ज्योतिषशास्त्रे स्थानदिक्कालनिसर्गचेष्टादृक्भेदैःमुख्यरूपेण षड्बलानि भवन्ति। ते ग्रहबल नाम्नापि व्यवहृयन्ते। ग्रहा निजोच्चमित्रगृहगे नवांशके वा भवन्ति तदा स्थानबलं कथ्यते। लग्ने बुधगुर्वो दशभे सूर्यभौमौ सप्तमे शनिः चतुर्थे चन्द्रशुक्रौ दिग्बलिनो भवन्ति। निशायां चन्द्रकुजसौरा दिने सूर्यगुरुशुक्राः बुधः सर्वदा कालबलिनो भवन्ति। क्रूराः कृष्णे सौम्याः शुक्लपक्षे बलिनो भवन्ति। सौम्यायने शुभग्रहा याम्यायने क्रूरग्रहाः बलिनो भवन्ति।
तनुजादाहालः
सहप्राध्यापक:, ज्योतिषविभाग:
नेपालसंस्कृत-विश्वविद्यालय:
वाल्मीकिविद्यापीठम्, काष्ठमण्डपस्थम्
tanuja.dahal036@gmail.com
लेखसारः
ज्योतिषशास्त्रे स्थानदिक्कालनिसर्गचेष्टादृक्भेदैःमुख्यरूपेण षड्बलानि भवन्ति। ते ग्रहबल नाम्नापि व्यवहृयन्ते। ग्रहा निजोच्चमित्रगृहगे नवांशके वा भवन्ति तदा स्थानबलं कथ्यते। लग्ने बुधगुर्वो दशभे सूर्यभौमौ सप्तमे शनिः चतुर्थे चन्द्रशुक्रौ दिग्बलिनो भवन्ति। निशायां चन्द्रकुजसौरा दिने सूर्यगुरुशुक्राः बुधः सर्वदा कालबलिनो भवन्ति। क्रूराः कृष्णे सौम्याः शुक्लपक्षे बलिनो भवन्ति। सौम्यायने शुभग्रहा याम्यायने क्रूरग्रहाः बलिनो भवन्ति। वर्षेशमासेश दिनेशहोरेशैः कालबलिनो भवन्ति। सूर्यचन्द्रौ उत्तरायणे बलिनौ भवतः। भौमादि पञ्चताराग्रहाः वक्रवस्थायां विपुलकरा युधिचोतरसंस्थायां च चेष्टाबलिनो भवन्ति। शनिमङ्गलबुधगुरुशुक्रचन्द्रसूर्याद्या यथोत्तरं निसर्गबलिनो भवन्ति।
शब्दकुञ्जी : – खचरम्, मित्रर्क्षे, द्रेष्काणबलम्, नीचोनम्, स्वर्क्षे।
विषयपरिचयः
ग्रहबलं भावबलञ्च बलं द्विविधं भवति। अत्र ग्रहबलविषये चर्चा क्रियते । स्थानदिक्कालनिसर्गचेष्टादृक्भेदैःमुख्यरूपेण षड्विधं ग्रहबलम्। तत्रापि स्थानबलं पञ्चधा, दिग्बलं एकधा, कालबलं चतुर्धा, निसर्गबलं एकधा, चेष्टाबलं त्रिधा, दृग्बलमेकधा अत एव ग्रहबलं पञ्चदशधा भवन्ति।
समस्या
अस्मिन् लेखे अधोनिर्दिष्टाः प्राज्ञिक्याः समस्याः यथा—
क) ग्रहबलस्य परिचय किम् ?
ख) ग्रहबलसाधनविधिः किम् ?
उद्देश्यकथनम्
अस्मिन् लेखे प्रस्तुतानुसन्धानकार्यस्य समस्यायां प्रस्तुतानां प्रश्नानां समाधानमुद्वेश्यं वर्तते।
क) ग्रहबलस्य परिचयः प्रदानम्।
ख) ग्रहबलसाधनविधिः निरूपणम्।
औचित्यम्
ज्योतिषशास्त्रस्य जातकग्रन्थेषु महत्त्पूर्णविषयं ग्रहबलं अधुनावधि स्पष्ट रूपेण गवेषणात्मकाध्ययनस्य अभावो दृश्यते। ज्योतिषशास्त्रे प्रतिपादितविषये समुपलब्धानां प्रकाशितपुस्तकानां विलोकनेन प्रामाणिकस्य विश्लेषणस्य समीक्षणस्य च माध्यमेन ज्योतिषस्य ग्रहबलसम्बद्धसाधन विधयः कति सन्ति ? के च ते ? तेषां साधनोपायश्च कीदृशम् ? इति गवेषणाय प्रस्तुतमध्ययनस्य औचित्यमस्ति।
शोधस्य सीमाङ्कनम्
प्रस्तुत शोधकार्यो मुख्यतया ग्रहबलसमीक्षणे गवेषणे च सीमितं वर्तते।
शोधविधिः
सामग्रीमिदं सम्यक्तया सम्पादयितुं सामग्रीसङ्कलनाय पुस्तकालयविधिः प्रयुज्यते। प्रतिवेदननिर्माणकर्मणि यथाऽऽवश्यकं गुणात्मकपरिमाणात्मकञ्च प्रयोगो विधीयते। विषयवस्तु विश्लेषणे स्वोपज्ञताया प्राचीनप्रसिद्धग्रन्थानामुद्धरणे एवं परम्परानुसारेण संस्थाप्यान्यत्र तु सामान्यतया लेखनपृष्ठपद्धति अनुसृतास्ति।
परिचयः
जातकस्य जन्मकुण्डल्यामाधारे शुभाशुभफलमवबोधने ग्रहबलस्यावश्यकता भवति। बलाबलबोधेन विना दशादिक्रमावबोधो न भवति अत तत्स्थानादि कालनिसर्गचेष्टाष्टभेदभिन्नं बलस्य ज्ञानमावश्यकं भवति। स्थानस्याधारे, दिकाधारे, कालाधारे ,चेष्टाधारे, दृष्ट्याधारे, स्वभावाश्चाधारे ग्रहबलं षड्विधम्।
स्थानबलम्
ग्रहाणां राशिस्थितिवसात् बलं स्थानबलं कथ्यते। उच्चसप्तवर्गजसमविषमकेन्द्रादिद्रेष्काणैश्च स्थानबलं पञ्चविधम्। मित्रक्षेत्रे स्वोच्चे स्वहोरायां स्वभवने मूलत्रिकोणे स्वद्रेष्काणे स्वांशे स्वदिने च ग्रहाः स्थानबलान्विता भवन्ति।
उच्चबलम्
