टीकारामः दहालः[1] [1] उपप्राध्यापक (नव्यव्याकरण विभाग), पिण्डेश्वर विद्यापीठ, धरान, नेपाल संस्कृत विश्वविद्यालय । Email : tikadahaldharan@gmail.com सारतत्त्वम् विभक्तिषु वचनेषु च यत्पदं न व्येति परिवर्तनं नाशं न प्राप्नोति तदव्ययं निगद्यते। यद्यपि ‘सर्वाणि नामानि धातुजानि’ इति यास्कवचनेन पदानि व्युत्पन्नान्येव भवन्तीति मतं ज्ञायते तथापि आचार्यः पाणिनिः कतिपयानि-अव्यक्तप्रकृतिप्रत्ययभागानि पदान्यव्युत्पन्नानि भवन्तीति मतं ‘अर्थवत्’ सूत्रेऽभिव्यनक्ति। एतेन नामवदव्ययपदानि चाव्युत्पन्नानि व्युत्पन्नानि भवन्तीति ज्ञायते। […]
टीकारामः दहालः[1]
[1] उपप्राध्यापक (नव्यव्याकरण विभाग), पिण्डेश्वर विद्यापीठ, धरान, नेपाल संस्कृत विश्वविद्यालय ।
Email : tikadahaldharan@gmail.com
सारतत्त्वम्
विभक्तिषु वचनेषु च यत्पदं न व्येति परिवर्तनं नाशं न प्राप्नोति तदव्ययं निगद्यते। यद्यपि ‘सर्वाणि नामानि धातुजानि’ इति यास्कवचनेन पदानि व्युत्पन्नान्येव भवन्तीति मतं ज्ञायते तथापि आचार्यः पाणिनिः कतिपयानि-अव्यक्तप्रकृतिप्रत्ययभागानि पदान्यव्युत्पन्नानि भवन्तीति मतं ‘अर्थवत्’ सूत्रेऽभिव्यनक्ति। एतेन नामवदव्ययपदानि चाव्युत्पन्नानि व्युत्पन्नानि भवन्तीति ज्ञायते। संस्कृतभाषायाः शब्दनिर्माणकला विलक्षणा विद्यते। आचार्यः पाणिनिः ‘स्वरादिनिपातमव्ययम्’ (१/१/३७) सूत्रे तथा ‘चादयोऽसत्त्वे’ (१/४/५७) सूत्रस्य गणपाठे निपाताव्ययाभिधानानि पदानि स्वर् प्रातर् पुनर्, च वा ह अह इत्यादीनि १९० पदानि पठति। पाणिनिभिन्नाश्चाचार्याः यास्कशौनकहेमचन्द्रसूरिप्रभृतयो वैयाकरणाश्चैतादृशं गणपाठमुपस्थापयन्ति। एतैः गणपाठे पठितान्यव्ययपदानि यद्यपि व्युत्पादयितुं शक्यन्ते तथाप्यत्र तानि विहायाधुनिकभषावैज्ञानिकमार्गाश्रयणेन तान्यव्युत्पन्नानि मत्वा तदतिरिक्तानामेव कृत्तद्धितैः प्रत्ययैः निष्पन्नानामव्ययपदानां प्रकृतिप्रत्ययं समन्वीय केषाञ्चनानां कृत्तद्धित-प्रत्ययानामुपस्थापनपूर्वकं विश्लेषणं विहितमस्ति। अव्ययपदव्युत्पादकेष्वेतादृशेषु कृत्प्रत्ययेषु क्त्वा, ल्यप्, तुमुन्, णमुल्, तोसुन्, कसून् प्रत्ययाः प्रमुखाः सन्ति। तथा च सर्वनामपदतोऽव्ययपदव्युत्पादकेषु तद्धितप्रत्ययेषु अतसुच् सुच् अस्ताति असि आति तसिल् त्रल् ह दा दानीम् थाल् अत् प्रभृतयो प्रमुखाः सन्ति। एते तद्धितप्रत्ययाः प्रायेण सर्वनामतोऽव्ययपदं व्युत्पादयन्ति। अस्मिन्नालेखे सामान्यत एतादृशा एव कृत्तद्धिताः प्रत्यया सोदाहरणं विश्लिष्टाः सन्ति।
अव्ययपदानि च कृत्तद्धितैः प्रत्ययैस्तथा समासेन च व्युत्पादितानि भवन्ति। सर्वमव्ययसमुदायं अपि (पि गतौ क्विपिनञ्समासे नलोपे) अलमित्यादीनां च व्युत्पादनं सम्भवति तथापि तानि विहायात्र सरलानां पाणिनेरव्ययपदव्युत्पादकानां कतिपयकृत्ततद्धितप्रत्ययानामेवाध्ययनमत्र विधीयते। संस्कृतभाषायां निपातानां तथाव्ययपदानाञ्च प्रयोगः प्राचीनकालतोऽधुना ह्रासमाणो विलोक्यते। तोसुन् कसुन् प्रत्ययान्तानि कृदन्ताव्ययपदानि तथान्यानि च कतिपयाव्ययपदानि च
वैदिकसंस्कृतभाषायामेवोपलभ्यन्ते। अधुना तु प्रायेण संस्कृतभाषायाः लोकव्यवहारे च नामाख्यातयोरेव प्रयोगाधिक्यं दृश्यते। भाषायाः विकासक्रमे सम्भवत्येव चैतादृशं परिवर्तनम्। अव्ययाः निपाताश्च मानवानां हर्ष-शोक-मोह-क्रोध-दैन्य-विषाद-सम्भ्रम-वितर्काति-रेकादि-विविधमानव-मनोभावाभिव्यक्तये प्रयुज्यन्ते। वैदिकैः मनीषिभिः पदानां नामाख्यातोपसर्गनिपातविभागः कृतो विलोक्यते। यद्यप्यत्राव्ययपदविभागस्योल्लेखो न दृश्यते तथापि वैदिककालीयेषु कृतिष्वव्ययपदस्योल्लेखनं प्राप्यते। तत्र निपातपदमेवाव्ययपदसमुदायावबोधकं विलोक्यते। त्रिषु लिङ्गेषु सर्वासु विभक्तिषु, सर्वेषु वचनेषु च यस्य स्वरूपस्य परिवर्तनं न भवति तदव्ययं निगद्यते। अव्ययपदानि लिङ्गातिरेकं कारकातिरेकं संख्यातिरेकं च न सहन्ते।
शब्दकुञ्जिका : वैयाकरणः शब्दनिर्माणम् प्रमाणयन्ति व्युत्पादकाः कारकातिरेकम्।
१. विषयपरिचयः
