प्रस्तुते लेखे रसवदाद्यलङ्काराणां विषये विवेचनं कृतमस्ति। प्राचीनाचार्याणां रसवदाद्यलङ्कारविषयको विचारश्चात्र समाविष्टो वर्तते। रसो यत्र रसस्य भावस्य वाऽङ्गत्वेन समागच्छति, तत्र रसवन्नामालङ्कारः। रसवदाद्यलङ्काराणामुद्भावनम् अलङ्कारवादिभिः प्राचीनैराचार्यैः विहितमस्ति। ध्वनिवादिभिराचार्यैरप्यस्य विषये विशदं विश्लेषणं कृतं दृश्यते।
डा. महानन्दतिमिल्सिना[1]
timsinamahananda@gmail.com
लेखसारः
प्रस्तुते लेखे रसवदाद्यलङ्काराणां विषये विवेचनं कृतमस्ति। प्राचीनाचार्याणां रसवदाद्यलङ्कारविषयको विचारश्चात्र समाविष्टो वर्तते। रसो यत्र रसस्य भावस्य वाऽङ्गत्वेन समागच्छति, तत्र रसवन्नामालङ्कारः। रसवदाद्यलङ्काराणामुद्भावनम् अलङ्कारवादिभिः प्राचीनैराचार्यैः विहितमस्ति। ध्वनिवादिभिराचार्यैरप्यस्य विषये विशदं विश्लेषणं कृतं दृश्यते। भामहेन रसवदाद्यलङ्कारेषु सकला अपि रसा अन्तर्भाविताः। दण्डिनापि रसवदाद्यलङ्कारेषु अष्टरसानां वर्णनं विहितम्। आनन्दवर्धनानुसारेण पूर्वाचार्यैर्निरूपिता रसवदाद्यलङ्कारा रसादीनामप्रधानतायां स्थितावेव सम्भवन्ति। मम्मट-विश्वनाथ-आनन्दवर्धनादिभिर्ध्वनिवादिभिराचार्यै रसतत्त्वानि रसवदाद्यलङ्कारेभ्यः पृथक् रूपेण वर्णितानि, एभिराचार्यैः रसा अलङ्कार्यत्वेन स्वीकृताः। कुन्तकेन भामह-दण्डि-उद्भटानां परम्परा त्यक्ता, अनेन रसवदाद्यलङ्काराणामनौचित्यं प्रतिपादितम्। अलङ्कारवादिन आचार्या अलङ्कारानेव काव्यस्य प्राणतत्त्वरूपेण मन्यन्ते । ते रसभावादीन् रसवदाद्यलङ्कारेष्वन्तर्भावयन्ति। परन्तु ध्वनिवादिनो यत्र प्रधानतया रसादीनां वर्णनमस्ति तत्र ध्वनिर्भवतीति कथयन्ति। तथैव यत्र रसादीनां प्राधान्यं नास्ति तत्र ते गुणीभूतव्यङ्ग्यं मन्यन्ते। अलङ्कारवादिनां ध्वनिवादिनां च विचारे रसवदाद्यलङ्कारस्यौचित्यप्रकाशनमस्याध्ययनस्य निष्कर्षो विद्यते। निष्कर्षप्रतिपादनाय विशेषतोऽत्र द्वितीयकस्रोतसां सामग्रीणामुपयोगो विहितोऽस्ति। तदर्थं परम्परितपुस्तकालयस्था विद्युत्पुस्तकालयस्थाश्च सामग्रीरधीत्य विश्लेषणसत्यापनानि कृतानि विद्यन्ते। शोधलेखोऽयं मूलतो लेखकमितिपद्धत्यां आधारितो विद्यते। तथापि कतिपयेषु स्थानेषु संस्कृतस्य परम्परितपद्धतिरपि समाश्रिताऽस्ति।
कूटशब्दाः – अलङ्कारः, गुणीभूतव्यङ्ग्यः, रसवदलङ्कारः, रसवदाद्यलङ्कारः।
विषयपरिचयः
रसो यत्र रसस्य भावस्य वाऽङ्गत्वेन दृश्यते, तत्र रसवन्नामालङ्कारः। रसस्य भावस्य वा प्राधान्ये तु ध्वनित्वमेव। साहित्यशास्त्रे रसालङ्कारादीनां काव्यतत्त्वानां विषये प्राचीनाचार्यैरेव विश्लेषणं प्रारब्धम्। प्रथमशताब्द्याः आचार्यभरतमुनि रससूत्रस्य प्रतिपादनं विधाय रसतत्त्वमाश्रित्य काव्यविश्लेषणस्य परम्परामारब्धवान्, अलङ्कारस्य बीजारोपणमपि तेनैव कृतं दृश्यते। रसवदाद्यलङ्कारः रसालङ्कारयोः सम्बद्धोऽस्ति। आचार्यैः श्रृङ्गार-हास्य-करुण- रौद्र-वीर-भयानक-वीभत्सोऽद्भुत-शान्तादयो रसाः स्वीकृताः। एवञ्च शब्दार्थसम्बद्धेष्वलङ्कारेषु अनुप्रास-यमक-उपमोत्प्रेक्षा-रूपकादयः शताधिका अलङ्काराः काव्यशास्त्रमर्मज्ञैर्विद्वद्भिः सलक्षणं सोदाहरणं विवेचिता दृश्यन्ते। रसः काव्यस्यान्तरिकपक्षेणात्मपक्षेण वा सम्बद्धोऽस्ति चेदलङ्कारस्तु काव्यस्य बाह्यपक्षेण सौन्दर्यपक्षेण वा सम्बद्धोऽस्ति। रसवदादीनामलङ्काराणां विषये षष्ठशतकोद्भवाद् भामहादेव चर्चा प्रारब्धा इति ज्ञायते।
