः उपमानमणिं (खण्डं) विहाय अन्येषु त्रिषु खण्डेषु ‘आलोक’नाम्नी टीका कृता। सा टीका सम्पूर्णभारतदेशे प्रसिद्धास्ति सम्प्रत्यपि। अस्य कालस्तु ईशायाः पञ्चदशशताब्दी आसीत्। महता तार्किकेण रघुनाथशिरोमणिनापि पक्षधरमिश्रेण सहैव न्यायशास्त्रमधीतमिति प्रसिद्धमस्ति। नवद्वीपे(नदियाक्षेत्रे) पक्षधरमिश्रस्य एका पाषाणमूर्तिः अधुनापि वर्तते, सा रघुनाथशिरोमणिना स्थापिता ॥
वासुदेवसार्वभौमः –
बङ्ग(बंगाल)देशीयोऽयमाचार्यः नदिया(नवद्वीप)पीठस्य संस्थापकः। बंगालदेशे तत्काले तावान् न्यायशास्त्रस्य प्रभावो नासीत्। अतोऽयमाचार्यो मिथिलां गत्वा न्यायशास्त्रमधीतवान्। अनन्तरमागत्य बंगालप्रान्ते अस्य शास्त्रस्य प्रचारं कृतवान्। अनेन तत्त्वचिन्तामण्युपरि एका टीकापि रचिता। परन्तु अस्य प्रसिद्धिः स्वनामापेक्षया अस्य शिष्याणां वैदुष्यकारणादेव आगता। अस्य शिष्येषु महान् तार्किको रघुनाथशिरोमणिः प्रधान अस्ति। श्रीकृष्णचैतन्यप्रभुरपि अस्यैव शिष्य आसीदिति श्रूयते ॥
रघुनाथशिरोमणिः –
नव्यन्यायदर्शनग्रन्थेषु तत्त्वचिन्तामणिः यथा मणितुल्योऽस्ति तथैव नैयायिकेषु अयं रघुनाथशिरोमणिः अपि। वस्तुतोऽनेन प्रबलतर्केण सर्वेऽपि प्रतिवादिनः पराजिताः अतोऽनेन ‘शिरोमणिः’ इत्युपाधिरधिगत इत्युच्यते। रघुनाथशिरोमणेः बाल्यावस्थायामेव पितुः निधनात् मात्रा अयं वासुदेवसार्वभौमाय समर्पितः। अतस्तस्मादेवानेन सर्वं न्यायशास्त्रमधीतमिति श्रूयते। बङ्गालदेशे प्रथमबारं न्यायशास्त्रस्य प्रचारो यद्यपि वासुदेवसार्वभौमेन कृतस्तथापि तत्राध्ययनाध्यापनस्य व्यवस्था शिरोमणिना एव कृता। तत्काले मिथिलायां पक्षधरमिश्रस्य महान् प्रभाव आसीत्। तत्श्रुत्वा अयमपि न्यायाध्ययनाय मिथिलां प्रति गतवान्। परन्तु सर्वोऽपि जनः पक्षधरस्य दर्शनमपि कर्तुं न शक्नोति स्म यतः पक्षधरस्य दर्शनकरणाय तत्पूर्वं बहवस्तार्किकाः पराजेतव्याः इति नियम आसीत्। अनेन ते सर्वेऽपि पराजिता अनन्तरं पक्षधरेण सहापि शास्त्रार्थः सञ्जातः। अस्य प्रतिभां ज्ञात्वैव पक्षधरेण अयं पाठित इति कथा श्रूयते। अनेन तत्त्वचिन्तामण्युपरि ‘दीधीति’नाम्नी टीका रचिता। अद्यावधि मणेः टीकासु ‘दीधीति’ टीकैव सर्वापेक्षया प्रसिद्धास्ति। केवलं मिथिलादेशे अवस्थितं न्यायशास्त्रं अनेनैव सर्वत्र भारतदेशे विस्तारितम्। न केवलमेकैव टीका अपि तु अनेन खण्डनखण्डखाद्य–कुसुमाञ्जलि–आत्मतत्त्विवेक–किरणावलीत्यादिग्रन्थेष्वपि टीका रचिताः सन्ति। इत्थं निःसङ्कोचं स्वीकुर्मो यत् अयं रघुनाथशिरोमणिर्नव्यन्याये ‘शिरोमणिः’ एवासीदिति। यदापि नव्यनैयायिकानां गणना भवति तदा गङ्गेशानन्तरमस्यैव नामागच्छति। अस्य जन्म ईशायाः पञ्चदशशताब्द्यां नवद्वीपे (नदियाक्षेत्रे बंगालप्रान्तस्य) आसीदिति सर्वैः स्वीक्रियते।