आचार्यः पाणिनिर्महान् वैयाकरण आसीत्। भाषानुशासने तस्य महान् सूक्ष्मतरः प्रयत्न इदानीं यावल्लोकमुपकरोति। अष्टाध्यायी पाणिनेर्कालजयी कृतिर्विद्यते। तत्र सकलानि सूत्राण्यष्टास्वध्यायेषु संयोज्य सन्धयः, सुबन्तपदानि, तिङन्तपदानि कृदन्तानि ताद्धितान्तानि च पदानि समासस्य कारकस्य च व्यवस्था सुस्पष्टरूपेण व्यवस्थिता विद्यते। संस्कृतभाषायां कृत्तद्धितोपसर्गसमासैः शब्दव्युत्पादनस्य चत्वारो विधयः प्रचलिताः दृश्यन्ते। कृत्प्रत्ययाः धातोर्भवन्ति। कर्तृकर्मसंख्याकालार्थकानां लकारस्थानिकानां तिप् तस् झीत्यादीनां तिङ्प्रत्ययानां धातोश्च योगेन क्रियापदानि व्युत्पद्यन्ते। सुबन्तेन प्रातिपदिकेन वा संयुज्य तद्धितप्रत्ययाः तद्धितान्तं पदं व्युत्पादयन्ति। उपसर्गाश्च धातोः प्राक् संयुज्य क्रियापदानि तथा धातोः कृत्प्रत्यये सति कृदन्तनामादीनि पदानि च व्युत्पद्यन्ते। उपसर्गाः क्रियायोगे (पा.सू.१/४/५९) ते प्राग्धातोः (पा.सू.१/४/८०) इत्यादिभिः सूत्रैः उपसर्गैः शब्दनिर्माणस्य प्रक्रिया निर्दिश्यते। अव्ययीभावतत्पुरुषकर्मधारयबहुव्रीहिद्वन्द्वनामकैः समासपद्धतिभिः समस्ताः शब्दाश्चानुशिष्यन्ते।
मूलशब्देभ्यः नाम-सर्वमान-विशेषणेभ्यः विहिताः कतिपये तद्धितप्रत्यया अव्ययपदं व्युत्पादयन्ति। स्वरादिनिपातमव्ययम् (पा.सू.१/१/३७) सूत्रस्य गणपाठे तथा चादयोऽसत्त्वे (पा.सू.१/४/५७) सूत्रस्य गणपाठे च निपाताः, क्रियाविशेषणाभिधा अव्ययाः पठिताः विद्यन्ते। तैरतिरिक्तं च कतिपयैः कृत्प्रत्ययैः क्वा ल्यप् तुमुन् णमुलादिभिः प्रत्ययैः कृन्मेजन्तः (पा.सू.१/१/३९) क्त्वातोसुन्कसुनः (पा.सू.१/१/४०) इत्यादिभिः सूत्रैश्चाव्ययपदानि साधितानि सन्ति। अव्ययीभावसमासेन समस्तानि पदानि चाव्ययानि भवन्ति (अव्ययीभावश्च, पा.सू.१/१/४१)। कतिपयैः तद्धितप्रत्ययैश्चाव्ययपदानि व्युत्पादितानि भवन्ति। अत्र स्वारादि गणे चादिगणे पठितान्यव्ययपदानि विहाय कृत्तद्धितप्रत्ययैः निष्पन्नानामव्ययपदानां तथा तादृशानां कृत्तद्धितप्रत्ययानामेव पर्यालोचनं विधीयते।
विभक्तिषु वचनेषु त यन्न व्येति तदव्ययं निगद्यते। व्ययं नाम परिवर्तनं नाशं वा भवति। यानि पदानि पुंस्त्रीनपुंसकलिङ्गेषु, सर्वासु प्रथमाद्वितीयातृतीयादिषु विभक्तिषु, एकवचनद्विवचनबहुवचनेषु च स्वरूपपरिवतर्नं न प्राप्नुवन्ति तान्यव्ययपदानि सन्ति। वस्तुतोऽव्ययपदेभ्योऽपि सुबादयो विभक्तिप्रत्ययाः भवन्ति परं तेषाम् ‘अव्ययादाप्सुपः (२।४।८२) सूत्रेण लोपो विधीयते। तस्मादेतानि सर्वासु विभक्तिषु वचनेषु लिङ्गेषु च एकरूपात्मकानि भवन्ति। अत एतादृशानि पदानि भाषायां प्राचीनत एवाव्ययपदनाम्ना बोध्यन्ते स्म। अव्ययनामाभिधः पदराशेः प्राचीनता अथर्वणप्रातिशाख्यस्थं वैयाकरणसमुदाये प्रसिद्धं ‘सदृशं त्रिषु लिङ्गेषु ….’ इत्यादि पद्यं तथा पाणिनेः ‘स्वरादिनिपातमव्ययम्’ (पा.सू.१/१/३७) इति सूत्रम् च प्रमाणयन्ति। वैदिकवाङ्मये पातञ्जलमहाभाष्ये च ‘चत्वारि वाक्परिमिताः पदानि…’ इति ऋचः पदानीत्यस्य व्याख्यानावसरे ‘नामाख्यातोपसर्गनिपाताः पदानि’ इत्युक्त्वा पदविभागस्य चतुर्विधत्वं वर्णितं लभ्यते[2]। तत्राव्ययपदस्योल्लेखो यद्यपि न दृश्यते तथापि तत्रस्थं निपातपदमव्ययसमुदायाभिधायकं प्रतीयते। अव्ययपदमिदानीन्तनमपि संस्कृतभाषायां तथा संस्कृतोपजीव्यभूतासु भारोपीयभाषा-परिवारकास्वन्यासु भाषासु च विशिष्टं पदराशिं बोधयति। अव्ययपदं पदविभागेषु च प्रसिद्धं वर्तते। धातु-नाम-सर्वनाम-विशेषणपदैः कृत्तद्धितप्रत्ययैरव्ययपदानि व्युत्पन्नानि भवन्ति। अत्र पाणिनेरव्ययपदव्युत्पादकानां प्रमुखानां कृत्तद्धितानां प्रत्ययानां पर्यालोचनं विधीयते।
२. समस्याकथनम्
आचार्यः पाणिनिः सूत्रात्मकस्याष्टाध्यायीग्रन्थस्य रचनेन सर्वं संस्कृतवाङ्मयमनुशसास। तत्र पाणिनीयव्याकरणेऽव्ययपदव्युत्पादका अनेके कृत्तद्धिताः प्रत्ययाः विलसन्ति। धातुभिः नाम-सर्वनाम-विशेषणपदैश्च तेऽव्ययपदानि व्युत्पादयन्ति। एतद्विषयसम्बद्धा जिज्ञासा चास्यालेखस्य मुख्या समस्या विद्यते। मुख्याः समस्याः सूत्रसरण्या समुल्लिख्यन्ते –
- क) पाणिनिविरचिता अव्ययपदव्युत्पादकाः मुख्याः कृत्प्रत्ययाः के के सन्ति ?
- ख) पाणिनिविरचिता अव्ययपदव्युत्पादकाः मुख्याः तद्धितप्रत्ययाः के के सन्ति ?
