न्यायदर्शने षोडश पदार्था उरीक्रियन्ते विविच्यन्ते च। तत्र चतुर्दशपदार्थश्छलम्। यद्यपि वादमवलम्बमानेषु शास्त्रेषु छलविवचेनं नापेक्षितमेव, किंवा तत्त्वज्ञानार्थं छलस्य साक्षादुपयोगिता नास्ति, अथापि जाल्पिकेन वैतण्डिकेन वा छलादौ प्रयुक्ते तत्खण्डनपुरस्सरं शास्त्राभिप्रायसंरक्षणाथंर् वादिनश्छलादेर्ज्ञानमपेक्षितमिति। एतावता वादक्रमे तत्त्वजिज्ञासुः स्ववाक्ये छलं परिवर्जयेत्, जाल्पिकेन वैतण्डिकेन च छलप्रयोगपुरस्सरं सत्सिद्धान्तो न व्याहन्येत, तेन प्रयुक्तं छलं वाद्यपि ‘छलमनेन प्रयुक्तम्’ इति च जानीयात्।
केशवशरणोऽर्यालः
सहप्राध्यापक:, न्यायविभाग:
नेपालसंस्कृत-विश्वविद्यालयः
वाल्मीकिविद्यापीठम्, काष्ठमण्डपस्थम्
keshavsharanaryal88@gmail.com
लेखसारः
न्यायदर्शने षोडश पदार्था उरीक्रियन्ते विविच्यन्ते च। तत्र चतुर्दशपदार्थश्छलम्। यद्यपि वादमवलम्बमानेषु शास्त्रेषु छलविवचेनं नापेक्षितमेव, किंवा तत्त्वज्ञानार्थं छलस्य साक्षादुपयोगिता नास्ति, अथापि जाल्पिकेन वैतण्डिकेन वा छलादौ प्रयुक्ते तत्खण्डनपुरस्सरं शास्त्राभिप्रायसंरक्षणाथंर् वादिनश्छलादेर्ज्ञानमपेक्षितमिति। एतावता वादक्रमे तत्त्वजिज्ञासुः स्ववाक्ये छलं परिवर्जयेत्, जाल्पिकेन वैतण्डिकेन च छलप्रयोगपुरस्सरं सत्सिद्धान्तो न व्याहन्येत, तेन प्रयुक्तं छलं वाद्यपि ‘छलमनेन प्रयुक्तम्’ इति च जानीयात्। ज्ञात्वा च तन्निराकरणपूर्वकं स्वसिद्धान्तस्थापनञ्च सम्यक् कुर्यादिति धिया तदर्थमेव शास्त्रे वादिनमभिलक्ष्य छलपदार्थो विमृष्टः। तदपि विशिष्य छलविमर्शनं न्यायशास्त्रे उपक्रान्तम्। छलञ्चार्थविकल्पोपपत्त्या वचनविघात एव। वाक्छलसामान्यच्छलोपचारच्छलभेदेन न्यायशास्त्रे छलस्य त्रैविध्यमुररीकृतं वर्त्तते। अविशेषाऽभिहितेऽर्थे कथयितुराशयात् पृथगर्थकल्पनं वाक्छलम्। एवमेव सम्भावितार्थस्य वाक्यस्यातिसामान्यसम्बन्धादसम्भूतार्थकल्पनैव सामान्यच्छलम्। शक्तिलक्षणयोरन्यतरवृत्त्या शब्दप्रयोगे तदितरया वृत्त्या तत्प्रतिषेध एवोपचारच्छलम्। तत्र वाच्छलोपचारच्छलयोस्समानरूपत्वादभेद इति केषाञ्चन मतं विद्यत इति संसूचनपूर्वकं तत् खण्ड्यते सूत्रभाष्यादिषु। वस्तुतस्तु के ते ? इति न स्पष्टीभवति। अथापि केचन पूर्वपक्षिणस्तथाऽऽशङ्कां कर्तुं शक्नुवन्तीति सम्भावनामुद्भाव्य खण्डनं विहितं स्यान्न्यायसूत्रभाष्यादिष्वित्यनुमातुं सुशकम्। वस्तुतस्तु वाक्छलेऽनेकार्थे शब्दे एकस्मिन्नर्थे प्रयुक्तेऽर्थान्तरं प्रकल्प्य खण्डनं जृम्भ्यते चेदुपचारच्छले त्वेकां वृत्तिमाश्रित्यैकस्मिन्नर्थे प्रयुक्तस्य शब्दस्य तदितरां वृत्तिमाश्रित्य खण्डनं विधीयते। एतावता वस्तुगत्या द्वयोर्भेदः सुतरां सिद्ध्यति। किञ्च किञ्चन साम्यमादायैकत्वकल्पने छलमात्रस्यैकत्वं प्रसज्यते। किंबहुना किञ्चन सादृश्यमभिलक्ष्यैकत्वकल्पने षोडशपदार्थानामपि कतिपयेष्वंशेषु सादृश्यसम्भवात् पदार्थैकत्वप्रसक्तेः ‘एकपदार्थवादिनो नैयायिकाः’ इत्यापद्येत। एतत्सर्वं हृदि निधायैतदेवोपसंहर्तुं सुशकं यद् वाक्छलोपचारच्छलयोर्नितरां भेदसिद्धिः। वाचि छलं वाक्छलम्। अनेकार्थस्य शब्दस्य एकमर्थमादाय प्रयुक्तस्य तदितरार्थमादाय प्रतिषेध इति। अतिसामान्यधर्ममादाय विधीयमानं खण्डनं सामान्यच्छलम्। अथ च एकां वृत्तिमादाय शब्दे प्रयुक्ते अन्यां वृत्तिमाश्रित्य खण्डनमुपचारच्छलम्।
पारिभाषिकशब्दाः– कथा, वादः, जल्पः, वितण्डा, छलम्।
विषयपरिचयः
