अनुमानप्रमाणं चार्वाकदर्शनातिरिक्तसर्वदर्शनसम्मतम्। न्यायदर्शनेन बौद्धदर्शनेन च प्रमेयज्ञानाय अनुमानप्रमाणस्य प्राधान्येन अङ्गीकारः कृतोऽस्ति। यद्यपि प्रत्यक्षप्रमाणस्य प्राधान्यमिति प्रायः वदन्ति, तथापि अतीन्द्रियवस्तूनां सिद्धये अनुमानस्यैव आवश्यकत्वात्, प्रत्यक्षानुभूतस्यापि क्वचित् हेतुसाध्यत्वाच्च अनुमानस्य प्राधान्यमपि सर्वसम्मतमेव।
उपप्रा. श्याममणिनेपालः
न्यायविभागः, वाल्मीकिविद्यापीठम्
सम्पर्कः ९८५१२३३६३१
Email : su.philosophy.np@gmail.com
लेखसार
अनुमानप्रमाणं चार्वाकदर्शनातिरिक्तसर्वदर्शनसम्मतम्। न्यायदर्शनेन बौद्धदर्शनेन च प्रमेयज्ञानाय अनुमानप्रमाणस्य प्राधान्येन अङ्गीकारः कृतोऽस्ति। यद्यपि प्रत्यक्षप्रमाणस्य प्राधान्यमिति प्रायः वदन्ति, तथापि अतीन्द्रियवस्तूनां सिद्धये अनुमानस्यैव आवश्यकत्वात्, प्रत्यक्षानुभूतस्यापि क्वचित् हेतुसाध्यत्वाच्च अनुमानस्य प्राधान्यमपि सर्वसम्मतमेव। अनुमानप्रमाणस्य स्वरूपविषये मतभेदो दृश्यते दर्शनानाम्। तत्रापि न्यायबौद्धदर्शनयोस्तु परस्परं खण्डनमण्डनपरम्परैव अस्ति एतद्विषये। अनुमितिर्यतो जायते तदेवानुमानप्रमाणमिति न्यायदर्शनेन स्वीक्रियते। बौद्धदर्शने यद्यपि तथा न विव्रियते अपि तु अविनाभावनामकसम्बन्धयुक्तस्य लिङ्गस्य ज्ञानाद् यल्लिङ्गिज्ञानं जायते तदेवानुमानम्। न्यायदर्शने व्याप्तिः पक्षधर्मता चानुमानस्याङ्गत्वेन विव्रियेते चेत् न तथा बौद्धदर्शने स्पष्टं विव्रियते। बौद्धदर्शने च केषाञ्चन मते अवयवानां त्रित्वं चेत् केषाञ्चन मते अवयवानां द्वित्वमिति। न्यायदर्शने तु पञ्चावयवाः स्वीक्रियन्ते। हेतुवदाभासभाना हेतुसदृशा अहेतव एव हेत्वाभासाः इति बौद्धन्यायोभयदर्शने स्वीक्रियते। बौद्धदर्शने लिङ्गस्य त्रैरूप्यस्वीकृतत्वात् त्रिविधा हेत्वाभासाः स्वीक्रियन्ते चेत् न्यायदर्शने पक्षसत्त्व–सपक्षसत्त्व–विपक्षासत्त्व–अबाधितत्व–असत्प्रतिपक्षत्वभेदात् लिङ्गस्य पञ्चरूपत्वस्वीकृतत्वात् पञ्चहेत्वाभासा स्वीकृताः। अनेन वक्तुं शक्यते यत् अनुमानप्रमाणं दर्शनद्वयेनापि प्राधान्येन स्वीक्रियते परन्तु तस्य स्वरूपविषये भेदविषये च उभयोर्दर्शनयोर्मतभेदो दृश्यते एव ॥
मुख्यशब्दाः : प्रमाणानि, अनुमानम्, अवयवाः, हेत्वाभासाः, अनुमानाभासाः।
विषयप्रवेशः
सन्ति हि जगतीतले अनेकानि दर्शनानि। प्राच्यपाश्चात्यभेदेन द्विधा विभक्तेषु दर्शनेष्वपि प्राच्यदर्शनेषु च वैदिकावैदिकभेदेन द्विविधो भेदो वर्तते। तत्र अवैदिकदर्शनेषु चार्वाक–बौद्ध–जैनदर्शनानि परिगण्यन्ते चेत् वैदिकदर्शनेषु न्याय–वैशेषिक–साङ्ख्य–योग–पूर्वमीमांसा–वेदान्तदर्शनानि परिगण्यन्ते। सर्वेषां पौरस्त्यदर्शननानां मुख्यो विषयः अस्ति यथार्थज्ञानम्। यथार्थज्ञानमेव प्रमेत्युच्यते। यथार्थज्ञानाय प्रमाणस्यावश्यकता भवति। प्रमाणमन्तरा प्रमेयज्ञानमसम्भवमेव। उच्यते च मानाधीना मेयसिद्धिरिति। अतः सर्वैरपि दर्शनैः प्रमाणतत्त्वं विविच्यते। स्वीक्रियन्ते च बहुविधानि प्रमाणानि दर्शनेषु। प्रमाणानि कतिविधानि इत्यत्र तु अस्ति सर्वेषां मतभेदः। केनचन दर्शनेन एकमेव प्रमाणमित्युच्यते चेत् केनचन प्रमाणद्वयं स्वीक्रियते। तथैव कैश्चित् प्रमाणत्रयमङ्गीक्रियते चेत् कैश्चित्तु प्रमाणचतुष्टयम्। एवमेव प्रमाणपञ्चकवादिनः, प्रमाणषट्कवादिनः, प्रमाणाष्टकवादिनश्च दर्शनानि सन्ति। एवं प्रमाणसंख्याविषये मतभेदे सत्यपि चार्वाकदर्शनातिरिक्तैः सर्वैरपि अनुमानप्रमाणमुररीक्रियते। दर्शनेष्वपि न्यायदर्शनं प्रमाणतत्त्वं मुख्यतया चिन्तयति। अत एव न्यायदर्शनं प्रमााणशास्त्रमित्यप्युच्यते। अनेन दर्शनेन अनुमानप्रमाणविषये महता श्रमेण चिन्तनं विहितमस्ति। न्यायसूत्रकारात् गौतमादाराभ्य भाष्यकारेण वात्स्यायनेन, वार्तिककारेण उद्योतकरेण, तात्पर्यटीकाकारेण वाचस्पतिना, परिशुद्धिकारेण उदयनाचार्येण, अन्यैः आधुनिककालिकैः नैयायिकैश्च स्वस्वग्रन्थेषु अनुमानप्रमाणं विस्तरेण व्याख्यातमस्ति। एवमेव बौद्धदर्शनेन च अनुमानप्रमाणविषये बहुधा चिन्तितमस्ति। अवैदिकदर्शनेषु परिगणितस्य बौद्धदर्शनस्य वैदिकदर्शनेषु परिगणितस्य न्यायदर्शनस्य च परस्परं प्रारम्भादेव बहुषु विषयेषु खण्डनमण्डनपरम्परा दृश्यते। तत्रापि प्रमाणविषये एतयोर्दर्शनयोः मिथः महान् संघर्षः जगतीतले सुप्रसिद्ध एव। अतः लेखेऽस्मिन् अनयोर्दर्शनयोः अनुमानप्रमाणस्य विषये कीदृशः सिद्धान्तः अस्तीति विश्लिष्य एतस्मिन् विषये एतयोर्दर्शनयोः कतिस्थलेषु साम्यं वैषम्यं वा वर्तते इति विचार्यते।
समस्याकथनम्
अत्र प्रस्तुते न्याय–बौद्धदर्शनाभिमतानुमानप्रमाणस्य तुलनात्मकं विश्लेषणम् इत्यस्मिन् विषये सन्ति नैकाः समस्याः। तासु काश्चन मुख्यत्वेन दृश्यन्ते। ताश्चाधोनिर्दिष्टानुसारं वर्तन्ते –
(क) न्यायदर्शनप्रतिपादितानुमानप्रमाणस्य स्वरूपं किम् ?
(ख) बौद्धदर्शनप्रतिपादितानुमानप्रमाणस्य स्वरूपं किम् ?
(ग) उभयदर्शनसम्मतानुमानप्रमाणस्य साम्यं वैषम्यं वा किम् ?