३. उद्देश्यनिर्धारणम्
पाणिनिना स्वकीयायामष्टाध्याय्यामनेकार्थाभिव्यक्तयेऽनेके कृत्प्रत्ययाः व्यवस्थिताः दृश्यन्ते। तथैव
पाणिनिनाष्टाध्याय्यामनेकार्थाभिव्यक्तयेऽनेके तद्धितप्रत्ययाश्च व्यवस्थिताः प्राप्यन्ते। ते कृत्तद्धिताः प्रत्ययाः नामसर्वनाम-विशेषणाव्ययपदानि व्युत्पादयन्ति। अस्यालेखस्योद्देश्यम् केवलम् स्वरादिगणे चादिगणे चापरिगणितानामव्ययानामेव व्युत्पादकानां प्रमुखानां कृत्तद्धितप्रत्ययानां पर्यालोचनमस्ति। आलेखोऽयं निम्नलिखितेषूद्देश्येषु केन्द्रीकृतं विद्यते –
- क) पाणिनिविरचितानामव्ययपदव्युत्पादकानां मुख्यानांः कृत्प्रत्ययानां पर्यालोचने,
- ख) पाणिनिविरचितानामव्ययपदव्युत्पादकानां मुख्यानां तद्धितप्रत्ययानां पर्यालोचने।
४. अनुसन्धानविधिः सीमा च
अनुसन्धानकार्यस्यास्य प्रमुखः सैद्धान्तिकाधारः पाणिनीयं व्याकरणशास्त्रम् ‘अष्टाध्यायी’ तथा वैयाकरणसिद्धान्तकौमुदी च वर्तते। अस्यानुसन्धानकार्यस्य सम्यक्तया सम्पादनाय सामग्रीसङ्कलनार्थं पुस्तकालयीयो विधिरूपयुज्यते। अत्र यथासम्भवं स्थापितानां सिद्धान्तानामाधारे प्राप्तसामग्रीणां विश्लेषणाय तुलना-विश्लेषण-व्याख्या-आगमन-निगमन-कार्य-कारणविधीनाञ्चात्र यथावसरमुपयोगो विहितो वर्तते। टिप्पणीकरणाय तथा सन्दर्भसूचीविधानाय लेखकपृष्ठपद्धत्या (एमएलए) अनुसरणं विहितमस्ति। अष्टाध्याय्यां पठितानां तथा सिद्धान्तकौमुद्यादिषु व्याख्यातानामव्यय-पदव्युत्पादकानां केषाञ्चनानां कृत्तद्धितप्रत्यायाना-मध्ययनक्रमे सामग्रीसङ्कलनस्य स्रोतः पुस्तकालय एव वर्तते। पाणिनेः अष्टाध्यायी तथा वैयाकरणसिद्धान्तकौमुदी-ग्रन्थस्याधारे एवोपलब्धा अव्ययपदव्युत्पादकाः कृत्तद्धिताः प्रत्यया अत्र समीक्ष्यन्ते। निर्धारितानां प्रमुखाणां कृत्प्रत्ययानां तथा तद्धितप्रत्ययानामेव सोदाहरणं समीक्षणमेवास्यालेखस्य सीमा विद्यते।
५. अव्ययपदानां परिचयः
व्येति नश्यति इति व्ययः, न व्येति इति अव्ययः इति विग्रहेऽव्ययपदं निष्पन्नं भवति। यत्पदं नाशं, विकृतिं, परिवर्तनं वा न प्राप्नोति तादृशं पदमव्ययपदभाक् भवति। पाणिनेः ‘स्वरादिनिपातमव्ययम्’ (पा.सू.१/१/३७) सूत्रानुसारेण स्वरादयः क्रियाविशेषणपदानि तथा चादयो निपाताश्चाव्ययसंज्ञकानि भवन्ति। स्वः, प्रातः, पुनः, उच्चैः, नीचैः, शनैः, ऋते, युगपत्, पृथक्, शीघ्रम्, इषत्, तूष्णीम्, विना, नाना, इत्यादीनि क्रियाविशेषणपदानि तथा च, वा, अह, एव, नु, तु, ननु, ह, हि, चेत् आ, उ, ए, इत्यादीनि निपातपदानि चाव्ययानि सन्ति। अत्र सूत्रे स्वरादीनि पदानि तथा चादयः निपाताश्च पृथक् पठितानि दृश्यन्ते। ते उभे प्रकारके पदेऽव्ययपदसज्ञां लभेते। अव्ययाः लिङ्गप्रयुक्तं कारकप्रयुक्तं, क्रियाप्रयुक्तं संख्याप्रयुक्तं विकारं (कार्यम्) न प्राप्नुवन्ति। त्रिषु लिङ्गेषु सर्वासु विभक्तिषु, सर्वेषु वचनेषु च यस्य स्वरूपरिवर्तनं न भवति तदव्ययं वर्तते। तथा चोक्तम् -प्रसिद्धमव्ययलक्षणं सिद्धान्तकौमुद्यां प्रचीनतरम् (आथर्वणप्रातिशाख्यस्थम्) यथा –
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्।[3]
स्त्रीपुंनपुंसकलिङ्गेषु प्रथमाद्वितीयादिषु सर्वासु विभक्तिषु एकवचनद्विवचनबहुवचनेषु येषां सदृशं रूपं भवति तदव्ययं निगद्यते। लिङ्ग-विभक्ति-वचनविपरिणामेऽपि यस्य स्वरूपपरिवर्तनं न भवति तदव्ययमस्ति।
६. अव्ययपदानामैतिहासिको विकासक्रमः
संस्कृतभाषाया आदिममुद्गमस्थानम् भारतवर्षीयः लोकव्यवहार एव विद्यते। वाक् तथा वाणी नामाभिधेया इयमेव वाक् वेदरचनानन्तरं संस्कारं प्राप्य संस्कृतभाषा नाम्ना व्यवहृता प्राप्यते। ऋग्वेद एव संस्कृतभाषाया आदिममुद्गमस्थानं वर्तते। तत इदानीन्तनम् लोकव्यवहारेषु प्रयुज्यमानेयं वाणी वेदत एव शास्त्रत्वं प्राप्य प्रसृता विलोक्यते। वैदिकैः मनीषीभिः वर्णा:, अक्षराणि, धातवः, प्रातिपदिकानि, पदम्, उपसर्गाः, निपाताः, नामानि, आख्यातानि, वणर्विकारः, वणर्नाशः, स्थानानुप्रदानादीनि भाषातत्त्वानि सङ्केतितानि विश्लिष्टानि च दृश्यन्ते। लोकव्यवहारस्य वस्तुनिष्ठत्वात् सरलत्वाच्च प्रथमतो नाम आख्यातरूपेण द्विविधः पदविभागो विहितोऽवलोक्यते। पाणिनेः ‘सुप्तिङन्तं पदम्’ (पा.सू.१/४/१४) इति सूत्रेणानुशासितं द्विविधं पदविभागञ्चैनं प्रमाणयति। तदनन्तरमेव त्रिविध-चतुर्विधपञ्चविधपदविभागो विकसितो दरीदृश्यते।
वैदिककाले ऋग्वेदे चत्वारि वाक्परिमिताः पदानि इत्युक्तम् प्राप्यते।[4] तत्र ऋग्वेदस्य भाष्यकारो सायणः तथा वैयाकरणः महाभाष्यकारः पतञ्जलिः नामाख्यातोपसर्गनिपाताः पदानि इत्याहुः।[5]