यज्ञपति–उपाध्यायः –
अयन्तु गङ्गेस्य पौत्रः, वर्धमानस्य पुत्र अस्ति। अनेनापि तत्त्वचिन्तामणौ ‘प्रभा’नाम्नी टीका रचिता। अनन्तरकालिकैः व्याख्यातृभिः स्वव्याख्याने ‘उपाध्यायास्तु’ इत्युक्त्वा अस्यैव मतं प्रदर्श्यते। अस्य प्रभाटीकायाः पाण्डुलिपिः अधुनापि दरभंगापुस्तकालये (राजलाइब्रेरी) प्राप्यते। तत्र अन्त्ये अनेन तस्या रचनाकालः १४२८ शकसम्वत्सरोऽङ्कितोऽस्ति। अनेन ज्ञायते यद् अस्य कालः १४८६ ई.सं. आसीदिति। गङ्गेशस्य पौत्रत्वातदस्य स्थानन्तु मिथिलाक्षेत्रमेवेति ज्ञातुं शक्यमेव ॥
मथुरानाथ‘तर्कवागीशः’ –
अयं मथुरानाथो बङ्गदेशीय आसीत्। अयं रघुनाथशिरोमणेः शिष्य आसीत्। अनेन तत्त्वचिन्तामण्युपरि दीधीत्युपरि च टीका रचिता, या ‘माथुरी’नाम्ना प्रसिद्धाऽस्ति। तदतिरिक्तमुदयनाचार्यस्य कुसुमाञ्जलि–आत्मतत्त्वविवेकोपरि च अनेन माथुरी टीका रचिता। पक्षधरमिश्रस्य ‘आलोक’टीकोपरि च अनेन माथुरी टीका रचिता। न्यायशास्त्रे ‘न्यायरहस्यमि’ति नामकः स्वतन्त्रग्रन्थोऽपि अनेन रचितः। अयं महान् तार्किक आसीदतोऽनेन ‘तर्कवागीशः’ इत्युपाधिः प्राप्तः। अस्य काल ईशायाः षोडशशताब्दी आसीदिति सर्वैः स्वीक्रियते। बङ्गालदेशस्य मनीहारीग्रामः अस्य जन्मभूमिः। तत्रेदानीमपि अस्य वंशजा निवसन्ति। अस्य वास्तविकं नाम तु मथुरानाथभट्टाचार्यः, परन्तु अयं तर्कवागीश इति नाम्नैव प्रसिद्धो जातः ॥
जगदीश‘तर्कालङ्कारः’ –
अयमपि बङ्गालदेशीय आसीत्। अस्य काल ईशायाः षोडशशताब्दी आसीत् । अनेन दीधित्युपरि टीका रचिता सैव टीकाधुना जागदीशी इति नाम्ना सम्पूर्णभारतवर्षे प्रचलिता सम्मानिता च वर्तते। अनेन आलोकोपरि अपि टीका कृता वर्तते। ‘शब्दशक्तिप्रकाशिका’ ‘तर्कामृतम्’, न्यायादर्शम्, इति त्रयः स्वतन्त्रग्रन्था अपि रचिताः। अयमपि भट्टाचार्यवंशीय आसीत्। प्रबलपाण्डित्येन अनेन ‘तर्कालङ्कारः’ इत्युपाधिः प्राप्तः। अन्ते तेनैव नाम्ना प्रसिद्धो जातः ॥
गदाधरभट्टाचार्यः –
अयमपि बङ्गालदेशीय आसीत्। अनेन नदियापीठे एव सम्पूर्णन्यायशास्त्रमधीतम्। अनेन आलोकोपरि दीधित्युपरि च टीका रचिता, सैव टीकाधुना ‘गादाधरी’ इति नाम्ना जगति व्याप्ता वर्तते। अनेनान्येऽपि बहवो ग्रन्था रचिताः, तेषु व्युत्पत्तिवादः, शक्तिवादः, इत्यादयः चतुष्षष्ठिवादाः प्रसिद्धाः सन्ति। अयम् ईशायाः षोडशशताब्द्यन्ते सप्तदशशताब्द्यादौ आसीदिति इतिहासविद्भिः स्वीक्रियते ॥