अध्ययनस्योद्देश्यम्
लेखस्यास्य मुख्यमुद्देश्यं न्याय–बौद्धदर्शनाभिमतानुमानप्रमाणस्य तुलनात्मकं विश्लेषणम् इत्याख्ये विषये केन्द्रीभूय समस्याकथने उपस्थापितानां समस्यानां समाधानान्वेषणमेव अस्ति। फलतोऽस्य लेखस्य उद्देश्यमधोनिर्दिष्टानुसारमस्ति –
(क) न्यायदर्शनाभिमतानुमानप्रमाणस्य समीक्षणम्।
(ख) बौद्धदर्शनाभिमतानुमानप्रमाणस्य समीक्षणम्।
(ग) उभयदर्शनाभिमतानुमानप्रमाणस्य साम्यवैषम्यादिसमीक्षणम्।
पूर्वकार्यस्य समीक्षणम्
पौरस्त्यदर्शनेषु न्यायबौद्धदर्शनयोः महत्वपूर्णं स्थानं वर्तते। वस्तुतः प्राधान्येन न्यायदर्शनमेव प्रमाणतत्त्वचिन्तनाय प्रवृत्तमस्तीत्यतः न्यायशास्त्रं प्रमाणशास्त्रमिति नाम्नापि व्यवह्रियते चेत् बौद्धर्शनस्य न्यादर्शनखण्डनपरत्वात् इदमपि दर्शनं प्रमाणतत्त्वचिन्तनाय प्रवृत्तमिति वक्तुं शक्यते। प्रमाणतत्त्वविषये एव सत्यपि मतभेदे अत्र लेखे समग्रस्य प्रमाणतत्त्वस्य तुलनामकृत्वैव केवलमनुमानप्रमाणस्य तुलना कर्तव्या अस्तीत्यतः अनुमानप्रमाणविषयकमेव चिन्तनमत्र प्रस्तूयते । यद्यपि प्रमाणतत्त्वमादाय पूर्वमपि बहुभिः विद्वद्भिः बहुधा चिन्तितं वर्तते तथापि अनयोरेव दर्शनयोः अनुमानप्रमाणस्य सिद्धान्तमादाय तुलनात्मकमनुसन्धानं न दृश्यते इत्यतः एतद्विषये अनुसन्धानाय मे प्रवृत्तिः। इतः पूर्वम् कैः कैः अनुसन्धातृभिः कथं चिन्तनं विहितमिति अतिसंक्षेपेणात्र प्रस्तूयते।
परमविदुषा फणिभूषणतर्कवागीशेन न्यायपरिचयः ( ख्रैस्ताब्दम् १९६८) इत्याख्ये स्वनिबन्धग्रन्थे न्यायदर्शनाभिमतप्रमाणतत्त्वस्य चर्चा विहिता अस्ति। अनेन विदुषा अस्मिन् ग्रन्थे न्यायदर्शनाभिमतानां चतुर्ण्णामपि प्रमाणानां चर्चा कृता वर्तते। परन्तु अनेन तस्मिन् ग्रन्थे बौद्धदर्शनाभिमतप्रमाणस्य चर्चा कृता नास्तीत्यतः उभयोर्दर्शनयोर्मध्ये अनुमानप्रमाणविषये कुत्र साम्यं वैषम्यं वेति विषये तुलनात्मकरूपेण किमपि लिखितं नास्ति।
भारतीयदर्शनस्य महता विदुषा सर्वपल्लीराधाकृष्णन इत्यनेन च भारतीय दर्शन (ख्रैस्ताब्दम् १९७३, तृतीयसंस्करणम्) इत्याख्ये स्वग्रन्थे समेषां भारतीयदर्शनानां समालोचनक्रमे न्यायवैशेषिकदर्शने च समालोचिते स्तः, तत्र च प्रसङ्गानुसारेण प्रमाणतत्त्वमपि समालोचितमस्ति। तथापि अनेन च प्रमाणतत्त्वमादायैव विशेषरूपेण अनयोर्दर्शनयोः तुलना कृता न दृश्यते।
चक्रधरविजल्वान इति नामकेन विदुषा स्वप्रणीते भारतीयन्यायशास्त्र (ख्रैस्ताब्दम् १९९८) इत्यस्मिन् ग्रन्थे विस्तरेण न्यायशदर्शनप्रतिपादितानां षोडशपदार्थानां विवेचनं विहितमस्ति। अनेन हि अस्मिन् ग्रन्थे न्यायदर्शनप्रतिपादितप्रमाणतत्त्वं केवलं प्रसङ्गानुसारेण संक्षेपेणैव समालोचितमस्ति, तत्रैवानुमानप्रमाणस्यापि चर्चा विहिता वर्तते परन्तु अनेन अस्मिन्नपि महति ग्रन्थे न क्वचिद् बौद्धदर्शनाभिमतप्रमाणतत्त्वं समालोचितम्, न वा तद्विषये किमपि संकेतितमस्ति।
दयाशङ्करशास्त्रिणा उद्योतकर का न्यायवार्तिक एक अध्ययन ( ख्रैस्ताब्दम् १९९९) इत्यस्मिन् स्वानुसन्धानप्रधाने ग्रन्थे उद्योतकरप्रणीतस्य न्यायवार्तिकस्य समालोचनं विधाय प्रमाणतत्त्वप्रतिपादनाय गौतमेन रचितानां सूत्राणां भाष्यस्य व्याख्यानक्रमे न्यायदर्शनसम्मतप्रमाणतत्त्वं समालोचितमस्ति। परन्तु अनेनापि शास्त्रिणा एतद्दर्शनद्वयस्य प्रमाणविषये तौलनिकमध्ययनं विहितं नास्ति।
नैपालकेन विदुष प्राध्यापकेन पद्मप्रसादभट्टराई महाभागेन नेपालीभाषायां लिखिते पौरस्त्यदर्शन एक चिनारी (वि.सं. २०७४) इत्यस्मिन् ग्रन्थे सर्वेषां पौरस्त्यदर्शनानां समालोचनं विहितमस्ति। अनेन विदुषा अस्मिन् स्वानुसन्धानग्रन्थे दर्शनसमालोचनक्रमे न्यायादिदर्शनानां विशेषेण समालोचनं कृतमस्ति। पौरस्त्यदर्शनानां परिचयात्मकज्ञानाय ग्रन्थोऽयं महदुपकारी अस्ति। परन्तु अस्मिन्नपि ग्रन्थे अनेन विदुषा न्यायबौद्धदर्शनाभितप्रमाणत्त्वमादाय पृथग्ररूपेण समीक्षणं तौलनिकमध्ययनं वा न विहितं वर्तते।
एतावता वक्तुं शक्यते यत् बहुभिः विद्वद्भिः बहुषु ग्रन्थेषु अनुसन्धानकार्येषु च न्यायबौद्धदर्शनयोः समालोचनं विहितमस्ति। क्वचित् प्राधान्येन क्वचिच्च गौणेन यथाप्रसङ्गं वा तैः प्रमाणतत्त्वमपि समीक्षितं वर्तते। परन्तु यत्र कुत्रापि तैः समीक्षणं विहितं तत्र कुत्रचित् प्रायः केवलं न्यायदर्शनरीत्यैव वा बौद्धदर्शनरीत्यैव च चिन्तनं विहितं दृश्यते परन्तु अनुमानप्रमाणाविषये तौलनिकमध्ययनं न दृश्यते इत्यतः एतस्मिन् विषये न्यूनता प्रतिभात्येव। अतश्चास्मिन् लेखे द्वयोरपिदर्शनयोः प्रतिपादितानुमानप्रमाणस्य परिचयप्रदानपुरःसरं तदभिमतानुमानप्रमाणतत्त्वस्य तौलनिकमध्ययनं क्रियते ॥
अध्ययनविधिः
अस्य लेखस्य कृते आवश्यकसामग्रीणां सङ्कलनाय पुस्तकालयीयाध्ययनविधिरेव प्राधान्येन स्वीकृतः अस्ति। तत्र चास्मिन् लेखे न्यायबौद्धदर्शनविषयप्रतिपादकाः संस्कृतमूलाकरग्रन्थाः, प्रमाणविषयवर्णनपरा ग्रन्थाः, नेपालीभाषायां हिन्दीभाषायाञ्च प्रकाशिता न्यायबौद्धदर्शनसम्बद्धा विविधा ग्रन्था एव प्राथमिकसामग्रीत्वेन गृहीताः सन्ति। अन्यदर्शनेषु प्रतिपादिताः प्रमाणसम्बद्धविषयाः, पौरस्त्यदर्शनविशारदैर्लिखिता लेखाश्च द्वितीयकसामग्रीत्वेन प्रयुक्ताः सन्ति। एवमेव अस्मिन् लेखे यथावश्यकमागमनात्मकविधेर्निगमनात्मकविधेश्च प्रयोगं विधाय व्याख्यात्मको विश्लेषणात्मको विधिश्च प्रयुक्तः अस्ति।
सैद्धान्तिकी अवधारणा