रसवदाद्यलङ्कारविषयस्याध्ययनं जिज्ञासूनां कृते महदावश्यकमिति समस्याऽस्ति। अस्याः समस्यायाः परिपूरणार्थमध्ययनेऽस्मिन् साहित्यशास्त्रे रसवदाद्यलङ्काराणां विकासः महत्ता च कीदृशीति शोधप्रश्नः कल्पितो वर्तते। एषामलङ्काराणां विकासक्रमस्य स्थितेः प्रकाशनमेतेषां काव्ये महत्तायाः प्रदर्शनञ्चाध्ययनस्योद्देश्यं विद्यते। एतेषामलङ्काराणां विषये प्राचीनानां काव्यशास्त्रिणां कतिपयेषु ग्रन्थेषु विवेचनं प्राप्यते। कतिपयासु पत्रिकास्वपि रसवदाद्यलङ्कारविषये सङ्क्षिप्ता चर्चा संलक्ष्यते। आनन्दवर्धनः (ई.१९८२) ध्वन्यालोकग्रन्थे रसवदाद्यलङ्कारविषये प्रस्तौति – अन्यत्र वाक्यार्थप्रधाने रसादयोऽङ्गत्वेन समागताश्चेत् तत्र रसादिरलङ्कारा भवन्ति, श्लोके उक्तं यत् –
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः।। (१/५)
दण्डी (ई.१९९५) काव्यादर्शग्रन्थे ‘प्रेयः प्रियतराख्यानं रसवद् रसपेशलम्। उर्जस्वि रुढाहङ्कारं व्यक्तोत्कर्षं च तत् त्रयम्’ इत्युक्त्वा प्रेयोरसवदूर्जस्वीत्यलङ्कारत्रयं लक्षयति। उद्भटः (ई.२०१०) काव्यालङ्कारसारसङ्ग्रह इति काव्यशास्त्रीयस्य ग्रन्थस्य चतुर्थवर्गे प्रेय- रसवत्-उर्जस्विन्-पर्यायोक्त-समाहितालङ्काराणां विवेचनं विदधाति। भामह (ई.२०१०) काव्यालङ्कारग्रन्थस्य तृतीये परिच्छेदे ‘प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम्’ इति प्रस्तूय प्रेयः, रसवत्, ऊर्जस्वि, पर्यायोक्तम्, समाहितञ्चेत्यलङ्काराणां चर्चा विहता। अनेनैतेषामुदाहरणान्यपि प्रस्तुतानि। कु. संजू (ई.२०१८) रसवदलङ्कार और गुणीभूतव्यङ्ग्य इति शीर्षकस्यानुसन्धानात्मके लेखे प्रस्तौति यत् – अन्यत्र वाक्यार्थे प्रधाने यत्र रसादयोऽङ्गत्वेन समागता दृश्यन्ते तस्मिन् काव्ये रसवदाद्यलङ्कारो भवतीति ध्वनिकारस्य मतमनया उद्धृतम्। सुचित्रा भारती (ई.२०२५) जाह्नवी संस्कृत जर्नल इति पत्रिकाया रसवद् अलङ्कार इति शीर्षकान्विते लेखे समुल्लिखति यत्- रसवदाद्यलङ्काराणामुद्भावनाऽलङ्कारवादिभिराचार्यैः कृताऽस्ति। काव्यालङ्कारग्रन्थस्य रचयित्रा भामहेन शब्दार्थौ सहितौ काव्यमिति काव्यलक्षणं प्रस्तुवन् अलङ्कारेष्वेव रसानामन्तर्भावो विहितः। अनेन यत्र शृङ्गारादिरसाः स्पष्टरूपेणोद्दीप्ता भवन्ति, तत्र रसवत् अलङ्कारो जायत इति।
अनेन प्रकारेण प्राचीनैराचार्यैः रसवदाद्यलङ्कारविषये स्वकीयानि मतानि प्रस्तुतानि। तत्रालङ्कारवादिन आचार्या रसवदाद्यलङ्कारेष्वेव सकलानपि रसानन्तर्भावयन्ति, परं ध्वनिवादिनस्तु रसवदाद्यलङ्कारस्य स्थाने गुणीभूतव्यङ्ग्यं विवेचयन्ति। एतेषामाचार्याणां रसवदाद्यलङ्कारविषयानां मतानां विशदरूपेणाधुनापर्यन्तमनुशीलनं नैव जातम्, अतोऽत्र शोधान्तरालो विद्यत एव। अतः शीर्षकमिदमौचित्यपूर्णं वर्तते। अस्मिन् लेखे रसवदाद्यलङ्काराणां विवेचनं कृतमस्ति। रसवदादीनामलङ्काराणां विषयेऽस्मादध्ययनात् पूर्वं सूक्ष्मरूपेण कुत्राप्यध्ययनं नैव प्राप्यते। विषयमिममवलम्ब्य अधुनापर्यन्तं विशदं विवेचनं नावलोक्यते। अतः शीर्षकमिदं नवीनतथ्योद्घाटने समर्थमस्ति। रसवदादीनामलङ्काराणां विकासः, एतेषामलङ्काराणां काव्यशास्त्रीयं योगदानप्रकाशनञ्चात्र सीमा वर्तते।
अध्ययनविधिः
