अनुसन्धानात्मकलेखोऽयं पाणिनीयव्याकरणशास्त्रप्रयुक्तघिनदीसंज्ञाविषयकविमर्शे केन्द्रितोऽस्ति। पाणिनीयव्याकरणे शब्दसाधुत्वप्रक्रियासाधनप्रसङ्गे प्रयुक्तासु विविधसंज्ञासु घिनदीसंज्ञेऽप्यन्यतमे स्तः। नदीसंज्ञाविधायकसूत्रे घिसंज्ञाविधायकसूत्रार्थस्य, घिसंज्ञाविधायके च नदीसंज्ञाविधायकसूत्रार्थस्यापेक्षणाद्द्वे संज्ञे सापेक्षे स्तः।
हरिलालपौडेलः
उपप्राध्यापकः व्याकरणविभागस्य
नेपालसंस्कृतविश्वविद्यालयान्तर्गत–विश्वविद्यालयविद्यापीठस्य
बेलझुण्डीदाङनेपालस्थस्य
Email: hlpsharma2035@gmail.com
लेखसारः
अनुसन्धानात्मकलेखोऽयं पाणिनीयव्याकरणशास्त्रप्रयुक्तघिनदीसंज्ञाविषयकविमर्शे केन्द्रितोऽस्ति। पाणिनीयव्याकरणे शब्दसाधुत्वप्रक्रियासाधनप्रसङ्गे प्रयुक्तासु विविधसंज्ञासु घिनदीसंज्ञेऽप्यन्यतमे स्तः। नदीसंज्ञाविधायकसूत्रे घिसंज्ञाविधायकसूत्रार्थस्य, घिसंज्ञाविधायके च नदीसंज्ञाविधायकसूत्रार्थस्यापेक्षणाद्द्वे संज्ञे सापेक्षे स्तः। घिनदीसंज्ञाविषयकसन्देहनिवारणपूर्वकसारल्यानयनोद्देश्येन कृतेऽनुसन्धानेऽस्मिन् पूर्वाचार्यकृतव्याख्यानान्याधारी-कृत्य घिनदीसंज्ञाविषयकसैद्धान्तिकीमवधारणां प्रस्तोतुं प्रयत्नो व्यधायि। तदर्थञ्च गुणात्मकस्वरूपेऽस्मिन्ननुसन्धाने पाणिनीयव्याकरणस्याजन्तपुंलिङ्गस्त्रीलिङ्गप्रकरणयोर्घिनदीसंज्ञोपप्रकरणं केन्द्रबिन्दुं कृत्वा प्रकरणसम्बद्धेभ्यो विविधग्रन्थेभ्यः तथ्यरूपाः सामग्रीः सङ्कलय्य तासां वर्णनं, व्याख्यानं विश्लेषणञ्च कृत्वा निष्कर्षः स्थापितोऽस्ति। अतोऽस्मिन् मूलतो वर्णनात्मको, व्याख्यानात्मको विश्लेषणात्मकश्चाध्ययनविधिरवलम्बितोऽस्ति। अत्र च मूलतः पाणिनीयपव्याकरणस्य प्रक्रियाग्रन्थस्थघिनदीसंज्ञासम्बद्धाः सिद्धान्ताः सैद्धान्तिकपर्याधारत्वेन गृहीताः सन्ति। प्राप्ततथ्यानां विश्लेषणेन चात्र– नित्यस्त्रीलिङ्गानामीकारोकारान्तानां नदीजनन्यादिशब्दानां, बहुश्रेयसीशब्दस्य, प्रथमवयोवाचककुमारीशब्दस्य च नदीसंज्ञा, अतिस्त्रीश्रीभ्रुवादिशब्दानामामि ङिद्विभक्तिषु च विकल्पेन सा, भूसुध्यादीनां न नदीत्वम्, कान्ति-मति-धेनु-रज्ज्वादीनां ह्रस्वेकारोकारान्तानां ङित्सु विकल्पेन नदीसंज्ञा, सखिशब्दं वर्जयित्वाऽन्येषां ह्रस्वेकारोकारान्तानां नदीसंज्ञावर्जितानां मुन्यहि-कवि-भान्विन्दु-साध्वादिशब्दानां घिसंज्ञा, केवलसखिशब्दस्य घिसंज्ञानिषेधेऽपि सुसख्यादीनां सख्यन्तशब्दानां दीक्षितमते घिसंज्ञा, नागेशमते तु नेति विकल्पस्तत्र, पतिशब्दस्य समास एव घिसंज्ञा, भूपतिपशुपत्यादीनां पत्यन्तसमस्तशब्दानाम्, अतिथिमहाकव्यादीनां पतिभिन्नह्रस्वेकारान्तसमस्तशब्दानाञ्च घिसंज्ञा, स्मृतिपुराणादिप्रयुक्तानां ‘पतये’ ‘सखिना’ इत्यादिप्रयोगाणां नागेशमतेऽसाधुत्वम्, शरणदेवमते तु तेषां साधुत्वम्, ‘सीतायाः पतये’ इत्यादौ षष्ठीयुक्तपतिशब्दस्य घित्वजन्यप्रयोगाणां साधुत्वं, षष्ठ्यन्यविभक्तियोगे तु लौकिकप्रयोगे केवलसखिपतिशब्दयोर्न घिसंज्ञेति सखिना पतिनेत्यादिप्रयोगोऽस्मदादिभिर्न कर्तव्य इति निष्कर्षः स्थापितः।
शब्दकुञ्जी– संज्ञा, नदी, घि, नित्यस्त्रीलिङ्गः, ङिद्विभक्तिः।
विषयपरिचयः
पाणिनिना शब्दसाधुत्वाय संज्ञा-परिभाषा-विधि-नियमातिदेशाधिकारभेदेन षड्विधानि सूत्राणि प्रणीतानि। सार्थकशब्दानां प्रातिपदिकसंज्ञां कृत्वा विविधस्वरूपाणां प्रातिपदिकानां विविधरूपसाधुत्वाय विविधाः संज्ञाः कृताः, तत्राजन्तशब्दरूपानुशासनक्रमे प्रयुक्तासु संज्ञासु मध्ये सर्वनामसंज्ञा, नदीसंज्ञा, घिसंज्ञा च विशेषतोऽधिकक्षेत्रं व्याप्नुवन्ति। तत्रापीकारोकारान्तानां शब्दानां रूपसिद्ध्यनुशासनाय घिनदीसंज्ञे विशेषतो महत्त्वपूर्णे स्तः।
पाणिनीयव्याकरणे शेषो घ्यसखि (पा सू १।४।७) इत्यादिसूत्रैर्घिसंज्ञा विधीयते, यू स्त्र्याख्यौ नदी (पा सू १/४/३) ) इत्यादिसूत्रैश्च नदीसंज्ञा विधीयते। घिसंज्ञाप्रकरणे शेषपदार्थो ज्ञातव्यः, नदीसंज्ञाप्रकरणे च यूपदेन ह्रस्वेकारोकारौ गृह्येते दीर्घौ वेति ज्ञातव्यम्। पूर्वप्रकरणज्ञानाधीनं शेषपदार्थज्ञानम्, शेषपदार्थज्ञानाधीनं पूर्वप्रकरणस्थयूपदार्थज्ञानमिति घिनदीसंज्ञे परस्परं सम्बद्धे सापेक्षे च स्तः। तत्र नदीसंज्ञाप्रकरणे च नेयङुवङ्स्थानवस्त्री इत्यनेन च इयङुवङ्स्थानयोर्य्वोर्नदीसंज्ञा निषिध्यते। अतो नदीसंज्ञाक्षेत्रज्ञानाय इयङुवङ्प्रसक्तिरपि ज्ञातव्येति प्रकरणमिदं संश्लिष्टमत एव क्लिष्टमप्यस्ति, किन्त्वेतद्विषये केनाप्यनुसन्धानात्मकलेखो लिखितो न दृष्ट इति तत्प्रकरणगतक्लिष्टतान्यूनीकरणायानुसन्धानमिदं प्रारब्धम्।