दर्शनानि खलु तत्त्वप्रतिपादनाय प्रवृत्तानि। वैदिकावैदिकभेदेन आस्तिकनास्तिकभेदेन वा विभक्तैः प्रायः सर्वैरपि दर्शनैः स्वाभिमततत्त्वानामेव प्रतिपादनं महतायासेन कृतमस्ति। तत्र च तत्त्वप्रतिपादनाय मुख्यं साधनन्तु प्रमाणमेव। सर्वैरपि दर्शनैः प्रमाणैरेव स्वाभिमततत्त्वानां प्रतिपादनं विहितमस्ति। परन्तु स्वाभिमततत्त्वानां प्रतिपादनाय अङ्गीकृतेषु प्रमाणेषु अस्ति महन्मतभेदः दर्शनेषु। मुख्यतः प्रमाणसंख्याविषये एव भेदो वर्तते चेत् अङ्गीकृतानां प्रमाणानां स्वरूपविषयेपि महान् भेदः दृश्यते। तत्रापि न्यायदर्शनं प्रमाणतत्त्वप्रधानम्, अत एव दर्शनमिदं प्रमाणशास्त्रमित्यपि स्वीक्रियते। प्रायः इतरदर्शनैः प्रमेयपदार्थान् एव मुख्यरूपेण प्रतिपाद्य तदङ्गत्वेनैव प्रमाणपदार्थः प्रतिपाद्यते चेत् न्यायदर्शनेन तु मुख्यरूपेणैव प्रमाणपदार्थं प्रतिपाद्य तदनुरोधेन प्रमेयपदार्थाः प्रतिपाद्यन्ते। अत एव च प्रमाणैरर्थपरीक्षणं न्यायः इति वात्स्यायनकथनं सार्थकतामेति। आरम्भकालत एव न्यायदर्शनस्य प्रतिकोटीभूतं दर्शनं तु बौद्धदर्शनमेव। अनयोः द्वयोरपि दर्शनयोः परस्परखण्डनमण्डनक्रमेणैव विकसितरूपं दृश्यते। न्यायोक्तपदार्थानां बौद्धैः अनेकग्रन्थमाध्यमेन खण्डनाय प्रयासः कृतः अस्ति चेत् बौद्धानां सिद्धान्तश्च नैयायिकैः धूलिधूसरितो वर्तते। अतश्च अनयोः दर्शनयोर्मध्ये खण्डनमण्डनस्य सुमहती दीर्घपरम्परा दृश्यते। यद्यपि बहुषु विषयेषु खण्डनमण्डनं मतभेदो वा प्राप्यते अनयोर्मध्ये, तथापि प्रमाणविषये तु महान् विवादः सुप्रथित एव। तत्राप्यनुमानप्रमाणस्य स्वरूप–प्रकारावयव–हेत्वाभासादिविषये तु आधिक्येन भिन्नसिद्धान्तो वर्तते। प्रत्यक्षप्रमाणानन्तरम् अनुमानप्रमाणस्य प्राधान्यात्, चार्वाकेतरसर्वदर्शनस्वीकृतत्वाच्च एतद्विषये चिन्तनं सुतरामावश्यकमेव। प्रत्यक्षपरिकल्पितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः इति कथनाच्च ज्ञायते न्यायदर्शने अनुमानप्रमाणस्य स्थानं प्रत्यक्षप्रमाणादपि विशिष्टमस्तीति। आत्म–परमात्म–परमाणुसदृशानाम् अतीन्द्रियपदार्थानां सिद्धये अनुमानप्रमाणस्यैव साधनत्वं वरिवर्ति। बौद्धैः शब्दप्रमाणस्यास्वीकारात्, प्रत्यक्षेणोक्तपदार्थानां सिद्धेरसम्भवाच्च अनुमानप्रमाणमवश्यमेव स्वीकर्तव्यमेव भवति। तदन्यत् किमपि नास्ति शरणम्। अतश्चापि अनुमानप्रमाणे न्यायबौद्धयोः संघर्षः। चिन्तनं खलु मुख्यतया द्विविधं भवति मुख्यं गौणञ्च। यद्विषये प्राधान्येन चिन्तनं भवति तन्मुख्यं चिन्तनमित्युच्यते चेद् यद्विषये प्रसङ्गानुसारेणैव चिन्तनं विधीयते तद्गौणं चिन्तनमित्युच्यते। न्यायदर्शनेन प्रमाणतत्त्वं तत्रापि विशेषतः अनुमानप्रमाणं प्राधान्येनैव चिन्त्यते इत्यतः न्यायदर्शने प्रमाणचिन्तनं मुख्यमस्ति, परन्तु बौद्धदर्शने प्रमेयपदार्थानां प्राधान्येन चिन्तनं विधीयते, प्रमेयचिन्तनसाफल्यायैव प्रमाणचिन्तनं विधीयते इत्यतः बौद्धदर्शने प्रमाणचिन्तनं गौणमिति वक्तुं शक्यम्। तथा सत्यपि न्यायोक्तातीन्द्रियपदार्थनिराकरणाय बौद्धैः अनुमानप्रमाणस्य बहुषु ग्रन्थेषु विस्तरेण चिन्तनं विहितमित्यतः अनुमानप्रमाणविषये तत्तद्ग्रन्थेषु बौद्धानां चिन्तनं मुख्यमेवेति वक्तुमुचितम्। नैयायिकैरपि बौद्धविहितखण्डनस्य मण्डनं विधाय स्वमतसंरक्षणार्थम्, बौद्धोक्तानां क्षणवाद–गुणगुण्यभेदवाद–क्षणिकविज्ञानवाद–शून्यवाद–अनात्मवाद–अपोहवादादिवादानां खण्डनाय अनुमानप्रमाणस्यैव शरणं गृहीतमस्ति, प्रत्यक्षेण खण्डयितुमशक्यत्वात्, शब्दादिप्रमाणानां बौद्धैरनङ्गीकाराच्च। अत उभययोर्दर्शनयोः अनुमानप्रमाणस्य प्राधान्येनैव प्रयोगः अस्तीति सुतरां स्पष्टमेव। अतश्चास्मिन् लेखे न्यायबौद्धदर्शनाभिमतानुमानप्रमाणस्य स्वरूपादिविषये तदङ्गभूतानामवयवहेत्वाभासादीनां विषये च कः सिद्धान्तः अस्तीति तदुभयदर्शनप्रतिपादितानुमानप्रमाणम् उररीकृत्य तयोरेव दर्शनयोः सिद्धान्तञ्च स्वीकृत्य तत्प्रतिपादितानुमानप्रमाणस्य तौलनिकमध्ययनं क्रियते।
न्यायदर्शनप्रतिपादितानुमानप्रमाणस्य विश्लेषणम्
न्यायदर्शनं प्रमाणशास्त्रमिति तु प्रसिद्धमेव। अनेन च दर्शनेन प्रत्याक्षानुमानोपमानशब्दा इति चत्वारि प्रमाणानि स्वीकृतानि सन्तीति सूत्रकारेणैव स्पष्टोक्तं वर्तते, प्रत्याक्षानुमानोपमानशब्दाः प्रमाणानि (न्यायसूत्रम् १–१–५) इति। अत्र च प्रसङ्गानुसारेण प्रत्यक्षोपमानशब्दाख्यानि त्रीणि प्रमाणानि विहाय केवलमनुमानप्रमाणस्यैव विचारः क्रियते।
अनुमानप्रमाणस्वरूपम्
अनुमानं तावत् पश्चात् मानम्। अतश्चोक्तं वात्स्यायनेन मुनिना – मितेन लिङ्गेन लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानम् (वात्स्यायनः, ई.सं. १९९८ : १८ पृष्ठम्)। ज्ञातं किञ्चन लिङ्गं भवति, तेन च ज्ञातेन=मितेन अज्ञातस्य लिङ्गिनो ज्ञानमेवानुमानम्। ‘अनु’ उपसर्गपूर्वकात् ‘माङ् माने’ (पाणिनीयधातुः – ११४२ ) इत्यस्माद्धातोः अनुमीयतेऽनेनेति करणे ल्युटा अनुमानपदं निष्पद्यते। तच्च न्यायशास्त्रे ‘लिङ्गपरामर्शः’ इत्यप्युच्यते। तद्विग्रहश्च लिङ्गस्य परामर्शः इति। परामर्शश्च व्याप्तिविशिष्टपक्षधर्मताज्ञानमिति (अन्नंभट्टः, ई.सं.२००३ : ९०तमं पृष्ठम्)। लिङ्गञ्च व्याप्तिबलेनार्थगमकमिति। व्याप्तिर्हि साहचर्यनियमः, स च ‘यत्र यत्र धूमस्तत्र तत्र वह्नि’रिति। यत्र धूमस्तत्र वह्निरिति साहचार्यनियमो व्याप्तिः (अन्नंभट्टः, ई.सं.२००३ : ९०तमं पृष्ठम्)। प्रथमन्तावत् कश्चन भूयो भूयो धूमं पश्यन् वह्निमपि पश्यति तेन चाग्निधूमयोर्भूयोदर्शनेन वह्निधूमयोः स्वाभाविकसम्बन्धरूपायाः व्याप्तेः ‘यत्र यत्र धूमस्तत्र तत्र वह्नि’रित्यवधारणात्मकं ज्ञानं तस्य भवति। स च गृहीतव्याप्तिको जनः कदाचन अरण्यादौ गच्छति ततः स दूरतः उड्डीयमानं धूमं पश्यन्नाह – धूमवानयं पर्वतः इति। यच्च पक्षधर्मताज्ञानमित्युच्यते। ततो ‘यत्र यत्र धूमस्तत्र तत्र वह्नि’रिति रूपायाः व्याप्तेस्मरणं तस्य भवति। ततस्तस्योभाभ्यां पक्षधर्मताज्ञानव्याप्तिस्मरणाभ्यां ‘वह्निव्याप्यधूमवानयं पर्वतः’ इति परामर्शो जायते। ततः ‘पर्वतो वह्निमान्’ इत्यनुमितिः। इत्येवं भूयोदर्शन–व्याप्तिग्रहण–पक्षधर्मताज्ञान–व्याप्तिस्मृति–परामर्श–अनुमितीनां क्रम एवानुमानप्रक्रिया। तस्य परिष्कृतलक्षणन्तु – अनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति अनुमितिजनकव्यापारजनकत्वमिति। अत्र लक्षणघटकव्यापारश्च ‘तज्जन्यत्वे सति तज्जन्यजनकः’ इति। पर्वतो वह्निमान् धूमादित्यत्र व्याप्तिज्ञानजन्यत्वे सति ‘पर्वतो वह्निमान्’ इति रूपाया अनुमितेः जनकत्वं परामर्शे इति। ‘पवतो वह्निमानि’त्यत्र लक्षणसमन्वयश्च – ‘पर्वतो वह्निमान्’ इत्यनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे अनुमितिजनकपरामर्शरूपव्यापारजनकत्वञ्च व्याप्तिज्ञानेऽनुमाने वर्तत इति।