वैदिकैर्मनीषीभिरेव तत्र ऋग्वेदे एव नाम, आख्यातम्, उपसर्गः, निपातः इति चतुर्विधपदविभागो विश्लेषितो विलोक्यते। पदविभागे निपातस्य समावेशनात् तत इदानीं यावत् संस्कृतभाषायां तथा संस्कृतोपजीव्यभूतास्वन्यासु च भाषासु तादृशः पदराशिः निपात नाम्ना तथाव्ययनाम्ना च व्यवहृतो ज्ञायते। अधुना तु निपात पदेनाव्ययपदानामेकदेशस्य पदराशेः बोधो भवति।
७. अव्ययपदानां प्रकाराः
लिङ्गवचनविभक्तिषु ये शब्दाः परिवर्तनं (व्ययं) न सहन्ते तेऽव्ययाः सन्ति। ते विविधान्नर्थान्नभिव्यञ्जयन्ति द्योतयन्ति च। निपाताः उपसर्ग-विभक्ति-स्वर-प्रत्यय-प्रतिरूपकाः भवन्तीति हरदत्तेन पदञ्जर्यामुक्तम् प्राप्यते[6] । यद्यपि चादिगणे पठिताः निपाताः च वा ह अह भो है हे.., स्वरादिगणे पठिताः स्वर् प्रातर् पुनर् उच्चैस् इत्यादयोऽस्पष्टप्रकृतिप्रत्ययवन्तः सन्ति तथापि ते पाणिनीयव्याकरणमनुसृत्य व्युत्पादयितुं शक्यन्ते। ते व्युत्पन्ना अव्युत्पन्नाः वा सम्भवेयुः। अत्र तु तान् विहाय अव्ययपदव्युत्पादकानां केषाञ्चनानां बहुप्रचलितानां कृत्तद्धितानां प्रत्ययानामेव समीक्षणं विहितमस्ति।
अव्ययाः निपाताश्च हर्ष-दैन्य-वितर्क-विषाद-आदर-सम्भ्रम-क्रोध-विस्मय-जिज्ञासा-निन्दा-प्रलापातिरेकादिविविधमानव- मनोभावमभिव्यञ्जयन्ति। अव्ययैरेव घृणाशोकमोहदैन्यक्रोधनिन्दाहर्षादयो विविधाः सूक्ष्मतराः मानवमनोभावाः वोढुं पार्यन्ते। अतः विविध-मनोभावानामभिव्यञ्जनाय समर्थत्वादेवैतेऽनेकार्थाः विविधार्थस्य द्योतकाश्च स्वीकृताः ज्ञायन्ते। अव्ययाः स्वरूपगतभेदानुसारेण, व्युत्पादनाधारेण भावातिरेकप्रकारेण च वर्गीकृताः सन्ति। अव्ययपदानां स्वरूपतो व्युत्पादनस्याधारभूताः कृत्तद्धिताः प्रत्ययाः सन्ति।
७.१ स्वरादयः अव्ययाः
पाणिनेः स्वरादिनिपातमव्ययम् (पा.सू.१/१/३७) सूत्रस्य स्वरादिगणे स्वर् प्रातर् पुनर्, उच्चैः, नीचैः, शनैः, ऋते, युगपत्, पृथक्, शीघ्रम्, मा, नक्तम्, ईषत्, तूष्णीम्, विना, नाना, ह्यः श्वः, दिवा, नक्तम्, नमः, स्वाहा, स्वधा, अन्तरा, अन्तरेण, मिथ्या, स्वयम्, सहसा इत्यादयोऽव्ययाः पठिताः सन्ति। ये स्वरादिगणे पठिताः सन्ति ते सर्वे स्वरादयोऽव्ययाः निगद्यन्ते।
७.२ निपाताः (चादयः) अव्ययाः
च, वा, अह, एव, नु तु, ननु, ह, हि, चेत् आ, उ, ए, किल, खलु, न, नो, इत्यादि विविधमनोभावाभिव्यञ्जकः विशिष्टः पदराशिः निपातपदेनाभिधीयते। एते एव निपाता अव्ययपदेन च व्यवह्रियन्ते। निपतन्ति विशेषेष्वर्थेष्विति निपाताः। अव्ययादपि प्राचीनतरः पदविभागेषु समुपलब्धः निपातनामकः विशिष्टपदराशिरधुना च निपातनाम्ना तथाव्ययनाम्ना च प्रसिद्धः विद्यते।
तत्र पाणिनेः चादयोऽसत्त्वे (पा.सू.१/४/५७) सूत्रम् अद्रव्यार्थाः चादयः निपाताः सन्तीति परिचाययति। द्रव्यं लिङ्गसंख्याकारकान्वितं भवति। ये शब्दाः लिङ्गसंख्याकारकचिह्नैर्विरहिताः स्युः ते एव निपातपदनाम्ना लोके व्यवहृताः ज्ञायन्ते। एते उपसर्गनिपाताव्ययादयोऽसत्त्ववचनारनेकार्थस्य द्योतकाः भावप्रधानाः भवन्ति।
७.३ स्वरप्रतिरूपका अव्ययाः
अ आ इ ई उ ऊ ऋ ए ओ ऐ औ एते स्वरवर्णा: विशेषावस्थायां मनसोऽतिद्रेकान् भावान्नभिव्यञ्जयन्ति। स्वरवणर्रूपाः एते निपाताः (अव्ययाः) स्वरप्रतिरूपकाः निगद्यन्ते। एतेऽसत्त्वभूतान् भावान् प्रकाशयन्ति। एतादृशा अव्ययाः संस्कृतवाङ्मये बहवः लभ्यन्ते। आ एवं नु मन्यसे, इ इन्द्रः, उ उमेशः, इ ईशः किम् उ उक्तम् इत्यादीन्युदाहरणानि सन्ति।
७.४ अव्ययपदव्युत्पादकाः प्रमुखाः कृत्प्रत्ययाः
कृत्तद्धितैः प्रत्ययैः समासेन च निर्मितान्यव्ययपदानि तु स्फुटतराणि व्युत्पन्नानि सन्ति। तत्र ऊर्यादि-च्विडाचश्च (पा.सू. १/४/६१) सूत्रस्य ऊर्यादिगणे पठिताः ऊरी ऊररी शफला शंसफला मसमसा उष्णम् शीतम् श्रौषट् वौषट् स्वाहा स्वधा इत्यादयस्तथा अभूततद्भावार्थबोधकाः च्विप्रत्ययान्ताः कृष्णीभवति, शुक्लीभवतीत्यादयः, पटत् पटत् चट्चट् इत्यादयोऽनुकरणार्थकाश्चाव्ययाः विद्यन्ते। अत्राव्ययपदव्युत्पादकाः प्रमुखाः कृत्प्रत्ययाः विमृश्यन्ते।
धातोः विहितः तिङ्भिन्नः प्रत्ययः कृत्प्रययः कथ्यते[7] । धातोः कृत्प्रत्ययस्य संयोजनेन नाम-सर्वनाम-विशेषणाव्ययपदानि व्युत्पद्यन्ते। अव्ययपदव्युत्पादकानां प्रमुखाणां कृत्प्रययानामध्ययनं समीक्षणञ्चात्र क्रमेण विधीयते।
(क) तुमुन्