शास्त्रेषु कथाशब्दोऽसकृत् प्रयुज्यते। तदर्थश्च नानावक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भ इति। एतावता कथा नाम पूर्वोत्तरपक्षयुक्तवाक्यसमूह एव। सा च वादजल्पवितण्डाभेदेन त्रिधा विभज्यते। वस्तुतस्तु विचारा द्विधा प्रवर्तन्ते– तत्त्वज्ञानार्थं जयार्थञ्च। जयार्थं जृम्भ्यमाणो विचारो जल्पवितण्डापदेन व्यवह्रियते चेत्तत्त्वजिज्ञासार्थं प्रवर्तमानश्च वादपदेन व्यवह्रियते। तत्र जल्पवितण्डयोश्छलादीनां प्रयोगस्य निर्दिष्टत्वात् किमेतच्छलादिकम् ? इति प्रश्ने समुदिते शास्त्रेषु छलादिव्याख्यानमारभणीयं सञ्जातम्। तदेव मनसि निधायाऽस्मिन् लेखनव्यापारे छलपदार्थस्तद्भेदश्चान्तं वितन्यते। यद्यपि वादिनां किंवा तत्त्वजिज्ञासूनां छलादीनि नापेक्ष्यन्त एव, अथापि वादप्रसङ्गे स्वयमेव तेषां परिवर्जनार्थमथ च जाल्पिकवैतण्डिकाभ्यां प्रयुक्तानां तेषां पर्यनुयोगार्थञ्च तत्त्वजिज्ञासूनां कृतेऽपि छलादीनां बोधोऽभीष्टः समजनि। तदेव सम्यगनुसन्धाय कारुणिकेन मुनिना गौतमेन छलादीनामुद्देशपुरस्सरं यथायथं लक्षणपरीक्षादिकञ्चोपक्रान्तम्। अस्मिँश्च लघुप्रबन्धे तदेव पुरस्कृत्य छलपदार्थो विमृश्यते।
पौरस्त्यदर्शने न्यायदर्शनस्य सर्वशास्त्रप्रदीपत्वाद् विशिष्टं स्थानं वरीवर्त्ति। न्यायदर्शनमादृत्य छलविषयकं चिन्तनं तत्र तत्र ग्रन्थेषु कृतं लभ्यते। तथा सत्यपि छलतत्त्वमादायापेक्षानुरूपो विमर्शो न लभ्यते। अथापि कानिचन चिन्तनानि तु लभ्यन्त एव। तेष्वत्र थालीपुलाकन्यायेन कालक्रमानुसारेण निदर्शनत्वेन किञ्चन प्रस्तूयते– महामहोपाध्यायफणिभूषणतर्कवागीशमहोदयेन न्याय–परिचय (ख्रैष्टाब्दः १९६८) इति नामके न्यायदर्शनपरिचयात्मके ग्रन्थे न्यायदर्शनाऽभिमतं छलतत्त्वं किञ्चन विवृतं लभ्यते। परन्त्वत्र फणिभूषणमहाभागेन छलतत्त्वविषयकं समग्रतया विश्लेषणं न कृतमस्ति। गजाननशास्त्रिमुसलगाँवकरनामकेन विदुषा तर्कभाषा (ख्रै. १९९५) नामकस्य ग्रन्थस्य व्याख्यानक्रमे छलविषयकं व्याख्यानमपि विततं लभ्यते। तत्र तावच्छलस्य लक्षणविवेचनपूर्वकं तद्भेदा अपि विमृष्टा एव। परं तत्र तेषां तथा वैविध्यं किमर्थं कश्च तेषु वस्तुगतो भेदः ? इत्यादिषु मौनमवलम्बितमस्ति। सच्चिदानन्दमिश्रमहोदयेन न्यायदर्शनम् (ख्रै. २०१८) इत्याख्यस्य ग्रन्थस्य विवेचनक्रमे न्यायदर्शनाभिमतछलपदार्थो विमृष्टो वर्त्तते। तत्क्रमे तत्रभवता मिश्रमहाभागेन छलस्य सामान्यलक्षणविवेचनपूर्वकं तद्विभागश्च विश्लेषितो लभ्यते। तथा सत्यपि तत्रभवता विदुषा छलविशेषाणां पारस्परिकभेदविषयके चिन्तनेऽथ च कथं किमर्थं वा छलत्रैविध्यमित्यत्रापि न तावद् ध्यातमस्ति। डा.वैकुण्ठघिमिरेमहाभागेन वात्स्यायनप्रशस्तपादभाष्ययोस्तुलनात्मकमध्ययनम् (२०६७) इत्याख्ये विद्यावारिधिशोधप्रबन्धे छलविषयकं चिन्तनं विहितमस्ति। तत्र तावद् विशेषतो न्यायदर्शनदृष्ट्या छलविषयकं चिन्तनं प्रस्तुत्य कथञ्च वैशेषिकाभिमतपदार्थेषु छलमन्तर्भाव्यत इत्यत्रापि चिन्तनं विहितं लभ्यते। तथा सत्यपि छलस्य पारस्परिकभेदविषयकं विश्लेषणमथ च त्रैविध्यबीजविषयकं चिन्तनञ्चापेक्षानुरूपं कृतं न लभ्यते।
एतावता तत्राऽनेकैर्विद्वद्भिः साक्षात् परम्परया वा न्यायदर्शनदृष्ट्या छलसम्बद्धानि कानिचन चिन्तनानि विश्लेषणानि च प्रस्तुतानीति स्फुटं ज्ञायते। तथा सत्यप्युपर्युक्तानां चिन्तनानामानुषाङ्गिकत्वेन प्रस्तुतत्वादनुसन्धानदृशाऽपर्याप्तत्वं निर्बलत्वञ्चेति तत्रैव स्पष्टीकृतमेव। अथ च तत्र तत्र ग्रन्थेषु यदपि विश्लेषणं विहितम्, तेन विश्लेषणेनाऽभीष्टाऽसिद्धेः प्रस्तुते शोधलेखे न्यायदर्शनदृष्टिं पुरस्कृत्य छलतत्त्वविषयकः समीक्षणात्मको विमर्शो विहितो वर्त्तते। अतश्च न्यायदर्शनपुरस्सरं छलतत्त्वमादायाऽगे्रऽनुसन्धानायाऽध्ययनायाऽध्यापनाय चास्य लघुप्रबन्धस्य साहाय्यं भजमानत्वादस्यौचित्यपि पुष्यति। लेखेऽस्मिन् छलविमर्शनक्रमे आदौ छलसम्बद्धसमस्यादिकथनं वितन्यते चेत्तदनु छलविश्लेषणमुपक्राम्यते।
समस्याकथनम्
यद्यपि सामान्यतो न्यायदर्शनदृष्ट्या छलविषयकं समीक्षणं बहुधा बहुभिर्विद्वद्भिः कृतं लभ्यते, अथापि छलतत्त्वपरिशीलनक्रमे तद्विश्लेषणानिवार्यत्वसन्दर्शनपूर्वकं समीक्षणं वस्तुगत्या तत्तात्पर्यञ्च न परिशीलितं दृश्यते। अथ च छलपदार्थो वैशेषिकचिन्तने कुत्रान्तर्भवति ? इत्यपि स्पष्टीकृतं न लभ्यते। अतोऽस्मिन् विषये इमाः समस्या मूलत्वेन दृष्टिपथे आयान्ति–
(क) छलतत्त्वं किम् ?
(ख) न्यायदृष्ट्या छलतत्त्वस्य चिन्तनं कथं किमर्थञ्च प्रवृत्तम् ?
(ग) वैशेषिकचिन्तने छलतत्त्वं कुत्रान्तर्भवति ?