ग्रहाणां उच्चबलनिर्धारणे उच्चनीच स्थान विषये ज्ञानमावश्यको भवति। अतः उच्चनीचचक्रमुपस्थाप्यते ।
सूर्यादीनामुच्चस्थानानि
| सू | चं | मं | बु | बृ | शु | श |
| ० | १ | ९ | ५ | ३ | ११ | ६ |
| १० | ३ | २८ | १५ | ५ | २७ | २० |
ग्रहाणां नीचस्थानानि
| सू | चं | मं | बु | बृ | शु | श |
| ६ | ७ | ३ | ११ | ९ | ५ | ० |
| १० | ३ | २८ | १५ | ५ | २७ | २० |
यदि ग्रहः परमोच्चांशे भवति सः षष्ट्यंश बलयुक्तो भवति। परमनीचांशे शून्य बली भवति। यस्य ग्रहस्य उच्चबलं साध्यते सः नीचाद्विशोध्य शोधने यदि षड्राशिभ्योधिको भवेत्तदा द्वादशेभ्यो विशोध्य। शेषस्यांशाः त्रिभक्ता कार्यास्ते उच्चवीर्यो भवति।
नीचोनं खचरं भार्धाधिकं चक्राद् विशोधयेत्।।
भागीकृत्य त्रिभिर्भक्तं लब्धमुच्चबलं भवेत्। श्लो १, अ २८,
बृहत्पाराशरहोराशास्त्रम् ।
सूर्यादीनां ताकालिकाः स्फुटाः
| सू | चं | मं | बु | बृ | शु | श | रा | के |
| ९ | १ | ० | ९ | ११ | १० | ११ | ५ | ११ |
| २१ | २२ | २८ | १३ | ० | १५ | ३ | २० | २० |
| ३५ | ५० | ५० | १५ | २७ | ४७ | ४८ | ४४ | ४४ |
| ० | ० | ० | ० | ० | ० | ० | ० | ० |
अत्रोदाहरणम्
सूर्यः ९।२१।३५।०० नीचं ६।१०।००।०० अनेनोतितः ३।११।३५ अश्यांशाः १०१।३५ त्रिभक्ताउच्चबलं जातं ३३।५१ एवमेव सर्वेषां ज्ञातव्यम्।
ग्रहाणां उच्चबलानि
| सू | चं | मं | बु | बृ | शु | श |
| ० | ० | ० | ० | ० | ० | ० |
| ३३ | ५३ | २९ | २० | १८ | ४६ | १५ |
| ५१ | २० | ४० | ३५ | २९ | १६ | २५ |
सप्तवर्गजबलसाधनम्
अधिमित्रमित्रस्वसममूलत्रिकोणवैर्यधिवैर्यमिति सप्तवर्गेशान्वितं बलं सप्तवर्गजबलं कथ्यते। ग्रहाणां गृहादिवसात् स्वर्क्षे अर्धम्, समभे अष्टमः, मूलत्रिकोणे त्रिचरणाः, मित्रर्क्षेऽङ्घ्रि, अधिमित्रर्क्षे त्रयः, वैरिभेऽष्ट्यंशकः, अधिशत्रुभे दन्तांशो बलं सप्तवर्गजबलो मन्यते।
स्वर्क्षेऽर्ध समभेऽष्टमस्त्रिचरणा मूलत्रिकोणे बलम् ।
मित्रर्क्षऽङ्घ्रिरधीष्टभे त्रय इभांशा वैरिभेऽष्टयंशको।
दन्तांशोऽध्यरिभे गृहादिपवशात्खेटस्य सप्तैक्यजम्।। श्लो ५, अ ३, जातकपद्धतिः।
सप्तवर्गादिबलज्ञानार्थं ग्रहाणां गृहादि ज्ञानमावश्यकं भवति। श्लो२६,२७, २८
२८ अ १, जातकपारिजातः।
ग्रहाणां स्वगृहभवनानि
| सू | चं | मं | बु | बृ | शु | श | ग्रहः |
| ४ | ३ | १।८ | ३।६ | ९।१२ | २।७ | १०।११ | राशिः |
| २० | ३० | २० | १५ | २० | २० | २० | अंशः |
मूलत्रिकोणभवनानि
| सू | चं | मं | बु | बृ | शु | श | ग्रहः |
| ४ | १ | ० | ५ | ८ | ६ | १० | राशिः |
| १ — २० | ४ —३० | १ —१२ | १६—२५ | १ —२० | १ —२० | १ —२० | अंशः |
प्रकारान्तरेण ग्रहाणां स्वगृहस्थानानि कल्याणवर्मामतम्
| सू | चं | मं | बु | बृ | शु | श | ग्रहः |
| ४ | १ | ० | ५ | ८ | ६ | १० | राशिः |
| २१—३० | ०—३उच्चम् | १३—३० | २१—३० | ११—३० | ६—३० | २१—३० | अंशः |
अस्य ज्ञानार्थं प्रथमतो ग्रहाणां मित्रसमवैरिणो लिख्यन्ते।
सूर्याज्जीवकुजेन्दवो रविबुधौसूर्येज्यचन्द्राःसितो-
ष्णांशू भौमरवीन्दवः शनिबुधौ मित्राणि शुक्रेन्दुजौ।।
शुक्रार्की न बुधो विधुः सितबुधौ चन्द्रोष्णगु वैरिणः
सूर्येन्दुक्षितिजाः समोऽन्य उभयस्मिन् पार्श्व इष्टस्त्रिगाः।। श्लो १५, अ १३, मुहूर्तकल्पद्रूमः।
मित्रसमशत्रुचक्रम्
| सू | चं | मं | बु | बृ | शु | श | |
| मित्राणि | चं मं बृ | बु | बृ चं सू | सू शु | सु चं मं | बु श | शु बु |
| समः | बु | चं मं बृ शं शु | बु | मं बृ श | श | मं बृ | बृ |
| शत्रवः | शं शु | शु श | चं | बु शु | सु चं | सू चं मं |
उभयोस्मिन् पार्श्वे इष्टऽधिमित्रगाः।।
राशिस्तौ निसर्गतो मित्रसमशत्रवो य समीरिताः।
उभयोःपार्श्वयोमित्रश्वेदधिमित्रसुहृत्समाः।।
उभयोः पार्श्वयोर्नोचेत् एव समशत्रवः।
अधिशत्रुत्वमायान्ति तत्काले स्थापनसंस्थायाः।।
सा भौमशुक्रबुधेन्द्वर्कज्ञभार्गवाःभौमाद्यमन्दमन्देज्या। श्लो १५, अ १३, मुहूर्तकल्पद्रुमः।