तुमुन्-ण्वुलौ क्रियायां क्रियार्थायाम् (पा.सू.३/३/१०) समानकर्तृकेषु तुमुन् (पा.सू.३/३/१५८) कालसमयबेलासु तुमुन् (पा.सू.३/३/१६७) इति सूत्रैः धातोः तुमुन् प्रत्ययः विधीयते। क्रियार्थायां क्रियायामर्थे एकक्रिया करणान्यक्रियां करोति चेत् तदर्थे धातोः तुमुन् प्रत्ययः (तुम्) भवति। समानकर्तृकेषु क्रियार्थायाः क्रियायाः अभावेऽपि इच्छार्थकक्रियायाः उपपदे च धातोः तुमुन् प्रत्ययो विधीयते। कालसमयबेलाबोधनाय च धातोः तुमुन् प्रत्ययो भवति। मान्तत्वात् कृन्मेजन्तः (पा.सू. १/१/३९) सूत्रेण तदन्तानामव्ययसंज्ञा विधीयते। यथा –
अव्ययपदम् प्रकृतिप्रत्ययौ वाक्यम्
पठितुम् पठ्+तुमुन् छात्राः पठितुमिच्छन्ति।
द्रष्टुम् दृश्+तुमुन् पर्यटकाः हिमालयं द्रष्टुमागच्छन्ति।
आनेतुम् आ+नी+तुमुन् वधू जलमानेतुं जलाशयं गच्छति।
भोक्तुम् भुज्+तुमुन् बालकाः भोक्तुमिच्छन्ति।
एवमेव प्रकारेण तुमुन्नन्तानि लिखितुम् अध्येतुम् ज्ञातुम् कर्तुम् लब्धुम् खादितुम् भवितुम् रोद्धुम्, क्रेतुम् पूजयितुम्, चोरयितुम् चिन्तयितुम् एतादृशान्यव्ययपदानि भवन्ति।
ख) णमुल् प्रत्ययः
णमुल् प्रत्ययः क्त्वा प्रत्ययस्यार्थे (समानकर्तृकायां पूर्वकालिकायां क्रियायामर्थे) आभीक्ष्णे (क्रियायाः बाराम्बारता वातिशयार्थबोधनाय) च धातोः भवति। णमुल् प्रत्ययस्यानुबन्धलोपेन अम् इति शिष्यते। मान्तत्वात्तदन्तं पदमव्ययसंज्ञां लभते। वीप्सातिरेके गम्यमाने शब्दस्य द्वित्वं च भवति। यथा –
पा+णमुल्=पायम् पायम् (पीत्वा पीत्वा इत्यर्थः) ध्यै+णमुल्=ध्यायम् ध्यायम् (ध्यात्वा ध्यात्वा इत्यर्थः) स्मृ+णमुल्=स्मारम् स्मारम् (स्मृत्वा स्मृत्वा इत्यर्थः) लभ्+णमुल्=लाभम् लाभम् (लब्ध्वा लब्ध्वा इत्यर्थः)
श्रु+णमुल्=श्रावम् श्रावम् (श्रुत्वा श्रुत्वा इत्यर्थः) गम्+णमुल्= गामम् गामम् (गत्वा गत्वा इत्यर्थः) भक्तः स्मारं स्मारं प्रणमति हरिम्। जलं पायं पायं चलति पथिकः।
(ग) असेन् (एजन्तः) प्रत्ययः
कृत्प्रत्ययैः व्युत्पन्नाः एजन्ताः (ए ओ ऐ औ अन्ताः) शब्दाश्चाव्ययपदभाजः भवन्ति। ते यथा –
जीव्+असेन् (असे) = जीवसे (जीवन्, जीवमाणः इत्यर्थः)।
घ) शध्यै प्रत्ययः
पा+शध्यै (पिब)= पिबध्यै (पिबन् इत्यर्थः) एजन्तत्वादनयोः कृन्मेजन्तः (पा.सू.१/१/३९) इति सूत्रेणाव्ययसंज्ञा भवति। एतौ च वैदिकसंस्कृतभाषायामेवोपयुक्तौ लभ्येते।
ङ) क्त्वा तथा ल्यप् प्रत्ययः
क्त्वातोसुन्कसुनः (१/१/४०) सूत्रेण क्त्वा (ल्यप् च) तोसुन् कसुन् प्रत्ययान्तानामव्ययसंज्ञा विधीयते। समानकर्तृकयोः पूर्वकाले (पा.सू.३/४/२१) सूत्रेण पूर्वकालिकक्रियाबोधनाय धातोः क्त्वा प्रत्ययः विधीयते। यदि धातुः उपसर्गेण सह समस्तः विद्यते चेत् क्त्वा प्रत्ययस्य स्थाने ल्यबादेशः (ल्यप् प्रत्ययः) भवति[8] । धातुः ह्रस्वान्तः विद्यते चेत् तत्र तुगागमश्च भवति। यथा-
अ) क्त्वा प्रत्ययः
पठ्+क्त्वा=पठित्वा। लिख्+क्त्वा=लिखित्वा। हस्+क्त्वा=हसित्वा।
शी+क्त्वा=शयित्वा। गम्+क्त्वा=गत्वा। भू+क्त्वा=भूत्वा।
कृ+क्त्वा=कृत्वा। भुज्+क्त्वा=भुक्त्वा। त्यज्+क्त्वा=त्यक्त्वा।
आ) ल्यप् प्रत्ययः (क्त्वा)
वि+लिख्+क्त्वा > ल्यप् =विलिख्य। वि+हस्+ क्त्वा > ल्यप् = विहस्य।
अनु+भू+ क्त्वा > ल्यप् = अनुभूय। अनु+कृ+क्त्वा > ल्यप् = अनुकृत्य (तुक्)।
उप+भुज्+ क्त्वा > ल्यप् =उपभुज्य। परि+त्यज्+ क्त्वा > ल्यप् = परित्यज्य।
आ+दा+ क्त्वा > ल्यप् = आदाय। आ+घ्रा+ क्त्वा > ल्यप् = आघ्राय।
च) कसुन् प्रत्ययः
वि+सृप्+कसुन्=विसृपः। वि+क्षिप्+कसुन्=विक्षिपः।
कसुन् प्रत्ययान्ताः शब्दाः वैदिकवाङ्मये एव प्रयुक्ता उपलभ्यन्ते।
छ) च्वि प्रत्ययः
कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (पा.सू. ५/४/५०) इति सूत्रेणाभूततद्भावेऽर्थे गम्यमाने सति कृ भू अस् धातूनां योगे सुबन्तात् च्वि प्रत्ययो विधीयते। च्विप्रत्ययान्ताश्चाव्ययाः भवन्ति। यथा –
कृष्ण+ च्वि (भवति)= कृष्णीभवति (अकृष्णः कृष्णः भवति अथवा अकृष्णः कृष्णः सम्पद्यते इति विग्रहः)।
शुक्ल+ च्वि (भवति)= शुक्लीभवति (अशुक्लः शुक्लः भवति अथवा सम्पद्यते शुक्लीभवति )।
एतादृशैः प्रमुखैः प्रसिद्धैः कृत्प्रत्ययैः व्युत्पन्नानि कृदन्तपदान्यव्ययसंज्ञकानि भवन्ति।
७.५ अव्ययपदव्युत्पादकाः मुख्याः तद्धितप्रत्ययाः
यस्मात् तद्धितप्रत्ययनिष्पन्नात् शब्दात् सर्वा विभक्तयः नोत्पद्यन्ते ते चाव्ययाः भवन्ति। क्रियाविशेषणरूपेण वाक्ये प्रयुज्यमाणाः एतेऽव्ययपदभाजः भवन्ति। तद्धितश्चासर्वविभक्तिः (पा.सू.१/१/३८) इति सूत्रेणासर्वविभक्तिभाजः तद्धितप्रत्ययान्ताः शब्दा अव्ययाः व्यपदिश्यन्ते। अव्ययपदव्युत्पादकाः तद्धितप्रत्ययाः परिगणिताः सन्ति। ते क्रमेण व्यपदिश्यन्ते।