प्रत्यक्षलक्षणानन्तरं महर्षिः गौतममुनिरनुमानभेदं दर्शयन् अनुमानं लक्षयति – अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत्–शेषवत्–सामान्यतो दृष्टञ्च (न्यायसूत्रम् १–१–५)। तद्भाष्यकृद्वात्स्यायनो वदति – ‘तत्पूर्वकम्’ इत्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं चाभिसम्बध्यते (वास्त्यायनः, न्यायभाष्यम्, न्या.सू.,१–१–५)। तत्पूर्वकमित्यत्र ‘अनुमानम्’ इति उद्देश्यं ‘तत्पूर्वकमि’ति विधेयम्। एतच्चात्राभेदसम्बन्धेन लक्ष्यलक्षणभावं ज्ञापयति। एतावता तत्पूर्वकाभिन्नमनुमानमिति प्रतिफलति। तत्पूर्वकपदञ्च ‘तानि प्रत्यक्षाणि व्याप्तिदर्शनादीनि पूर्वाणि यस्य तत्तथेति। एतावता महानसे वह्निधूमयोः साहचर्यदर्शनम्, पक्षे लिङ्गदर्शनम्, व्याप्तिविशिष्टलिङ्गदर्शनम्, एतत्त्रयप्रत्यक्षपूर्वकत्वादनुमानं तत्पूर्वकम्। तदनुमानं त्रिविधम् – पूर्ववत्–शेषवत्–सामान्यतो दृष्टभेदात्। पूर्ववच्च यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिरिति। शेषवत् तद्यत्र कार्येण कारणमनुमीयते – पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वञ्च दृष्ट्वा स्रोतसोऽनुमीयते भूता वृष्टिरिति। सामान्यतो दृष्टम् – व्रज्यापूर्वकमन्यत्र दृष्टस्यान्यत्र दर्शनमिति तथा चादित्यस्य व्रज्येति (वास्त्यायनः, न्यायभाष्यम्, न्या.सू.,१–१–५)।
अनुमानस्याङ्गानि – मूलतोऽनुमानस्याङ्गद्वयं स्वीक्रियते व्याप्तिः पक्षधर्मता च – अनुमानस्य द्वे अङ्गे व्याप्तिः पक्षधर्मता चेति (मिश्रः, ई.सं. १९९७ : १४८तमं पृष्ठम् )। हेतुसाध्ययोरविनाभावसम्बन्धरूपायाः व्याप्तिज्ञानमन्तरा अनुमानमसम्भवम्। व्याप्यस्य पर्वतादिवृत्तित्वरूपपक्षधर्मताज्ञानमन्तरा च तदसम्भवमिति।
व्याप्तिः – व्याप्तेः स्वरूपविषयकं विवरणं न न्यायसूत्रे स्पष्टं लभ्यते। तत्र च कारणं लघीयसा सूत्रेण महतो विषयस्य विवरणीयत्वान्महर्षिणेति – महतो महाविषयस्य न्यायस्य लघीयसा सूत्रेणोपदेशात् (वास्त्यायनः, न्यायभाष्यम्, न्या.सू.,१–१–५)। भाष्यकारेण वात्स्यायनमुनिना च न स्पष्टं व्याप्तिर्विवृता, परं तत्र भवता ‘तत्पूर्वकम्’ इत्यत्रस्थतत्पदव्याख्यानावसरे लिङ्गलिङ्गिनोः सम्बन्धदर्शनम् (वास्त्यायनः, न्यायभाष्यम्, न्या.सू.,१–१–५) इत्युल्लिखितं वर्तते। तदेव व्याप्तिपरिचायकमिति सुवचम्। न्यायवार्तिककारेण च लिङ्गलिङ्गिसम्बन्धदर्शनमाद्यं प्रत्यक्षम् (उद्योतकरः, ई.सं. १९९७ : ४१तमं पृष्ठम्) इत्युक्त्वा लिङ्गलिङ्गिसम्बन्धरूपव्याप्तिस्वरूपं दत्तम्। तात्पर्यटीकायां लिङ्गलिङ्गिसम्बन्धदर्शनमाद्यं प्रत्यक्षम् (मिश्रः, वि.सं. २०४६ : १५८तमं पृष्ठम्) इति अनूद्य उपर्युक्तं वार्तिककारमतं स्वीकृतमिति भाति। न्यायदर्शने स्पष्टतया व्याप्तिपदस्य प्रयोगः सर्वप्रथममनेन तात्पर्यटीकाकारेण वाचस्पतिमिश्रेणैव कृतः। जयन्तभट्टेन च व्याप्तिर्नाम अविनाभावो नित्यसाहचर्यमिति उक्त्वा हेतोरविनाभावो नित्यसाहचर्यं वैव व्याप्तिरिति मतं प्रतिपादितम् – …नियमस्मृतेरिति, विव्रियतां कोऽयं नियमो नाम ? व्याप्तिरविनाभावो नित्यसाहचर्यमित्यर्थः (भट्टः, ई.सं. १९८३ : १६८तमं पृष्ठम्)। उदयनश्च निरुपाधिकसम्बन्धात् अव्यभिचारमेव व्याप्तित्वेनोररीकरोति – स्वाभाविको निरुपाधिरित्यर्थः। यद्यपि व्यभिचाराव्यभिचारव्याप्तौ औपाधिकत्वानौपाधिकत्वे, ताभ्याञ्च व्यभिचाराव्यभिचाराविति नियमः (उदयनाचार्यः, न्यायपरिशुद्धिः, न्या.सू. १–१–५ )। तत्त्वचिन्तामणिकारेण च अनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिरिति समाशङ्क्य ‘साध्याभाववदवृत्तित्वम्’ इत्यादिपूर्वपक्षव्याप्तिमुक्त्वा प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभाव–प्रयियोगितावच्छेकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः (उपाध्यायः, ई.सं. १९९० : १००तमं पृष्ठम्) इति सिद्धान्तितम्। निष्कर्षश्च हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्य–सामानाधिकरण्यमिति। ‘पर्वतो वह्निमान् धूमात्’ इत्यत्र धूमरूपे सद्धेतौ लक्षणसमन्वयः – हेतुः धूमः, तदधिकरणं पर्वतः, तद्वृत्तिर्योऽत्यन्ताभावः घटात्यन्ताभावः, न तु वह्न्यत्यन्ताभावः, तादृशाभावप्रतियोगी घटः, अप्रतियोगि साध्यञ्च वह्न्यात्मकं, तदधिकरणं पर्वतः, तद्वृत्तित्वं धूमे इति।
पक्षधर्मता – अनुमानस्याङ्गद्वये व्याप्तिस्तावदनुमानस्य तार्किकमङ्गं पक्षधर्मता च मनोवैज्ञानिकम्। व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः इत्यत्र घटकीभूता पक्षधर्मता का ? इत्यत्र तर्कसंग्रहकारः – व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मतेति (अन्नंभट्टः, ई.सं.२००३ : ९४तमं पृष्ठम्)। अनुमाने व्याप्यो धूमादिः तन्निष्ठपर्वतादिनिरूपितवृत्तित्वं पक्षधर्मता। यदनुमीयते=साध्यते तदनुमेयम्=साध्यम्। येन साध्यते, स हेतुः। यत्र साध्यते सः पक्षः, हेतोः पक्षसत्त्वं पक्षधर्मतेति विवेकः। निष्कर्षे गृहीतायां व्याप्तौ पक्षधर्मतायाञ्चाधिगतायां परामर्शद्वारा अनुमितिर्जायते। एतावता व्याप्तिज्ञानं परामर्शो वा अनुमानम्। तच्चानुमानं स्वार्थपरार्थभेदात् द्विविधम्। स्वार्थानुमाने हि स्वस्यैव कृते अनुमानं भवति चेत् स्वज्ञानानन्तरं परप्रतिपत्तिसाधकं परार्थानुमानम्। तच्च पञ्चावयववाक्यप्रयोज्यमानपरामर्शव्यापकं मानसव्याप्तिज्ञानमिति तु निष्कर्षः। अतश्चोच्यते न्यायप्रयोज्यत्वे सति ज्ञानत्वं परार्थानुमानस्य लक्षणम्। तत्र पञ्चावयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपाः। तेषां लक्षणानि च साध्यनिर्देशः प्रतिज्ञा, उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः, तथा वैधर्म्यात्, साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्, तद्विपर्ययाद्वा विपरीतम्, उदाहरणापेक्षस्तथात्युपसंहारो न तथेति वा साध्यस्योपनयः, हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् (न्यायसूत्रम् १/१/३३–३९) इति सूत्रकारो गौतममुनिः। उपर्युक्ते विवरणे द्वितीयावयत्वेन गृहीतो हेतुः अन्वयव्यतिरेकि–केवलव्यतिरेकि–केवलान्वयिभेदात् त्रिविधः। अन्वयेन व्यतिरेकेण च व्याप्तिमान् हेतुः अन्वयव्यतिरेकी हेतुः। तथा च यत्र यत्र धूमवत्त्वं तत्र तत्र वह्निमत्त्वं यथा महानसे इत्यन्वयव्याप्तिः। महानसे धूमवह्न्योरन्वयसद्भावात्। एवञ्च यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाह्रदे इतीयं व्यतिरेकव्याप्तिः। महाह्रदे धूमाग्न्योर्व्यतिरेकस्य सद्भावदर्शनात् (मिश्रः, ई.