पञ्चधामैत्रीचक्रम्
| नैसर्गिकः | तात्कालिकः | ||
| १ | अतिमित्रः | मित्रः | मित्रः |
| २ | मित्रः | मित्रः | समः |
| मित्रः | समः | मित्रः | |
| ३ | अतिशत्रुः | शत्रुः | शत्रुः |
| ४ | शत्रुः | समः | शत्रुः |
| शत्रुः | शत्रुः | समः | |
| ५ | समः | शत्रुः | मित्रः |
| समः | मित्रः | शत्रुः |
अत्रोदाहरणम्
सूर्यः ९।२१।३५।०० नीचं ६।१०।००।०० अनेनोतितः ३।११।३५ अश्यांशाः १०१।३५ त्रिभक्तासप्तवर्गजबलं जातं ३३।५१। सूर्य शत्रुगृहेऽस्ति अतः शत्रुगृहे अष्ट्यंशबलं भवति। सूर्यस्य सप्तवर्गजबलं ४। १८। ३ भवति एवमेव सर्वेषां ज्ञातव्यम्।
युग्मायुग्मराशिनवांशबलम्
सप्तवर्गजबले ग्रहबलं नवांशबलं स्वतन्त्रमस्ति । तद्वत् पुंस्त्रीराशिनवांशबलं चोभयं स्वतन्त्रम्। अतः युग्मायुग्मराशिनवांशबलमावश्यकं भवति। स्त्रीराशौ स्त्रीनवांशे वा स्थितौ शुक्रेन्दू भवतस्तदा रूपचतुर्थांशबलं (१५ कला) बलं भवति। स्त्रीराशौ स्त्रीराशेर्नवांशे चोभयोः स्थितौ शुक्रेन्दू भवतस्तदा पादद्वयंबलं ( ३० कला) भवति। अन्ये सूर्यभौमबुधगुरुशनयः पुरुषराशौ पुरुषनवांशे वा स्थिताःचेत् चतुर्थांशबलं (१५ कला) भवति। पुरुषराशौ पुरुषराशेर्नवांशे चोभयोः स्थितौ अन्ये ग्रहा भवन्ति तदा पादद्वयंबलं ( ३० कला) भवति।
शुक्रेन्दू समभांशकेऽन्ये विषमेऽङ्घ्रिमितं बलम्।। श्लो ५, अ २८, बृहत्पाराशरहोराशास्त्रम्।
केन्द्रादिबलम्
केन्द्रस्थितस्य ग्रहस्य रूपं बलम्। पणफरस्थस्य बलार्धम्। आपोक्लिमस्थितानां चरणबलमिति केन्द्रादिबलं कथ्यते।
केन्द्रादियाता द्युसदोऽत्र भावफलं तदर्धं चरणोन्मितं चेति। पृ ९०, अ ३, जातकपद्धतिः।
द्रेष्काणबलम्
आद्यपञ्चनवेंशानां द्रेष्काणः।
द्रेष्काणलग्ने ग्रहेण प्रथमदशमांशभागाभ्यन्तरे प्रथमद्रेष्काणस्वामी लग्न एव। तत् लग्ने ग्रहे वा दशांशेभ्यः परतो यावद्विंशतिभागमध्ये सति ग्रहराशेर्यः पञ्चमो राशिस्तत्स्वामी द्वितीयद्रेष्काणेशो भवति। विंशांशेभ्यः परतो त्रिंशभ्यस्तत ग्रहे लग्ने वा सति ग्रहलग्नराश्योर्योनवमो राशिस्तत्स्वामी तृतीयद्रेष्काणेशो भवति।
अन्त्ये द्रेष्काणे सितचन्द्रौ चेत्भवतस्तदा पादबलं भवति। बुधशनी मध्यद्रेष्काणे चेद्भवतस्तदा पादबलं भवति। सूर्यगुरुभौमाश्चेत्प्रथमद्रेष्काणे चेद्भवन्ति स्तदा पादबलं भवन्ति।
आदिमध्यवसानेषु द्रेष्काणेषु स्थिताः क्रमात्।
पुंनपुंसकयोषाख्या दद्युस्तिथि बलं ग्रहाः।। पृ ९१, अ ३, जातकपद्धतिः।
स्थानबलस्य फलम्
स्थानबलयुक्तग्रहेण परा सम्पतिं ददाति। सुखं बलं गौरवं कौशलञ्चाभिवृद्धिः करोति।
परा विभूतिं जनयत्यवश्यं बलाधिकत्वं महसः प्रवृद्धिम्।
नानाधनं कौशलगौरवादि कुर्यादलं स्थानबलोपपन्नः।। पृ १३१, अ १, सुगमज्योतिषः।
दिग्बलम्
यो ग्रहो यस्यां दिशि बलवानुक्तस्तदुत्पन्नं बलं दिग्बलं कथ्यते। ग्रहाणां दिक्क्रमस्तु राशिचक्र एव कल्पनीयो भवति। लग्नचतुर्थसप्तमदशमभावाः सव्यक्रमेण पूर्वोत्तरपश्चिमयाम्योदिक् स्थानीया इति प्रत्यक्षतो ज्ञायते। लग्नचतुर्थसप्तमदशमभावेषु क्रमेण बुधगुरू, शुक्रचन्द्रौ, शनिः,सूर्यमङ्गलौ ते दिग्बलशालिनः अर्थात् रूपबली भवन्ति।
दिक्षु बुधाङ्गिरसौ रविभौमौ सूर्यसुतः सितशीतकरौ च। श्लो १७, अ २, बृहज्जातकम्।
दिग्बलसाधने मन्दात् लग्नम्, इनात्कुजाच्च हिबुकम्, विधोभार्गवात् च दशमम्, बुधगुरुश्च सप्तमं शोध्यम्। शोध्यन्तरं यदि षड्भ्योऽल्पं भवति तदा यथास्थित मेव। षड्राशितोधिकं स्यात् चक्रात् विशोध्यं तद्भागं षड्भक्तः फलं दिग्बलम्। इति केशवाचार्य मतम्। पराशरेण तु चक्राद् विशोध्यभागस्त्रिभिर्भक्ताश्च दिग्बलमिति कथितम्।
मन्दाल्लग्नमिनात्कुजाच्च हिबुकं शोध्यं विधोर्भागवात्।
माध्यं ज्ञाद् गुरुतोऽस्तमत्र रसभात्पुष्टं त्यजेच्चक्रतः।। दिग्वीर्यं रसहृत्। श्लो ७, अ ३, जातकपद्धतिः।
सूर्यात् कुजात् सुखं जीवाज्ज्ञाच्चाऽस्तं लग्नमार्कितः।