उद्देश्यकथनम्
न्यायदर्शनदृष्ट्या छलतत्त्वमादाय समस्याकथने उपस्थापिताः समास्या आकलय्य तत्समाधानार्थं छलतत्त्वसमीक्षणं वस्तुतत्त्वविवेचनञ्च विधाय तत्तात्पर्यप्रकाशनपूर्वकं निष्कर्षणमेव प्रस्तुतस्य शोधलेखस्योद्देश्यं वर्त्तते। तथा च मूलभूतमुद्देश्यमिदं विलसति–
(क) छलतत्त्वस्य स्वरूपप्रतिपादनम्।
(ख) न्यायदृष्ट्या छलतत्त्वस्य चिन्तनकारणसन्दर्शनपूर्वकं तत्प्रवृत्तिविश्लेषणम्।
(ग) वैशेषिकचिन्तने छलतत्त्वस्य गुणेऽन्तर्भावविश्लेषणपुरस्सरं शोधनिष्कर्षणम्।
अध्ययनस्य सीमाङ्कनम्
न्यायदर्शने प्रतिपादितं छलतत्त्वविमर्शनमेव प्रस्तुतस्य शोधलेखस्य क्षेत्रं सीमा च वर्त्तते ।
शोधविधिः
प्रस्तुतमिमं लघुप्रबन्धं सम्पादयितुमत्र सामग्रीसङ्कलनविधिरध्ययनविश्लेषणविधिश्चेति शोधविधिर्द्विधा विभक्तः। प्रसङ्गेऽत्रादावावश्यकसामग्रीसङ्कलनं कथं विहितमिति निर्दिश्यते चेत्तदनु सङ्कलितसामङ्ग्रीरादाय कतमञ्च विधिमवलम्ब्याऽऽलेखोऽयं सम्पादित इति स्पष्टीक्रियते । तत्र सम्पादितस्य लघुप्रबन्धस्य कृत आवश्यकसामग्रीणां सङ्कलनार्थं भूरिशः पुस्तकालयाः प्रयुक्ताः । तत्र पुस्तकालयेषु प्राप्ता ग्रन्था एव प्रमुखसामग्रीत्वेन गृहीता इति । अथ च यथावश्यकं न्यायवैशेषिकचिन्तनविचक्षणैः सह संवादादिकमपि विधाय सामग्रीसङ्कलनं कृतमस्ति ।
एवमेव प्रस्तुते लघुनिबन्धे मूलतः समीक्षणात्मको विधिरवलम्बितो वर्त्तते । अस्मिँश्च निबन्धे शास्त्रनिर्दिष्टान् सिद्धान्ताँश्चाऽऽदाय तेषां विषयाणां विश्लेष्यत्वान्निगमनात्मकविधिरवलम्बित इति सुतरां सिद्ध्यति। अभिधानेनाऽनेन लघुप्रबन्धेऽत्र गुणात्मकविधिरवलम्बित इत्यपि सिद्धम्।
सैद्धान्तिक आधारः
शास्त्रेषु कथायाः प्रथितत्वं वादजल्पवितण्डाभेदेन तत्त्रैविध्यञ्च नाविदितं विदुषाम्। तत्र विशेषतो जल्पवितण्डयोश्छलादीनां प्रयोग इत्यपि शास्त्रेषु वर्णितमेव। वादिभिः किंवा तत्त्वजिज्ञासुभिरप्यन्यैः प्रयुक्तान् छलादीन् निराकृत्य शास्त्रगतयथार्थसिद्धान्तविवेचनार्थञ्च तेषां ज्ञानमपेक्षितम्। अतः ‘तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे’ इत्यादिकमाकरस्वारस्यं हृदि निधाय यथायथं छलं विश्लेष्यं भवति। अतोऽत्र लघुप्रबन्धे छलसम्बद्धं न्यायशास्त्रगतसिद्धान्तमादाय तद्विश्लेषणव्यापार उपक्रान्तः। एतावता छलविमर्शनार्थमस्मिन् लेखेऽवलम्बितः सैद्धान्तिक आधारो न्यायशास्त्रगर्भित एवेति पुष्यति।
छलपदार्थः
शास्त्रेषु कथाशब्दस्यासकृत् प्रयोग इति तु विषयपरिचये स्पष्टीकृतमेव। सा च पुनस्त्रिविधेत्यपि स्फुटमेव– तिस्रः कथा भवन्ति– वादो जल्पो वितण्डा चेति (वात्स्यायनः, न्या.भा. १।२।१– पीठिका)। तत्र तत्त्वज्ञानेच्छयाऽऽरभ्यमाणा कथा वादश्चेद् जयार्थं प्रवर्त्तमाना कथा जल्पवितण्डापदेन व्यवहृतेति स्पष्टमेव– …तत्त्वबुभुत्सोः कथा वादः। उभयसाधनवती विजिगीषुकथा जल्पः (भट्टः, ख्रै.२००३, पृ.१७७)। भट्टजयन्तोऽपि न्यायमञ्जर्याख्यस्य स्वग्रन्थस्यैकादशाह्निके वादिनां त्रिविधा कथा भवन्तीति स्पष्टीकरोति– न्यायपरीक्षाद्वारकवस्तुविचारयोग्यास्तिस्रः कथा वादिनो भवन्ति वादो जल्पो वितण्डेति (भट्टः, ख्रै.१९८४, पृ.११८)।
अत्र प्रश्नः समुदेति यच्छास्त्रे तत्त्वजिज्ञासार्थं प्रवर्तमानत्वाद् वादचिन्तनं भवेन्नाम, जयार्थं प्रवर्तमानयोर्जल्पवितण्डयोः किमर्थं प्रवृत्तिरिति चेत्, सत्यम्, परं तत्त्वजिज्ञासूनां कृते जल्पवितण्डयोरनावश्यकत्वेऽपि विजिगीषुभिर्जल्पवितण्डयोरवलम्ब्यमानत्वात्तत्त्वजिज्ञासुभिस्तन्निराकृत्य शास्त्रसंरक्षणार्थं वादिनामपि तयोश्चिन्तनस्य सुतरामपेक्षितत्वं समजनि। किञ्च तत्त्वजिज्ञासुभिर्वादिभिः स्ववाक्येषु छलादीनां परिवर्जनं परवाक्येषु प्रयुक्तेषु तेषां निराकरणार्थञ्च तज्ज्ञेयम्– छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थ इति। उपलक्षितानां स्ववाक्यपरिवर्जनं छलजातिनिग्रहस्थानानां परवाक्ये च पर्यनुयोगः (वात्स्यायनः, न्या.भा. १।१।१), छलजातिनिग्रहस्थानानां स्ववाक्ये परिवर्जनं परवाक्ये पर्यनुयोगः परिज्ञानार्थमेव (उद्योतकरः, न्या.वा. १।१।१)। एतत् स्वारस्यं हृदि निधाय छलादीनि शास्त्रेषु व्याकृतानि। एतदेव संसूच्यते सूत्रकारेण गौतमेन मुनिनामुना सूत्रेण– तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवत् (गौतमः, न्या.सू. ४।२।५०)। तत्र तावद् यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स प्रतिपक्षस्थापनाहीनो वितण्डा (गौतमः, न्या.सू. १।२।२,३) इत्येतयोस्सूत्रयोर्जल्पवितण्डयोश्छलादीनां प्रयोगस्य निर्दिष्टत्वात् किमेतच्छलादिकमिति प्रश्ने समुदिते छलादिव्याख्यानमारभणीयं सञ्जातम्। किञ्च वादेऽपि कदाचन अस्याभ्यनुज्ञानं दृष्टिपथे आयाति, अथापि विशेषतो जल्पवितण्डयोरिति विवेकः। एतच्च स्पष्टीभवति जयन्तभट्टवचनेनैतेन–
तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम्। तदङ्गभूतानि छलजातिनिग्रहस्थानानि। यद्यपि च वादे केषाञ्चिदभ्यनुज्ञानमस्ति, तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं युक्तम् (भट्टः, ख्रै.१९८४, पृ.१४४)।
