अव्ययपदव्युत्पादकानां के षाञ्चनानां कृत्तद्धितप्रत्ययानां पर्यालोचनम्

टीकारामः दहालः[1] [1] उपप्राध्यापक (नव्यव्याकरण विभाग), पिण्डेश्वर विद्यापीठ, धरान, नेपाल संस्कृत विश्वविद्यालय । Email : tikadahaldharan@gmail.com सारतत्त्वम्   विभक्तिषु वचनेषु च यत्पदं न व्येति परिवर्तनं नाशं न प्राप्नोति तदव्ययं निगद्यते। यद्यपि ‘सर्वाणि नामानि धातुजानि’ इति यास्कवचनेन पदानि व्युत्पन्नान्येव भवन्तीति मतं ज्ञायते तथापि आचार्यः पाणिनिः कतिपयानि-अव्यक्तप्रकृतिप्रत्ययभागानि पदान्यव्युत्पन्नानि भवन्तीति मतं ‘अर्थवत्’ सूत्रेऽभिव्यनक्ति। एतेन नामवदव्ययपदानि चाव्युत्पन्नानि व्युत्पन्नानि भवन्तीति ज्ञायते। […]