रसवदाद्यलङ्काराणामनुशीलनमिति शीर्षकान्वितमध्ययनमिदं गुणात्मकपद्धत्यामाधारितं विद्यते। अस्याध्ययनस्योद्देश्यप्राप्तये परम्परितपुस्तकालयं विद्युत्पुस्तकालयञ्च उपयुज्य सामग्रीसङ्कलनं विहितमस्ति। अत्र काव्यशास्त्रिणामालङ्कारिकग्रन्थाः प्राथमिकत्वेन प्रयुक्ताः सन्ति, एवञ्च तदाश्रितान् समालोचनग्रन्थलेखादीञ्च द्वितीयकसामग्रीत्वेनाधीत्य वर्णनविश्लेषणात्मकैर्विधिभिस्तथ्यनिस्सारणं कृतमस्ति। शोधलेखोऽयं मूलतो लेखकमितिपद्धत्यामाधारितो वर्तते।
रसवदादीनामलङ्काराणां परिचयः
यदा रसभावादयोऽन्येषां रसादीनामङ्गत्वेन समागच्छन्ति तदा रसवदाद्यलकारः कथ्यते। रसवदेव प्रेय-ऊर्जस्विसदृशान् अलङ्कारान् बोधयितुं ‘आदि’ शब्दस्य प्रयोगो विहितः। काव्ये रसः प्रधानत्वेनावतिष्ठते। यदि कश्चित् रसोऽन्यस्य रसस्याङ्गत्वेन दृश्यते चेत् रसवदलङ्कारो भवति। रसवत् इत्यस्यार्थो रसतुल्योऽस्ति। यदा रसतत्त्वानि अन्यतत्त्वेभ्यः गौणा भवन्ति तदा रसानुभूतिरधिकं न जायते, रसप्रधाने तु रसस्यास्वादनमधिकं सञ्जायते। अतः रसतत्त्वानां गौणत्वेऽपि काव्यस्य सौन्दर्यं वर्धते, परन्तु काव्यस्यात्मपक्षेण परिपोषो न प्राप्यते, अतः साहित्याचार्यैरेतादृशी रसावस्था अलङ्कारवर्गे स्थापिता। रसवदादीनामलङ्काराणां विषये ध्वन्यालोककार आनन्दवर्धनः कथयति –
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गन्तु रसादयः।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥२/५
यत्र अन्यार्थे प्रधाने रसादीनि तत्त्वानि अङ्गरूपेण विद्यन्ते, तस्मिन् काव्ये रसादिः (रसवदादिः) अलङ्कारो भवति। रसप्रधाने सति तु ध्वनिर्भवति, यदा तु रसोऽन्यतत्त्वेभ्यो गौणरूपेणावतिष्ठते तदा रसवदाद्यलङ्कारत्वेन गुणीभूतव्यङ्ग्यो भवति। रसस्य नित्यं व्यङ्ग्यत्वात् रसध्वनियुक्तं काव्यं श्रेष्ठं काव्यं मन्यते, रसवदाद्यलङ्कारे च व्यङ्ग्यस्य गौणत्वात् तादृशं काव्यं मध्यमकाव्यं मन्यते।
‘रसवदादिः” इति शब्दे विद्यमानात् आदिशब्दात् रसवत्-प्रेय-ऊर्जस्वि-समाहिताश्च ज्ञायन्ते। केचन विद्वांसः रसवदाद्यलङ्कारेषु भावोदय-भावसन्धि-भावशवलताश्च समावेशयन्ति। अलङ्कारशास्त्रिणां मते यदा रसोऽन्यस्याङ्गत्वेनावतिष्ठते तदा रसवत् इति, यदा भावोऽन्यस्याङ्गत्वेन दृश्यते तदा प्रेयः, रसाभास-भावाभासौ यदाऽन्यस्याङ्गत्वेन समागच्छतः, तदा ऊर्जस्वी कथ्यते, भावशान्तिः अन्यस्याङ्गे सति समाहितः, भावोदय-भावसन्धि- भावशवलताश्च अन्यस्याङ्गे सति एतन्नामका एवालङ्कारा भवन्ति।
रसवदादीनामलङ्काराणां विकासक्रमः
रसवदाद्यलङ्कारसन्दर्भे विविधैराचार्यैः प्रस्तुतानि मतानि, एषामलङ्काराणां विकासक्रमश्चात्र प्रस्तूयन्ते –
भामहः
षष्ठशताब्द्या आचार्यभामहात् रसवदाद्यलङ्कारसन्दर्भे चर्चा आरब्धा दृश्यते। तेन प्रेय-रसवत्-ऊर्जस्वि-समाहितानामेवालङ्कारणां चर्चा कृता विद्यते। तेन केवलं रसवदलङ्कारस्य लक्षणं वर्णितम्, अन्येषामुदाहरणानि च प्रदत्तानि। यथा-
प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम्।३/१
प्रेयो गृहागतं कृष्णमवादीद् विदुरो यथा।
अद्य या मम गोविन्द जाता त्वयि गृहागते ॥
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः।
रसवद् दर्शितस्पष्टश्रृङ्गारादिरसं यथा ॥३/५
देवी समागमद्धर्ममस्करण्यतिरोहिता॥३/६॥
ऊर्जस्वि कर्णेन यथा पार्थाय पुनरागतः।
द्विः सन्दधाति किं कर्णः शल्येत्यहिरपाकृतः॥३/७॥
दण्डी