विश्वनाथ‘पञ्चानन’भट्टाचार्यः –
अयमपि बङ्गालदेशीयः पण्डित आसीत्। अनेन शुद्धन्यायपरम्परायां न्यायसूत्रोपरि वृत्तिः लिखिता, सेदानीं ‘विश्वनाथवृत्तिः’ इति नाम्ना प्रसिद्धा वर्तते। परन्तु अस्य ख्यातिः मुक्तावलीकाररूपेण वर्तते। अनेन वैशेषिकोक्तसप्तपदार्थान् आदाय तेनैव क्रमेण प्रथमं ‘कारिकावली’ग्रन्थो रचितः। तत्र १६८ संख्यकाः कारिकाः सन्ति। तत्रैवानेन नैयायिकोक्तानि चत्वार्येव प्रमाणानि प्रतिपादितानि। अतो ग्रन्थोऽयं न्यायवैशेषिकमिश्रितपरम्परायां वर्तत इति वक्तुं शक्यते। यद्यप्यनेन प्रथमं कारिकावली एव रचिता आसीत् तथापि स्वशिष्ये राजीवे दयया वशंवदः सन् तासां कारिकाणां स्वेनैव व्याख्यानं कृतम्। तदेव व्याख्यानमिदानीं ‘न्यायसिद्धान्तमुक्तावली’ इति नाम्ना प्रसिद्धमस्ति। मुक्तावल्यां स स्वयमेव लिखति –
निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः।
विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः ॥
(विश्वनाथः, न्यायसिद्धान्तमुक्तावली, मङ्गलाचरणम् ३ ) इति।
अनेनैव ग्रन्थेन अस्य नाम ‘मुक्तावलीकारः’ इति प्रसिद्धं जातम्। अयं ग्रन्थो न्यायशास्त्राध्येतृणां कृते अत्यन्तमुत्कृष्टो वर्तते। अत्यन्तसरलया भाषया अनेन अस्मिन् ग्रन्थे विषयाः प्रतिपादिताः सन्ति। इदानीं सर्वेष्वपि संस्कृतविश्वविद्यालयेषु न्यायशास्त्रस्य पाठ्यक्रमे प्रथमावस्थायामयमेव ग्रन्थः पाठ्यग्रन्थत्वेन स्वीकृतोऽस्ति। अधुनायं ग्रन्थो बह्वीषु भाषासु प्रकाशितो वर्तते। अस्योपरि बहुटीका रचिताः सन्ति। तासु दिनकरी, रामरुद्री, किरणावली–इत्यादिप्रसिद्धाः सन्ति। अस्य कालस्तु १५५६ शकसम्वत्सर आसीत्। यद्यप्ययं भट्टाचार्यवंशे जातस्तथापि सर्वविद्यासु निष्णातत्वात् अनेन ‘पञ्चाननः’ इत्युपाधिः प्राप्तः। चतुर्ण्णां प्रमाणानां पृथक्–पृथक् विभागं कृत्वा रचितत्वात् नव्यन्यायशैल्या प्रमाणप्रतिपादनाच्च अयमपि नव्यनैयायिकपरम्परायामेव वर्तते इत्युच्यते ॥
केशवमिश्रः –
प्रमाणादिपदार्थानां ज्ञानं सरलतया सर्वैः कर्तुम् अशक्यत्वात् तज्ज्ञानाय एकस्य प्रकरणग्रन्थस्य अपेक्षासीत् दर्शनक्षेत्रे। तामेवापेक्षां पूरणाय अयं केशवमिश्रः ‘तर्कभाषा’ इति नामकं ग्रन्थं रचितवान्। सूत्रभाष्यवार्तिकादिग्रन्था अल्पमतिमतां जनानां दुष्साध्या एवासन्, अतस्तेषां न्यायशास्त्रे सुखेन प्रवेशो भवतु इति भावनया मयाऽयं ग्रन्थो रचित इति केशवमिश्रः स्वयं ग्रन्थादौ उद्घोषयति – बालोऽपि यो न्यायनये प्रवेशमल्पेन वाञ्छत्यलसः श्रुतेन। संक्षिप्तयुक्त्यन्विततर्कभाषा प्रकाश्यते तस्य कृते मयैषा ॥ (केशवमिश्रः, तर्कभाषा : मङ्गलाचरणम् ) इति। प्रमाणादिपदार्थानां क्रमेणैव विवक्षितत्वात् अयम् एव ग्रन्थः प्राचीनन्यायस्य प्रथमः प्रकरणग्रन्थः। अस्मिन् ग्रन्थे सूत्रोक्तप्रमेयान्तर्गतार्थपदार्थ एव वैशेषिकोक्तसप्तपदार्थानाम् अन्तर्भावकृतत्वात्, न्यायवैशेषिकयोः द्वयोः दर्शनयोः समन्वयः सर्वप्रथमम् अनेनैव कृत इति वक्तुं शक्यते। अतोऽयं ग्रन्थो द्वयोरपि दर्शनयोः अध्येतृणां कृते अत्युपकारीति न संशयः। अस्यापि कालादिविषये निश्चयेन वक्तुं न शक्यते। तथापि अयं गङ्गेशोपाध्यायानन्तरकालिकः, प्रायः वर्धमानोपाध्यायसमकालिक आसीदिति गोवर्धनमिश्ररचितस्य तर्कभाषाप्रकाशनामकग्रन्थस्यावलोकनेन ज्ञायते। तत्र तेन गोवर्धनमिश्रेण तर्कभाषाकारः पद्मनाभस्यानुजः अस्ति इति परिचयो दत्तोऽस्ति –
‘श्रीविश्वनाथानुजपद्मनाभानुजो गरीयान् बलभद्रजन्मा।
तनोति तर्कानधिगत्य सर्वान् श्रीपद्मनाभाद्विदुषो विनोदम्। इति।
तेन पद्मनाभेन उदयनस्य किरणावल्युपरि ‘किरणावलीप्रकाश’ इति नाम्नी टीका रचिता वर्तते। तत्र स वर्धमानस्य नामोद्धरति – ‘उपदिष्टा गुरुचरणैरस्पृष्टास्तन्यन्ते पद्मनाभेन’ इति। अनेन सुस्पष्टं भवति यत् पद्मनाभो वर्धमानसमानकालिकः किञ्चिद् अनन्तरकालिको वा। अतः तस्यानुजोऽयं केशवमिश्रोऽपि वर्धमानात् किञ्चिदनन्तरकालिकः। तथा च अस्य काल ईशायाः पञ्चदशशताब्दी आसीदिति वक्तुं शक्यते। अस्य स्थानन्तु मिथिलादेश एव ॥
अन्नंभट्टः –
न्यायशास्त्रे वैशेषिकशास्त्रे च बहुभिः पण्डितैः बहवो ग्रन्था रचिताः। परन्तु ते सर्वेऽपि ग्रन्था न्यायशास्त्राध्येतृणां तत्र प्रवेशोत्सुकानां वा बालानां कृते दुर्बोध्याः, दुर्ग्राह्याः सञ्जाताः पश्चात्तनकाले। यद्यपि प्रवेशकरणाय ‘न्यायसिद्धान्तमुक्तावली’ आसीत् तथापि सा अल्पमतिमतां कृते क्लेशसाध्या एवासीत्। अतस्तादृशस्य ग्रन्थस्य महती आवश्यकतासीत्, येन बालाः सरलतया न्याशास्त्रं ज्ञातुं शक्नुयुः। तामेवावश्यकतां पूरयितुं महता विदुषा अन्नंभट्टेन ‘तर्कसंग्रहः’ नामकोऽत्यल्पः परन्तु अत्युपकारी ग्रन्थो रचितः। स्वयमेव मङ्गलाचरणे कथयति – ‘निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। बालानां सुखबोधाय क्रियते तर्कसंग्रहः’। (अन्नंभट्टः, तर्कसंग्रहः, मङ्गलाचरणम् ) इति। यद्यपि केशवमिश्रस्य ‘तर्कभाषापि प्रवेशग्रन्थ एव, तथापि तत्र केवलं नैयायिकरीत्या विषयाः प्रतिपादिता आसन् परन्तु ‘बालस्वभावः सर्वदा सरलमेवापेक्षते’ इति वचनानुसारं न्यायवैशेषिकदर्शनयोः