दशमं च भृगोश्चन्द्रात् प्रोज्झ्य षड्र चेष्टाबलभाधिके सति।।
चक्राद् विशोध्य तद्भागस्त्रिभिर्भक्ताश्च दिग्बलम्।। श्लो ७, अ २८, बृहत्पाराशरहोराशास्त्रम्।
अत्रोदाहरणम्
मन्दादस्मात् ११।३।४७।५७ लग्नं ५। २२।४८।४५ शोधितम् ५।१०।५८।१२ अस्यांशाः १५०।५८।२२ षड्भिर्विभक्ता जातं २५।०९।४३ मिति केशवाचार्यमते दिग्बलम्।
मन्दादस्मात् ११।३।४७।५७ लग्नं ५। २२।४८।४५ शोधितम् ५।१०।५८।१२ अस्यांशाः १५०।५८।२२ त्रिभिर्विभक्ता जातं ५०।१९।२७ मिति पराशरमते दिग्बलम्।
दिग्बलस्य फलम्
दिग्बलीग्रह स्वदशायां स्वदिशि द्रव्यादिविशिष्टलाभं करोति।
आशाबलं यस्य भवेत्प्रकृष्टं खेटः स्वकाष्ठां नियमेन नीत्वा।
विशिष्टलाभं कुरुते दशायां पुंसां निजद्रव्यविमिश्रितं हि।। पृ १३२, अ १, सुगमज्योतिषः।
कालबलम्
समयजं बलं कालबलं कथ्यते। नतोन्नतबलपक्षबलाहोरात्रत्रिभागबलवर्षेशादिबलैः चतुर्धाः कालबलम्।
नतोन्नतबलम्
यन्नतं तद्विगुणं कार्यं चन्द्रभौमशनीनां नतोन्नतबलं भवति । उन्नते द्विगुणे कृते रविगुरुशुक्राणां बलं भवति। बुधस्य सदैवरूपं १बलमिति।
इष्टावधि निशिथात्तून्नतं त्रिंशच्च्यूतं नतम्।
चन्द्रभौमशनीनां च नतं द्विघ्नं कलादिकम्।
षष्ठिशुद्धं तदन्येषां सदा रूपं बुधस्य हि।। श्लो ९, अ २८, बृहत्पाराशरहोराशास्त्रम्।
उदाहरणमुभयोः। नतघट्यादि २५। ३ इदं द्विनिघ्नं जातं रूपादि ०।५०।६ उन्नतं च (३०— २५। ३) Ö०।४।५७ द्विगुणं ०।९।५४ तथा कृतं सिद्धं नतोन्नतबलं रूपादि।
पक्षबलम्
पक्षबल विषये कृष्णपक्षे बलं शुभग्रहाणां बलाभावं ज्ञातव्यम्। तथैव, शुक्लपक्षे शुभग्रहाणां पक्षबलं पापग्रहाणां बलाभावं ज्ञातव्यम्।
बहुलसितगताः स्युः क्रूरसौम्या क्रमेण। श्लो २१, अ २, बृहज्जातकम्।
अत्र पापशुभं व्यवस्था
क्रूरग्रहोऽर्कः कुजसूर्यजौ तु पापी शुभाः शुक्रशशाङ्कजीवाः।
सौम्यस्तु सौम्यो व्यतिमिश्रितोऽन्यैः पापैश्च तुल्या प्रकृतित्वमेति।। पृ ९९,अ ३ जातकपद्धतिः।
अत एव त्र्याकारे विधुश्चन्द्रः क्षीणोऽपि सत् शुभ एव केभ्यश्चन्द्रः शुभाङ्गिकारात्क्षीणचन्द्रयोगे बुधस्य युता अतः पद्धतौ सर्वत्र दृग्बलानयने चक्रार्धहीनौ तनुगे खले इत्यादिस्थले चन्द्रस्य शुभनैव अन्यत्र तु कृष्णपक्षत्रयोदशीमारभ्य यावच्शुक्लप्रतिपत्क्षीणः।
पक्षबलसाधनोपायः
विरविचन्द्रान्तरं यदि षड्भ्योऽल्पं भवति तदा यथास्थित मेव। षड्राशितोधिकं स्यात् चक्रात् विशोध्यं तद्भागं त्रिभिर्भक्तं फलं चन्द्रबुधगुरुशुक्राणां पक्षबलमायाति । षष्ठितः विशोध्य रविभौमपापयुतबुधशनैश्चराणां पक्षबलो भवतीति। इति पराशरमते पक्षबलम्।
भुक्तपक्षे जातास्तिथयः सावयव आद्याःकृष्णपक्षे ऐष्याः सावयवास्तिथय पश्चाद्वेदगुणाः कार्याः। बुधगुरुचन्द्रशुक्राणां पक्षबलो भवतीति। आगतान्तरं विषष्टि शोधितं पापानां चाऽथवीर्यं भुक्तेयाताः कृष्णपक्षेऽपि भोग्याः।।
पक्षबलसाधने अत्रोदाहरणम्
शुक्लपक्षे यातास्तिथयः सावयवाः १०। ६। ५६ चतुर्गुणाः पक्षबलं शुभानां ०।४०।२८। इत्यत्र सावयवास्तिथयो न ज्ञातास्तत्र व्यर्केन्दु भागा स्त्रिहृताकलाद्यं तत्पक्षवीर्यं शुभखेचराणामितिकरणे न वोध्यम्। तथाकृते पक्षबलम्। ०।४०। २८ षष्ठे शुद्धमेतत् ०।१९।३२ इदं पापानां यथाकृते पक्षबलं सिद्धमिदम्।
अहोरात्र त्रिभागबलम्
अन्हस्त्रिधाभागे पूर्वांशे जन्मचेत्तदा ज्ञस्य पूर्णबलम् अर्थात् षष्टिकला बलो भवति। द्वितीये सूर्ये पूर्णं बलम्। तृतीये शनेः पूर्णबलम्। रात्रित्रिभागे चन्द्रस्य प्रथमे भागे पूर्णबलम्। द्वितीये शुक्रस्य। तृतीये भौमस्य। गुरोस्तु दिवारात्रौ जन्म तदारूपमेव बलमिति ज्ञातव्यम्।
दिनत्र्यंशेषु सौम्यार्क शनीनां निट्त्रिभागके।
चन्द्रशुक्रकुजानां च बलं पूर्णं सदा गुरौः।। श्लो १२, अ २८, बृहत्पाराशरहोराशास्त्रम्।
वर्षेशादिबलम्
वर्षेशमासेशदिनेशहोराऽधिपाबलिष्ठाश्चरणाभिवृद्धा इति। वर्षेशस्य एकचरणः