सप्तमशताब्द्याः दण्डिना भामहप्रतिपादितानां रसवदादीनामलङ्काराणां स्वरूपं विशेषरूपेण स्पष्टीकृतम् अस्ति। दण्डिना प्रेयोरसवदूर्जस्वीत्यलङ्कारत्रयं लक्षयन्नाह-
प्रेयः प्रियतराख्यानं रसवद् रसपेशलम्।
उर्जस्वि रुढाहङ्कारं व्यक्तोत्कर्षं च तत् त्रयम् ॥ २/२७५
अतिशयेन प्रियस्यार्थरूपस्य कस्यचिदाख्यानं प्रतिपादनं वा प्रेय इति ज्ञाप्यते। शृङ्गारादिना रसेन मनोज्ञं रसवद् वाक्यं विज्ञेयम्। रूढो दीप्तोऽहङ्कारो यत्र तादृशं वचनमूर्जस्वि ज्ञेयम्। अनेन प्रेयोऽलङ्कारस्योदाहरणे पद्यमिदं प्रस्तुतम् –
अद्य या मम गोविन्द जाता त्वयि गृहागते।
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः॥२/२७६॥
उद्भटः
अष्टमशताब्द्यामुद्भवस्योद्भटस्य काव्यालङ्कारसारसङ्ग्रह इति काव्यशास्त्रीयो ग्रन्थः। अस्य ग्रन्थस्य चतुर्थवर्गेऽनेन प्रेय-रसवत्-उर्जस्विन्-पर्यायोक्त-समाहितालङ्काराणां चर्चा कृताऽस्ति। तस्य मते यस्मिन् काव्ये ५० भावाः (९ स्थायिभावाः, ३३ व्यभिचारिभावाः, ८ सात्त्विकभावाश्च) वर्णिताः सन्ति, तत् प्रेयकाव्यम्। यस्मिन् काव्ये शृङ्गारादिरसानां वर्णनं भवति तत् रसवत्। एवञ्च रसभावयोरनौचित्येन वर्णनं ऊर्जस्वी, यत्र चान्ये रसा न वर्ण्यन्ते तत्र समहितालङ्कारः। अस्यानुसारेण प्रेयोऽलङ्कारस्य लक्षणं यथा –
रत्यादिकानां भावानामनुभावादिसूचनैः।
यत्काव्यं बध्यते सद्भिस्तत्प्रेयस्वदुदाहृतम्।। ४/२
तथैव रसवदलङ्कारस्य लक्षणं यथा –
रसवद्दर्शितस्पष्टशृङ्गारादिरसोदयम्।
स्वशब्दस्थायिसञ्चारिविभावाभिनयास्पदम्।।४/३
ऊर्जस्विलक्षणम् –
अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात्।
भावानां च रसानां च बन्ध ऊर्जस्वि कथ्यते।। ४/५
पर्यायोक्तलक्षणम् –
पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते।
वाच्यवाचकवृत्तिम्यां शून्येनावगमात्मना।। ४/६
रुद्रट:
नवमशतकोत्पन्नेन रुद्रटेन काव्यलङ्कार इति पुस्तकस्य द्वादशाध्यायतः पञ्चदशाध्यायेषु विविधानां रसानां वर्णनं कृतमस्ति किन्त्वनेन पूर्वोक्तानामलङ्काराणां नाम नैवोक्तम्। असावलङ्काराणां पृथक् वर्णनं नैव करोति, यतोऽसौ रसानपि अलङ्कारेष्वैवान्तर्भावयति। तेन नवरसैः सह प्रेयरसस्य चर्चापि कृतास्ति। यथा-
स्नेहप्रकृतिः प्रेयान्संगतशीलार्यनायको भवति।
स्नेहस्तु साहचर्यात्प्रकृतेरुपचारसम्बन्धात्।।
निर्व्याजमनोवृत्तिः सनर्मसद्भावपेशलालापाः।
अन्योन्यं प्रति सुहृदोर्व्यवहारोऽयं मतस्तत्र।।
प्रस्यन्दिप्रमदाश्रुः सुस्निग्धस्फरलोचनालोकः।
आर्द्रान्तःकरणतया स्नेहपदे भवति सर्वत्र।।(१५/१७-१९)
भोजराजः
नवमशताब्द्यां समुद्भूतेन भोजराजेन सरस्वतीकण्ठाभरणग्रन्थे रुद्रटविधिं स्वीकृत्य दोषगुणरसादिविषये चर्चा कृता अस्ति। असौ दण्डिनः ‘प्रेयो: प्रियतरख्यातम्’ इत्यस्य आधारेण रसवदादीनामलङ्काराणां विश्लेषणं कृतवान् अस्ति। असौ रसस्य सन्दर्भे प्रेयान् विवेचयति, यथा-
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत्प्रियं यत्करोति सा।। (५/७४)
अत्र वत्सलप्रकृतेर्धीरतया ललितनायकस्य प्रियालम्बनविभावादुत्पन्नः स्नेहस्थायिभावो विषयसौकुमार्यात्मप्रकृत्यादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानैर्मोहधृतिस्मृत्यादिभिर्व्यभिचारिभावैरनुभावैश्च संसृज्यमानो निष्पन्नः प्रेयानिति प्रतीयते।
आनन्दवर्धनः