न्यायशास्त्रेऽभिमतेष्वथ च प्रतिपादितेषु षोडशपदार्थेषु त्रयोदशपदार्थश्छलम्। छलपदञ्च छो छेदने (पाणिनिः, धा.पा. ११४६) इत्येतस्माद्धातोर्भावार्थे वृषादित्वात् कलचि निष्पद्यते। किंवा छलधातोरप्यचि तत्पदं निष्पद्यते। छलधातुश्च पाणिनिना स्वधातुपाठे न परिगणितो लभ्यतेऽथापि नामधातुत्वेन तत् प्रकल्प्य तथा निष्पादयितुं शक्यमिति तु विवेकः। वक्तुरभिप्रेतस्यार्थान्तरस्योपपादनेन यो वचनविघातः किंवा यद् वाक्यविरोधप्रदर्शनं क्रियते, तदेव छलमित्युच्यते– वचनविघातोऽर्थविकल्पोपपत्त्या छलम् (गौतमः, न्या.सू. १।२।१०)। अत्र छलं लक्ष्यपदम्। वचनविघातञ्च लक्षणपदम्। तच्च किंस्वरूपमित्यत्र स्पष्टीकुर्वाणो वार्त्तिककार आह– वचनविघातो यः क्रियते सामान्यशब्दस्य विशेषानेकसम्बन्धित्वे सति अविवक्षिताध्यारोपेण छलं तद्वेदितव्यम् (उद्योतकरः, न्या.वा. १।२।१०)। एतावता ‘वचनविघात एव छलम्’ इति तु स्फुटम्। परमत्र तावद् ‘आस्यपिधानादिना वचनविघातो वा’ ? इति जिज्ञासां निराकृत्य तत्स्पष्टीकरणार्थमागतमर्थविकल्पोपत्त्येति पदम्। एतन्नाम ‘वक्तुरनभिप्रेतमर्थं प्रकल्प्य वक्तुरभिप्रेतस्यार्थस्य निषेध एव छलम्’ इति यावत्–
तत्र ‘वचनविघातः‘ इति सूत्रं सामान्यलक्षणप्रतिपादकम्। परस्य वदतः वचनविघातः– अभिधाननिरोधश्छलम्। किमास्यपिधानादिना ? नेत्याह– अर्थविकल्पोपपत्त्येति। वक्तुरनभिप्रेतमर्थात्तदुक्ते वचसि समारोप्य तन्निषेधं छलवादी करोति। कथमर्थान्तरारोपणमिति चेद् अर्थविकल्पोपपत्त्या। विकल्पमानार्थघटनयेत्यर्थः (भट्टः, ख्रै.१९८४, पृ.१४५)।
यथा नवीनकम्बलवत्त्वाभिप्रायेण ‘नवकम्बलः’ इत्युक्ते नवसङ्ख्यानुपपत्तिप्रदर्शनेन वाक्यविरोधप्रदर्शनं छलमिति। एतत्सर्वं तावदधस्तनेन तार्किकरक्षागतेन वाक्येन तद् व्याख्यानेन च स्पष्टीभवति–
किञ्चिदर्थमभिप्रेत्य प्रयुक्ते वचने पुनः।
अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतम्।।९४।। (वरदराजः, ख्रै.१९०३, पृ.२४०)
अर्थात् कञ्चनार्थमभिप्रेत्य कस्मिँश्चन वचने प्रयुक्ते तद्भिन्नमनिष्टमर्थं कल्पयित्वा विधीयमानो निषेध एव छलम्। पश्यामः पुनस्तद्व्याख्यानीभूतामिमाञ्चाभिव्यक्तिम्–
अर्थान्तरविवक्षया वाक्यप्रयोगे वक्तुरनभिप्रेतमेवार्थं तदर्थत्वेनाध्यारोप्यारोपितार्थदूषणं छलम्। अर्थश्चाभिधेय औपचारिकस्तात्पर्यविषयश्च विवक्षित इति तेन छलत्रयसङ्ग्रहः। … वाक्यस्य विविधकल्पना नानात्वकल्पनोपपत्तिकारणतया वचनविघातः छलमित्यर्थः (वरदराजः, ख्रै.१९०३, पृ.२४०)।
वस्तुतस्तु छलं हि सामान्यलक्षणेनोदाहर्तुमशक्यं विभागे तु सन्ति नैकान्युदाहरणानीत्यभिप्रैति भाष्यकारः– न सामान्यलक्षणे छलं शक्यमुदाहर्तुं विभागे तूदाहरणानि (वात्स्यायनः, न्या.भा. १।२।१०)। अथ चैतेन न्यायवार्त्तिकतात्पर्यटीकास्थेनाथ च न्यायमञ्जरीस्थेन वचनरचनेनापि तज्ज्ञायते– लक्षणान्तरवच्छलस्य सामान्यलक्षणे कस्मादुदाहरणं न दीयत इत्याह। न सामान्यलक्षणे इति। सामान्यविशेषवत् सर्वमुदाहरणं, निर्विशेषस्य सामान्यस्यासत्त्वेन केवलस्य सामान्यस्योदाहरणमशक्यमित्यर्थः। … विभागो विशेषलक्षणं, तस्मिन्नुदाहरणानि (मिश्रः, न्या.वा.ता.टी., १।२।१०), किमुदाहरणम् ? विशेषलक्षणेषु वक्ष्यामः। इहैव कस्मान्नोच्यते ? असम्भवादिति ब्रूमः। न हि निर्विशेषं सामान्यमुपपद्यत इति। तदुदाह्रियमाणं बलाद्विशेषनिष्ठमेवावतिष्ठते (भट्टः, ख्रै.१९८४, पृ.१४५)। ननूपरितनमुदाहरणं किं तर्हि ? इति चेत्तदपि छलविशेषस्यैव न तु छलसामान्यस्योदाहरणमिति ज्ञेयम्। तच्च वाक्छलस्यैवोदाहरणमिति।
छलविभजनम्
न्यायचिन्तने छलं तावद् वाक्छलसामान्यच्छलोपचारच्छलभेदेन त्रिधा विभज्यते– तत् त्रिविधम्– वाक्छलं सामान्यच्छलमुपचारच्छलं चेति (गौतमः, न्या.सू. १।२।११)। तार्किकरक्षाकारश्चैतत् स्पष्टीकुर्वन्नाह– तत्तु त्रेधा वाक्छलादिभेदतः …।।९५।। (वरदराजः, ख्रै.१९०३, पृ.२४०)। ननु वाक्छल–सामान्यच्छलभेदेन छलस्य द्वैविध्यमेवास्तु मास्तु त्रैविध्यं वाक्छलोपचारच्छलयोरविशेषात्। उभयत्राप्यर्थान्तरकल्पनाया विहितत्वात् किंवोभयत्रापि वाचि छलसत्त्वादिति केषाञ्चन वादिनां मतम्। तदेव ज्ञाप्यते सूत्रकारेण गौतमेनामुना प्रघट्टकेन– वाक्छलमेवोपचारच्छलं तदविशेषात् (गौतमः, न्या.सू. १।२।१५)। एतन्नाम वाक्छलोपचारछलयोरभेदः। अभेदे चैकेनैव कार्यसिद्धेर्लाघवाद् वाक्छलस्यैव स्वीकारोऽस्तु मास्तु चोपचारच्छलस्य पृथगुद्देशः– न वाक्छलमुपचारच्छलं भिद्यते– तस्याप्यर्थान्तरकल्पनयाऽविशेषात्, इहापि स्थान्यर्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यते इति (वात्स्यायनः, न्या.भा. १।२।१५)। किञ्च द्वयोरेकत्वे बीजत्वेन द्वयोर्विशेषाभावस्त्वस्त्येव, अथ च कञ्चन विशेषमादाय तयोः पृथक्त्वे तदानन्त्यञ्चाऽऽपद्यते। अतो द्वयोरेकत्वमेव मन्तव्यमिति तेषां हृदयम्– न खलु वागुपचारच्छलयोः कश्चिद्विशेषः। अनेकधा शब्दार्थे सम्भवति वक्त्रभिमतादर्थादन्यस्य कल्पनं, तत्प्रतिषेधनञ्चोभयत्रापि समानम्। अवान्तरविशेषकृतनानात्वाभ्युपगमे च तदानन्त्यप्रसङगः (भट्टः, ख्रै.