घिनदीसंज्ञे कुत्र कुत्र भवतः कुत्र कुत्र नेति मूलभूतां समस्यामादायैवानुसन्धानमिदं प्रवर्तते। तत्र विशेषतः नदीसंज्ञा-घिसंज्ञयोः परस्परं कः सम्बन्धः ? नदीसंज्ञा कीदृशानां शब्दानां नित्येन, कीदृशानाञ्च शब्दानां विकल्पेन भवति ? कीदृशानां शब्दानां नदीसंज्ञा निषिध्यते ? कीदृशानां शब्दानां घिसंज्ञा भवति, कीदृशानाञ्च न ? इत्येतादृशीनां शोधसमस्यानां समाधाने केन्द्रितोऽयं लेखः। तत्र च- नदीसंज्ञा-घिसंज्ञयोः परस्परं सम्बन्धप्रदर्शनम्, नित्यनदीसंज्ञायोग्यानां, वैकल्पिकनदीसंज्ञायोग्यानाञ्च शब्दानां निर्धारणम्, नदीसंज्ञानिषेधयोग्यानां शब्दानां निर्धारणम्, घिसंज्ञायोग्यानां तदयोग्यानाञ्च शब्दानां निर्धारणञ्चेत्यादीनि शोधकार्यस्यास्य प्रमुखोद्देश्यानि।
उपरितनसमस्यानां समाधानाय न केनाप्यनुसन्धानं विहितम्। पाणिनीयव्याकरणपरम्परायां पूर्वाचायैः कृतानि यानि पूर्वकार्याणि प्राप्यन्ते, तान्यत्र संक्षेपेण चर्च्यन्ते :
पतञ्जलिना महाभाष्ये नदीसंज्ञाविधायकेषु चतुर्षु सूत्रेषु मध्ये यू स्त्र्याख्यौ नदी (पा सू १/४/३) इत्यस्यैव, घिसंज्ञाविधायकेषु त्रिषु सूत्रेषु च षष्ठीयुक्तश्छन्दसि वा (पा सू १/४/३) इत्येकस्यैव भाष्यं कृतम्, यत्र प्रश्नोत्तरविधिना विविधाः शङ्काः समुपस्थाप्य तासां समाधानानि दत्तानि। संज्ञाद्वयसम्बद्धानामन्येषां पञ्चानां सूत्राणान्तु भाष्यं न प्राप्यते (पतञ्जलिः ; २०२० : ३४०-३५०)। तत्रैव भाष्ये यू स्त्र्याख्यौ नदी इत्यस्य पूरकरूपेण ‘प्रथमलिङ्गग्रहणं च’ इति कात्यायनकृतं वार्तिकं समाविष्टम् (पतञ्जलिः ;
२०२० : ३४०-३५०), यच्च बहुश्रेयसीत्यादौ सूत्रेणाऽप्राप्तस्थलेऽपि नदीसंज्ञां विदधाति ।
वामन-जयादित्याभ्यां स्वविरचितायामष्टाध्यायीसूत्रक्रमानुसारिव्याख्यायां काशिकायां सर्वप्रथमं घिनदीसंज्ञासम्बद्धानां सम्पूर्णसूत्राणां सोदाहरणव्याख्या कृता दृश्यते। ताभ्यां हि तत्र ‘यू स्त्र्याख्यावि’त्यत्र ई च ऊ च = यू, अविभक्तिको निर्देशः इत्युक्त्वा यूशब्देन दीर्घयोरेव ग्रहणमिति प्रतिपादितम्। शेषो घ्यसखि इत्यत्र च शेषोऽत्र घिसंज्ञो भवतीत्युक्त्वा कश्च शेषः? इति प्रश्नस्योत्तररूपेण- ह्रस्वमिवर्णोवर्णान्तं यन्न स्त्र्याख्यं, स्त्र्याख्यञ्च यन्न नदीसंज्ञकं, स शेष इति शेषपदार्थ उक्तः (वामन-जयादित्यौ ;१९६५ :५०२-५०९)।
भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुद्यां घिनदीसंज्ञयोर्विषये सोदाहरणं व्याख्यातम्। कौमुदी हि पाणिनीयाष्टाध्याय्याः प्रक्रियानुसारिव्याख्याग्रन्थोऽस्ति। अतस्तत्र प्रथमं ह्रस्वेकारान्तहरिशब्दरूपावलिसाधन-क्रमे शेषो घ्यसखीति सूत्रोल्लेखपुरःसरं घिसंज्ञाव्यवस्थापनं कृतम् । सुसखिशब्दस्य तु समुदायस्य सखिरूपत्वाभावात् असखीति निषेधाप्रवृत्तेर्घिसंज्ञा इत्युक्त्वा सुसखिना सुसखये इति साधितम् । पतिशब्दरूपावलिसाधनक्रमे पतिः समास एवेति सूत्रस्योपस्थापनं कृत्वा समास एव पतिशब्दो घिसंज्ञो भवति, नान्यत्रेति व्यवस्थाप्य शेषो घ्यसखीति सूत्रेण प्राप्ता पतिशब्दस्य घिसंज्ञा वारिता (दीक्षितः;२००८:२२-२३)। दीर्घेकारान्तबहुश्रेयसीशब्दरूपावलिसाधनकमे यू स्त्र्याख्यौ नदीति सूत्रं वृत्तिसहितमुपस्थापितम्। नित्यस्त्रीलिङगस्यैव तेन सूत्रेण नदीसंज्ञाविधानात् बहुश्रेयसीशब्दस्य च बहुब्रीहिसमासनिष्पन्नत्वेन पुंलिङ्गतया नदीत्वं न प्राप्नोत्याशङ्क्य प्रथमलिङ्गग्रहणञ्च इति वार्तिकमुपस्थाप्य तेनैव नदीसंज्ञा व्यवस्थापिता। (दीक्षितः;२००८:२४)। अजन्तस्त्रीलिङ्गप्रकरणे मतिशब्दरूपावलिसाधनप्रसङ्गे च ङिति ह्रस्वश्च इति सूत्रमुपस्थाप्यार्थाप्य च तेन इयङुवङ्स्थानानां स्त्रीशब्दभिन्नानां नित्यस्त्रीलिङ्गानाम् ईदूदन्तानां हस्वेकारोकारान्तानां च स्त्रीलिङ्गशब्दानां ङिति परे विकल्पेन नदीसंज्ञा भवतीति व्याख्यातम्, मतिशब्दस्य नदीत्वविकल्पजन्यवैकल्पिकप्रयोगाश्च प्रदर्शिताः ( दीक्षितः ;२००८:२९ )। श्रीशब्दरूपसाधनप्रसङ्गे च नेयङुवङ्स्थानावस्त्री इति सूत्रमुपस्थाप्यार्थाप्य च श्रीशब्दे नदीसंज्ञा निषिद्धा, किन्तु तेन तत्र श्रीशब्दस्य ङिद्विभक्तिषु ङिति हस्वश्च इतिसूत्रप्रवृत्तिमप्रदर्श्यैव, श्रियै/श्रिये इत्यादि नदीत्वविकल्पजन्यवैकल्पिकप्रयोगा प्रदर्शिताः। आमि तु वामि इति सूत्रमुपस्थाप्य नदीत्वविकल्प उपस्थापितः ( दीक्षितः ;२००८:३० )।