नवमशताब्द्या आनन्दवर्धनेन ध्वन्यालोकग्रन्थे अन्यवाक्यार्थप्रधानत्वे सति यदा रसादितत्त्वानि अङ्गत्वेन समागच्छन्ति तदा रसवदादयोऽलङ्कारा भवन्तीति प्रस्तुतम्। अभिनवगुप्तोऽपि ध्वन्यालोकस्य लोचनटीकायां रसवदाद्यलङ्कारविषये प्राचीनाचार्यानां मतं सङ्क्षेपेण प्रस्तुत्य विषयमिमं प्रस्तौति यत् – यत्र रसादिवाक्यानि प्राधान्येन स्थितानि तत्र ध्वनिर्भवति, यत्रान्यवाक्यार्थः प्राधान्येन समागते रसादिद्वारा चारुत्वनिष्पत्तिर्विधीयते तत्र रसादिरलङ्कारो भवति। आनन्दवर्धनेन उक्तं यत् –
प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः।। (१/५)
श्लोकस्यास्य व्याख्यायां पुनस्तेनोक्तम् – ‘यद्यपि रसवदलङ्कारस्यान्यैर्दर्शितो विषयस्तथापि यस्मिन् काव्ये प्रधानतयाऽन्योऽर्थो वाक्यार्थीभूतस्य चाङ्गभूता ये रसादयस्ते रसादेरलङ्कारस्य विषया इति मामकीनः पक्षः। तद्यथा चाटुषु प्रेयोऽलङ्कारस्य वाक्यार्थत्वेऽपि रसादयोऽङ्गभूता दृश्यन्ते।’
कुन्तकः
दशमशतकोद्भवेन कुन्तकेन वक्रोक्तिजीवितकाव्ये रसवदादीनामलङ्काराणां खण्डनं विहितम्। रसस्तु स्वयमेवालङ्कार्यः, अलङ्कार्यः कथमलङ्कारो भवतीति जिज्ञासां प्रस्तुवन् असौ रसवदाद्यलङ्कारं न स्वीकरोति –
अलङ्कारो न रसवत् परस्याप्रतिभासनात्।
स्वरूपादतिरिक्तस्य शब्दार्थासङ्गतेरपि।। (३/११)
असौ व्याख्यां करोति – ‘अलङ्कारो न रसवत्। रसवदिति योऽयमुत्पादितप्रतीतिर्नामालऽङ्कारस्तस्य विभूषणत्वं नोपपद्यते इत्यर्थः। कस्मात् कारणात् – स्वरूपादतिरिक्तस्य परस्याप्रतिभासनात्। वर्ण्यमानस्य वस्तुनो यत् स्वरूपमात्मीयः परिस्पन्दस्तस्मादतिरिक्तस्यात्यधिकस्य परस्याप्रतिभासनाद् अनवबोधानात्। तदिदमत्र तात्पर्यम् – यत् सर्वेषामेवालङ्कृतीनां सत्कविवाक्यानामिदमलङ्कार्यमिदमलङ्करणम् इत्यपोद्धारविहितो विविक्तभावः सर्वस्य कस्यचित् प्रमातुश्चेतसि परिस्फुरति। रसवदलङ्कारवदिति वाक्ये पुनरवहितचेतसोऽपि न किंचिदेतदेव बुध्यामहे।’
मम्मटः
एकादशशतकोद्भवेन मम्मटेन काव्यप्रकाशग्रन्थस्य चतुर्थोल्लासे असंलक्ष्यक्रमव्यङ्ग्यध्वनेः परिचयप्रदानसन्दर्भे रसवदलङ्काराणां विषये प्रस्तुतमस्ति –
रसभावतदाभासभावशान्त्यादिरक्रमः।
भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः।। (४/२६)
आदिग्रहणाद्भावोदयभावसन्धिभावशबलत्वानि। प्रधानतया स्थितो रसादिस्तत्रालङ्कार्यः। अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्ग्ये रसवत्प्रेय-ऊर्जस्विसमाहितादयोऽलङ्काराः।
अस्यानुसारेण यत्र रसतत्त्वं प्रधानं तत्र अलङ्कार्यो भवति, यत्र च वाक्यार्थप्रधाने रसतत्त्वं गौणं जायते, तस्मिन् गुणीभूतव्यङ्ग्यकाव्ये रसवदादयोऽलङ्कारा भवन्ति। मम्मटेन गुणीभूतव्यङ्ग्यस्य अपराङ्गभेदे सकलानामपि रसवदादीनामलङ्काराणामुदाहरणानि प्रस्तुतानि सन्ति।
रुय्यकः
एकादशशतकोत्पन्नेन रुय्यकेन अलङ्कारसर्वस्वग्रन्थे रसवदादीन् अलङ्कारान् अलङ्कारवर्गे परिगणिताः। अनेन रसवदलङ्कारस्य लक्षणमित्थं प्रकारेण प्रस्तुतम् –
‘रसभावतदाभास तत्प्रशमानां निबन्धनेन रसवत्प्रेयऊर्जस्विसमाहितानि’ (सू० ८३)। अस्य सूत्रस्य ग्रन्थकारेणानेन प्रकारेण व्याख्या विहिता –