०। १५। ० बलम्। मासेशस्य द्वौपादौ ०।३०।० दिनेशस्य पादत्रयं ०।४५।० होरेशस्य पूर्णबलं १।०।० इति वर्षेशादि बलं कथ्यते।
वर्षमासदिनेशानां तिथ्यस्त्रिंशच्छरार्णवाः।
होरेशस्य बलं षष्टिरुक्तं नैसर्गिकं पुरा।। श्लो १३, अ २८, बृहत्पाराशरहोराशास्त्रम्।
कालबलफलम्
शत्रु क्षयं भूगजवाजीबृद्धिं शौर्यं च रत्नाम्बरसम्पदं च।
लीलाविलासं विमलां च कीर्ति कुर्याद्ग्रहः कालबलाधिशाली।। पृ १३२, अ १, सुगमज्योतिषः।
नैसर्गिकबलम्
शन्यादयो ग्रहाः क्रमशो वृद्धितो नैसर्गिकबलिनो भवन्ति। सर्वेषु ग्रहेषु सूर्य पूर्णरूपेण नैसर्गिक बली भवति। नैसर्गिक बलौ शनि अल्पवली मन्यते । शकुबुगुशुचराद्यावृद्धितो वीर्यवन्तः। श्लो १७, अ २, बृहज्जातकम्।
नैसर्गिकबलसाधनविधिः
खरसा ६० मानं सप्तभिर्भक्ताः एकादिभि १।२।३।४।५।६।७ गुणिताः जाता शनिभौमबुधगुरुशुक्रचन्द्रसूर्याणां नैसर्गिकबलमायाति।
यथोदाहरणम् :
६०÷ ७ Ö ८।३४।१७
८।३४।१७ ×१ Ö८।३४।१७ शनिः
८।३४।१७ ×२ Ö१७।९।३४ भौमः
८।३४।१७ ×३ Ö२५।४२।५१ बुधः
८।३४।१७ ×४ Ö८।३४।१७ गुरुः
८।३४।१७ ×५ Ö८।३४।१७ शुक्रः
८।३४।१७ ×६ Ö८।३४।१७ चन्द्रः
८।३४।१७ ×७ Ö८।३४।१७ सूर्यः
नैसर्गिकबलफलम्
राहुदोषं बुधो हन्यादुभयोस्तु शनैश्चरः।
त्रयाणां भूमिजो हन्ति चतुर्णां दानवार्चितः।।
पञ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमा।
सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे।। श्लो ७३, अ २,जातकपारिजातः।
चेष्टाबलम्
चेष्टाबलं द्विविधं आयनं चेष्टाबलं च। उभयोर्योगे स्पष्ट चेष्टाबलं भवति।
आयनबलम्
ग्रहाणां अयनं गमनं तद्वसादुत्पन्नं बलमायनबलं कथ्यते। सूर्यचन्द्रौ उत्तरायणे मकरकुम्भमीनमेषवृषमिथुनराशिषु बलवन्तौ भवतः। भौमबुधगुरुशुक्रशनयः दक्षिणायने कर्कसिंहकन्यातुलावृश्चिकधनुर्धरराशिषु वक्रगा च बलिनो भवन्ति। ते पञ्चताराग्रहा चन्द्रेण सहिता बलिनो भवन्ति। भौमादि पञ्चताराग्रहाणां परस्परं युद्धं भवति। तेषु मध्ये विश्तीर्णरश्मियुक्तो ग्रहो युद्धे विजयी भवति। शीघ्रकेन्द्रद्वितीयपदस्थ ग्रहस्य विपुलकरत्वं प्रायः सम्भवति। तत्र उत्तरदिग्भागस्थितो ग्रहो बलवान् भवति। शुक्रो दक्षिणदिग्भागेऽपि जययुक्तो भवति।
उदगयने रविशीतमयुखौ वक्रसमागमगाः परिशेषाः।
विपुलकरा युधि चोत्तरसंस्थाश्चेश्टितवीर्ययुताः परिकल्प्याः।। श्लो२०, अ २, बृहज्जातकम्।
आयनबलसाधने त्रयः ४५, ३३ ,१२ खण्डकांशाः सन्ति। सायनग्रहस्य भुजराशितुल्यखण्डयुतिश्च अंशादिभागं अग्रिमाङ्केन हताकार्या
त्रिंशल्लब्धं त्रिराशिषुयुता कार्या यल्लब्धं आयाति शनिन्द्वोः स्वऋणं तुलादि षड् राशि पर्यन्तं धनं मेषादि षड्राशि पर्यन्तं ऋणं कार्यम्। भौमेज्यार्कशुक्राणां मेषादि षड्राशि पर्यन्तं ऋणं कर्तव्यम्। तुलादि षड्राशि पर्यन्तं धनं कर्तव्यम्। बुधस्य सदा धनं कार्यम्। तदंशादिकं त्रिभिर्भक्तं लब्धमायजं बलं भवति।
पञ्चाब्धय ४५ सुराः ३३ सूर्याः १२ खण्डकांशाः क्रमादमी।
सायनग्रहदो राशितुल्यखण्डयुतिश्च सा।।
भागादिकहतादेष्यात् त्रिंशल्लब्धयुता लवाः।
स्वऋणं तुलमेषादौ शनिन्द्वोश्च त्रिराशिषु।।
तथाऽऽरार्केज्यशुक्राणां व्यस्तं ज्ञस्य सदा धनम्।
तद्भागाश्च त्रिभिर्भक्ता ज्ञेयमायनजं बलम्।।श्लो १५,१६,१७ , अ २८ बृहत्पाराशरहोराशास्त्रम्।
यथोदाहरणम्
स्पष्टसूर्यः ३।२०।४।२५ +अयनांशः २३।४५।५०
Ö सायनसूर्यः ४।१३।५०।१५
भुजः Ö ६।००।००।०० —४।१३।५०।१५ Ö १।१६।९।४५
अत्र १ राशि Ö प्रथमखण्डः ४५
अंशादि Ö१६।९।४५ अग्रिमखण्डः Ö ३३
अंशादिफलम् Ö १६।९।४५ ×३३/३०
Ö १५।१३।१६ +४५
Ö६०।१३।१६
Ö २।०।१३।१६
अत्र सायनसूर्य मेषादि अस्ति।
अतः ३ राशि +२।०।१३।१६
Ö५।०।१३।१६
Ö१५०।१३।१६ अंशात्मकम्
Ö१५०।१३।१६ ÷३
Ö५०।४।२५ इति सूर्यस्य अयनबलम्।
चेष्टाबलम्
ग्रहाणां गमनाधारे निर्धारितो बलं चेष्टाबलं कथ्यते।
ग्रहाणामष्टधा गतिर्भवति। १.वक्रा २. अनुवक्रा ३.विकला ४.मन्दा ५.मन्दतरा ६.समा ७. चरा ८.चाऽतिचरा इति।