दीक्षितेन प्रौढमनोरमायां शेषो घ्यसखीति सूत्रं व्याख्यातं न दृश्यते। पतिः समास एवेत्यत्र एवकारपाठ इष्टतोऽवधारणार्थ इत्युक्त्वा “अन्यथा हि समासे पतिरेवेति” (दीक्षितः ;१९९७:३९८) इत्युक्तम्। एवकारानुक्तौ समासे पतिरेव घिसंज्ञ इत्यर्थस्य सम्भावनायां पतिभिन्नान्तहस्वेकारोकारान्तानां महाकविमुरार्यादिसमस्तशब्दानां घिसंज्ञा न सिध्येदिति तद्भाव:। तत्र च तेन ‘सीतायाः पतये नमः’ ‘नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ’ इत्यादौ प्रयुक्तानां ‘पतये’, ‘पतौ’ इत्यादिप्रयोगाणां साधुत्वप्रतिपादनाय तत्रत्यपतिशब्दस्याख्यातत्वमुक्तम्। तेन हि “पतिः णौ टिलोपे ‘अचः इः’ इत्यौणादिक इः। अयं पतिशब्दः पतिः समास एव इत्यत्र न गृह्यते, लाक्षणिकत्वात् । एतेन कृष्णस्य सखिरर्जुनः इति भारतं सखिना वानरेन्द्रेण इति रामायणं च व्याख्यातम्” (दीक्षितः ;१९९७:३९८ ) इत्युक्तम्। दीक्षितमतमिदं चिन्त्यम् ; पत् धातोः पतिशब्दनिर्माणस्याप्रामाणिकत्वात्, तथानिर्मितस्य पतिशब्दस्य भर्त्रर्थकत्वाभावाच्च। सीतायाः पतये इत्यादौ च भर्त्रर्थकस्यैव पतिशब्दस्य ग्रहणात्, पतिः समास एवेत्यत्रापि भर्त्रर्थकस्यैव पतिशब्दस्य घित्वनिषेधात् ।
नागेशेन लघुशब्देन्दुशेखरे घिनदीसंज्ञाविषये विस्तृतविश्लेषणं विहितम्। तत्र च तेन दीक्षितोक्तं सुसखिना सुसखये इत्यादि हरदत्तानुरोधेनेत्युक्त्वा तत्र घिसंज्ञा न भवतीत्युक्त्वा पतिः समास एवेति सूत्रे “स्मृतिपुराणेषु पतये सखिना इत्यादि व्याकरणानिष्पन्नत्वेनासाध्वेव” ( नागेशः ;२०५३:२४२-२४३) इत्युक्तम्।
जनार्दनहेगडे इत्यनेन शुद्धिकौमुदी लिखिता, यत्र तेन पतये पतौ इत्यदीनामशुद्धत्वमेव प्रतिपादितम्, मनोरमाकारेण यथाकथञ्चित् पतये इत्यादि प्रयोगाणां समर्थनं कृतं, तत्तु अगतिकगतिरेवेति तेनोक्तम् ( हेगडे ; २००८:२४५-२४६ )।
पूवचर्चितैराचार्यैः स्वस्वग्रन्थेषु घिनदीसंज्ञाविषये शास्त्रीयचर्चा विहिता, किन्तु कुत्रचित्तेषां मतभेदोऽस्ति चेत् कुत्रचित् केषाञ्चिन्मतेष्वस्पष्टता शास्त्रीयदृष्ट्याऽसङ्गतता च दृश्यत इति तत्कृतचर्चाणां संयुक्ताध्ययनं कृत्वा समन्वितनिष्कर्षस्थापनस्यावश्यकता दृश्यते। इमामेवावश्यकतां परिपूरयितुं लेखोऽयं निर्मितः।
अनुसन्धानविधिः
अनुसन्धानमिदं मूलतो वर्णनात्मकं, व्याख्यानात्मकं विश्लेषणात्मकञ्च विधिमाधृत्य कृतम्। अस्मिन्ननुसन्धानेऽवलम्बितोऽध्ययनविधिर्यथा–
अनुसन्धानस्वरूपम्
अत्रानुसन्धाने हि पाणिनीयव्याकरणस्य शब्दसाधुत्वप्रक्रियासाधनप्रसङ्गे प्रयुक्तासु विविधसंज्ञास्वन्यतमयोर्घिनदीसंज्ञयोर्विषये प्रकरणसम्बद्धेभ्यो विविधग्रन्थेभ्यः तथ्यरूपाः सामग्रीः सङ्कलय्य तासां वर्णनं, व्याख्यानं विश्लेषणञ्च कृत्वा शब्दात्मको निष्कर्षः स्थापितोऽस्ति। अत एवेदं गुणात्मकमनुसन्धानमस्ति।
अनुसन्धानस्य क्षेत्रं परिसीमा च
अस्यानुसन्धानस्य क्षेत्रं शब्दसाधुत्वसाधकं पाणिनीयव्याकरणशास्त्रम्। अनुसन्धानञ्चेदं पाणिनीयव्याकरणशास्त्रस्य प्रक्रियाग्रन्थान्तर्गतप्रयुक्तासु विविधसंज्ञासु मध्ये घिनदीसंज्ञयोर्विमर्शे केन्द्रितमस्तीति पाणिनीयव्याकरणस्याजन्तपुंलिङ्गस्त्रीलिङ्गप्रकरणयोर्घिनदीसंज्ञोपप्रकरणं, तत्रापि संज्ञाद्वयसम्बद्धानि सूत्राणि तद्व्याख्याग्रन्थाश्चास्यानुसन्धानस्य परिसीमानः ।
तथ्याङ्कसङ्कलनं तत्साधनानि च
अत्र पाणिनीयव्याकरणान्तर्गतेभ्यः पाणिनीयाष्टाध्यायी-व्याकरणमहाभाष्य-काशिका-वैयाकरणसिद्धान्त-कौमुद्यादिमूलग्रन्थेभ्यस्तद्व्याख्यारूपेभ्यः प्रौढमनोरमा-बालमनोरमा-लघुशब्देन्दुशेखरादिग्रन्थेभ्यश्च घिनदीसंज्ञा-सम्बद्धतथ्यानां सङ्कलनं कृतमिति प्रायः प्राथमिकस्रोतसः कुत्रचिद्द्वितीयकस्रोतसश्च तथ्याङ्कसङ्कलनसाधनानि सन्ति।
तथ्याङ्कविश्लेषणप्रक्रिया