‘उदात्ते महापुरुषचरितस्य चित्तवृत्तिरूपत्वाच्चित्तवृत्तिविशेषस्वभावत्वाच्च रसादीनामिह तद्वदलङ्काराणां प्रस्तावः। अत एव चत्वारोऽलङ्कारा युगपल्लक्षिताः। तत्र विभावानुभावव्यभिचारिभिः प्रकाशितो रत्यादिश्वित्तवृत्तिविशेषो रसः। भावो विभावानुभावाभ्यां सूचितो निर्वेदादिस्त्रयस्त्रिंशद्भेदः। देवादिविषयश्च रत्यादिर्भावः। तदाभासो रसाभासो भावाभासश्च। आभासत्वमविषयप्रवृत्त्यानौचित्यम्, तत्प्रशम उक्तप्रकाराणां निवर्तमानत्वेन प्रशाम्यदवस्था। तत्रापि रसस्य परविभ्रान्तरूपत्वात् सा न संभवति इति परिशिष्टभेदविषयो द्रष्टव्यः। एषामुपनिबन्धे क्रमेण रसवदादयोऽलङ्काराः। रसो विद्यते यत्र निबन्धने व्यापारात्मनि तद् रसवत्। प्रियतरं प्रेयो निबन्धनमेव द्रष्टव्यम्। एवमूर्जो बलं विद्यते यत्र तदपि निबन्धनमेव। अनौचित्यप्रवृत्तत्वादत्र बलयोगः। समाहितं परिहारः। स च प्रकृतत्वादुक्तभेदविषयः प्रशमापरपर्यायः। तत्र यस्मिन्दर्शने वाक्यार्थीभूता रसादयो रसवदाद्यलंकाराः, तत्राङ्गभूतरसादिविषये द्वितीय उदात्तालंकारः। यन्मते त्वङ्गभूते रसादिविषये रसवदाद्यलंकारा अन्यस्य रसादिध्वनिना व्याप्तत्वात् तत्रोदात्तालङ्कारस्य विषयो नावशिष्यते, तद्विषयस्य रसवदादिना व्याप्तत्वात्।’
विश्वनाथः
चतुर्दशशताब्द्यां समुद्भूतेन विश्वनाथेन साहित्यदर्पणग्रन्थस्य दशमे परिच्छेदे रसवदाद्यलङ्कारस्य विषये प्रस्तुतं यत् –
रसभावौ, तदाभासौ, भावस्य प्रशमस्तथा।
गुणीभूतत्वमायान्ति यदाऽलङ्कृतयस्तदा ॥
रसवत्प्रेयऊर्जस्विसमाहितमिति क्रमात्।
यदा रस-भाव-रसाभास-भावाभास-भावप्रशमश्च कस्यापि रसस्याङ्गत्वेन समागच्छन्ति तदा क्रमशः रसवत्-प्रेय-ऊर्जस्वि- समाहिता अलङ्कारा भवन्ति। तेनैतेषां सर्वेषामप्यलङ्काराणाम् उदाहरणानि प्रस्तुतानि सन्ति।
अप्पयदीक्षितः
षोडशशताब्द्यां समुद्भवेन अप्पयदीक्षितेन कुवलयानन्दनामकेऽलङ्कारशास्त्रे रसवदादीनामलङ्काराणां परिचयः प्रस्तुतोऽस्ति –
रसभावतदाभासभावशान्तिनिबन्धनाः।
चत्वारो रसवत्प्रेयऊर्जस्वि च समाहितम् ॥
भावस्य चोदयः सन्धिः शवलत्वमिति त्रयः।
अनेन रसवत्-प्रेय-ऊर्जस्वि-समाहित-भावोदय-भावसन्धि-भावशवलतानामकाः सप्तसङ्ख्यका रसवदादयोऽलङ्काराः प्रस्तुताः, एवञ्चैतेषामुदाहरणानि च प्रदत्तानि।
रसवदलङ्कार–गुणीभूतव्यङ्ग्ययोः सम्बन्धः
रसवदलङ्काराणां निरूपणक्रमे एव गुणीभूतव्यङ्ग्यस्य विषयोऽपि समागच्छति। अलङ्कारा साक्षात् शब्दार्थयोरुपकारकाः परन्तु गुणीभूतो रस शब्दार्थयोरुपकारका न, प्रत्यक्षतः रसान्तराणामुपकारका भवन्ति। अत्र अलङ्काराणां सामान्यलक्षणमपि अननुभूय समीक्षका रसवदलङ्कारनाम्नाऽस्वीकृत्य गुणीभूतव्यङ्ग्यं कथयन्ति। एतेषां मतानुसारेण ध्वनि-गुणीभूतव्यङ्ग्याभ्यां भिन्नं वस्तु नास्ति, रसवदलङ्कारनामकं तृतीयं वस्तु नास्ति वा। परं ध्वनिकारेण रसवदलङ्कारस्य गुणीभूतव्यङ्ग्यस्य च द्वयोः सत्ता स्वीकृता। अस्य मतानुसारेण रसादिध्वनौ अपराङ्गे जाते रसवत्-प्रेयालङ्कारौ भवतः। एवञ्च वस्त्वलङ्कारध्वनौ अपराङ्गे जाते गुणीभूतव्यङ्ग्यस्वीकारे द्वयोः समन्वयो जायते। अतो यत्र रसादयो वाक्यार्था दृश्यन्ते, तत्र रसादीनामलङ्काराणां विषयो न, अपि तु ध्वनेः प्रभेदा भवन्ति। यत्र प्रधानरूपेणार्थान्तरा वाक्यार्थत्वे रसादिद्वारा चारुत्वनिष्पत्तिर्जायते, तत्र रसादेरलङ्कारस्य विषयः। ध्वनिकारेणोक्तं यत् – तस्माद्यत्र रसादयो वाक्यार्थीभूताः सः सर्व न रसादेरलङ्कारस्य विषयः, सध्वनेः प्रभेदः, तस्योपमादयोऽलङ्काराः। यत्र तु प्राधान्येनार्थान्तरस्य वाक्यार्थीभावे रसादिभिश्चारुत्वनिषपत्तिः क्रियते, स रसादेरलङ्कारताया विषयः (ध्वन्यालोकः)।