प्रवेशस्य कृते एकस्य द्वारस्याभाव आसीदेव। अत उभयपरम्परया रचितेन ग्रन्थेन तर्कसंग्रहेण सोऽभावः पूरितः। अस्मिन् तर्कसंग्रहे वैशेषिकोक्तसप्तपदार्थाः, न्यायोक्तानि चत्वारि प्रमाणानि च सरलतया प्रतिपादितानि। अतः अत्र विद्यमानः प्रमेयभागो वैशेषिकदर्शनस्य भागः, प्रमाणभागस्तु न्यायदर्शनस्य भाग इत्यपि बुधैः विभज्यते। अस्य ग्रन्थस्य महत्त्वमस्ति यद् अयं ग्रन्थः सर्वत्र विश्वविद्यालयेषु पाठ्यक्रमे वर्तते। अस्यानुवादो बह्वीषु आंग्लादिभाषासु च प्राप्यते। पाश्चात्त्यैः अप्ययं ग्रन्थः स्वपाठ्यक्रमे स्वीकृतः। अस्य बहुभिः सम्पादनञ्च कृतमस्ति। तेषु पाश्चात्यविदुषः बोडास(BODAS)महोदयस्य सम्पादनं प्रधानमस्ति। अस्योपरि बहुटीका रचिताः सन्ति। अधुना च टीकारचनाक्रमः प्रचलत्येव। तासु टीकासु ग्रन्थकर्तुः एव ‘दीपिका’ इति नाम्नी टीका प्रसिद्धा वर्तते। पदकृत्यम्, न्यायबोधिनी, सिद्धान्तचन्द्रोदय इत्याद्यनन्तटीकाः प्राप्यन्ते। अयम् अन्नम्भट्टो दाक्षिणात्यः, आन्ध्रदेशीयः तैलङ्गब्राह्मण आसीत्। अयं विद्यानगरीं काशीं गत्वा शास्त्राणि अधीतवान्। अयं शैवसम्प्रदाये आसीदिति अस्य मङ्गलश्लोकेनैव ज्ञायते। तत्र किल अयं स्वेष्टदेवस्य विश्वनाथस्य स्तुतिं करोति। तथाहि – ‘निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। बालानां सुखबोधाय क्रियते तर्कसंग्रहः’। (अन्नंभट्टः, तर्कसंग्रहः, मङ्गलाचरणम् ) इति। अस्य रचनाकालः सप्तदशशताब्दी ई.सं.१६२३ आसीदिति मनीषिभिः स्वीक्रियते। यावत्पर्यन्तं जगति दर्शनशास्त्रं जीवति तावन्पर्यन्तमयम् अन्नंभट्टो विद्वत्सभायां सादरेण जीवति इति नात्र लेशतोऽपि संशयः। तदनन्तरमपि नव्यन्यायस्य क्षेत्रे बहवो विद्वांसो जाताः। लेखविस्तारभयात् तेषां केषाञ्चन साररूपेण एव अत्र उल्लेख क्रियते।
संख्या नाम कालः(अनुमितः) प्रमुखकृतिः
क) श्रीकृष्णन्यायलङ्कारः ई.सं. १६५० भावदीपिका
ख) श्रीकृष्णकान्तविद्यावागीशः ई.सं.१७८० न्यायरत्नावली
ग) श्रीमहादेव–पुणताम्बेकरः ई.सं.१७९० न्यायकौस्तुभम्, व्याप्तिरहस्यम्
घ. श्रीमहादेवभट्टः, दिनकरभट्टः ई.सं.१८०० न्यायसिद्धान्तमुक्तावल्यां ‘दिनकरी’ टीका
ङ) श्रीरामरुद्रभट्टाचार्यः ई.सं.१८०० दिनकर्यां ‘रामरुद्री’ टीका
च) श्रीकृष्णवल्लभाचार्यः(स्वामिनारायणः) ई.सं.१९०० तर्कसंग्रहे, मुक्तावल्याञ्च किरणावलीटीका
छ) श्रीचन्द्रजसिंहः ई.सं.१७०० तर्कसंग्रहे ‘पदकृत्यम्’ टीका
ज) श्रीकृष्णधूर्जटीदीक्षितः ई.सं.१७०० तर्कसंग्रहे ‘सिद्धान्तचन्द्रोदयः’ टीका
झ) श्रीगोवर्धनमिश्रः ई.सं.१७०० तर्कसंग्रहे ‘न्यायबोधिनी’ टीका