१९८४, पृ.१५०)। प्रत्यवस्थीयते द्वयोरेकत्वपक्षः– वस्तुतस्तु वाक्छलोपचारच्छलयोविर्द्यते भेदो द्वयोरर्थभेदसत्त्वात्। कथमर्थभेदः ? इति चेत्– वाक्छलेऽर्थान्तरकल्पलनासत्त्वादुपचारच्छले त्वर्थान्तरकल्पनाया असत्त्वाद् भेदसिद्धिः– न, तदर्थान्तरभावात् (गौतमः, न्या.सू. १।२।१६)। यतो हि वाक्छले न वृत्तिभेदः। अनेकार्थस्य शब्दस्यैकमर्थमादाय प्रयोगेऽन्यमर्थं कल्पयित्वा खण्डनमत्र विधीयते चेदुपचारच्छले त्वेकां वृत्तिमाश्रित्य शब्दे प्रयुक्ते वृत्त्यन्तरमादाय तत्खण्डनं विधीयते। किञ्च किञ्चन साधर्म्यमादाय द्वयोरेकत्वे छलमात्रस्यैकत्वप्रसङ्गः स्यात्। यतो हि सामान्यच्छलस्यापि वाङ्मयत्वात्। अर्थात् सामान्यच्छलस्यापि न खलु शरीरे बुद्धौ वा निमित्तताऽथापि वाच्येव निमित्तत्वात्। किंबहुना किञ्चन साम्यदृष्ट्या तदेकत्वे न्यायशास्त्राभिमतपदार्थानामपि कुत्रचनांशे साम्यसम्भवात् पदार्थैकत्वप्रसक्तिः स्यादतो वाक्छलोपचारच्छलयोः पृथक्त्वमेव सिद्ध्यति। न चानन्त्यप्रसङ्गः, निमित्तत्रयस्य व्याख्यातत्वात्। प्रसङ्गेऽत्र पुनर्न्यायमञ्जरीगतामिमां पङ्क्तिं ध्यायेमः–
छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्यच्छलं पार्श्वे कृत्वा वागुपचारच्छलयोरभेदमुपहितवानसि। यथा चायं तदविशेषादिति त्रित्वप्रतिषेधस्तथा द्वित्वस्यापि किञ्चित्साधर्म्यस्य सामान्यच्छलेऽपि भावात्। तथा हि यदि तावद् वाचि निमित्तभूतायामिदं प्रवृत्तं छलमिदञ्चेति तदभेदं मन्यसे हि सामान्यच्छलमपि मा वोचः। तदपि हि न शरीरे मनसि बुद्धौ वा निमित्ते, अपि तु वाचि एवेति वाक्छलमेवैकं स्यात्। अथैवं सत्यपि तद्विशेषो दृश्यमानो न पराणुद्यते, सामान्यच्छलेऽपि न शब्दार्थोऽन्यथा कृतः किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते, तर्हि वागुपचारच्छले अपि भिद्येते एवेति दर्शितम्। अतो युक्तं भवत्विदम् (छलत्रित्वम्)। न चानन्त्यम् इयत्तानियमकारिणो निमित्तत्रयस्य दर्शितत्वात् (भट्टः, ख्रै.१९८४, पृ.१५१)।
एतावता न्यायशास्त्रदृष्ट्या वाक्छलोपचारच्छलसामान्यच्छलभेदेन छलस्य त्रैविध्यं सुतरां सिद्ध्यति। तदत्र एकैकशो वितन्यते–
वाक्छलम्
वाचि छलं वाक्छलं किंवा वाचि निमित्तभूतायां छलं वाक्छलम्। प्रसङ्गेऽत्र न्यायमञ्जर्या एकादशाह्निकस्थं भट्टजयन्तवचनं गाढं चिन्तनीयम्– सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालङ्कारवति शब्दे प्रयुक्ते सति, वक्तुरभिप्रेतमर्थमपह्नुत्य ततोऽर्थान्तरं परिकल्प्य, तन्निषेधवचनं … वाक्छलम् (भट्टः, ख्रै.१९८४, पृ.१४६)। अत्र स्पष्टीभवामः– कस्यचनैकशब्दस्य नैकेष्वर्थेषु सत्स्वेकमर्थमादाय वादिना किञ्चिदुच्यते चेत्तत्र प्रतिवादिना चान्यमर्थमादाय विधीयमानस्तन्निषेध एव वाक्छलम्। सूत्रकारस्य वचनेनानेन तदेव पुष्यति– अविशेषाऽभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् (गौतमः, न्या.सू. १।२।१२)। एतन्नाम क्लृप्तार्थनिरूपितामभिधामभिप्रेत्य प्रयुक्तस्य शब्दस्यानभिमतार्थान्तरविषयामभिधामारोप्य वादिनोऽभिमतस्याभिधेयस्य निषेधो वाक्छलम्– …तत्र वाक्छलम्। अभिधावैपरीत्येन कल्पितार्थस्य बाधनम्।।९५।। (वरदराजः, ख्रै.१९०३, पृ.२४०)। यथा केनचन कञ्चन नवीनकम्बलवन्तमभिलक्ष्य ‘नवलम्बलोऽयं जनः’ इति नवीनार्थे नवशब्दं प्रयुज्याजीर्णं समीचीनञ्च कम्बलं संलक्ष्य तथोच्यमाने सति तत्र प्रतिवादिना नवशब्दस्य नवसङ्ख्याकमर्थमादाय ‘अस्य धनाभाववतो जनस्य कथञ्चनाप्येकस्य कम्बलस्य सत्त्वेऽपि कथं नव कम्बलाः सम्भवेयुर्न सम्भवन्ति’ इत्येतया रीत्या खण्ड्यते चेत्तद् वाक्छलम्। तत्र वाचि छलस्य विहितत्वात्। एतत्सर्वं स्पष्टीभवति अधस्तनेन भाष्यवचनरचनेन–
‘नवकम्बलोऽयं माणवकः‘ इति प्रयोगः। अत्र ‘नव कम्बलोऽस्य‘ इति वक्तुरभिप्रायः। विग्रहे तु विशेषो न समासे, तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यार्थम्– ‘नवकम्बला अस्येति तावदभिहितं भवता‘ इति कल्पयति। कल्पयित्वा चासम्भवेन प्रतिषेधति– ‘एकोऽस्य कम्बलः कुतो नव कम्बलाः‘ इति। तदिदं समान्यशब्दे = वाचि छलं वाक्छलमिति (वात्स्यायनः, न्या.भा. १।२।१२)।
वादिना ‘कृतमनेन प्रतिवादिना छलम्’ इति ज्ञानार्थमत्र शास्त्रे छलविवेचनं विहितम्। तथा छले ज्ञाते सति वादिना पुनः प्रत्यवस्थीयते।
सामान्यच्छलम्