वक्रगतिः Ö ६०, अतिवक्रः Ö ३०, विकले Ö १५, मध्यगतौ Ö ३० मन्दे Ö १५ , मन्दतरे Ö ७।३० , चरे Ö ४५ अतिचरे Ö ३० ।
वक्रानुवक्रा विकला मन्दा मन्दतरा मा।
चरा चाऽतिचरा चेति ग्रहाणां मष्टधा गतिः।।
षष्टिर्वक्रगते वीर्यमनुवक्रगतेर्दलम्।
पादो विकलभुक्तेः स्यात् तथा मध्यगतेर्दलम्।।
पादो मन्दगतेस्तस्य दलं मन्दतरस्य हि।
चरभुक्तेस्तु पादोनं दलं स्यादतिचारिणः।। श्लो २१,२२, २३ अ २८, बृहत्पाराशरहोराशास्त्रम्।
चेष्टाबलसाधनोपायः
चन्द्रस्य पक्षबलमेव चेष्टाबलम्। सूर्यस्यायनबलमेव चेष्टाबलं भवतीति।
यद्रवेरायनं वीर्यं चेष्टाख्यं तावदेव हि।
विधोः पक्षबलं यावत् तावच्चेष्टाबलं स्मृतम्।। श्लो १८, अ२८ बृहत्पाराशरहोराशास्त्रम्।
मध्यस्पष्टग्रहयोरैक्यं तस्यार्दस्तेनशीघ्रोच्चमूनं कर्तव्यम्। बुधशुक्रयोः शीघ्रकेन्द्रे भवतस्तत्र शीघ्रकेन्द्रे सूर्ये योजिते उच्चम्। तत्तुङ्गवत्सर्वकार्यं कर्तव्यम्। षड्भाधिकश्चेत्चक्रतः शोध्यं तस्यांशा स्त्रिभिर्भक्ता भौमादि पञ्चानां चेष्टाबलं भवति।
मध्यस्पष्टयुतेर्दलोनितचलं चेष्टाख्यकेन्द्रं कुजात्।
स्याच्चेत्तभगणाच्युतं षडधिकं षड्हृच्च चेष्टाबलम्।। श्लो १०, अ ३, जातकपद्धतिः।
पराशरस्य मते आयनबलसाधनोपायः
अत्रोदाहरणम् :
तत्र मध्यमो भौमः १।२७।१४ स्पष्टः ०।२८।५९ अनयोर्योगः २।२५।१३ अस्यार्धं १।१३।७ भौमस्य शीघ्रोच्चं मध्यमो रविः ९।२०।२२ अनेन ऊनितः कृतः ८।७।१५ इदं षड्भादधिकमिति चक्राद्विशोध्यः ३।२२।४४ अस्यांशाः १।२।४४ त्रिभिर्हृतं चेष्टाबलं भौमस्य ०।३७।३५ एवं सर्वेषाम्। रव्यादीनां आयन चेष्टाबलयोर्योगेस्पष्टचेष्टाबलं भवति।
चेष्टाबलयुक्तो ग्रहः सदैव विचित्रफलं ददाति। क्वचित् राज्यं ददाति। क्वचित् पूजां ददाति। क्वचित् यशं ददाति ।
क्वचिद्राज्यं क्वचित्पूजां क्वचित्द्रव्यं क्वचिद्यशः।
ददाति खेचरश्चित्रं चेष्टाबलसमन्वितः।। पृ १३३, अ १ ,सुगमज्योतिषः।
दृक्बलम्
ग्रहाणां दृष्टिविषयकं बलं दृग्बलं कथ्यते। पापग्रहाणां दृष्टि पाप दृष्टि कथ्यते। शुभ ग्रहाणां दृष्टि शुभ दृष्टि कथ्यते। दृक्बल निर्धारणे शुभदृष्टि अधिको ऽस्ति चेत् तस्यां पापदृष्टिं हीनं कर्तव्यं शेषं स्थानादि बलेषु युतं कर्तव्यम्। यदि पाप दृष्टि अधिको ऽस्ति चेत् शुभदृष्टिं हीनं शेषं स्थानादि बलेषु युतं कर्तव्यम्।
सूर्यादीनां ग्रहाणां सप्तमभावे पूर्णदृष्टिर्भवति। तृतीयदशमे शनैश्चरस्य , त्रिकोणे जीवे, चतुरस्र भूमिसुतस्य च पूर्णदृष्टिर्भवति। स्वस्थानं द्वितीयं च षष्ठमेकादशं तथा। द्वादशञ्च न पश्यन्ति खेचराः।
पश्यत्यसौ भानुसुतस्तृतीयं मानं च पूर्णं चतुरस्रमारः।
जीवस्त्रिकोणं मदनं च सर्वे पश्यन्ति दृष्ट्या चरणप्रवृद्धया।। श्लो ९२, अ १, सर्वार्थचिन्तामणिः।
ग्रहाणां दृष्टिचक्रम्
| सू | चं | बु | शु | ग्रहः | |
| शून्यम् | शून्यम् | शून्यम् | शून्यम् | ३० | दृष्टिःअंशः |
| एकपादः | एकपादः | एकपादः | एकपादः | ६० | |
| त्रिपादः | त्रिपादः | त्रिपादः | त्रिपादः | ९० | |
| अर्धम् | अर्धम् | अर्धम् | अर्धम् | १२० | |
| शून्यम् | शून्यम् | शून्यम् | शून्यम् | १५० | |
| पूर्णम् | पूर्णम् | पूर्णम् | पूर्णम् | १८० | |
| त्रिपादः | त्रिपादः म् | त्रिपादः | त्रिपादः | २१० | |
| अर्धम् | अर्धम् | अर्धम् | अर्धम् | २४० | |
| एकपादः | एकपादः | एकपादः | एकपादः | २७० | |
| शून्यम् | शून्यम् | शून्यम् | शून्यम् | ३०० |
| मं | बृ | श | ग्रहः | |
| शून्यम् | शून्यम् | शून्यम् | ३० | दृष्टिःअंशः |
| एकपादः | एकपादः | पूर्णम् | ६० | |
| पूर्णम् | त्रिपादः | त्रिपादः | ९० | |
| अर्धम् | पूर्णम् म् | अर्धम् | १२० | |
| शून्यम् | शून्यम् | शून्यम् | १५० | |
| पूर्णम् | पूर्णम् | पूर्णम् | १८० | |
| पूर्णम् | त्रिपादः म् | त्रिपादः | २१० | |
| अर्धम् | पूर्णम् | अर्धम् | २४० | |