क) अस्ताति असि प्रत्ययाः
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (पा.सू.५/३/२७) इति सूत्रेण सप्तमी पञ्चमी तथा प्रथमा-विभक्त्यन्तेभ्यः दिशि रुढेभ्यः दिशा-स्थान-कालवाचकेभ्यः स्वार्थे अस्तातिप्रत्ययो विधीयते। अस्ताति असि प्रत्ययान्ताः अव्ययाः भवन्ति।
अ) अस्तातिः
पुर् + अस्ताति = पुरस्तात्। अग्रे इत्यर्थः । अधस् + अस्ताति = अधस्तात्। पर+अस्ताति=परस्तात्। उपरि+ अस्ताति = उपरिष्टात्। अवर + अस्ताति = अवरस्तात्।
आ) असि
पुर्+असि=पुरः (अग्रे इत्यर्थः ) । अधस्+असि=अधः। पर+असि=परः। अवर+असि=अवः (अवरस्तादित्यर्थः)।
ख) आति प्रत्ययः
उत्तराधरदक्षिणादातिः (पा.सू.५/३/३४) सूत्रेण उत्तर अधर दक्षिण शब्दात् आति प्रत्ययो विधीयते। आतिप्रत्ययान्ताः शब्दा अव्ययाः भवन्ति। यथा – उत्तरा+आति = उत्तरात्। दक्षिणा+आति = दक्षिणात्। अधर+आति = अधरात्। अपरशब्दात् आति प्रत्यये शब्दस्य पश्चादेशेन पश्चात् इति रूपं साध्यते।
ग) अतसुच् प्रत्ययः
दक्षिणोत्तराभ्यामतसुच् (पा.सू.५/३/२८) सूत्रेण दक्षिणा उत्तरा शब्दाभ्यां अतसुच् प्रत्ययो विधीयते। पर अवर शब्दाभ्यां च विकल्पेन अतसुच् प्रत्ययो भवति। अतसुच् प्रत्ययान्ता अव्ययाः भवन्ति।
दक्षिणा+अतसुच्=दक्षिणतः (दक्षिणात्) । उत्तरा+अतसुच्=उत्तरतः। पर+अतसुच्=परतः (परस्मात्)। अवर+अतसुच्=अवरतः।
घ) एनप् प्रत्ययः
एनबन्यतरस्यामदूरेऽपञ्चम्याः (पा.सू.५/३/३५) सूत्रेण प्रथमा सप्तम्यर्थे उत्तर अधर दक्षिण शब्देभ्यः तथा दिग्वाचकेभ्यश्च विकल्पेन एनप् प्रत्ययो विधीयते। एनप् प्रत्ययान्ताः शब्दाः अव्ययाः भवन्ति। यथा – उत्तर+एनप्=उत्तरेण। दक्षिण + एनप् = दक्षिणेन। अधर+एनप् = अधरेण। पूर्व+एनप् =पूर्वेण। अन्तर+एनप्=अन्तरेण। अपर+एनप्=अपरेण। एते स्वरूपतो तृतीयान्तेन तुल्याः अव्ययाः सन्ति।
ङ) तसिल् प्रत्ययः
पञ्चम्यास्तसिल् (५।३।७) सूत्रेण पञ्चम्यन्तात् तसिल् प्रत्ययाे विधीयते। ‘पर्यभिभ्यां च’ इति वार्तिकेन च परि अभि उपसर्गाभ्यां च तसिल् प्रत्ययो विधीयते । तसिल् प्रत्ययान्ताः शब्दा अव्ययाः भवन्ति। यथा-
तत्+तसिल्=ततः (तस्मादित्यर्थः) । यत्+तसिल्=यतः (यस्मादित्यर्थः) ।
किम्+तसिल्=कुतः (किम्=कु)। इदम्+तसिल्=अतः (अस्मादित्यर्थः)
विद्यालय+तसिल्=विद्यालयतः(विद्यालयात्) ।
ग्राम+तसिल्=ग्रामतः (ग्रामात्) सर्व+तसिल्=सर्वतः(सर्वस्मादित्यर्थः) ।
परि+तसिल् =परितः (परिरूपसर्गः, चतुर्भ्यः दिग्भ्यः, इति) ।
अभि+तसिल्=अभितः (अग्रभागात्) । युष्मत्+तसिल् = त्वत्तः (एकव.) युष्मत्तः(बहु.) (त्वत् इत्यर्थः)
अस्मत्+तसिल्= मत्तः (एकव.) अस्मत्तः (बहु.) (मत् इत्यर्थः) ।
उभय+तसिल् =उभयतः (अग्रतः पश्चाच्च इत्यर्थः)
च) त्रल् प्रत्ययः
सप्तम्यास्त्रल् (पा.सू.५/३/१०) सप्तमीविभक्त्यर्थे सर्वनाम्नः त्रल् प्रत्ययो विधीयते। तद्यथा-
तद् + त्रल् = तत्र (तस्मिन्) । यद् + त्रल् = यत्र (यस्मिन्) । किम् + त्रल् = कुत्र (कस्मिन्) ।
इदम् + त्रल् = अत्र (अस्मिन्) । सर्व + त्रल् = सर्वत्र (सर्वस्मिन्) । एक + त्रल् = एकत्र (एकस्मिन्)।
उभय + त्रल् = उभयत्र (उभयस्मिन्) अन्य + त्रल् = अन्यत्र (अन्यस्मिन्)।
छ) ह प्रत्ययः
इदमो हः (पा.सू. ५/३/११) सूत्रेण इदम् शब्दात् सप्तम्यर्थे ह प्रत्ययो विधीयते। ततः इदमः इशादेशो भवति। यथा- इदम्+ह = इह (अस्मिन् स्थाने)।
ज) अत् प्रत्ययः
सप्तम्यर्थे किम् शब्दात् अत् प्रत्ययो भवति (किमोऽत्, पा.सू.५/३/१२)। किमः कु आदेशेन यणि च कृते क्व (कुत्र इत्यर्थः) इति सिध्यति। सः चाव्ययः भवति।
झ) थमु प्रत्ययः
इदमस्थमु (पा.सू.५/३/२४) इति सूत्रेण इदम् किम् शब्दाभ्यम् प्रकारार्थे थमु प्रत्ययो भवति। उदाहरणं यथा –
इदम् + थमु = इत्थम् (अनेन प्रकारेण इत्यर्थः) किम्+ थमु = कथम् (केन प्रकारेण इत्यर्थः)
ञ) थाल् प्रत्ययः
प्रकारवचने थाल् (पा.सू.५/३/२३) इति सूत्रेण प्रकारार्थे थाल् प्रत्ययो विधीयते। उदाहरणं यथा-
तद्+थाल् = तथा (तेन प्रकारेण इत्यर्थः) । यद्+थाल् = यथा (येन प्रकारेणेत्यर्थः) ।
सर्व+थाल् =सर्वथा (सर्वेण प्रकारेण इत्यर्थः) । उभय+थाल्=उभयथा (उभाभ्यां प्रकाराभ्यामित्यर्थः) ।
ट) दा प्रत्ययः
सर्वैकान्यकिंयत्तदः काले दा (पा.सू.५/३/१५) इति सूत्रेण काले अर्थे सर्व एक अन्य किम् यत् तत् शब्देभ्यः दा प्रत्ययो विधीयते। दाप्रत्ययान्ताः शब्दाः अव्ययाः भवन्ति। तद्यथा –