सम्भावितार्थस्य वाक्यस्य किंवा सम्भावितार्थविशेषस्यातिसामान्ययोगादसम्भूतार्थकल्पनं सामान्यच्छलम्– सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छलम् (गौतमः, न्या.सू. १।२।१३)। इदमत्राकूतम्– निर्दिष्टस्य कस्यचित् सामान्यस्यानभिमतमेव हेतुत्वादिकं तात्पर्यविषयमारोप्य तस्यानभिमतेष्वेव विशेषेषु योगदर्शनादनैकान्तिकत्वादिदोषोद्भावनमेव सामान्यच्छलम्। प्रसङ्गेऽस्मिन् न्यायवार्त्तिकतात्पर्यटीकागतमिदं वचो गाढं चिन्तनीयम्– सम्भवतोऽर्थस्य ब्राह्मणविशेषस्य विद्याचरणसम्पदा, विद्याचरणसम्पदमत्येति यत्सामान्यं ब्राह्मणत्वं व्रात्ये ब्राह्मणे, तस्य ब्राह्मणत्वस्यातिसामान्यस्य योगादसम्भूतार्थकल्पनया यः प्रतिषेधः तत्सामान्यच्छलम् (मिश्रः, न्या.वा.ता.टी. १।२।१३)। यथा कश्चन जनः कञ्चन नैष्ठिकं ब्राह्मणं दृष्ट्वा ‘अयं खलु ब्राह्मणो विद्याचरणसम्पन्नः’ इति व्याचष्टे। तत्र तावद् न हि तेन वाचकेन ब्राह्मणत्वव्याप्त्या तस्मिन् ब्राह्मणे विद्याचरणसम्पत् संसूच्यते संसाध्यते वा, अथापि तस्य ब्राह्मणस्याऽऽचरणविचरणादिकमभिलक्ष्य तस्मिन् ब्राह्मणे विद्याचरणसम्पदभिहिता संसूचिता वा भवति। परं प्रतिवादिना खण्डनैकधर्मेण सम्भूतमाशयं वक्रीकृत्यातिसामान्यं किंवा ब्राह्मणसामान्यमादायोच्यते यद् ‘अस्मिन् ब्राह्मणे स्थितेन ब्राह्मणत्वेन विद्याचरणसम्पदि सत्यां व्रात्येऽपि ब्राह्मणत्वसत्त्वात् तस्मिन्नपि विद्याचरणसम्पदापद्येत, परं न तथा भवति, अतो नायं विद्याचरणसम्पन्नः’ इति सामान्यच्छलप्रयोगपुरस्सरमसम्भूतार्थं कल्पयित्वा सम्भूतार्थः खण्ड्यते। तदेतत् सर्वं स्पष्टीभवत्येतेन भाष्यकाराभिधानेन–
‘अहो खल्वसौ ब्राह्मणो विद्याचरणसम्पन्नः‘ इत्युक्ते कश्चिदाह– ‘सम्भवति ब्राह्मणे विद्याचरणसम्पद्‘ इति। अस्य वचनस्य विघातोऽर्थविकल्पोपपत्त्या असम्भूतार्थविकल्पनया क्रियते– ‘यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति ? व्रात्योऽपि ब्राह्मणः सोऽप्यस्तु विद्याचरणसम्पन्नः‘ इति। यद् विवक्षितमर्थमाप्नोति चाऽत्येति च तदतिसामान्यं यथा ब्राह्मणत्वं विद्याचरणसम्पदं क्वचिदाप्नोति क्वचिदत्येति, सामान्यनिमित्तं छलं सामान्यच्छलमिति (वात्स्यायनः, न्या.भा. १।२।१३)।
उपचारच्छलम्
शक्तिलक्षणयोरन्यतरवृत्त्या शब्दप्रयोगे तदितरया वृत्त्या प्रतिषेध एवोपचारच्छलम्। अर्थात् कस्यचन शब्दस्य वृत्तिद्वये प्रथिते शक्त्याख्यां वृत्तिमादाय शब्दप्रयोगे लक्षणाख्यां वृत्तिमाश्रित्य तत्खण्ड्यते, किंवा लक्षणाख्यां वृत्तिमादाय शब्दप्रयोगे शक्त्याख्यां वृत्तिमाश्रित्य तत् प्रतिषिध्यते चेत्तदुपचारच्छलम्। यथोक्तं सूत्रकारेण मुनिना– धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् (गौतमः, न्या.सू. १।२।१४)। अत्र सूत्रे धर्मशब्दः प्रयुक्तो वर्त्तते। तस्यार्थः सम्बन्धः। सम्बन्धश्च वृत्तिरेव। वृत्तिर्हि नैयायिकैः शक्तिलक्षणान्यतररूपा स्वीक्रियते। तत्र प्रयोगे यथायथं विकल्पो भवत्येव। तथा विकल्पश्चात्र शक्तिलक्षणान्यतररूप एव। तथा चैकं कल्पमाश्रित्य प्रयुक्तेऽन्यं कल्पमाश्रित्य खण्डनमेवोपचारच्छलमिति ज्ञायते। तत्र भाष्यकारस्तावत् ‘शब्दस्य यः प्रयोगः स एव धर्मः’ इत्याह। तस्य विकल्पः पुनः ‘अन्यस्य दृष्टस्य अन्यत्र प्रयोगः’ इत्यपि स्पष्टीचकार भाष्यकृद् वात्स्यायनः। तस्य निर्देशे किंवा लक्षणया प्रयोगे शक्त्या प्रतिषेध एवोपचारच्छलम्। यथा ‘मञ्चस्थाः पुरुषाः शब्दं कुर्वन्ति’ इत्यर्थमभिप्रेत्य ‘मञ्चाः क्रोशन्ति’ इति वाक्ये प्रयुक्ते शक्तिमाधृत्य ‘कथं मञ्चाः क्रोशन्ति ? जडत्वान्मञ्चानां क्रोशनसम्भवम्’ इति खण्डनमेव उपचारच्छलम्। एतावता उपचारमादाय वाक्ये प्रयुक्ते तत्र शक्तिमाश्रित्य विधीयमानं छलमुपचारच्छलमिति दृढीभवति। तदेव सर्वं पुष्यत्येतेन भाष्यवचसा–
अभिधानस्य धर्मो यथार्थप्रयोगो धर्मविकल्पः = अन्यत्र दृष्टस्यान्यत्र प्रयोगः। तस्य निर्देशे = धर्मविकल्पनिर्देशे, यथा ‘मञ्चाः क्रोशन्ति‘ इति। अर्थसद्भावेन प्रतिषेधः— ‘मञ्चस्थाः पुरुषाः क्रोशन्ति न तु मञ्चाः क्रोशन्ति‘। का पुनरत्रार्थविकल्पोपपत्तिः ? अन्यथा प्रयुक्तस्यान्यथार्थकल्पनम् = भक्त्या प्रयोगे प्राधान्येन कल्पनम्। उपचारविषयं छलम् उपचारच्छलम्। उपचारः = नीतार्थः = सहचरणादिनिमित्तेनाऽतद्भावे तद्वदभिधानम् उपचार इति (वात्स्यायनः, न्या.भा. १।२।१४)।
एतावता भाष्यकाराभिव्यक्तैः प्रघट्टकैर्भक्त्या प्रयुक्तस्य वाक्यस्य शक्त्या खण्डनमेवोपचारच्छलमिति ज्ञायते। तत्र रवतोऽपि तदेव द्योत्यते। प्रसङ्गेऽत्र तार्किकरक्षागतां इमामभिव्यक्तिञ्च विचारयामः–
उपचारप्रयोगेषु गौणलाक्षणिकेषु यः।
मुख्यार्थासम्भवाद् बाध उपचारच्छलं तु तत्।।९७।। (वरदाचार्यः, ख्रै.१९०३, पृ.२४३)
उपचारस्तावद् गौणलक्षणाभेदेन द्विविधः। तत्र मुख्यार्थवर्त्तिगुणसामान्ययोगिन्यर्थान्तरे वृत्तिरेव गौणोपचारः। एतन्नाम अन्यत्रस्थान् गुणानादाय तेषामन्यत्र प्रयोगो गौणः। किंवा सादृश्यनिबन्धना वृत्तिर्गौणीत्यर्थः। यथा ‘सिंहो देवदत्तः’ इत्यत्र सिंहवर्तिनां गुणानां योगिनि देवदत्ते तच्छब्दप्रयोगः। लक्षणा च पुनः मुख्यार्थसम्बन्धिन्यर्थान्तरे सम्बन्धः। यथा ‘गङ्गायां घोषः’ इत्यत्र गङ्गाशब्दस्य तत्सम्बन्धिनि तीरे वृत्तिरिति। एतत् सर्वं स्फुटीभवति न्यायसारसङ्ग्रहगतेनामुना वचनेन–
शब्दानां शक्तिवशादेवाहत्य प्रतीयमानोऽर्थो मुख्यः। यथा गवादिशब्दानां गोत्वादिजातिक्रोडीकृता व्यक्तिः। औपचारिकस्तु मुख्यार्थद्वारा प्रतीयमानः। उपचारश्च द्विविधो गौणलक्षणाभेदात्। तत्र लक्षणा नाम मुख्यार्थसम्बन्धिन्यर्थान्तरे वृत्तिः। यथा ‘गङ्गायां घोषः प्रतिवसति‘ इत्यत्र गङ्गाशब्दस्य तत्सम्बन्धिनि तीरे वृत्तिः। गौणी तु मुख्यार्थवर्तिगुणसामान्ययोगिन्यर्थान्तरे वृत्तिः। यथा ‘सिंहो देवदत्तः‘ इत्यत्र सिंहवर्तिशौर्यादिगुणसामान्ययोगिनि देवदत्ते सिंहशब्दस्य वृत्तिः। यथाहुः–