इत्यादयः अनेके नव्यनैयायिकाः सञ्जाताः। एतदनन्तरमपि आधुनिकसमये च न केवलं भारते अपितु नेपाले च बहवो नैयायिकाः समभवन्, यैः न्यायदर्शनस्य परम्परा महता योगदानेन सुसमृद्धा कृता वर्तते। तेषां विषये चानुसन्धानं सुतरामवश्यकमस्ति, परन्त्वत्र लेखे मूलरूपेण सूत्रकारादारभ्य तर्कसंग्रहकारं यावत् कालिकानां ख्यातयशस्कामेव न्यायाचार्याणां परिचयः प्रस्तुतः, अतः अन्यस्मिन् लेखे अन्यत्रैव नैपालकानां न्यायाचार्याणाञ्च विषयेऽनुसन्धानं करिष्यते ॥
निष्कर्षः
निष्कर्षे तावत् वक्तुं शक्यते यत् न्यायशास्त्रं तर्कशास्त्रं तर्कविद्या वा अनादिकालादेव प्रवृत्तम्। श्रुतिस्मृतीतिहासपुराणेषु च न्यायदर्शनस्योल्लेखः, एतद्दर्शनविषयाः, सूत्रकारस्य नामोल्लेखश्च प्राप्यन्ते इति तत्तद्ग्रन्थाध्ययनेन ज्ञायते। अनादिकालात् प्रवृत्तमिदं न्यायशास्त्रं महर्षिणा गौतमेन सूत्रेषु निबद्धम्। तानि च सूत्राणि पञ्चाध्यायेषु, दशाह्निकेषु च ग्रथितानि। तेषां सूत्राणां वात्स्यायनेन भाष्यं विहितम्। ततः दिङ्नागप्रभृतिभिः खण्डितस्य न्यायदर्शनस्य उद्धारः भारद्वाजोद्योतकरेण वात्स्यायनभाष्योपरि न्यायवार्त्तिकमिति व्याख्यां विलिख्य विहितः। पुनश्च बौद्धैः खण्डितस्य न्यायदर्शनस्य समुद्धारः सर्वतन्त्रस्वतन्त्रेण वाचस्पतिमिश्रेण न्यायवार्त्तिकतात्पर्यटीका इति ग्रन्थं रचयित्वा कृतः। पुनरपि बौद्धैरेव न्यायदर्शनस्य खण्डनं विहितमिति हेतोः उदयनाचार्येण बहूनां ग्रन्थानां प्रणयनं कृत्वा बौद्धमतानि धूलिधूसरितकृतानि, निष्कण्टकं न्यायमतञ्च लोके प्रतिष्ठापितम्। एवञ्च तत्समकाले एव भासर्वज्ञेन न्यायभूषणमिति ग्रन्थमाध्यमेन, जयन्तभट्टेन न्यायमञ्जरीति ग्रन्थमाध्यमेन च न्यायदर्शनं सुसमृद्धं सुदृढञ्च विहितम्। इमे एव आचार्याः प्राचीनन्यायाचार्यत्वेन लोकविश्रुताः सन्ति। इयमेव सूत्रपरम्परा पञ्चग्रन्थीपरम्परा वा प्राचीनन्यायपदेन प्रचलिता अस्ति चेत् ततः गङ्गेशोपाध्यायेन तत्त्वचिन्तामणिनामकं ग्रन्थं विलिख्य नव्यन्यायधारा प्रवर्तिता। गङ्गेशेन प्रारब्धेयं नव्यन्यायधारा पक्षधरमिश्र–रघुनाथशिरोमणि–जगदीशतर्कालङ्कार–गदाधरभट्टाचार्यप्रभृतिभिः नैयायिकैः दिगन्तव्यापिनी कृता। मिथिलाक्षेत्रे समुत्पन्नमिदं न्यायदर्शनं बङ्गालक्षेत्रं प्राप्य विस्तृतं जातञ्चेत् ततः एवाधुना समग्रजगति सर्वविद्याप्रदीपत्वेन राराजते। बौद्धदर्शनेन सह खण्डनमण्डनपरम्परायां विस्तृतरूपेण प्रवर्धितमिदं न्यायदर्शनं प्राचीनपद्धत्या प्रमेयविवेचने, नव्यशैल्या प्रमाणविवेचने च सुसमृद्धं सत् इतरसर्वेषामपि दर्शनानां कृते महदुपकारि अस्तीति एतद्दर्शनस्येतिहासाचार्यसाहित्यादीनामध्ययनेन ज्ञायते ॥