| एकपादः | एकपादः | पूर्णम् | २७० | |
| शून्यम् | शून्यम् | शून्यम् | ३०० |
मध्यदृष्टि त्रैराशिकादेव ज्ञातव्यम्।
निष्कर्षः
ग्रहबलमिति ज्योतिषशास्त्रे ग्रहाणां शुभाशुभफलमापने एकविशेषः साधनोऽस्ति। येन ग्रहाणां योगानाञ्च समृद्धपरिणामा दर्शयति येन मानवजीवने सम्बद्धाः ग्रहविषयकं शुभाशुभफलं ग्रहबलादुपलभ्यते। ते बलनिर्धारणे सौम्यग्रहाणां बलाधिकत्वे शुभफले वृद्धिर्भवति। क्रूरग्रहस्य बलाधिकत्वे शुभफले अल्पत्वमायाति। ग्रहबलं स्थानदिक्कालनिसर्गचेष्टादृक्भेदैःमुख्यरूपेण षड्विधम्। तत्रापि स्थानबलं पञ्चधा, दिग्बलं एकधा, कालबलं चतुर्धा, निसर्गबलं एकधा, चेष्टाबलं त्रिधा, दृग्बलमेकधा अत एव ग्रहबलं पञ्चदशधा भवन्ति।
स्थानबलस्य सन्दर्भे उच्चसप्तवर्गजकेन्द्रादिद्रेष्काणसमविषमैश्च पञ्च विधम्।। ग्रहस्य उच्चबलं साधने नीचाद्विशोध्य शोधने यदि षड्राशिभ्योधिको भवेत्तदा चक्राद् द्वादशेभ्यो विशोध्य। शेषस्यांशाः कार्यास्ते त्रिभक्ताउच्चवीर्यो भवति।
ग्रहाणां गृहादिवसात् बलं सप्तवर्गजबलं कथ्यते। स्वर्क्षे अर्धम्, समभे अष्टमः, मूलत्रिकोणे त्रिचरणाः, मित्रर्क्षे ऽङ्घ्रि, अधिमित्रर्क्षे त्रयः, वैरिभेऽष्ट्यंशकः, अधिशत्रुभे दन्तांशो बलं सप्तवर्गजबलो मन्यते।
युग्मायुग्मनवांशबले स्त्रीराशौ स्त्रीनवांशे वा स्थितौ शुक्रेन्दू भवतस्तदा रूपचतुर्थांशबलं (१५ कला) बलं भवति। स्त्रीराशौ स्त्रीराशेर्नवांशे चोभयोः स्थितौ शुक्रेन्दू भवतस्तदा पादद्वयंबलं ( ३० कला) भवति। अन्ये सूर्यभौमबुधगुरुशनयः पुरुषराशौ पुरुषनवांशे वा स्थिताःचेत् चतुर्थांशबलं (१५ कला) भवति। पुरुषराशौ पुरुषराशेर्नवांशे चोभयोः स्थितौ अन्ये ग्रहा भवन्ति तदा पादद्वयंबलं ( ३० कला) भवति।
केन्द्रादिबले केन्द्रस्थितस्य ग्रहस्य रूपं बलम्। पणफरस्थस्य मध्यबलं बलार्धंम्। आपोक्लिमस्थितानां चरणबलमिति कथ्यते।
द्रेष्काणबले द्रेष्काणलग्ने ग्रहेण प्रथमदशमांशभागाभ्यन्तरे प्रथमद्रेष्काणस्वामी लग्न एव। तत् लग्ने ग्रहे वा दशांशेभ्यः परतो यावद्विंशतिभागमध्ये सतिग्रहराशेर्यः पञ्चमो राशिस्तत्स्वामी द्वितीयद्रेष्काणेशो भवति। विंशांशेभ्यः परतो त्रिंशभ्यस्तत ग्रहे लग्ने वा सति ग्रहलग्नराश्योर्यो नवमो राशिस्तत्स्वामी तृतीयद्रेष्काणेशो भवति।
यो ग्रहो यस्यां दिशि बलवानुक्तस्तदुत्पन्नं बलं दिग्बलं कथ्यते। ग्रहाणां दिक्क्रमस्तु राशिचक्र एव कल्पनीयो भवति। लग्नचतुर्थसप्तमदशमभावाः सव्यक्रमेण पूर्वोत्तरपश्चिमयाम्योदिक् स्थानीया इति प्रत्यक्षतो ज्ञायते। लग्नचतुर्थसप्तमदशमभावेषु क्रमेण बुधगुरू, शुक्रचन्द्रौ, शनिः,सूर्यमङ्गलौ ते दिग्बलशालिनः अर्थात् रूपबली भवन्ति।
दिग्बलसाधने मन्दात् लग्नम्, इनात्कुजाच्च हिबुकम्, विधोभार्गवात् च दशमम्, बुधगुरुश्च सप्तमं शोध्यम्। शोध्यन्तरं यदि षड्भ्योऽल्पो भवति तदा यथास्थित मेव। षड्राशितोधिकं स्यात् चक्रात् विशोध्यं तद्भागं षड्भक्तः फलं दिग्बलम्।
समयजं बलं कालबलं कथ्यते । कालबलं नतोन्नतबलपक्षबलाहोरात्रत्रिभागबलवर्षेशादिबलैः चतुस्प्रकारकाः सन्ति।
नतोन्नतजनित बलं नतोन्नतबलं कथ्यते। पूर्वागतं यन्नतं तद्विगुणं कार्यं चन्द्रभौमशनीनां नतोन्नतबलं कथ्यते। उन्नते द्विगुणे कृते रविगुरुशुक्राणां नतोन्नतबलं भवति। बुधस्य सदैवरूपं १बलं भवति।
पक्षबले विरविचन्द्रान्तरं कर्तव्यम् यदि षड्भ्योऽल्पं भवति तदा यथास्थित मेव स्थाप्यम्। षड्राशितोधिकं स्यात् तदा चक्रात् विशोध्यं तद्भागं त्रिभिर्भक्तं फलं चन्द्रबुधगुरुशुक्राणां पक्षबलं कथ्यते । षष्ठितः विशोध्य रविभौमपापयुतबुधशनैश्चराणां पक्षबलो भवतीति।
अहोरात्रस्य त्रित्रिविभागं अर्थात् षट्विभागादुत्पन्नबलं अहोरात्रत्रिभागबलं कथ्यते। अन्हस्त्रिधाभागे पूर्वांशे जन्मचेत्तदा ज्ञस्यपूर्णबलम् अर्थात् षष्टिकला भवति। द्वितीये सूर्ये पूर्णं बलम्। तृतीये शनेः पूर्णबलम्। रात्रित्रिभागे प्रथमे भागे चन्द्रस्य पूर्णबलम्। द्वितीये शुक्रस्य। तृतीये भौमस्य। गुरोस्तु दिवारात्रौ जन्म तदारूपमेव बलमिति भवति।