ध्वनि–उपमाद्यलङ्कार–रसवदलङ्कारश्च
रसवदलङ्काराणां विवेचने विदुषां मध्ये मतभेदोऽपि दृश्यते। तत्र कतिपये विद्वांसः कथयन्ति यत् – चेतनवस्तूनां वाक्यार्थीभूते रसवदलङ्कारः। एवञ्चाचेतनानां वाक्यार्थीभूते उपमादयोऽलङ्काराः। अचेतनानां वाक्यार्थीभूते तत्र चित्तवृत्तिरूपाणां रसानां सम्भवो न, अतो तस्य रसवदलङ्काराणां सम्भावना न। एतादृशे स्थले उपमादीनामलङ्काराणां विषयः। तत्रैव चेतनवस्तूनां वाक्यार्थीभावे तु रसवदलङ्कारस्य विषयः स्वीकरणीयो भवति।
आचार्य आनन्दवर्धनः सन्दर्भमिमं न स्वीकरोति। असौ ध्वनि-उपमाद्यलङ्कार-रसवदलङ्काराणां विषये स्वमतं प्रस्तौति यत् –
° यत्र रसादीनां प्रतीतिः प्रधानरूपेण भवति, तत्र रसध्वनेर्विषयः।
° यत्र मुख्यो रसोऽलङ्कार्यः, कोऽप्यङ्गभूतो द्वितीयो रसोऽपि नास्ति चेत् तत्र उपमादीनामलङ्काराणां
विषयः।
° यत्र रसादयोऽङ्गरूपेण विद्यमानाः सन्ति चेत् तत्र रसवदलङ्काराणां विषयः।
अनेन प्रकारेण ध्वनेरुपमादीनामलङ्काराणां रसदद्यलङ्काराणां च क्षेत्रं पृथगेव संलक्ष्यते। यदि चेतनानां वाक्यार्थीभावे रसवदलङ्काराः स्वीक्रियन्ते चेत् उपमाद्यलङ्काराणां विषय एव विरलेन भवति, सर्वथा न भवति वा। यतो यत्राचेतनवस्तुवृत्तानां मुख्ये वाक्यार्थत्वे तत्र केनापि प्रकारेण विभावादिद्वारा चेतनवस्तुवृत्तान्तानां योजना निश्चितरूपेण भवत्येव। अतः सर्वेषु स्थानेषु चेतनवस्तूनां वाक्यार्थत्वे ते सर्वेऽपि रसवदलङ्काराणां विषयो जायते।
रसवदादीनामलङ्काराणां प्रकारः
रसवदादीनामलङ्काराणां भेदप्रदर्शनक्रमे कतिपये आचार्या रसवत्-प्रेय-ऊर्वस्वि-समाहितान् च स्वीकृतवन्तः। कतिपये भावोदय-भावसन्धि-भावशलताश्च योजयित्वा सप्त अलङ्कारान् वर्णयन्ति। उपमाद्यलङ्कारेभ्यो भिन्नवैशिष्ट्यादेतेषां रसवदादीनामलङ्काराणां विवेचनं रसप्रसङ्गे गुणभूतव्यङ्ग्यप्रसङ्गे च विहितं विलोक्यते। एतेषामलङ्काराणां स्वरूपाणि उदाहरणानि चाधः प्रस्तुतानि सन्ति –
रसवत्
कोऽपि रसोऽन्यस्य रसस्य भावस्य वाऽङ्गत्वेन समागते रसवदङ्कारो भवति। यथा-
अयं स रशनोत्कर्षो पीनस्तनविमर्दनः।
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥(काव्यप्रकाशः)
अत्र युद्धक्षेत्रे कर्तितं स्वभर्तुर्हस्तं विलोक्य भार्यायाः विलापस्य वर्णनेन प्रकटितः करुणरसः स्मर्यमाणस्य शृङ्गाररसस्याङ्गत्वेन समागतः।
प्रेयः
यदा भावा अन्येषां रसादीनामङ्गत्वेन समागच्छन्ति, तदा प्रेयोऽलङ्कारः। अस्योदाहरणम् –
कदा वाराणस्याममरितटिनीरोधसि वसन्।
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ॥
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयनः।
प्रसीदेत्याक्रोशान्निमिषमिव नेष्यामि दवसान् ॥ (कुवलयानन्दः)
अत्र श्चिन्ताव्यभिचारिभावः शान्तरसस्याङ्गत्वेन समागतः। अतोऽत्र प्रेयोऽलङ्कारः।
ऊर्जस्वि
यदा रसाभास-भावाभासौ अन्येषां रसादीनामङ्गत्वेन विद्यमानौ भवतस्तदा ऊर्जस्विरलङ्कारो जायते। यथा-
वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः।
त्वद्वैरिवनितावृन्दे पुलिन्दा कुर्वते रतिम् ॥ (साहित्यदर्पणः)
अत्र परस्त्रीविषयकस्य रतिभावस्य वर्णनमनौचित्यात् शृङ्गाराभासो वर्तते, असौ रसाभासो राजविषयकस्य रतिभावस्याङ्गत्वेन वर्णितः। अतोऽत्र ऊर्जस्वी अलङ्कारः।
समाहितः
भावशान्तिर्भावस्य परिहारो वा यदा अन्येषां रसादीनामङ्गत्वेन समागता दृश्यन्ते, तदा समाहितोऽलङ्कारः। यथा-
अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः।
ददृशे तव वैरिणां मदः, स गतः क्वापि तवेक्षणे क्षणात् ॥ (साहित्यदर्पणः१०/९५)
अत्र शत्रौ विद्यमानस्य मदभावस्य प्रशमो राजविषयकस्य रतिभावस्याङ्गत्वेन वर्णितत्वाद् समाहितालङ्कारः।
भावोदयः
यदा भावस्योदयः अन्येषां रसादीनामङ्गत्वेन वर्णितो भवति तदा भावोदयोऽलङ्कारः। यथा-
मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः।
श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमां दशाम्।। (साहित्यदर्पणः)
अत्र शत्रुषु दृश्यमानस्य त्रासस्योदयो राजविषयकस्य रतिभावस्याङ्गत्वेन वर्णितत्वात् भावोदयोऽलङ्कारः।
भावसन्धिः
यदा भावसन्धिर्गौणो भवति, अन्येषामङ्गत्वेन दृश्यते वा तदा भावसन्धिरलङ्कारः। यथा-
जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका।
सलज्जा चान्तिके सख्याः पातुनः पार्वती सदा ॥ (साहित्यदर्पणः)
अत्र पार्वत्यां दृश्यमानयो औत्सुक्य-लज्जयोः सन्धिर्देवताविषयकस्य रतिभावस्याङ्गत्वेन वर्णितः, अतोऽत्र भावसन्धिरलङ्कारः।
भावशवलता
यदा बहवो भावाः अन्येषां रसादीनामङ्गत्वेन वर्ण्यन्ते, तदा भावशवलताऽलङ्कारो जायते। यथा –
क्वाकार्यं शशलक्ष्मणः क्व च कुलं ? भूयोऽपि दृश्यत सा,
दोषाणां प्रशमाय न श्रुतमहो कोपेऽपि कान्तं मुखम्।
किं वक्ष्यन्त्यकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा,
चेत ! स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति ? (कुवलयानन्दः)
अत्र वितर्कौत्सुक्य-मति-स्मरण-शङ्का-दैन्य-धृति-चिन्तानां भावानां शवलता विप्रलम्भस्य शृङ्गाररसस्याङ्गत्वेन समागता दृश्यन्ते, अतोऽत्र भावशवलताऽलङ्कारः।
निष्कर्षः
रसभावादयो यदाऽन्येषां रसादीनामङ्गत्वेन समागच्छन्ति तदा रसवदादयोऽलङ्कारा जायन्ते। अलङ्कार्यो रसादिरपि गौणतां प्राप्नोति। गौणत्वेन रसादयोऽलङ्काराः प्रधानभूतान् रसानुपकुर्वन्ति, रसादीनां सौन्दर्यवृद्धिं च कुर्वन्ति। शब्दार्थालङ्कारेभ्यो रसवदादीनामलङ्काराणां वैशिष्ट्यं पृथगेव वर्तते। एतेऽलङ्कारा गुणीभूतव्यङ्ग्यस्य कोटौ समागता भवन्ति। काव्यसौन्दर्यसंवर्धने काव्यचमत्कृतिविस्तारे चैतेषामलङ्काराणामधिकं महत्त्वमस्तीति विषयः प्राचीनैराचार्यैराधुनिकैश्चाचार्यैर्बहुधा प्रतिपादितो दृश्यते। काव्यस्यात्मपक्षेण सह निकटवर्तिन एते रसवदादयोऽलङ्कारा निश्चयरूपेण काव्यसौन्दर्भमभिवर्धयन्ति।
सन्दर्भसूची
अप्पयदीक्षितः (वि.सं. २०१३) कुवलयानन्दः, चौखम्बा विद्याभवन।
आनन्दवर्धनः (ई.१९८२) ध्वन्यालोकः (लोचनटीका), चौखम्बा विद्याभवन।
कुन्तकः (ई.१९६७), वक्रोक्तिजीवितम्, चौखम्बा सिरिज।
कु.संजू (ई.२०१८), रसवदलङ्कार और गुणीभूतव्यङग्य IJSRSET जर्नल Vol.4, Issue-7
चतुर्वेदी, पुरुषोत्तम शर्मा, (ई.१९६७) अलङ्कारों का क्रमिक विकास, मोतीलाल बनारसी दास।
दण्डी, (ई.१९९५), काव्यादर्शः, चौखम्बा संस्कृत संस्थान।
भारती, सुचित्रा (ई.२०२५), रसवद् अलङ्कार, जाह्नवी संस्कृत जर्नल, Issue-17th,Vol-V,14.1.14
मम्मट, (ई.१९९८), काव्यप्रकाशः, (विश्वेश्वर टीका) ज्ञानमण्डल।
रुद्रटः, (ई.१९६५), काव्यालङ्कारः, वासुदेव प्रकाशन।
रुय्यकः, (ई.२००१), अलङ्कारसर्वस्वम्, चौखम्बा सुरभारती प्रकाशन।
[1] सहप्राध्यापकः, साहित्यम्, नेपालसंस्कृतविश्वविद्यालयः, पिण्डेश्वरविद्यापीठम्, धरानः।