सं. १९९७ : १३४तमं पृष्ठम् )। अन्वयमात्रव्याप्तिमान् हेतुः केवलव्यतिरेकी। यथा जीवच्छरीरम् आत्मवत् प्राणादिमत्त्वादिति। यदात्मवन्न भवति तत्प्राणादिमन्न भवति। यथा घटः। एतच्च जीवच्छरीरं न अप्राणादिमत् तस्मात् नानात्मवदिति। अत्र अन्वयव्याप्तेरभावात् प्राणादिमद्धेतुः केवलव्यतिरेकीति। तृतीयश्च हेतुः केवलान्वयी। यथा ‘शब्दोऽभिधेयः प्रमेयत्वात्’ यत्प्रमेयं तदभिधेयं यथा घटः। तथा चायम्। तस्मात् तथा (मिश्रः, ई.सं. १९९७ : १४५तमं पृष्ठम् )। अत्र शब्दः पक्षः, तस्याभिधेयत्वं साध्यं हेतुश्च प्रमेयत्वमिति। अयं हेतुः केवलान्वय्येवेति।
उपर्युक्तेषु त्रिषु हेतुषु अन्वयव्यतिरेकी हेतुः पक्षसत्त्वादिपञ्चरूपोपपन्नः सन्नेव स्वसाध्यं साधयितुं समर्थः। केवलव्यतिरेकी हेतुश्च सपक्षासत्त्वमतिरिच्य अवशिष्टचतूरूपोपपन्नः सन् स्वसाध्यं साधयितुं क्षमः। केवलान्वयी च विपक्षासत्त्वमतिरिच्यावशिष्टचतूरूपोपपन्नः सन् स्वसाध्यं साधयितुं प्रबलः। तत्र पक्ष–सपक्ष–विपक्षाश्च सन्दिग्धसाध्यवन्निश्चितसाध्यवन्निश्चितसाध्याभाववन्त इति। तदन्ये हेतवश्च हेत्वाभासाः। हेतुवदाभासमानानामहेतूनां स्वसाध्यसाधनाक्षमत्वान्न्यायशास्त्र इव न्यायाधिकरणे च तथा हेतूनामप्रयोज्यत्वं यथाप्रसङ्गं यथासमयमत्र स्पष्टीभविष्यति।
अनुमानप्रमाणे प्राधान्यमस्ति अवयवानाम्। विशेषतः परार्थानुमानस्य कृते अवयवानां ज्ञानमत्यावश्यकम्। अतोऽत्र यथाप्रसङ्गमवयवविचारः प्रस्तूयते।
अवयवविचारः
प्रतिज्ञाहेतूदाहरणोपनयनिगमनरूपाः पञ्चावयवा इति पूर्वमुक्तमेव। अधुना क्रमशः तेषां विवरणं प्रदीयते।
क) प्रतिज्ञा
साहचर्येण धर्मेण विशिष्टस्य यत्परिग्राहकं वचनं सा प्रतिज्ञा। तथा च सूत्रम् –
साध्यनिर्देशः प्रतिज्ञा (न्यायसूत्रम् १–१–३३)।
यथा – पर्वतो वह्निमान् धूमात् इतीदं वाक्यं प्रतिज्ञा।
ख) हेतुः
उदाहरणसादृश्यात् उदाहरणवैधर्म्याद् वा साध्यस्य साधकं तृतीयान्तं पञ्चम्यन्तं वा वचनं हेतुरित्युच्यते। तथा चाह सूत्रकारः –
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः। तथा वैधर्म्यात् (न्यायसूत्रम् १–१–३४, ३५)।
यथा– पर्वतो वह्निमान् धूमात् इत्यस्मिन् वाक्ये धूमः साधर्म्यहेतुः। तथैव पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् इत्यस्मिन् वाक्ये गन्धवत्त्वं वैधर्म्यहेतुः।
ग) उदाहरणम्
उदाह्रियते अनेन धर्मयोः साध्यसाधनभाव इति उदाहरणम्। तथा च सूत्रम् –
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम्। तद्विपर्ययाद्वा विपरीतम् (न्यायसूत्रम् १–१–३६, ३७)।
यथा पर्वतो वह्निमान् धूमात् इत्यस्मिन् वाक्ये पर्वते धूमहेतुना वह्नौ साध्यमाने महानस उदाहरणम्। तथैव पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् इत्यस्मिन् वाक्ये गन्धवत्त्वहेतुना इतरभिन्नत्वसाध्यमाने हेतुवैधर्र्म्यात् जलम् उदाहरणम्।
घ) उपनयः
उपसंह्रियते हेतुरनेन (वाक्येन) पक्षे इति उपसंहारः स एवोपनयः। तथा च सूत्रम् –
उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः (न्यायसूत्रम् १–१–३८)।
यथा पर्वतो वह्निमान् धूमात् इत्यस्मिन् वाक्ये पर्वते धूमहेतुना वह्नौ साध्यमाने तथा चायम् ( वह्निव्याप्यधूमवाँश्चायं पर्वतः) इत्युपनयः। तथैव पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् इत्यस्मिन् वाक्ये गन्धवत्त्वहेतुना इतरभिन्नत्वसाध्यमाने न चेयं तथा ( न गन्धवत्त्वेतरभिन्नवतीयं पृथिवी ) इत्युपनयः।
ङ) निगमनम्
उपनयकृतहेतुनिर्देशमाश्रित्य प्रतिज्ञाया यत् पुनर्वचनं तन्निगमनम्। तथा चाह सूत्रकारः –
हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् (न्यायसूत्रम् १–१–३९)।
यथा पर्वतो वह्निमान् धूमात् इत्यस्मिन् वाक्ये पर्वते धूमहेतुना वह्नौ साध्यमाने तस्मात्तथा ( धूमवत्त्वादयं पर्वतो वह्निमान्) इति निगमनम्। तथैव पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् इत्यस्मिन् वाक्ये गन्धवत्त्वहेतुना इतरभिन्नत्वसाध्यमाने तस्मान्न तथा ( गन्धवत्त्वेतरभिन्नवत्त्वात् नेतरभिन्नाभाववती पृथिवी ) इति निगमनम्।
अत्रायं विशेषः – कश्चित् स्वानुभवक्रमेण परस्य पुरुषस्यापि तादृशानुमित्युत्पिपादयिषया वाक्यानि प्रयुङ्क्ते। तानि वाक्यानि शृण्वन् परोऽपि तत्फलतया पदार्थनिर्णयं करोति। अत्र तादृशवाक्यप्रयोग एव मूलम्। अतस्तानि वाक्यानि परार्थानुमानमित्युच्यन्ते अत्रानुमानपदं करणार्थकम्। तानि च वाक्यानि ‘परमन्यायः’ इत्युच्यन्ते। तानि च प्रतिज्ञाहेतूदाहरणोपनयनिगमनसंज्ञकानि न्यायावयवा इत्यत्युच्यन्ते परस्यानुमितिं प्रति हेतुत्वात्। एतानि पञ्चवाक्यानि विशिष्य वादिप्रतिवादिनोः परस्पराभिमतार्थस्य प्रतिपादनाय वादरूपे जल्परूपे वा वाक्यार्थे प्राधान्येन प्रयुज्यन्त इति।
हेत्वाभासविचारः
प्रसङ्गप्राप्तेऽधुना हेत्वाभासाः विचार्यन्त। सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः (न्यायसूत्रम् १–२–४ ) इति खलु सूत्रम्। अत एतेषां समेषामपि हेत्वाभासानामत्र परिचयो दीयते।
क) सव्यभिचारः
योऽनैकान्तिको हेतुः स सव्यभिचार इत्युच्यते। यथा पर्वतो धूमवान् वह्नेरित्यत्र धूमाभाववत्यङ्गार–शकटे वह्निहेतोः विद्यमानत्वादयं हेतुः धूमो व्यभिचारीति सव्यभिचार इत्युच्यते। तथा च सूत्रम् –
अनैकान्तिकः सव्यभिचारः (न्यायसूत्रम् १–२–५)।
ख) विरुद्धः
साध्याभावव्याप्तो हेतुर्विरुद्ध इत्युच्यते। तथा च सूत्रम् – सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः (न्यायसूत्रम् १–२–६ )। यथा शब्दो नित्यः कृतकत्वात् शब्दत्ववत् इत्यनुमानाकारे कृतकत्वहेतोः नित्यत्वाभावेनानित्यत्वेन व्याप्तत्वात् हेतोः विरुद्धत्वम्।
ग) प्रकरणसमः