वर्षेशमासेशदिनेशहोराऽधिपाबलिष्टाश्चरणाभिवृद्धा इति। वर्षेशस्य एकचरणः०। १५। ० बलम्। मासेशस्य द्वौपादौ ०।३०।० दिनेशस्य पादत्रयं ०।४५।० होरेशस्य पूर्णबलं १।०।० इति वर्षेशादि बलं कथ्यते।
शन्यादयो ग्रहाः क्रमशो वृद्धितो नैसर्गिकबलिनो भवन्ति। सर्वेषु ग्रहेषु सूर्य पूर्णरूपेण नैसर्गिक बली भवति। नैसर्गिक बलौ शनि अल्पवली मन्यते ।
नैसर्गिकबलसाधनविधिः
खरसा ६० मानं सप्तभिर्भक्ताः एकादिभि १।२।३।४।५।६।७ गुणिताः जाता शनिभौमबुधगुरुशुक्रचन्द्रसूर्याणां नैसर्गिकबलमायाति। तथा कृते सर्वदा स्थिरमेव।
ग्रहाणां गत्यस्थित्याधारे निर्धारितो बलं चेष्टाबलं कथ्यते। सूर्यचन्द्रौ उत्तरायणे मकरकुम्भमीनमेषवृषमिथुनराशिषु बलवन्तौ भवतः। भौमबुधगुरुशुक्रशनयः कर्कसिंहकन्यातुलावृश्चिकधनुर्धरराशिषु वक्रगा च बलिनो भवन्ति। ते पञ्चताराग्रहा चन्द्रेण सहिता बलिनो भवन्ति। भौमादि पञ्चताराग्रहाणां परस्परं युद्धं भवति। तेषु मध्ये विश्तीर्णरश्मियुक्तो ग्रहो युद्धे विजयी भवति। शीघ्रकेन्द्रद्वितीयपदस्थ ग्रहस्य विपुलकरत्वं प्रायः सम्भवति। तत्र उत्तरदिग्भागस्थितो ग्रहो बलवान् भवति। शुक्रो दक्षिणदिग्भागेऽपि जययुक्तो भवति।
ग्रहाणां दृष्टिविषयकं बलं दृग्बलं कथ्यते। पापग्रहाणां दृष्टि पाप दृष्टि कथ्यते। शुभ ग्रहाणां दृष्टि शुभ दृष्टि कथ्यते। सूर्यादीनां ग्रहाणां सप्तमभावे पूर्णदृष्टिर्भवति। तृतीयदशमे शनैश्चरस्य, त्रिकोणे जीवे, चतुरस्र भूमिसुतस्य च पूर्णदृष्टिर्भवति। स्वस्थानं द्वितीयं षष्ठमेकादशं द्वादशञ्च खेचराः न पश्यन्ति।
दृक्बल निर्धारणे शुभदृष्टि अधिकोऽस्ति चेत् तस्यां पापदृष्टिं हीनं कर्तव्यं शेषं स्थानादि बलेषु युतं कर्तव्यम्। यदि पाप दृष्टि अधिको ऽस्ति चेत् शुभदृष्टिं हीनाङ्के शेषं स्थानादि बलेषु युतं कर्तव्यम्। जन्मकुण्डल्यां ग्रहा बलवन्ता भवन्ति तदा जातकस्य आर्थिकसमृद्धिः, अधिकारः, सामाजिकप्रभावश्च सुधारयितुं सहाय्यं कर्तुं शक्नोति । यदि जन्मकुण्डल्यां ग्रहा बलहीना भवन्ति तदा जातकस्य आर्थिकसमृद्धिः, अधिकारः, सामाजिकप्रभावश्च न्यूनो भवति सः कृच्छेण जीवति।
अतः ग्रहाणां स्थानानां सम्बन्धानां च आधारेण योग विशेषाणां परीक्षणेन ग्रहबलस्य प्रभावं निरूपणमावश्यको भवति।
कृतज्ञता ज्ञापनम्
विश्वविद्यालयानुदानआयोगं कृते अहं हार्दिकी कृतज्ञतां प्रकटयामि यत् तेन एतत् शोधपत्रं सम्पन्नं कर्तुं मम प्रोत्साहनं कृतम्।
सन्दर्भग्रन्थसूची
आचार्यः, श्रीकेशवः (सन् २०१५), जातकपद्धतिः, व्या डा. सुरकान्त झा वाराणसी :चौखम्बासुरभारती प्रकाशनः।
आचार्यः, वराहमिहिरः (सन् १९९८ ),लघुजातकम्, व्या. दैवज्ञवाचस्पति श्रीवासुदेव, वाराणसी : सावित्री ठाकुर प्रकाशनः।
आचार्यः, वराहमिहिरः (सन् १९९७ ), बृहज्जातकम्, व्या .डा. सुरेशचन्द्र मिश्र, नयाँ दिल्ली : रञ्जन प्रकाशनः।
जोशी, देवीदत्तः (सन् १९२२), सुगमज्योतिषः, प्र.सं नयाँ दिल्ली : मोतिलाल
वाराणसीदासः।
दीक्षितः, विठ्वल (सन् २०२२), मुहूर्तकल्पद्रुमः व्या डा श्री कृष्ण जुगनू चौखम्बासुरभारती प्रकाशनः।
नीलकण्ठ दैवज्ञः, (सन् २००३), ताजिकनीलकण्ठी, वाराणसी :चौखम्बासुरभारती प्रकाशनः।
पराशरः, दैवज्ञः (सन् १९६८ ) बृहत्पाराशर होराशास्त्रम्, व्या झा, वाराणसी : खेलाडीलाल संकटाप्रसाद, सीतारामः।
पाठकः, श्री मन्महादेवः (सन् २०१९) जातकतत्त्वम्, वाराणसी : चौखम्बासुरभारती प्रकाशनः ।
वर्मा, कल्याणः, (सन् १९७७ ), सारावली, प्र.सं वाराणसी : मोतिलालवनारसीदासः।
वैद्यनाथः, (२००६), जातकपारिजातः, सं. सत्येन्द्र मिश्र, वाराणसी : चौखम्बासंस्कृतसीरीजभवनम्।
शर्मा, वेङ्कटेशः, (सन् २०१८ ), सर्वार्थचिन्तामणिः, प्र .सं वाराणसी : चौखम्बा सुरभारती प्रकाशनः ।