अत्र विविधस्रोतोभ्यः सङ्कलितानां घिनदीसंज्ञासम्बद्धतथ्याङ्कानां मूलतो वर्णनात्मकं व्याख्यानात्मकञ्च विधिमाधृत्य विश्लेषणं कृतमस्ति। कुत्रचित्तोलनविधिरपि प्रयुक्तः। तथ्यविश्लेषणक्रमे सिद्धान्तस्य पुष्टये यथोचितोदाहरणान्यपि दत्तानि। तत्क्रमे च सर्वप्रथमं सैद्धान्तिकाधारत्वेन घिनदीसंज्ञासम्बद्धां पाणिनीयव्याकरणस्थां व्यवस्थां पुरतः संस्थाप्य, घिनदीसंज्ञयोः पारस्परिकं सम्बन्धञ्च प्रदर्श्य, प्रथमं नदीसंज्ञाविषयकविमर्शं कृत्वा ततो घिसंज्ञाविषयकविमर्शः कृतः। नदीसंज्ञाविषयकविमर्शक्रमे च नदीसंज्ञाविधायकानां यू स्त्र्याख्यौ नदी (पा.सू.१/४/३) इत्यादीनां चतुर्ण्णां सूत्राणां, शेषो घ्यसखि (पा. सू. १।४।७), इत्यादीनां त्रयाणां सूत्राणां, तद्वृत्तिव्याख्यानामुदाहरणानाञ्च विश्लेषणं कृत्वा निष्कर्षो निष्कासितो विद्यते। अतोऽत्र तथ्याङ्कविश्लेषणाय मुख्यतया सोदाहरणवर्णनव्याख्यानात्मकविधिरवलम्बितः।
अनुसन्धानस्य सैद्धान्तिकपर्याधारः
पाणिनीयव्याकरणशास्त्रेऽष्टाध्याय्याः प्रथमाध्यायस्य चतुर्थपादे नदीसंज्ञायाः घिसंज्ञायाश्च व्यवस्था कृतास्ति । पाणिनिना यू स्त्र्याख्यौ नदी (पा.सू.१/४/३), नेयङुवङ्स्थानावस्त्री (पा.सू.१/४/४), वामि (पा.सू.१।४।५), ङिति ह्रस्वश्च (पा.सू.१।४।६) इति सूत्रचतुष्टयेन नदीसंज्ञायाः, शेषो घ्यसखि (पा. सू. १।४।७), पतिः समास एव (पा.सू.१/४/८), षष्ठीयुक्तश्छन्दसि वा (पा.सू.१।४।९) इति सूत्रत्रयेण च घिसंज्ञायाः सुव्यवस्था कृता दृश्यते। तत्र यू स्त्र्याख्यौ नदी इति सूत्रेण नित्यस्त्रीलिङ्गानामीकारान्तानां नदीजननीगौरीपृथ्व्यादिशब्दानाम्, ऊकारान्तानां वधूचमूवीरप्रस्वादिशब्दानाञ्च नदीसंज्ञा भवति। बहुश्रेयसीशब्दस्य तु पुंस्त्वेऽपि प्रथमलिङ्गग्रहणञ्च (दीक्षितः; २००८:२४) इति वार्तिकेन नदीत्वम्। नेयङुवङ्स्थानौ० इति सूत्रेण बाधकाऽबाधितेयङुवङ्स्थितिवतां दीर्घेकारोकारान्तानां शब्दानां नदीसंज्ञा निषिध्यते। इयङुवङौ च अचि श्नुधातुभ्रुवाम्० (पा.सू.६।४।७७), स्त्रियाः (पा.सू.६।४।७९), इति सूत्राभ्यां विधीयेते। एरनेकाचो संयोगपूर्वस्य (पा.सू.७।४।८२) इत्यनेन चानेकाचोऽङ्गस्यान्ते इवर्णान्तोऽसंयोगपूर्वो धातुरस्ति चेत्तस्य धातोरिवर्णस्याजादिप्रत्यये परे इयङुवङोः निषेधं कृत्वा यण् क्रियते। वाऽऽमि इति सूत्रेण ‘स्त्री’शब्दभिन्नानामियङुवङ्स्थानिनामीकारोकारान्तानां नित्यस्त्रीलिङ्गानां श्री, भ्रू एत्येतादृशानां शब्दानामाम्प्रत्यये परे विकल्पेन नदीसंज्ञा भवति। ङिति ह्रस्वश्चेति सूत्रेण
इयङुवङ्स्थानयोः स्त्रीशब्दभिन्नयोर्नित्यस्त्रीलिङ्गयोरीदूतोर्ह्रस्वयोश्चेवर्णोवर्णयोः स्त्रियां वर्तमानयोर्विकल्पेन नदीसंज्ञा क्रियते। शेषो घ्यसखीति सूत्रेण सखिशब्दं वर्जयित्वाऽन्येषां ह्रस्वेकारोकारान्तानां नदीसंज्ञावर्जितानां कवि-भान्वादिशब्दानां घिसंज्ञा क्रियते। पतिः समास एवेति सूत्रेण पतिशब्दस्य समास एव घिसंज्ञा क्रियते। षष्ठीयुक्तश्छन्दसि वा इति सूत्रेण च षष्ठीयुक्तपतिशब्दस्य वेदानां विषये विकल्पेन घिसंज्ञा क्रियते। इमामेव व्यवस्थां सैद्धान्तिकपर्याधारत्वेनोपयुज्य विविधव्याख्यानां पर्यालोचनां कृत्वा पर्याप्तान्युदाहरणानि सङ्कलय्य च लेखोऽयं निर्मितः।
घिनदीसंज्ञयोः सम्बन्धः
पाणिनिना घिसंज्ञाप्रकरणादौ शेषो घ्यसखि (पा.सू.१।४।७) इति सूत्रं पठितम्। तत्र घिसंज्ञा कुत्र भवतीति ज्ञातुं शेषपदार्थः असखिपदार्थश्च ज्ञातव्यौ भवतः। तत्र शेषपदार्थं ज्ञातुञ्च घिसंज्ञाविधायकप्रथमसूत्रात्पूर्वतनं नदीसंज्ञाप्रकरणं ज्ञातव्यं भवति। येषां नदीसंज्ञा न भवति, तेषां सखिभिन्नतत्सदृशानां घिसंज्ञेति सूत्रार्थः। एतावता नदीसंज्ञायोग्यातिरिक्तशब्दानामेव घिसंज्ञा भवतीति घिसंज्ञाप्रकरणेन नदीसंज्ञाप्रकरणमपेक्ष्यते। नदीसंज्ञाविधायके यू स्त्र्याख्यौ नदी(पा.सू.१/४/३) इत्यादिसूत्रैश्च यू नदीसंज्ञकं भवति, न भवतीति य्वोर्नदीसंज्ञा क्रियते, निषिध्यते च। तत्र इश्च उश्च यू इति, ईश्च ऊश्च यू इति वा ? अथवा द्वयमपि ? शेषो घ्यसखीति सूत्रे शेषपदेन किं गृह्यत इति ज्ञाते सत्येव तदतिरिक्तयोरेवात्र यूशब्देन ग्रहणमिति निर्णेतुं शक्यते। तत्र चासखीति पर्युदासेन सखिभिन्नतत्सदृशानां ह्रस्वेकारवतां, तत्साहचर्याद् ह्रस्वोकारवताञ्च शेषपदेन ग्रहणम्, तत्सामर्थ्याच्च पूर्वप्रकरणे यूशब्देन दीर्घयोरेव ग्रहणमिति समाधीयते। इत्थञ्च घिनदीसंज्ञे परस्परं सम्बद्धे सापेक्षे च स्तः। अत एव नदीसंज्ञा-घिसंज्ञयोः परस्परं सम्बन्धो दृश्यते।
घिनदीसंज्ञाविषयकविमर्शः