यस्मात् साध्यसाधनार्थं प्रयुक्तत्वात् हेतोः साध्यतदभावयोरर्थात् अयं पक्षः साध्यवान् वा साध्याभाववान् वेति जिज्ञासा जायते स हेतुः निर्णयार्थं प्रयुक्तः सन् प्रकरणसमहेत्वाभास इत्युच्यते। तथा च सूत्रम् –
यस्मात् प्रकारणचिन्ता स निर्णयार्थपदिष्टः प्रकरणसमः (न्यायसूत्रम् १–२–७ )।
यथा शब्दोऽनित्यः कृतकत्वात्, शब्दो नित्यः शब्दत्वात् इत्युभयत्र साध्यनिश्चयासम्भवात् प्रकरणसमदोषः।
घ) साध्यसमः
साध्यवन्निश्चयाविषयीभूतो हेतुः साध्यसम इत्युच्यते। यथा छाया द्रव्यं गतिमत्त्वात्। अत्र छायायां गतिमत्त्वं निश्चितं नास्तीति साध्यत्वात् अयं हेतुः साध्यसम इत्युच्यते। तथा च सूत्रम् –
साध्यविशिष्टसाध्यत्वात् साध्यसमः (न्यायसूत्रम् १–२–८ )।
ङ) कालातीतः
यो हेतुः साध्यसाधनकालं पक्षग्रहणकालं वात्येति स कालातीत इत्युच्यते। अत्राह वार्तिककारोद्योतकरः – यस्यापदिश्यमानस्य कालात्ययेनैकदेशो युज्यते स एकदेशात्ययात् कालात्ययापदिष्टः कालातीत इत्युच्यते। यथा – नित्यः शब्दः संयोगव्यङ्ग्यत्वात् रूपवदिति (वात्स्यायनः, ई.सं. १९९८ : ७७, ७८ पृष्ठे)। तथा च सूत्रम् – कालात्ययापदिष्टः कालातीतः (न्यायसूत्रम् १–१–९)। अस्यैव हेत्वाभासस्यापरं नाम बाधितः।
बौद्धदर्शनाभिमतानुमानस्य विश्लेषणम्
बौद्धदर्शनेन प्रत्याक्षमनुमानञ्चेति द्वे एव प्रमाणे स्वीकृते स्तः। तत्रापि अनुमानप्रमाणास्य प्राधान्यं दृश्यतेऽस्मिन् दर्शने। अतोऽत्रापि प्रसङ्गानुसारेण प्रत्यक्षप्रमाणं विहाय केवलमनुमानप्रमाणस्यैव विचारः क्रियते।
अनुमानलक्षणम् बौद्धदर्शनानुसारेण प्रमेयन्तावत् स्वलक्षणसामान्यलक्षणभेदाद् द्विविधम्। प्रथमं प्रत्यक्षतो गृह्यते चेत् द्वितीयमनुमानतः। प्रत्यक्षस्य विषयः परमार्थसत् वर्तते चेदनुमानस्य विषयः परोक्षः, असत् वर्तत इति बौद्धचिन्तनम्। अधिगतादविनाभावसम्बन्धात् नान्तरीयकस्यार्थस्य दर्शनमेवानुमानम्। यथोक्तमभियुक्तेन – नान्तरीयकार्थदर्शनं तद्विदोऽनुमानम्। नान्तरीयकत्वञ्च एकस्य वस्तुनः अन्यस्य वस्तुनः असत्त्वेऽसत्ता। यच्च खलु तादृशनान्तरीयकसम्बन्धेन सम्बद्धमर्थादविनाभावसम्बन्धयुक्तमेव नान्तरीयकवस्तुजातमिति। निदर्शनञ्च वह्निधूमयोर्नान्तरीयकत्वमिति। धूमसत्त्वे वह्निसत्ता, वह्न्यभावे धूमाभावः। एतदेव व्याप्तिरित्यपि उच्यते। नान्तरीयकहेतुस्तावत् त्रिरूपतासम्पन्नो भवति। तस्य लिङ्गस्य हेतोर्वा अनुमेयसत्त्वम्/पक्षसत्त्वम्। सपक्षे निश्चिततया सत्त्वम्। विपक्षे निश्चिततया असत्त्वम्। प्रमाणवार्तिके धर्मकीर्तिना अनुमानमित्थं लक्षितम् – कस्यचन सम्बन्धिनो धर्माद् धर्मिविषयकं यत्परोक्षं ज्ञानं जायते तदेवानुमानमिति –
या च सम्बन्धिनो धर्मात् भूतिधर्मिणि जायते।
सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥ (प्रमाणवार्तिकम् २–६२)
जगति अस्माकं प्रतिदिनमनुभवो वर्तते यत् सदा साकमेव स्थितयोर्द्वयोर्वस्तुनोर्मध्ये अर्थात् एकं विनान्यस्य कस्यचन स्थितिर्न सम्भवति चेत् तद् द्वितीयं दृष्ट्वा प्रथमं ज्ञायते। तद्द्वयोस्सम्बन्धो व्याप्तिरुच्यते। मूलतोऽयमेवाशयः उपरितनतः श्लोकत आगच्छति। तदर्थं स्पष्टीकुर्वन् मनोरथनन्दीकारो वदति – अन्वय–व्यतिरेकलिङ्गद्वारा तदाश्रयः यत् परोक्षार्थार्थज्ञानं भवति तदेवानुमानम्। यच्च त्रिरूपलिङ्गतो जायते – या च सम्बन्धिनो धर्मादन्वयव्यतिरेकतो लिङ्गात् तदाश्रये धर्मिणि जायते परोक्षार्थप्रतीतिः सानुमानम्, त्रिरूपलिङ्गप्रभवत्वात्। तदेवानुमानं परोक्षाणामेकान्तेनैव साधनम्, प्रत्यक्षस्य तत्रावृत्तेः। (मनोरथनन्दी, प्रमाणवार्तिकम् २–६२)
न्यायबिन्दौ न तथा किञ्चनानुमानलक्षणं कृतं वर्तते परन्तु अनुमानस्य भेदं कृत्वा स्वार्थपरार्थानुमानयोः परिचयो दत्तो वर्तते। तत्र स्वार्थञ्च त्रीणि रूपाणि वर्तन्ते यस्य लिङ्गस्य तादृशलिङ्गात् यदनुमेये अर्थात् पक्षे ज्ञानं भवति तदेवेति। यथोक्तम् – तत्र स्वार्थं त्रिरूपाल्लिङ्गाद् यदनुमेये ज्ञानं तदनुमानम् (न्यायबिन्दुः २–३ )। परार्थञ्च त्रीणि रूपाणि अन्वय–व्यतिरेक–पक्षधर्मत्वसंज्ञकानि यस्य तत् त्रिरूपम् त्रिरूपं यल्लिङ्गं तस्य आख्यानमेव परस्मै कथनमिति। यथोक्तम् – त्रिरूपलिङ्गाख्यानं परार्थानुमानम् (न्यायबिन्दुः ३–१ )।
अत्र च यथाप्रसङ्गं संक्षेपेणावयवविचारः प्रस्तूयते।
अवयवविचारः
न्यायदर्शने तावदनुमानवाक्ये पञ्च अवयवाः स्वीक्रियन्ते इति पूर्वमुक्तमेव। मीमांसादर्शने त्रयोऽवयवाः स्वीक्रियन्ते। बौद्धन्याये च दिङ्नागेनापि पक्ष–हेतु–दृष्टान्तभेदात् त्रय एवावयवाः स्वीकृताः। मोक्षाकरगुप्तमहोदयेन बौद्धतर्कभाषायां व्याप्तिपक्षधर्मताभेदादवयवद्वैविध्यमभिमतम्। धर्मकीर्तिस्तदनुयायिनश्च उदाहरणोपनयभेदाद् द्विविधमवयवं स्वीकृतवन्तः। मूलतोऽनुमानस्याङ्गद्वयस्य प्याप्तिपक्षधर्मतारूपस्य समावेशोऽत्रैव अवयवद्वये भवति। न्यायबौद्धदर्शनयोर्मध्ये अवयवसंख्याविषये सत्यपि भेदे स्वरूपविषये तावदधिकभेदाभावात्, न्यायदर्शनाभिमतावयवानां पूर्वमेव परिचयोक्तत्वाच्च अवयवपरिचयप्रसङ्गमत्रैव समाप्य बौद्धदर्शनाभिमतहेतुस्वरूपविचारः प्रस्तूयते।
हेतुस्वरूपविचारः
यश्च हेतुः समीचीनतया अनुमानमुत्पादयति, तस्मिन् गुणत्रयमपेक्षितं भवति। प्रथमो गुणोऽयं तावदनुमेये हेतोः सत्तेति। अर्थात् ‘अयं पर्वतो वह्निमान् धूमात्’ अत्र अनुमाने हेतुरूपस्य धूमस्य पर्वतस्थितिरत्यन्तमावश्यकी। द्वितीयञ्च पर्वतसदृशवह्निमति महानसादौ स्थले च धूमस्य निश्चिततया सत्ता। तृतीयञ्च विपक्षे अर्थात् वह्न्यभाववति जलह्रदादौ निश्चिततया धूमस्यासत्तेति। तदेवोक्तं धर्मकीत्र्तिना – त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वम् एव, सपक्ष एव असत्त्वम्, असपक्षे चासत्त्वम् एव निश्चितम् (न्यायबिन्दुः २–३ )। एतच्च स्पष्टीकुर्वता सर्वं विवृतमधस्तनकथनात् धमोत्तराचार्येण –
