स्वस्तिवाचन (मङ्गलकामना)

हरिः ॐ आनो भद्द्रा: क्क्रतवो यन्न्तु व्विश्वतो दब्धासोऽअपरीतासऽउद्भिद÷ । देवा नो यथा सदमृद्विधेऽ असन्नप्रायुवो रक्षितारो दिवेदिवे ।।१।। देवानाम्भद्द्रासुमतिर्ऋजूयतान्देवानाᳩरातिरभिनोनिवर्त्तताम् । देवानाᳩ सक्ख्यमुपसेदिमा व्वयन्न्देवानऽआयु: प्प्रतिरन्तु जीवसे ।।२।। तान् पूर्व्वया निविदाहूमहे व्वयम्भगम्मित्र्त्रमदितिन्दक्षमस्रिधम् । अर्य्यमणं व्वरुणᳮ सोममश्श्विना सरस्वती न: सुभगामयस्करत् ।।३।। तन्नो व्वातो मयोभुव्वातु भेषजन्तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाण: सोमसुतोमयोभुवस्तदश्श्विना श्रृणुतन्धिष्ष्ण्या युवम् ।।४।। तमीशानञ्जगतस्तस्त्थुषस्पतिन्धियञ्जिन्वमवसे हूमहेव्वयम् । पूषानो यथाव्वेदसामसद्वृधे […]