सर्व+दा= सर्वदा/सदा (सर्वस्मिन् काले) । एक+दा= एकदा (एकस्मिन् काले) । अन्य+दा=अन्यदा (अन्यस्मिन् काले)
किम्+दा =कदा (कस्मिन् काले) । यत्+दा= यदा (यस्मिन् काले) । तत्+दा=तदा (तस्मिन् काले)।
ठ) दानीम् प्रत्ययः
दानीम् च (पा.सू.५/३/१८) इति सूत्रेण कालेऽर्थे सर्व-एक-अन्य-किम्-यत्-तत् शब्देभ्यः दानीम् प्रत्ययो विधीयते। दानीम् प्रत्ययान्ताः शब्दाः अव्ययाः भवन्ति। तद्यथा –
सर्व+दानीम् = सर्वदानीम् (सर्वस्मिन् काले) अन्य + दानीम् = अन्यदानीम् (अन्यस्मिन् काले)
किम् + दानीम् = कदानीम् (कस्मिन् काले) यत् + दानीम् = यदानीम् (यस्मिन् काले)
तत् + दानीम् = तदानीम् (तस्मिन् काले इत्यर्थः)।
ड) धा प्रत्ययः
संख्याया विधार्थे धा (५/३/४२) इति सूत्रेण संख्यावाचकेभ्यः शब्देभ्यः प्रकारार्थबोधनाय धा प्रत्ययो विधीयते। धा प्रत्ययान्ताः शब्दाः अव्ययाः भवन्ति। यथा –
कति + धा = कतिधा (कतिभिः प्रकारैरित्यर्थः)। एक + धा = एकधा (एकेन प्रकारेणेत्यर्थः)।
द्वि + धा = द्विधा (द्वाभ्याम् प्रकाराभ्यामित्यर्थः)। त्रि + धा = त्रिधा (त्रिभिः प्रकारैरित्यर्थः)।
चतुर् + धा = चतुर्धा (चतुर्भिः प्रकारैरित्यर्थः)। पञ्चधा, दशधा, विंशतिधा, शतधा, सहस्रधा, अनेकधा।
ढ) धमुञ् तथा एधा प्रत्ययश्च
अत्र द्वित्रिभ्यां धमुञ् तथा एधा प्रत्ययौ च भवतः। तदन्तौ चाव्ययौ भवतः।
द्वि+धमुञ्= द्वैधम् (द्वाभ्याम् प्रकाराभ्यामित्यर्थः)। त्रि + धमुञ् = त्रैधम् (त्रिभिः प्रकारैरित्यर्थः)।
द्वि+एधा= द्वेधा (द्वाभ्याम् प्रकाराभ्यामित्यर्थः)। त्रि + एधा = त्रेधा (त्रिभिः प्रकारैरित्यर्थः)।
ञ) र्हिल् प्रत्ययः
अनद्यतने र्हिलन्यतरस्याम् (पा.सू. ५/३/२१) इति सूत्रेणानद्यतने भविष्यति अर्थे किम् यत् तत् एतत् शब्देभ्यः र्हिल् प्रत्ययो भवति। र्हिल् प्रत्ययान्ताः शब्दा अव्ययाः भवन्ति। उदाहरणं यथा –
किम् + र्हिल् = कर्हि (कस्मिन् काले) । यत् + र्हिल् = यर्हि (यस्मिन् काले) ।
तत् + र्हिल् = तर्हि (तस्मिन् काले)। एतत्+ र्हिल् = एतर्हि (तस्मिन् काले)।
त) वति प्रत्ययः
तेन तुल्यं क्रिया चेद्वतिः (पा.सू.५/१/११५) इति सूत्रेण तुल्यक्रियाबोधनाय तथा तत्र तस्येव (पा.सू.५/१/११६) सूत्रेण च तुल्यक्रियाबोधनाय शब्दात् वतिप्रत्ययो विधीयते। वति प्रत्ययान्ताः शब्दाः अव्ययाः भवन्ति। यथा –
ब्राह्मण+वति=ब्राह्मणवत् (ब्राह्मणेन तुल्यम्)। क्षत्रिय+वति=क्षत्रियवत् (क्षत्रियेण तुल्यम्)। आत्म+वति=आत्मवत्।
पुत्र+वति = पुत्रवत् (पुत्रेण तुल्यम्) । मित्र+वति=मित्रवत् (मित्रेण तुल्यम्) । मातृ+वति=मातृवत् (मात्रा तुल्यम्)।
मथुरा+वति = मथुरावत् (मथुरायाम् इव) । नेपाल+वति = नेपालवत् (नेपाल इव) ।
थ) सुच् तथा कृत्वसुच् प्रत्ययौ
द्वित्रिचतुर्भ्यः सुच् (५/४/१८), संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् (५/४/१७) संख्यावाचकैः शब्दैः यदा क्रियायाः अतिशता अथवा बारम्बारता बोध्यते तदा संख्याशब्दात् क्रियाया आवृत्तिबोधनाय कृत्वसुच् तथा सुच् प्रत्ययौ भवतः। द्वि त्रि चतुर् शब्देभ्यस्तु सुच् प्रत्ययस्तथा कृत्वसुच् प्रत्ययश्च (उभौ) भवतः। अन्येभ्यः संख्यावाचिभ्यस्तु कृत्वसुजेव विधीयते न तु सुच्। सुजन्ताः कृत्वसुजन्ताश्च शब्दा अव्ययाः भवन्ति। उदाहरणं यथा –
सुच् कृत्वसुच्
द्वि + सुच् = द्विः (द्विवारमित्यर्थः) । द्वि + कृत्वसुच् = द्विकृत्वः (द्विवारमित्यर्थः) ।
त्रि + सुच् = त्रिः (त्रिवारमित्यर्थः) । त्रि+ कृत्वसुच् = त्रिकृत्वः (त्रिवारमित्यर्थः) ।
चतुर् + सुच् = चतुः (चतुर्वारमित्यर्थः) । चतुर् + कृत्वसुच् = चतुष्कृत्वः (चतुर्वारमित्यर्थः)।
इतोऽन्येभ्यस्तु कृत्वसुजेव भवति।
पञ्चन्+कृत्वसुच् = पञ्चकृत्वः (पञ्चवारमित्यर्थः) । षष्+कृत्वसुच् =षट्कृत्वः (षड्वारमित्यर्थः) ।
सप्त+कृत्वसुच् = सप्तकृत्वः। दशकृत्वः विंशतिकृत्वः त्रिंशत्कृत्वः पञ्चाशत्कृत्वः शतकृत्वः इत्यादयः भवन्ति। तथा चान्ये डाच् (पटत्पटत्, चट्चट्) अम् (पचतितराम्) तथा आमु (पचतितराम्, विजयतेतराम्) प्रत्ययाश्चाव्ययपदं साधयन्ति।
७.६ अव्ययीभावसमासेन समस्ता अव्ययाः
अव्वयीभावसमासोऽव्ययपदव्युत्पादको वर्तते। अव्ययीभावसमासेऽव्ययस्याव्ययेन तथा सुबन्तपदेन च सह विभक्ति-समीप-समृद्धि-व्यृद्धि-अर्थाभावादिष्वर्थेषु समासो भवति। समासानन्तरमव्ययीभावसमासेन समस्ताः शब्दाश्चाव्यया भवन्ति । अव्ययीभावसमासेऽव्ययपदार्थस्य प्रधानता भवति। अत्र प्रथमः शब्दः प्रायेणाव्ययः भवति। ते यथा – अधिहरि यथाशक्ति उपकृष्णम् अनुगङ्गम् अतिहिमम् निर्मक्षिकम् सुमद्रम् अनुरूपम् यावच्छ्लोकम्, उपगिरि उपशरदमित्यादीन्युदाहरणानि सन्ति।