… अनुमेयं वक्ष्यमाणलक्षणम्, तस्मिन् लिङ्गस्य सत्त्वमृव निश्चितम् – एकं रूपम्। यद्यपि चात्र निश्चितग्रहणं न कृतं तथापि अन्ते कृतं प्रक्रान्तयोद्र्वयोरपि रूपयोरपेक्षणीयम्। यतो न योग्यतया लिङ्गं परोक्षज्ञानस्य निमित्तम्, यथा बीजम् अङ्कुरस्य, अदृष्टाद् धूमादग्नेरप्रतिपत्तेः। नापि स्वविषयज्ञानापेक्षपरोक्षार्थप्रकाशनम्, यथा प्रदीपो घटादेः, देष्टात् अप्यनिश्चितसम्बन्धाद् अप्रतिपत्तेः। तस्मात् परोक्षार्थनान्तरीयकतया निश्चयनमेव लिङ्गस्य परोक्षार्थप्रतिपादनव्यापारः। नापरः कश्चित्। अतोऽन्वयव्यतिरेकपक्षधर्मत्वनिश्चयो लिङ्गव्यापारात्मकत्वाद् अवश्यकर्तव्य इति सर्वेषु रूपेषु निश्चितग्रहणम् अपेक्षणीयम्। तत्र सत्त्ववचनेनासिद्धं चाक्षुषत्वादि निरस्तम्। एवकारेण पक्षैकदेशासिद्धो निरस्तः। ….निश्चितग्रहणेन सन्दिग्धासिद्धः सर्वो निरस्तः। सपक्षो वक्ष्यमाणलक्षणः। तस्मिन् एव सत्त्वं निश्चितमिति द्वितीयं रूपम्। इहापि सत्त्वग्रहणेन विरुद्धो निरस्तः। ….असपक्षो वक्ष्यमाणलक्षणः। तस्मिन् असत्त्वमेव निश्चितमिति तृतीयं रूपम् (धर्मोत्तराचार्यः, न्यायबिन्दुटीका २–३)।
एतावता सद्धेतौ पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वरूपरूपत्रयमपेक्षितमिति।
अनुमानाभासाः
यस्मिन् अनुमाने काचन त्रुटिः, न्यूनता भवेत् अर्थात् न सदनुमानमपि तु मिथ्यानुमानं भवेच्चेत् तदनुमानाभासो भवति। अनुमाने खलु पक्ष–हेतु–दृष्टान्तभेदात् त्रीणि अङ्गानि भवन्ति। तेषु अङ्गेषु विकृतौ सत्यामनुमानं विकृतं जायते। तत्रानुमानविकृतौ तत्कारणीभूतानामनुमानाङ्गानां विकृतिरावश्यकी। अतोऽनुमानविकृतिर्नाम तदङ्गविकृतिरितिधारणया बौद्धदर्शने आभासानां त्रैविध्यं स्वीक्रियते – पक्षाभासः, हेत्वाभासः दृष्टान्ताभासश्च। अत्र तावत् हेत्वाभासस्य विशेषतो विश्लेष्यत्वादिहाधुना पक्षाभासदृष्टान्ताभासयोः सामान्यत उद्देशमात्रं क्रियते।
पक्षाभासस्तावत् प्रत्यक्षविरुद्ध–अनुमानविरुद्ध–आगमविरुद्ध–लोकविरुद्ध–स्ववचनविरुद्ध–अप्रसिद्धविशेषण–अप्रसिद्धविशेष्य–अप्रसिद्धोभय–प्रसिद्धसम्बन्धभेदात् नवधा विभज्यते।
दृष्टान्ताभासश्च साधर्म्यमूलकवैधर्म्यमूलकभेदात् प्रथमन्तावत् द्विधा विभज्यते। साधर्म्यमूलञ्च साधनधर्मासिद्ध–साध्यधर्मासिद्ध–उभयधर्मासिद्ध–अनन्वय–विपरीतान्वयभेदात् पञ्चधा विभज्यते। वैधर्म्यमूलकञ्च साध्याव्यावृत्त–साधनाव्यावृत्त–उभयाव्यावृत्त–अव्यतिरेक–विपरीतव्यतिरेकभेदात् पञ्चधा विभज्यते।
हेत्वाभासः
तत्त्वविनिश्चये यथा सर्वदापि सद्धेतुज्ञानममपेक्षिमेव तथैव असद्धेतुज्ञानमपि अवश्यं कर्तव्यमिति न्यायदर्शने इव बौद्धदर्शने च सम्मतम्। असद्धहेतुप्रयुक्तानुमानं नानुमानमपित्वनुमानाभासः तस्मात् स्वानुमानस्यानुमानाऽऽभासाद् अर्थादत्र प्रसङ्गे हेत्वाभासात् रक्षणाय परोक्तानुमाने दोषोद्भावनाय च हेत्वाभासज्ञानमवश्यमपि कर्तव्यम्।
यथा हि न्यायदर्शने हेतुलक्षणरहितं परन्तु हेतुसदृशं वस्तुजातं हेत्वाभास उच्यते तथैव बौद्धदर्शने च। अस्य विग्रहस्तु “हेतोराभासा हेत्वाभासाः” “हेतुवद् आभासन्त” इति हेत्वाभासाः। धर्मकीत्तिवर्दति त्रिरूपस्य लिङ्गस्य परस्मै कथनं परार्थानुमानम्। तत्र त्रिषु पक्षसत्त्व–सपक्षसत्त्व–असत्प्रतिपक्षत्वमध्ये एकस्य रूपस्याभावे स हेतुः हेत्वाभास उच्यते। यथोक्तम् – त्रिरूपलिङ्गाख्यानं परमार्थानुमानम् इत्युक्तम्। तत्र त्रयाणां रूपाणां मध्ये एकस्यापि रूपस्यानुक्तौ साधनाभासः (न्यायबिन्दुः ३–५५ )। एतच्च स्पष्टीकुर्वन् वदति धर्मोत्तराचार्यः –
…त्रिरूपलिङ्गेन वक्तुकामेन स्फुटं तद् वक्तव्यम्। एवं च तत् स्फुटम् उक्तं भवति यदि तच्च, तत्प्रतिरूपकं चोच्यते। हेयज्ञाने हि तद्विविक्तम् उपादेयं सुज्ञातं भवतीति त्रिरूपलिङ्गाख्यानं परार्थानुमानम् इति प्रागुक्तम्। तत्रेति – तस्मिन् सति, त्रिरूपलिङ्गाख्याने परमार्थानुमाने सतीत्यर्थः। त्रयाणां रूपाणां मध्य एकस्याप्यनुक्तौ। अपि शब्दाद् द्वयोरपि। साधनस्य आभासः सदृशं साधनस्य, न साधनम् इत्यर्थः। त्रयाणां रूपाणां न्यूनता नाम साधनदोषः। ( धर्मोत्तराचार्यः, न्ययाबिन्दुटीका ३–५५)। स च हेत्वाभासः बौद्धदर्शने प्रथमन्तावत् असिद्ध–अनैकान्तिक–विरुद्धभेदात् त्रिधा विभज्यते।
क) असिद्धः
पक्षे हेतोः स्थितिरेव पक्षसत्त्वम्। स च हेतोः रूपम्। अस्याः स्थितेरसिद्धिरेवासिद्धहेत्वाभासः। यथोक्तम् – एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धौ सन्देहे वाऽसिद्धो हेत्वाभासः (न्यायबिन्दुः ३–५७ )। यथा ‘शब्दोऽनित्यश्चाक्षुषत्वात्’ इत्यत्र शब्दरूपे पक्षे चाक्षुषत्वस्य असिद्धत्वातदसिद्धो हेत्वाभासः इति। तथैवान्यदुदाहरणम् – वृक्षश्चेतनः सर्वत्वगपसारणे अस्य मरणात्। एतच्चोक्तं धर्मकीर्तिना – यथा – अनित्यः शब्द इति साध्ये चाक्षुषत्वम् उभयासिद्धम्। चेतनास्तरव इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात्। (न्यायबिन्दुः ३–५८/५९ ) एतच्चासिद्धम् उभयासिद्ध–अन्यतरासिद्ध–संदिग्धासिद्ध–आश्रयासिद्धभेदात् चतुर्विधं विभज्यते।
ख) अनैकान्तिकः
विपक्षे अर्थात् साध्याभावनिश्चितस्थले हेतोरसत्तैवापेक्षिता। परन्तु यदा कुत्रचन असपक्षे उत बहुषु असपक्षेषु हेतोः स्थितिरनैकान्तिकत्वमिति। यथा शब्दोऽनित्यः प्रमेयत्वात्। यथोक्त धर्मकीर्तिना – तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यासिद्धासिद्धावनैकान्तिको हेत्वाभासः (न्यायबिन्दुः ३–६६ )। न्यायप्रवेशे चोक्तम् – यदा कस्यचिल्लिङ्गस्य तद्रूपं यस्मिन् तस्यासपक्षे निश्चितोऽसत्वोऽसिद्धः तदा सोऽनैकान्तिको हेत्वाभासः (न्यायप्रवेशः, परार्थानुमानपरिच्छेदः)। यथा, शब्दो नित्यः, दृश्यत्वात्, यद् दृश्यं तन्नित्यम् आकाशवत्। शब्दस्याप्रयत्नानन्तरीयकत्वं वर्तते, अनित्यत्वात्। यदनित्यं तन्न प्रयत्नानन्तरीयकम्। यथा, विद्युदाकाशौ (एकोऽनित्यः, अपरश्च नित्यः, किन्तूभावप्यप्रयत्नानन्तरीयकौ) घटादिवन्न। शब्दः प्रयत्नानन्तरीयकः, अनित्यत्वात्। यदनित्यं तत् प्रयत्नानन्तरीयकम्। यथा, घटः। शब्दो नित्यः, अमूत्र्तत्वात्। यदमूत्र्तं तदनित्यम्। यथा, आकाश–परामाणू। एषु चतुर्दृष्टान्तेषु पक्षधर्मस्यासत्त्वं विपक्षेऽसिद्धम्। अतोऽनैकान्तिकता। अयञ्चानैकान्तिकः साधारण–असाधारण–सपक्षैकदेशवृत्तिविपक्षव्यापि–विपक्षैकदेशवृत्तिसपक्षव्यापि–उभयपक्षैकदेशवृत्ति–विरुद्धाव्यभिचारिभेदात् षोढा विभज्यते।
ग) विरुद्धः