घिनदीसंज्ञाविषयकविमर्शाय पाणिनिकृतानि तत्तत्संज्ञाविधायकसूत्राणि, तत्तत्सूत्रोपरि विविधैराचार्यै-र्विहिताः व्याख्याः, तदनुसारीन्युदाहरणानि चोपस्थाप्य विश्लेषणं क्रियतेऽत्र। पाणिनीयाष्टाध्याय्याञ्च प्रथमं नदीसंज्ञा, ततो घिसंज्ञास्तीत्यत्रापि तत्क्रमेणैव विमृश्यते।
नदीसंज्ञाविषयकविमर्शः
पाणिनिना यू स्त्र्याख्यौ नदी (पा.सू.१/४/३), नेयङुवङ्स्थानावस्त्री (पा.सू.१/४/४), वामि (पा.सू.१।४।५), ङिति ह्रस्वश्च (पा.सू.१।४।६) इति सूत्रचतुष्टयेन नदीसंज्ञायाः व्यवस्था कृतेति तान्येवात्र वर्णनव्याख्याविश्लेषणविषयीक्रियन्ते–
यू स्त्र्याख्यौ नदी (पा.सू.१/४/३)
अत्र ‘यू’ इत्यस्यार्थः क इति जिज्ञासा। द्विधाऽस्य विग्रहः सम्भवति – इश्च उश्च = यु, तस्मादौविभक्तौ ‘यू’ इति, अथवा– ईश्च ऊश्च यू। तस्मादौ विभक्तौ ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घे ‘यू’ इति। ‘दीर्घाज्जसि च’ इति निषेधाभावश्छान्दसः। कतमोऽर्थोऽत्र पाणिनिसम्मत इति ज्ञातुञ्चोत्तरसूत्रे शेषो घ्यसखि (पा.सू.१।४।७) इत्यत्र शेषपदेन किं गृह्यते ? तदतिरिक्तयोरेवात्र यूशब्देन ग्रहणमिति। शेषो घ्यसखीत्यत्र च सखिशब्दवर्जं ‘यू’ इत्यतः शेषस्य घिसंज्ञाविधानात्, ‘असखि’ इत्यत्र पर्युदासस्य सत्त्वात् सखिशब्दभिन्नाः सखिशब्दसदृशाः घिसंज्ञकाः स्युरिति सूत्राक्षरार्थ:। सादृश्यञ्च तत्र ह्रस्वत्वेनैव, सखिशब्दस्य तथात्वात्। अत एव सखिशब्दभिन्ना ह्रस्वेकारोकारान्ताः घिसंज्ञकाः स्युरिति सूत्रार्थः। इत्थञ्च ‘शेष’ शब्दस्यार्थस्तत्र हस्वेकारोकारान्ताः इति जातः। अतस्तत्पूर्ववर्तिन्यस्मिन् सूत्रे ‘यू’ इत्यनेन दीर्घेकारोकारावेव गृहीताविति व्याख्यायते। इत्थञ्च संज्ञासूत्रमिदम् ईकारान्तानूकारान्ताँश्च शब्दानुद्दिश्य नदीसंज्ञां विधत्त इति व्याख्यानबलाज्ज्ञायते। व्याख्यानात्सन्देहनिवृत्तिः सम्भवतीत्यत्र च व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादक्षणम् (नागेशः;१९९०:३) इति परिभाषा
प्रमाणम्।
अत्र दीर्घेकारोकारयोरेव नदीसंज्ञा भवतीत्यर्थकस्य यू इत्यस्य ग्रहणात् ऋकारान्तान्मातृशब्दाच्चतुर्थ्येकवचनादौ मात्रे इत्यादि रूपम्। नदीसंज्ञाऽभावात् आण्नद्याः (पा.सू.७/३/११२) इत्याडागमो न । स्त्रीलिङ्गौ इत्युक्तत्वाच्च वातप्रमीशब्दस्य न नदीसंज्ञा। अत एव चतुर्थ्यादौ वातप्रम्ये इत्यादि। वातप्रमी मृगविशेषः, पुंलिङ्गः। स्त्रियमाचक्षाते स्त्र्याख्यौ। ‘स्त्र्याख्यौ’ इति विशेष्यः, ‘यू’ इति विशेषणम्, अत एव येन विधिस्तदन्तस्य (पा.सू.१/१/७२) इति तदन्तविधौ ‘यू’ इत्यस्य ‘ईदूदन्तौ’ इत्यर्थः। अत्र च स्त्रीशब्देनैव निर्वाहे सत्यपि आख्याग्रहणान्नित्यत्वलाभः। एतावता सूत्रार्थश्चेत्थम्- ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्त इति। आख्याग्रहणलभ्यस्य नित्यत्वलाभस्य फलन्तु ग्रामण्यादेर्व्यावृत्तिः (नागेशः;२०५३:२५४)। ग्रामण्ये इत्यत्र नदीसंज्ञाव्यावृत्तेराडागमो न। ग्रामणीशब्दो हि न नित्यस्त्रीलिङ्गः, अपितु पुंसि, स्त्रियां, नपुंसके च। तत्र नित्यस्त्रीत्वञ्च प्रवृत्तिनिमित्तैक्ये सति लिङ्गान्तरविशिष्टार्थानभिधायकत्वम् (नागेशः;२०५३:२५४–२५५)। यथा ग्रामणी इत्यत्र ग्रामनयनकर्तृत्वरूपस्य प्रवृत्तिनिमित्तस्यैक्ये सत्यपि तस्य त्रिलिङ्गस्थत्वात् लिङ्गान्तरविशिष्टार्थाभिधायकत्वं तत्रास्तीति न तस्य नित्यस्त्रीलिङ्गत्वम्। ङ्यन्तकुमार्यादीनां क्यचि निर्वृत्तेन त्रिलिङ्गेन कुमारीशब्देन समानाकारतया नित्यस्त्रीत्वाभाववारणाय प्रवृत्तिनिमित्तैक्ये इति (नागेशः ;२०५३ :२५५) ।
अयम्भावः– तत्र सत्यन्तविशेषणदलाभावे ‘कुमारी’शब्देऽव्याप्तिः स्यात्। कुमारी शब्दो हि द्विविधः–प्रथमवयोवाचककुमारशब्दान्ङीषि निष्पन्नः स्त्रीलिङ्गः कुमारीशब्द एकः, ‘आत्मनः कुमारीमिच्छति’ इत्यर्थे क्यजन्तात्कर्त्तरि क्विपि निष्पन्नस्त्रिलिङ्गः कुमारीशब्दश्चान्यः। उभयोः समानाकारकत्वम्। द्वयोः प्रवृत्तिनिमित्तैक्याभावात् प्रथमकुमारीशब्दे नित्यस्त्रीत्वस्याव्याप्तिर्न।
नदीसंज्ञाफलञ्च अम्बार्थनद्योर्ह्रस्वः (पा.सू. ७।३।१०७) आण्नद्याः (पा.सू. ७।३।११२) इत्यादिभिः सूत्रैः सम्बोधने ह्रस्वत्वम्, नद्याः परेषां ङितामाट्, ङेराम्नद्याम्नद्यम्नीभ्यः (पा. सू. ७।३।११६) इति ङेः स्थाने आमादेशश्च। आच्छीनद्योर्नुम् (पा.सू. ७।१।८०) इत्यादौ तु नदीशब्दस्य तदवयवे लक्षणा बोद्ध्या। तेन ‘नदीसंज्ञकशब्दावयवे ईकारे परतः सति पूर्वस्य नुमागमः’ इत्यर्थकरणेन द्विष्यन्ती दीव्यन्ती इत्यादि सिद्ध्यति।