अभिधेयाविनाभूतप्रतीतिर्लक्षणेष्यते।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता।। इति
तत्र गौणं लाक्षणिकं वार्थमभिप्रेत्य वाक्यप्रयोगे वक्तुरनभिप्रेतमेव मुख्यार्थमारोप्य तदसम्भवेन दूषणाभिधानमुपचारच्छलम्। यथा ‘गङ्गायां घोषः प्रतिवसति, सिंहो देवदत्तः‘ इति वा प्रयुक्ते कथं ‘जले घोषवासः‘ कथं ‘देवदत्तः सिंहः‘ इति वा प्रत्यवस्थानम्। अभिधातात्पर्यार्थोपचारवृत्तिव्यत्ययेन कल्पितार्थनिषेध इति त्रयाणां सङ्क्षेपतो लक्षणम् (वरदराजः, ख्रै.१९०३, पृ.२४५)।
अत्र प्रश्नः समुदेति यदुपचारच्छले भक्तिमाश्रित्य प्रयुक्तस्य वाक्यस्य शक्तिमाश्रित्य खण्डनं विधीयते इति तु पुष्टम्। परं शक्तिमाश्रित्य प्रयुज्यमाने शब्दे भक्तिमाश्रित्य खण्डनं विधीयते न वा ? किंवा तथा प्रतिषेध उपचारच्छलत्वेन व्यवहर्तुं शक्यं न वेत्यत्रोच्यते– शक्यत इति। एतावता भक्तिमाश्रित्य प्रयुक्ते शक्तिमाश्रित्य खण्डनम्, शक्तिमाश्रित्य प्रयुक्ते च भक्तिमाश्रित्य खण्डनमिति द्विविधोऽपि प्रतिषेध उपचारच्छलमेव। तत्र का राजाज्ञा ? कथञ्चोभयविधच्छलमुपचारच्छलमित्यभिधेयमिति चेत्, सत्यं परं धर्मविकल्पो नाम सम्बन्धविकल्पः। सम्बन्धश्च शक्तिलक्षणान्यतररूपो द्विविधः। द्विविधयोस्सम्बन्धयोरेकं सम्बन्धमादाय प्रयुक्ते वाक्येऽन्यं सम्बन्धं कल्पयित्वा विधीयमानं खण्डनमेव उपचारच्छलमिति ज्ञेयम्। ननु तर्हि उपचारच्छलन्तावत् प्रधानच्छलमपि जातम्। तर्हि तस्य संज्ञा वृत्तिच्छलं किंवाऽन्यत्तादृशमेव भवतु किमर्थमुपचारच्छलमिति चेत्, सत्यं परमत्रोपचारपदेऽपि उपचार एव। कोऽयमुपचारः ? इति चेद् उपचारपदं तावद् वृत्त्यर्थकम्। एतावता वस्तुतस्तूपचारच्छलं तावद् वृत्तिच्छलं किंवा शब्दसम्बन्धच्छलमेव। तदेव मनसि निधाय सूत्रकारेण तथा प्रयुक्तम्। तच्च पुनः धर्मविकल्पपदेनैव संसूच्यते। एतच्च न्यायमञ्जरीस्थेनानेन वचसा स्पष्टीभवति–
अभिधानस्य धर्मोऽनेकप्रकारः। मुख्यया वृत्त्या गौण्या वा लाक्षणिकया वा यदर्थे प्रत्यायनं, तदनेन विकल्पमानेन धर्मेण गौणेन, लाक्षणिकेन वा निर्देशे– प्रयोगे कृते, यः अर्थसद्भावप्रतिषेधः– मुख्यार्थनिषेधः, स उपचारनिमित्तं छलम् उपाचारच्छलम् (भट्टः, ख्रै. १९८४, पृ.१४८)।
प्रसङ्गेऽत्र न्यायभाष्यव्याख्यानीभूतं वृत्तिकारस्य वचनमिदमपि ध्येयम्–
धर्मः शब्दस्यार्थेन सम्बन्धस्तस्य विकल्पः = विविधः कल्पः शक्तिलक्षणान्यतररूपस्तथा च शक्तिलक्षणयोरेकतरवृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः, स उपचारच्छलम्। यथा ‘मञ्चाः क्रोशन्ति नीलो घटः‘ इत्यादौ मञ्चस्था एव क्रोशन्ति न तु मञ्चाः, एवं घटस्य कथं नीलरूपाभेदः। एवमेव ‘अहं नित्यः‘ इति शक्त्या प्रयुक्तेऽमुकस्माद् उत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोऽप्युपचारच्छलम् (भट्टाचार्यः, ख्रै.१९८६, पृ.५९)।
एतावता उपर्युद्धृतैर्व्याख्यानैरपि द्विविधमपि शब्दसम्बन्धं यथायथमादाय विधीयमानं खण्डनमुपचारच्छलमिति स्पष्टीभवति।
वैशेषिकशास्त्रदृष्ट्या छलस्य स्थानम्
वैशेषिकशास्त्रे द्रव्यगुणादिपुरस्सरं सप्त पदार्थाः स्वीक्रियन्ते विविच्यन्ते च। तत्र तावन्न खलु न्यायशास्त्रेऽभिमतः प्रतिपादितश्च छलपदार्थः सप्तपदार्थेषु दृष्टिपथे आयाति। परं न्यायवैशेषिकयोः समानतन्त्रत्वान्न्यायशास्त्रेऽभिमतस्य छलपदार्थस्य वैशेषिकेऽपि कुत्रचन परिगणना भवेदेव। तदभावे समानतन्त्रत्वं व्याकुप्येत। अतः कुत्र तस्य परिगणना ? इत्यत्रोच्यते– गुणपदार्थे। कथमिति चेच्छ्रूयताम्– शब्दोऽपि एको गुणः। छले शब्दप्रयोगस्य सत्त्वात् किंवा छलस्य शब्दात्मकत्वाच्छलं गुण इति। एतावता न्यायाभिमतछलपदार्थस्य वैशेषिकाभिमतशब्दाख्यगुणेऽन्तर्भावः सुकरः। एतदेव स्पष्टीकरोति महादेवभट्टाचार्यो न्यायसिद्धान्तमुक्तावल्याः स्वव्याख्यानीभूतायां दिनकर्यामथ च कृष्णवल्लभाचार्यस्तर्कसङ्ग्रहदीपिकायाः स्वव्याख्यानीभूतायां किरणावल्याम्– अभिप्रायान्तरेण प्रयुक्तशब्दस्यार्थान्तरं परिकल्प्य दूषणाभिधानरूपस्य छलस्य गुणे … अन्तर्भावः (भट्टाचार्यः, २०५४, पृ.३४), एतादृशदूषणाभिधानरूपशब्दात्मकच्छलस्य गुणे … अन्तर्भावः (कृष्णवल्लभाचार्यः, ख्रै.२००३, पृ.१७७)।
उपसंहृतिः