सद्धेतोस्तावत् सपक्षसत्त्वं विपक्षासत्त्वञ्चापेक्षितं भवति। यदा हि हेतोस्तद्विपरीतनिश्चयो जायते तदा विरुद्धहेत्वाभासो भवति। तदेव विवृणोति धर्मकीर्तिः – द्वयोः रूपयोर्विपर्ययसिद्धौ विरुद्धः। कयोर्द्वयोः ? सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य। यथा कृतकत्वं प्रयत्नान्तरीयकत्वञ्च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः (न्यायबिन्दुः ३–८२/८३ )। एतच्च स्पष्टीकुर्वन् वदति धर्मोत्तराचार्यः –
कयोर्द्वयोरिति। विशिष्टे रूपे दर्शयति – सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य विपर्ययसिद्धाविति सम्बन्धः। कृतकत्वम् इति स्वभावहेतुः। प्रयत्नान्तरीयकत्वमिति कार्यहेतुः। प्रयत्नान्तरीयकशब्देन हि प्रयत्नान्तरं जन्म ज्ञानं च प्रयत्नानन्तरीयकम् उच्यते। जन्म जायमानस्य स्वभावः। ज्ञानं ज्ञेयस्य कार्यम्। तदिह प्रयत्नानन्तरं ज्ञानं विरुद्धौ हेत्वाभासौ (न्यायबिन्दुटीका ३–८२/८३ )। अयञ्च विरुद्धहेत्वाभासो धर्मस्वरूपविपरीतसाधन–धर्मविशेषविपरीतसाधन–धर्मिस्वरूपविपरीतसाधन–धर्मिविशेषविपरीतसाधन–भेदात् चतुर्धा विभज्यते। एतावता असिद्ध–विरुद्ध–अनेकान्तिकभेदात् त्रयो हेत्वाभासा विविचिताः।
उभयदर्शनदिशानुमानप्रमाणविषयकः साम्यवैषम्यविचारः
बौद्धदर्शनानुसारेण अविनाभावसम्बन्धयुक्तात् लिङ्गात् यत् लिङ्गिज्ञानं भवति तदेवानुमानं चेत् न्यायदर्शनानुसारेण अनुमितिकरणमनुमानमिति। तत्करणञ्च व्याप्तिज्ञानमेव। एतावता बौद्धदर्शने न्यायदर्शनाभिमतानुमितिरेव अनुमानं न्यायदर्शने तु व्याप्तिज्ञानमेवानुमानमिति फलति। बौद्धदर्शने स्वार्थपरार्थभेदादनुमानस्य द्वैविध्यं मतं चेन्न्यायदर्शने पूर्ववच्छेषवत्सामान्यतो दृष्टभेदात् गौतमेन त्रैविध्यमुक्तम्। आनन्तरकालिकैनैर्यायिकैरपि अनुमानस्य तथैव द्वैविध्यमपि स्वीकृतं यथा बौद्धदर्शने। बौद्धदर्शने पक्षाभास–दृष्टान्ताभास–हेत्वाभासभेदादाभासस्य त्रैविध्यं मन्यते। न्यायदर्शने तु पक्षाद्याभासानां केनचन सम्बन्धेन हेतावेव आधाय हेत्वाभास एव स्वीक्रियते न त्वन्यस्य कस्यचनाभासस्य तत्रावसरः। बौद्धदर्शने दिङ्नागमते अवयवानां प्रतिज्ञाहेतुदृष्टान्तभेदात् त्रैविध्यमुत उदाहरणोपनयनिगमनभेदात् त्रैविध्यं स्वीकृतम्। धर्मकीत्र्तिस्तु हेतुदृष्टान्तभेदादवयवस्य द्वैविध्यमेवाभिमतम्। परन्तु न्यायदर्शने तु प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदादवयवानां पञ्चविधत्वमभिमतम्।
निष्कर्षः
निष्कर्षे तावत् अनुमितिर्यतो जायते तदेवानुमानप्रमाणमिति न्यायदर्शनेन स्वीक्रियते। बौद्धदर्शने यद्यपि तथा न विव्रियते अपि तु अविनाभावनामकसम्बन्धयुक्तस्य लिङ्गस्य ज्ञानाद् यल्लिङ्गिज्ञानं जायते तदेवानुमानम्। न्यायदर्शने व्याप्तिः पक्षधर्मता चानुमानस्याङ्गत्वेने विव्रियेते चेत् न तथा बौद्धदर्शने स्पष्टं विव्रियते। बौद्धदर्शने च केषाञ्चन मते अवयवानां त्रित्वं चेत् केषाञ्चन मते अवयवानां द्वित्वमिति। न्यायदर्शने तु पञ्चावयवाः स्वीक्रियन्ते। हेतुवदाभासमाना हेतुसदृशा अहेतव एव हेत्वाभासाः इति बौद्धन्यायोभयदर्शने स्वीक्रियते। हेत्वाभासश्च बौद्धदर्शने लिङ्गस्य त्रैरूप्यस्वीकृतत्वात् त्रिविधा हेत्वाभासाः स्वीक्रियन्ते चेत् न्यायदर्शने पक्षसत्त्व–सपक्षासत्त्व–विपक्षासत्त्व–अबाधितत्व–असत्प्रतिपक्षत्वभेदात् लिङ्गस्य पञ्चरूपत्वस्वीकृतत्वात् पञ्चहेत्वाभासा स्वीकृताः। अनुमानविभागविषये न्यायदर्शने गौतमेन पूर्ववदादिभेदात् त्रैविध्यं परिगणितं चेत् गच्छता कालेन नैयायिकैरपि स्वार्थपरार्थभेदादनुमानस्य द्वैविध्यं प्रतिपादितम्। यच्च बौद्धदर्शने च वर्तते। महामहोपाध्यायबलदेवोपाध्यास्य कथनानुसारेण तु बौद्धन्यायस्य प्रभावादेव न्यायदर्शने च तथा विभागः कृतः यश्च पूर्वं न्यायदर्शने नासीदिति।
सन्दर्भग्रन्थसूची
अन्नंभट्टः, ई.सं.२००३, तर्कसंग्रहः, व्याख्याचतुष्टयोपेतः(सं. श्रीकृष्णवल्लभाचार्यः), वाराणसी : चौखम्बाविद्याभवनम्।
आचार्यः, भीमः, ई.सं.१९७८, न्यायकोशः, पुणे : भाण्डारकरप्राच्यविद्यासंशोधनमन्दिरम् ।
उदयनाचार्यः, ई.सं.१९६२, न्यायकुसुमाञ्जलिः (हरिदासीव्याख्योपेतः), वाराणसी : चौखम्बाविद्याभवन।
उद्योतकरः, भारद्वाजः, ई.सं.१९९७, न्यायभाष्यवार्तिकम्, दिल्ली : भारतीयदार्शनिकानुसन्धानपरिषद्।
उपाध्यायः, गङ्गेशः, ई.सं.१९९०, तत्त्वचिन्तामणिः, दिल्ली : चौखम्बासंस्कृतप्रतिष्ठानम्।
उपाध्यायः, बलदेवः, ई.सं.१९९९, बौद्धदर्शनमीमांसा, पञ्चम संस्करण, वाराणसी : शारदा मन्दिर।
दिङ्नागः, ई.सं.१९८६, न्यायप्रवेशः, वाराणसी : षड्दर्शनप्रकाशन।
…………, ई.सं.१९९६, प्रमाणसमुच्चयः, वाराणसी : षड्दर्शनप्रकाशन।
धर्मकीर्तिः, ई.सं.१९९०, न्यायबिन्दुः, वाराणसी : चौखम्बा प्रकाशन।
…………, ई.सं.१९९१, प्रमाणवार्तिकम्, वाराणसी : षड्दर्शनप्रकाशनम्।
धर्मोत्तरः, ई.सं.१९७५, न्यायबिन्दुटीका, मेरठ : साहित्य भण्डार।
पाणिनिः ई.सं.१९९३, अष्टाध्यायी, वाराणसी : भारतीय विद्याप्रकाशन।
फणिभूषण ‘तर्कवागीश’, ई.सं. १९६८ न्यायपरिचय, (अनुवादक, दिनेशचन्द्र गुह), वाराणसी : चौखम्बाविद्याभवन।
भट्टः, जयन्तः, ई.सं.१९८३, न्यायमञ्जरी, (सं. के.एस.वरदाचार्यः), मैसुरु : प्राच्यविद्यासंशोधनालयः ।
भट्टराई, पद्मप्रसाद, वि.सं. २०६४, पौरस्त्यदर्शन एक चिनारी, काठमाण्डौ : विद्यार्थी पुस्तक भण्डार।
भट्टाचार्यः, विश्वनाथः ई.सं.२००३, न्यायसिद्धान्तमुक्तावली, (किरणावलीसहिता), वाराणसी : चौखम्बासंस्कृतसंस्थानम्।
मिश्रः, केशवः, ई.सं.१९९७ तर्कभाषा वाराणसी : भारतीय विद्या प्रकाशन।
मिश्रः, वाचस्पतिः वि.सं.२०४६ न्यायवार्तिकतात्पर्यटीका, वाराणसी : चौखम्बासंस्कृतसंस्थानम् ।
वात्स्यायनः, ई.सं.१९९८, न्यायभाष्यम् (प्रसन्नपदाव्याख्यायुतम्), वाराणसी : बौद्धभारती।
विजल्वान, चक्रधर, ई.सं. १९९८, भारतीय न्यायशास्त्र, (द्वितीयसंस्करण), लखनउ : हिन्दी संस्थान।
शर्मा, चन्द्रधर, ई.सं.१९९८, भारतीय दर्शन दिल्ली : मोतीलाल बनारसीदास।
शास्त्री दयाङ्कर, ई.सं. १९९९, उद्योतकर का न्यायवार्तिक एक अध्ययन, वाराणसी, चौखम्बाविद्याभवन।
सर्वपल्ली राधाकृष्णन, ई.सं.१९७३, भारतीय दर्शन (तृतीयसंस्करण), अनु. नन्दकिशोर गोभिल, दिल्ली : राजपाल एण्ड सन्स।