ननु नित्यस्त्रीत्वस्य यल्लक्षणं कृतम्, तत्स्वीकारे तु बहवः श्रेयस्यो यस्य सः बहुश्रेयसी इत्यत्र बहुश्रेयसीशब्दस्य नदीत्वन्न स्यादित्याशङ्कायां दीक्षितेन ‘प्रथमलिङ्गग्रहणञ्चे’ति वार्तिकमुपस्थाप्य व्याख्यातम् (दीक्षितः ;२००८:२४)। प्रथमस्य= समासादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य स्त्रीलिङ्गस्य ‘यू स्त्र्याख्यौ नदी’त्यत्र ग्रहणं कर्तव्यमित्यर्थः।
नन्वेवं सति समासादिवृत्त्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङ्क्य, अपिशब्दमध्याहृत्य व्याचष्टे दीक्षित:- “पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि इदानीं नदीत्वं वक्तव्यमित्यर्थः” (दीक्षितः ; २००८ : २४) इति। नागेशश्च वार्तिकार्थमाह– “अर्थान्तरसंक्रमात्पूर्व विद्यमानं नित्यस्त्रीत्वमादाय तस्याऽर्थान्तरसंक्रमेऽपि नदीत्वं वक्तव्यमित्यर्थः” ( नागेशः ; २०५३ :२५५) इति।
इत्थञ्च यू स्त्र्याख्यौ नदी (पा.सू. १/४/३) इति सूत्रेण नित्यस्त्रीलिङ्गानामीकारान्तानां नदी-अटवी-कुमारी-गृहिणी-जननी-जगती-तन्त्री-धात्री-नगरी-नारी-पत्नी-गौरी-पृथ्व्यादिशब्दानामूकारान्तानां वधू-कर्कन्धू-चमू-श्वश्रू-अतिचमू-वीरप्रस्वादिशब्दानाञ्च नदीसंज्ञा भवति। नित्यस्त्रीलिङ्गस्यैव नदीसंज्ञाविधानात् ग्रामण्यादिशब्दानां नदीत्वं न। वातप्रमीशब्दस्य तु पुंलिङ्गत्वान्न नदीसंज्ञा। बहुश्रेयसीशब्दस्य तु पुंस्त्वेऽपि प्रथमलिङ्ग-ग्रहणान्नदीत्वम्। प्रथमवयोवाचकस्य कुमारीशब्दस्य नदीसंज्ञा भवति, किन्तु कुमारीमात्मन इच्छतीत्यर्थे क्यजन्तात् कर्तरि क्विपि निष्पन्नस्य त्रिलिङ्गस्य कुमारीशब्दस्य तु नदीसंज्ञा न भवति।
नेयङुवङ्स्थानावस्त्री (पा. सू. १/४/४)
इयङ् च उवङ् च इयङुवङौ। तयो: स्थानं = स्थितिर्ययोस्तौ इति बहुव्रीहिसमास:। तच्च अनुवृत्तस्य ‘यू’ इत्यस्य विशेषणम्। न स्त्री = अस्त्री। स्त्रीशब्दं विहायेत्यर्थः। ‘यू’ ‘नदी’ इत्यनुवर्तेते। तथा च सूत्रार्थः– इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तः, न तु स्त्री (दीक्षितः ;२००८ :३०) इति। स्त्रीशब्दादजादिविभक्तौ परतः सत्यामियङ् भवति, अत एवेयङ्स्थानः स शब्दः। अस्त्री इत्यनुक्ते च सति तस्यापि नदीसंज्ञानिषेध आपद्येतेति तत्पदं प्रयुक्तम्। सूत्रोदाहरणत्वेन दीक्षितेनोपन्यस्तम्- हे श्रीः। श्रियम्। श्रियौ। श्रियः। श्रियै / श्रिये। श्रियाः। श्रियः ( दीक्षितः ; २००८ : ३०) इति। अजादौ श्रियौ, श्रियः, श्रियम् इत्यादौ इयङ्योग्यत्वात् अनेन नदीत्वनिषेधः, अत एव च हे श्रीः इत्यत्र अम्बार्थनद्योर्ह्रस्वः (पा.सू.७।३।१०७) इति ह्रस्वो नेति भावः। ङिद्विभक्तौ तु अनेन निषेधेऽपि ङिति ह्रस्वश्चेति विकल्पेन नदीसंज्ञायां आटागमे ‘श्रियै’ इत्यादि। नदीत्वाभावे च ‘श्रिये’ इत्यादि। अत्र नागेश आह– सा = इयङुवङोः स्थितिश्च, बाधकाऽविषय एव। इयङुवङोर्यत्र बाधकं नास्ति तत्रैवेत्यर्थः। एरनेकाचोऽसंयोगपूर्वसस्य (पा.सू.६।४।८२) ओः सुपि (पा.सू.६।४।८३) इत्यादिना प्रद्ध्यै खलप्वौ इत्यादौ इयङं उवङं च प्रबाध्य यण् क्रियते। अतस्तत्र इयङुवङोः स्थितिर्नास्ति, अत एव चेयङुवङ्स्थानत्वाभात् प्रधी खलपू इत्येतत्सदृशानां नानेन नदीसंज्ञानिषेधः। निषेधाभावाच्च यू स्त्र्याख्यौ नदी (पा.सू.१/४/३) इत्यनेन तयोर्नदीत्वं सिद्ध्यति। ‘श्रियौ’, ‘श्रियः’ इत्यादौ तु बाधकाविषयत्वात् इयङ: स्थितिरस्ति। ‘भ्रुवौ’, ‘भ्रुवः’ इत्यादौ च उवङः स्थितिरस्ति। अतोऽत्रानेन नदीसंज्ञानिषेधः। श्रयति/श्रयते सेवते विष्णुमिति श्रीः। श्रिञ् सेवायाम् (धा. ८९७) इत्यस्माद्धातोः क्विप्वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसम्प्रसारणञ्च (दीक्षितः ; २००८ : ३२७) इत्युणादिसूत्रेण क्विपि दीर्घे च श्रीशब्दो निष्पद्यते। धातुनिष्पन्नोऽयं शब्दः। अत्र च धात्वयवसंयोगपूर्व ईकारः, एकाच्त्वात्संयोगपूर्वकत्वाच्चात्र एरनेकाचोऽसंयोगपूर्वसस्य (पा.सू.६।४।८२) इति इयङपवादरूपो यण् न प्राप्नोति, अनेकाचोऽसंयोगपूर्वसस्येति व्यावृत्तेः। बाधकाविषयत्वाच्चात्रेयङ: स्थितिरस्ति। भ्राम्यति नेत्रोपरीति भ्रूः। भ्रम् धातोः भ्रमेश्च डूः (दीक्षितः ; २००८ : ३२७) इत्युणादिसूत्रेण डूप्रत्यये भ्रूशब्दो निष्पद्यते। भ्रूशब्दादचि परे च अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (पा.सू. ६।४।७७) इत्युवङ् भवति। अत्र सूत्र एव भ्रूशब्दग्रहणात् तत्रेयङ् केनापि न बाध्यत इति उवङः स्थितिर्निर्बाधा। अत एव ‘श्री’ ‘भ्रू’ इत्यादयः शब्दा इयङुवङ्स्थानाः। इयङुवङ्स्थानौ च ईदूदन्तौ नदीसंज्ञौ न भवतः।