८. निष्कर्षः
अव्ययाः लिङ्गातिरेकं संख्यातिरेकं कारकातिरेकं च न सहन्ते, तस्मात्कारणात् ते सदैवैकरूपात्मकाः भवन्ति। वैदिककालत एव भाषातत्त्वानां धातु-प्रातिपदिक-प्रत्ययादीनां पदविभागस्य च विश्लेषणमारब्धं विलोक्यते। तत्र नाम आख्यातरूपः द्विविधः तथा नामाख्यातोपसर्गनिपातरूपः चतुर्विधपदविभागस्योल्लेखनं दृश्यते। यद्यपि तत्राव्ययपदस्योल्लेखनं नोपलभ्यते तथापि निपातपदविवेचनेन तदेव समेषामव्ययपदानां भावं ज्ञापयतीति ज्ञायते। अधुना तु संस्कृतभाषायां तथा संस्कृतोपजीव्यभूतास्वन्यासु भाषासु च निपातपदेनाव्ययपदराशिसमुदायस्यैकदेशस्य बोधो जायते। मानवमनोभावस्य हर्षातिरेके दैन्यातिरेके वितर्कातिरेके विषादातिरेके आदरातिरेके सम्भ्रमातिरेके क्रोधातिरेके विस्मयातिरेके जिज्ञासातिरेके निन्दातिरेके प्रलापातिरेके चानेके चाव्ययाः निपाताश्च व्यवह्रियन्ते। अव्ययैरेव शोकमोहदैन्यक्रोधनिन्दाहर्षादयो विविधमानवमनोभावाः वोढुं सम्भाव्यन्ते। पाणिनीयव्याकरणेऽव्ययपदव्युत्पादकाः सन्त्यनेके कृत्प्रत्ययाः तद्धितप्रत्ययाश्च। चादिगणपठिताः स्वरादिगणे पठिताश्चाव्यया यद्यपि व्युत्पादयितुं शक्याः सन्ति। कतिपयैः व्याख्यातृभिः कुलचन्द्रगौतमादिभिः ते व्युत्पादिताश्च लभ्यन्ते। परन्त्वत्रास्फुटप्रकृतिप्रत्ययास्ते अव्युत्पन्ना भवन्तीति मत्वा तद्भिन्ना अव्ययास्तथा तेषां व्युत्पादकाः प्रमुखाः कृत्तद्धिताः प्रत्यया एव विश्लिष्टाः सन्ति। अत्र तु चादिगाणे स्वरादिगणे चापठिताश्चाव्ययाः सन्ति। अत्र तेषां व्युत्पादकाः प्रमुखाः कृत्प्रत्ययाः तद्धितप्रत्यया एव विमृष्टाः सन्ति। क्त्वा/ल्यप् तुमुन् णमुल् तोसुन् कसुन् प्रमुखाः कृप्रत्प्रत्ययाश्चाव्ययपदं व्युत्पादयन्ति। तद्धितप्रत्ययाः सुबन्तपदात् प्रातिपदिकात् वा भवन्ति। अस्ताति, आति, एनप् तसिल् त्रल् थाल् र्हिल् दा दानीम् वति ह सुच् कृत्वसुचादयोऽनेके तद्धितप्रत्यया अव्ययपदं व्युत्पादयन्ति। संस्कृतवाङ्मयेऽनेकेऽव्ययाः विविधमनोभावाभिव्यक्तये प्रयुक्ताः विलसन्ति। पाणिनीयव्याकरणेऽव्ययपदानां गणपाठेऽपठिताश्चानेकेऽव्ययास्तथा तेषां व्युत्पादकाः कृत्तद्धिताः प्रत्ययाः सुव्यस्थिताः विलसन्ति।
सन्दर्भग्रन्थसूची
त्रिपाठी, डा.हरिश्चन्द्रमणि, निपातार्थनिणर्यः, वाराणसी : सम्पूणर्ानन्द संस्कृत विश्वविद्यालयः, २०४६।
दीक्षितः, भट्टोजी, वैयाकरणसिद्धन्तकौमुदी, (व्या.गोपालदत्त पाण्डेय), वाराणसी : चौखम्बा सुरभारती प्रकाशनम् (
बालमनोरमासहिता) (प्रथमः, द्वितीयः, चतुर्थः भागाः), सन् १९९६।
….. , वैयाकरण सिद्धान्तकौमुदी, (व्या.बालकृष्ण पञ्चोली), (पञ्चमसं.) वाराणसी : चौखम्बा संस्कृत संस्थानम्। (प्रथमः, द्वितीयः, तृतीयः, चतुर्थः भागाः), २०५८।
… , प्रौढमनोरमा (शब्दरत्नसहिता), वाराणसी : चौखम्बा सुरभारती प्रकाशनम्, सन् १९९८।
नौटियालः, चक्रधरः हंसः, बृहद् अनुवाद चन्द्रिका, दिल्ली : मोतीलाल बनारसीदासः, सन् १९८८ ।
पतञ्जलिः, महाभाष्यम्, दिल्ली : चौखम्बा संस्कृत प्रतिष्ठानम्, सन् १९८७।
पाणिनिः, अष्टाध्यायी (तृ.सं.), वाराणसी : चौखम्बा सुरभारती प्रकाशनम्, सन् १९९७।
भट्टः, कौण्डः, वैयाकरणभूषणसारः, प्र.सं., (व्या. बालकृष्ण पञ्चोली) वाराणसी : आदर्श ग्रन्थमाला प्रकाशनम्, सन् २००४।
भर्तृहरिः, वाक्यपदीयम् (तृ.का.), वाराणसी : चौखम्बा विद्याभवनम्, सन् १९९०।
यास्कः, निरुक्तम्, दिल्ली : चौखम्बा संस्कृत प्रतिष्ठानम्, सन् २००२।
वामनजयादित्यौ, काशिका (भाग ३, पदमञ्जरी सहिता), दिल्ली : चौखम्बा संस्कृत प्रतिष्ठानम्, सन् १९९५।
उद्धरणहरू (Citations)
[1] उपप्राध्यापक (नव्यव्याकरण विभाग), पिण्डेश्वर विद्यापीठ, धरान, नेपाल संस्कृत विश्वविद्यालय ।
Email : tikadahaldharan@gmail.com
[2] पतञ्जलिः व्याकरणहाभाष्यम्, दिल्ली : चौखम्बा संस्कृत प्रतिष्ठानम् , इ.१९८७, पृ. ४२ ।
[3] दीक्षितः, भट्टोजी, वैयाकरणसिद्धन्तकौमुदी, (व्या.गोपालदत्त पाण्डेय), वाराणसी : चौखम्बा सुरभारती प्रकाशनम्, सन्
१९९६, पृ.५६९ । (तत्रोद्धृता भाष्योक्ता श्रुतिः)
[4] पतञ्जलिः, महाभाष्यम्, पस्पशाह्निकम्, (ऋग्वेदसंहिता, १।१६४।४५) चौखम्बा संस्कृत प्रतिष्ठानम्, दिल्ली, ईं १९८७, पृ.४२ ।
[5] महाभाष्यम्, पूर्ववत्, पृ. ४२ ।
[6] वामनजयादित्यौ, काशिका, (भाग-३) पदमञ्जरी २।३।१८ सूत्रे ।
[7] कृदतिङ् (३।१।९३)
[8] समासेऽनञ्पूर्वो क्त्वो ल्यप् (७।१।३७ )