सन्दर्भग्रन्थसूची
उदयनाचार्यः (ई.सं.१९६२). न्यायकुसुमाञ्जलिः (हरिदासीव्याख्योपेतः), वाराणसी : चौखम्बाविद्याभवन।
उदयनाचार्यः (ई.सं.२०११). आत्मतत्त्वविवेकः (आत्मतत्त्वव्याख्यासहितः), वाराणसी : चौखम्बासंस्कृतसिरिज।
उद्योतकरः (वि.सं.२०६४). न्यायवार्तिकम्, वाराणसी : चौखम्बासंस्कृतभवन।
उपाध्यायः, गङ्गेशः, (ई.सं.१९९०). तत्त्वचिन्तामणिः, दिल्ली : चौखम्बासंस्कृतप्रतिष्ठान।
फणिभूषण ‘तर्कवागीशः’, (ई.सं. १९६८) न्यायपरिचय, (अनुवादक, दिनेशचन्द्र गुह), वाराणसी : चौखम्बाविद्याभवन।
भट्टः, अन्नम्, (ई.सं.२००३). तर्कसंग्रहः, व्याख्याचतुष्टयोपेतः, वाराणसी : चौखम्बाविद्याभवन।
भट्टः, जयन्तः, (ई.सं.२०१७). न्यायमञ्जरी, वाराणसी : सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः।
भट्टराई, पद्मप्रसाद, (वि.सं. २०६४). पौरस्त्यदर्शन एक चिनारी, काठमाण्डौ : विद्यार्थी पुस्तक भण्डार।
भट्टाचार्यः, विश्वनाथः (ई.सं.२००३). न्यायसिद्धान्तमुक्तावली, (किरणावलीसहिता), वाराणसी : चौखम्बासंस्कृतसंस्थान।
भासर्वज्ञः (ई.सं. १९६८). न्यायभूषणम्, वाराणसी : षड्दर्शनप्रकाशनप्रतिष्ठानम्।
मनुः (ई.सं. २०१८). मनुस्मृतिः, वाराणसी : चौखम्बाविद्याभवन।
मिश्रः, केशवः, (ई.सं.२००३). तर्कभाषा, वाराणसी : चौखम्बा सुरभारती प्रकाशन।
मिश्रः, वाचस्पतिः (वि..सं. २०७०). न्यायवार्तिकतात्पर्यटीका, वाराणसी : चौखम्बासंस्ृकतभवन।
याज्ञवल्क्यः (वि.सं.२०७६). याज्ञवल्क्यस्मृतिः, काठमाडौं : रत्नपुस्तकभण्डार।
राधाकृष्णन, सर्वपल्ली (ई.सं.१९७३). भारतीय दर्शन, दिल्ली : राजपाल एण्ड सन्स।
वात्स्यायनः, (वि.सं.२०६९). न्यायभाष्यम् (हिन्दीव्याख्यासहितम्), वाराणसी : चौखम्बासंस्कृतभवन।
वात्स्यायनः, (ई.सं.१९९८) न्यायभाष्यम् (प्रसन्नपदाव्याख्यायुतम्), वाराणसी : बौद्धभारती।
वाल्मीकिः (….). श्रीमद्वाल्मीकीयरामायणम्(हिन्द्यनुवादसहितम्), गोरखपुर : गीताप्रेस।
वेदव्यासः (वि.सं. २०७९). महाभारत (पञ्चमखण्ड), गोरखपुर : गीताप्रेस।
वेदव्यासः (वि.सं.२०७८). मत्स्यपुराण (हिन्द्यनुवादसहित), गोरखपुर : गीताप्रेस।
शर्मा, चन्द्रधर, (ई.सं.१९९८). भारतीय दर्शन, दिल्ली : मोतीलाल बनारसीदास।
शर्मा, राममूर्ति (सम्पा.), (ई.सं. २००२). न्याय एवं वैशेषिकदर्शन, हरिद्वार : ब्रह्मवर्चस।
सक्सेना, प्रवेश (ई.सं. २००५). भारतीय दर्शनों में क्या है, दिल्ली : पुस्तक महल।