अत्र सूत्रे इयङुवङ्स्थित्यधिकरणत्वमुपलक्षणम्, न तु विशेषणम्, व्याख्यानात्। उपलक्ष्यते स्वं स्वेतरच्चानेनेति उपलक्षणम्। काकवन्तो देवदत्तस्य गृहाः, काकेभ्यो दधि रक्ष्यतामित्यादिवत्। अत एव यस्मिन् शब्देऽजादौ प्रत्यये परतः सति इयङुवङोः स्थितिर्दृश्यते, तस्य शब्दस्य इयङुवङ्स्थित्यभाववत्सु हलादिविभक्तिष्वपि नदीसंज्ञा निषिद्ध्यते। विशिष्यतेऽनेनेति विशेष्यधर्म्मो विशेषणम्। इदं हि विशेष्यमन्यस्माद् भेदयति, स्वविशेष्यातिरिक्तञ्च व्यावर्तयति। यथा– अतो दीर्घो यञि (पा.सू.७।३।१०१) इत्यत्र यञि इति सार्वधातुकस्य विशेषणम्। अत एव भवामि, पचावः, गच्छाम इत्यादौ यञादौ सार्वधातुके परे सत्येव अतोऽङ्गस्य दीर्घो भवति, नान्यत्र– पठति, भवत इत्यादौ। अयमेवोपलक्षणविशेषणयोर्भेदः। इयङुवङ्स्थित्यधिकरणत्वस्योप- लक्षणत्वादेव ‘हे श्री:’ इत्यादौ नदीत्वनिषेधसिद्धिः, श्रियौ इत्याद्यजादौ इयङः स्थितिसत्त्वात्। तस्य विशेषणत्वे तु इयङुवङ्स्थित्यधिकरणेऽजादावेव नदीत्वनिषेधसिद्धिः स्यात्, ‘हे श्री:’, ‘हे लक्ष्मीः’ इत्यादौ तु तदभावे नदीत्वमापद्येत। तथा च तत्र अम्बार्थनद्योर्ह्रस्वः(पा.सू.७।३।१०७) इति ह्रस्वत्वं, एङ्ह्रस्वात्सम्बुद्धेः(पा.सू. ६।१।७९) इति सम्बुद्धिलोपश्चापद्येताम्। एतत्सर्वं विचार्यैवास्य सूत्रस्य फलितार्थमाह नागेशः- “यत्र नदीकार्याश्रयेऽङ्गे बाधकाऽबाधितेयङादिस्थितिः क्वचित् दृष्टा, तस्य तदवयवस्य च नदीत्वनिषेधः। उक्तफलितार्थसत्त्वादेव ‘भ्रूः’ ‘भूः’ इत्यादौ नदीत्वनिषेधः सिद्धः। प्रकृष्टा धीर्यस्याः, यस्य वा प्रधीः’ इत्यत्र अवयवधीशब्दस्य तु नदीत्वं भवत्येव” (नागेशः ; २०५३: २८०–८१) इति। यद्यपि धियौ, धियः, धियम् इत्यादौ धीशब्दरूपेऽङ्गे इयङ्स्थितिर्दृश्यते, तथापि धी इति नदीसंज्ञाप्रयुक्तकार्याश्रयमङ्गं नास्ति, प्रधीशब्द एव तादृशमङ्गम् । तत्र च एरनेकाचोऽसंयोगपूर्वस्य (पा.सू.६।४।८२ ) इत्यनेन इयङो बाधात् बाधकाबाधितेयङादिस्थितिर्नास्ति। अत एव तत्र नेयङुवङ्स्थानौ इति न नदीसंज्ञानिषेधः। अत एवास्य नदीसंज्ञासिद्धिरिति नागेशाशयः।
बाधकाऽबाधितेयङादिस्थितिः कुत्रकुत्रास्तीति ज्ञातुमियङुवङ्बाधकप्रकरणं ज्ञातव्यं भवति। तत्र अचि श्नुधातुभ्रुवाम् य्वोरियङुवङौ (पा.सू.६।४।७७) इत्यनेन अजादिप्रत्यये परे इवर्णान्तस्य उवर्णान्तस्य च धातोरिकारोकारयोरियङुवङौ क्रियेते, ‘श्नु’ इत्यस्य, ‘भ्रू’ इत्यस्य चोकारस्योवङ् क्रियते। स्त्रियाः (पा.सू.६।४।७९ ) इत्यनेन ‘स्त्रीशब्दस्याजादिप्रत्यये परे इयङादेशो भवति। स्त्री+औ=स्त्रियावित्यादि। षष्ठीबहुवचने तु आमो नुडागमे नामो हलादित्वादेतत्सूत्रस्याप्रवृत्त्तौ स्त्रीणाम् इति। इत्थञ्च स्त्रीशब्देकारस्येयङ् भवतीति शब्दोऽयमियङ्स्थानः। अत एव नेयङुवङ् (पा सू १/४/४) इत्यनेन नदीसंज्ञानिषेधाभावायास्त्रीत्युक्त्वा नदीत्वनिषेधस्य व्यावर्तनं कृतम् । अत इयङ्स्थानस्यापि शब्दस्यास्य नदीसंज्ञा निर्बाधा। एरनेकाचोऽसंयोगपूर्वस्य (पा.सू.७।४।८२) इत्यनेन च यद्यङ्गमनेकाच्, तस्यान्ते यदि इवर्णान्तोऽसंयोगपूर्वो धातुर्विद्यते, तर्हि तस्य धातोरिवर्णस्याजादिप्रत्यये परे यणादेशो भवति। सेनां नयतीति सेनानीः, ग्रामं नयतीति ग्रामणीः। तत्र ‘सेना’ ‘ग्राम’ इत्युपपदपूर्वकात् नयार्थकात् ‘नी’धातोः क्विप्प्रत्यये सेनानीः ग्रामणीरिति। अनयोश्च शब्दयोः प्रथमाद्विवचने ‘सेनानी/ग्रामणी+औ’ इत्यत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (पा.सू.६।४।७७ ) इत्यनेन इयङादेशे प्राप्ते तम्प्रबाध्यैतत्सूत्रेण यणि कृते ग्रामण्यौ सेनान्यौ इति। इत्थञ्च सेनानी-ग्रामणीत्यादीनाम् असंयोगपूर्वधात्वन्तानामिवर्णान्तानामङ्गानामियङ्स्थानत्वं नास्ति, यणा इयङ्बाधात्। अतस्तत्र नेयङुवङ्० इति नदीत्वनिषेधो न, तथापि तेषां त्रिलिङ्गत्वेन स्त्र्याख्यत्वाभावात् नदीत्वपाप्तिरेव न।