पौरस्त्यचिन्तने कथा प्रसिद्धा। शास्त्रविमर्श एव कथा। सा च वादजल्पवितण्डाभेदेन भिद्यते। तत्र तत्त्वजिज्ञासूनां कथा वादः। जल्पवितण्डे पुनर्विजिगीषूणां कथेति विवेकः। जल्पवितण्डयोश्छलजातीनामपि प्रयोगः। तथा प्रयोगश्च पुनर्जाल्पिकवैतण्डिकाभ्यामाद्रियते। तच्च कदाचन वादेऽपि प्रयोगः। परं प्राचुर्येण जल्पवितण्डे एव तत्क्षेत्रम्। एतावता विशेषतो जाल्पिकवैतण्डिकाभ्यां छलादीन् प्रयुज्य शास्त्रसिद्धान्तव्याहननप्रसक्तेस्तन्निराकर्तुं स्वयञ्चाप्रयोक्तुं वादिनः किंवा तत्त्वजिज्ञासोरपि छलजातीनां बोधो यथायथं स्यादिति विचार्य परमकारुणिकेन मुनिना गौतमेन स्वशास्त्रे छलादीनामुद्देशो लक्षणपरीक्षादिकञ्चोपक्रान्तम्। एतावता छलपदार्थो न्यायशास्त्राभितेषु षोडशपदार्थेषु चतुर्दश इति। छलञ्चाभिप्रायान्तरेण प्रयुक्तस्य शब्दस्यार्थन्तरं परिकल्प्य दूषणाभिधानम्। तच्च न्यायशास्त्रे वाक्छलोपचारच्छलसामान्यच्छलभेदेन त्रिविधं प्रथितम्। तत्र केचन वाक्छलोपचारच्छलयोस्साम्यमभिधाय द्वयोरैक्यमातिष्ठन्ते। तत्र प्रसङ्गे तयोर्वैषम्यनिदर्शनपुरस्सरं द्वयोरैक्यं निराक्रियते न्यायसूत्रभाष्यादिषु। तदर्थं पुरःस्थाप्यते च वैषम्यलक्ष्मेति। किञ्चन साम्यमादाय वाक्छलोपचारच्छलयोरैक्ये छलमात्रे साम्यसम्भवाच्छलमात्रस्यैकत्वप्रसङ्गान्न वाक्छलोपचारच्छलयोरैक्यं पुरस्कर्तुं शक्यम्। द्वयोर्वस्तुगतभेदसत्वाच्चेति ध्येयम्। द्वयोः को भेदः ? इति चेद् वाक्छलेऽनेकेष्वर्थेष्वेकमर्थमादाय वादिना शब्दे प्रयुक्ते तदितरार्थमादाय तत्खण्डनं विधीयते चेदुपचारच्छले त्वेकां वृत्तिमादाय शब्दे प्रयुक्तेऽन्यां वृत्तिमाश्रित्य खण्डनं विधीयत इति तु विवेकः। एतावता वाक्छलोपचारच्छलसामान्यच्छलभेदेन छलस्य त्रैविध्यमिति नैयायिकानां राद्धान्तः। तत्र वाक्छलञ्चैकस्मिन्नर्थे प्रयुक्तस्यानेकार्थस्याऽर्थान्तरं प्रकल्प्य खण्डनमिति तु स्पष्टीकृतमेव। यथा ‘नवकम्बलोऽयं ब्राह्मणः’ इत्यत्र नवीनार्थकत्वेन प्रयुक्तस्य नवशब्दस्य नवसङ्ख्यार्थकत्वेन ‘अस्य धनाभाववतः कथञ्चनाप्येकस्य कम्बलस्य सत्त्वेऽपि कुतो नव कम्बलाः सम्भवेयुर्न सम्भवन्ति’ इति खण्डनम्। एवमेव ‘विद्याचरणसम्पन्नोऽयं ब्राह्मणः’ इत्यत्र सामान्यधर्माश्रयेण ‘यदि ब्राह्मणत्वेन विद्याचरणसम्पत्त्वे व्रात्योऽपि विद्याचरणसम्पन्नः स्याद्’ इति खण्डनं सामान्यच्छलम्। अथ चैकां वृत्तिमाश्रित्य शब्दप्रयोगे तदितरां वृत्तिमादाय तन्निषेध उपचारच्छलमिति तु निष्कृष्टिः।
अस्मिन् छलविषयके विमर्शे नैकविधानि न्यायशास्त्राकरीभूतानि ग्रन्थरत्नानि अथ च तद्व्याख्यानीभूतानि प्राक्तनान्यर्वाक्तनानि साम्प्रतिकानि, एवमेव स्वतन्त्राणि ग्रन्थरत्नानि च प्रयुक्तानि। अतस्तत्तद्ग्रन्थरत्नबलात्तेषां प्रत्यक्षपरोक्षसहाय्यबलाच्च लेखोऽयं सज्जीकृतः। अतस्तावदत्र प्रयुक्तानां ग्रन्थरत्नानां कर्तृभ्यः ऋषिभ्यः ऋषिकल्पेभ्योऽथ च प्राचीनार्वाचीनाधुनिकेभ्यः सर्वेभ्यो विद्वद्वरेण्येभ्य एवमेवैतल्लेखसज्जीकरणावसरे प्रत्यक्षपरोक्षसहाय्यं कृतवद्भ्योऽन्येभ्यश्च समेभ्यो विचक्षणेभ्यः कार्तज्ञ्यमभिव्यनज्मि।
सहायकग्रन्थसूची
उद्योतकरः, (ख्रैष्टाब्दः १९९७), न्यायवार्त्तिकम्, अनन्तलालठक्कुरेण संस्कृतम्, दिल्ली :
भारतीयदार्शनिकानुसन्धानपरिषद् ।
गौतमः, (ख्रै. २००४), न्यायसूत्रम्, षड्दर्शनसूत्रसङ्ग्रहे सङ्गृहीतम्, सम्पा. जे.एल.गुप्तः, वाराणसी : चौखम्बा संस्कृत प्रतिष्ठान ।
घिमिरेः, वैकुण्ठः (ख्रै. २०१०),वात्स्यायनप्रशस्तपादभाष्ययोः तुलनात्मकमध्ययनम्, अप्रकाशितो विद्यावारिधिशोधप्रबन्धः, वाराणसी : सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः।
पाणिनिः, (ख्रै. २०१९), अष्टाध्यायी, पदच्छेदवृत्तिवार्त्तिकटिप्पणीसहिता, वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
… (ख्रै. २०००), धातुपाठः, सम्पा.– नरेश झा, वाराणसी : चौखम्बा सुरभारती प्रकाशन।
फणिभूषण, (ख्रै. १९६८), न्यायपरिचय, अनुवादक– डा.किशोरनाथ झा, वाराणसी, चौखम्बा विद्याभवन ।
भट्टः, अन्नम् (ख्रै. २००३) तर्कसङ्ग्रहः, गोवर्द्धनाचार्यकृत–न्यायबोधिनी–चन्द्रजसिंहकृतपदकृत्य–अन्नम्भट्टकृत–दीपिका–श्रीकृष्णवल्लभाचार्यकृत–किरणावली–व्याख्योपेतः, पुनर्मुद्रित संस्करण, वाराणसी : चौखम्बा संस्कृत संस्थान ।
भट्टः, जयन्तः, (ख्रै. १९८४), न्यायमञ्जरी, ग्रन्थिभङ्गव्याख्यया संवलिता, व्याख्याता–चक्रधरः, तृतीयो भागः, ९–१२ आह्निकयुतः, वाराणसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालय।
भट्टाचार्यः, विश्वनाथपञ्चाननः (२०५४), न्यायसिद्धान्तमुक्तावली, दिनकरीरामरुद्रीव्याख्यानयुता, पञ्चम
संस्करण, वाराणसी : चौखम्भा संस्कृत संस्थान।
…. (ख्रै. १९८६), विश्वनाथवृत्तिः, न्यायभाष्यानुगता, पुनर्मुद्रित संस्करण, दिल्ली : चौखम्बा संस्कृत प्रतिष्ठान।
मिश्रः, सच्चिदानन्दः (व्या.), (ख्रै. २०१८) न्यायदर्शनम्, वाराणसी : द भारतीय विद्या प्रकाशन।
मुसलगाँवकर, गजाननशास्त्री (व्या.), (ख्रै. १९९५) तर्कभाषा, ‘माधुरी’ हिन्दीव्याख्योपेता, तृतीय संस्करण, वाराणसी : चौखम्बा सुरभारती प्रकाशन।
मिश्रः, वाचस्पतिः (ख्रै. १९९०), न्यायवार्त्तिकतात्पर्यटीका, पुनर्मुद्रण, वाराणसी : चौखम्बा संस्कृत संंस्थान ।
वरदराजः (ख्रै. १९०३) तार्किकरक्षा, स्वोपज्ञन्यायसारसङ्ग्रहाभिधव्याख्यासहिता कोलाचलश्रीमल्लिनाथसूरिविरचितनिष्कण्टकव्याख्यानुगता च, जीर्णत्वान्नान्यल्लब्धम्।
वात्स्यायनः, (ख्रै. १९९८), न्यायभाष्यम्, प्रसन्नपदापरिभूषितम्, व्याख्याता सुदर्शनाचार्यः, अभिनवसंस्करणम्, वाराणसी : बौद्धभारती ।