खलं पुनातीति खलपूः। तस्मादजादिविभक्तौ खलप्वौ, खलप्वः, खलप्वे इत्यादौ ओः सुपि (पा.सू. ६।४।८३) इति उवङ्बाधको यणादेशो भवतीत्यत्र बाधकाबाधितोवङ्स्थित्यभावेऽपि त्रिलङ्गत्वेन नित्यस्त्रीत्वाभावान्न नदीसंज्ञा। कटं श्मशानं प्रवते = गच्छतीति कटप्रू: = महादेवः, राक्षस:, प्रेतादयश्च । अत्र तु स्त्रीत्वस्यैवाभावान्नदीत्वशंकापि न। वर्षाभूशब्दश्च मण्डूकार्थे पुल्लिङ्गः, पुनर्नवार्थे स्त्रीलिङ्गः। यद्यपि वर्षाभूशब्दे वर्षाभ्वश्चेति उवङ्बाधकयणादेशो भवतीति उवङ्स्थितिर्नास्ति, तथापि नित्यस्त्रीत्वाभावादत्रापि न नदीत्वम्। न भूसुधियोः (पा.सू.६।४।८५) इत्यनेन भूसुधीशब्दयोरजादिसुप्प्रत्यये परे यणादेशो निषिध्यते। बाधका-बाधितेयङादिस्थितिसत्त्वाच्च भूसुधीप्रतिभूपरमसुधीत्यादीनां न नदीत्वम्।
प्रधी-सुधी-ग्रामणी-खलपूशब्दानां रूपावलीविषये दीक्षितेन पूर्वाचार्याणां मतानि स्वमतञ्च कौमुद्यां प्रस्तुतम्। तदनुसारेण च- ‘पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्व’मिति स्वीकारात् प्रधीशब्दस्य वृत्तिकारादीनां मते लक्ष्मीवद्रूपम्। ‘लिङ्गान्तरानभिधायकत्वं त’दिति कैयटमते तु पुंवद्रूपम् (दीक्षितः ; २००८ : ३०) आधीप्रधीशब्दौ क्रियाशब्दत्वेन त्रिलिङ्गत्वात् स्त्रीविषयौ न भवतः, यथैव ग्रामणी-सेनानीशब्दाविति तयोर्नदीसंज्ञया न भाव्यम् (कैयटः; २०२० :३४७ । अत एव तयोः पुंवद्रूपाणि। यदि प्रकृष्टा धीः प्रधीरिति, तर्हि तु नित्यस्त्रीत्वं सम्भवम्, तदा च तस्य लक्ष्मीवद्रूपाणीति स्वीकर्तुं शक्यते। तत्रापि– अमि शसि च-प्रध्यं प्रध्य इति विशेषः (दीक्षितः ;२००८:३०)। सुष्ठु धीर्यस्याः, सुष्ठु ध्यायति वेति विग्रहे वृत्तिकारमते सुधीशब्दः श्रीशब्दवन्नित्यस्त्रीलिङ्गः, किन्तु तत्र नदीसंज्ञा न, इयङ्स्थितिसत्त्वात्। सुष्ठु धीः सुधीरिति विग्रहे तु श्रीवदेव, मतद्वयेऽपि नित्यस्त्रीलिङ्गत्वात् (दीक्षितः ; १९९६ : ३६३)।
इत्थञ्च सुधीशब्दः द्विप्रकारकः– सुष्ठु धीर्यस्याः, सुष्ठु ध्यायति वेति विग्रहवान् नदीसंज्ञारहित एकः, सुष्ठु धीरिति विग्रहवान् नदीसंज्ञायुक्तोऽन्यः। ग्रामणी-कटप्रू-खलप्वादिशब्दानां स्त्रीलिङ्गत्वेऽपि पुंवद्रूपाणि, ग्रामनयनकटप्रवणखलपवनादिक्रियाणां लोके सामान्यतः पुरुषकर्तव्यतया ब्राह्मण्यादिपदान्तरसमभिव्याहारं विना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाऽभावादिति कौमुदीकारः (दीक्षितः ;२००८:३०) बालमनोरमाकारश्च (दीक्षितः ; १९९६ : ३६४)।
वामि (पा. सू. १।४।५)
अत्र सूत्रे वा आमीति च्छेदः, अमि नदीकार्याऽभावात्। पदमञ्जरीकारेण हरदत्तमिश्रेण (मिश्रः ; १९६५ : ५०७ ) न्यासकारेण जिनेन्द्रबुद्धिपादेन (बुद्धिपादः ; १९६५ : ५०७ ), शेखरकारेण (नागेशः ;२०५३:२८१) बालमनोरमाकारेण (दीक्षितः ; १९९६ : ३६१) च विषयोऽयमुत्थाप्य समाहितः। एतावताऽत्र वा आमि / वाऽऽमि इति सूत्रस्वरूपमिति तु सिद्धमेव, तेन सहैव पुरा खण्डाकारप्रयोगो व्यवहारे नासीदित्यपि सूचितम्।
स्त्रीशब्दं वर्जयित्वा इयङुवङ्स्थानिन ईकारान्ताः ऊकारान्ताश्च नित्यस्त्रीलिङ्गाः शब्दाः आम्प्रत्यये परे विकल्पेन नदीसंज्ञकाः भवन्तीति सूत्रार्थः। दीक्षितेनापि कौमुद्यां तथैवोक्तम् (दीक्षितः ;२००८:३०) । काशिकाकारादिभिस्त्वस्य निषेधविकल्पत्वमुक्तम् (वामन-जयादित्यौ;१९६५:५०७)। निषेधविकल्पे विधिविकल्प एव फलतीति कृत्वा च कौमुद्यां लाघवात् स एव सूत्रार्थः कृतः (दीक्षितः ;१९९७ : ४३९)। श्री, भ्रू एत्येतादृशानां शब्दानामाम्प्रत्यये परे विकल्पेन नदीसंज्ञा भवति। अत एतेषामाम्प्रत्यये परे रूपद्वयं भवितुमर्हति- नदीसंज्ञायां नुटागमे श्रीणामित्यादि, नदीसंज्ञाऽभावे इयङादेशे श्रियामित्यादि। एवमेव भ्रूशब्दस्यापि ‘भ्रूणाम्/भ्रुवाम्’ इत्येते द्वे रूपे सिद्ध्यतः। इत्थञ्च श्रीशब्दस्य भ्रूशब्दस्य च आमि परे द्वे द्वे रूपे भवतः।
वाऽऽमीतिसूत्रे ‘स्त्र्याख्यौ’ ‘अस्त्री’ इत्यनुवृत्तेः सत्त्वात् स्त्रीशब्दभिन्ननित्यस्त्रीलिङ्गवाचिशब्दविषय एवैतत्सूत्रप्रवृत्तिः । अतः सुश्रीशब्दादामि ‘सुश्रियामि’त्येव, स्त्रीशब्दादामि स्त्रीणामित्येव रूपम्। विभक्ति-सम्बन्धेनेयं नदीसंज्ञा विधीयत इति विभक्तिसम्बन्धिन शब्दरूपस्यैव स्त्र्याख्यस्य नदीसंज्ञा युक्ता, तेन यत्रावयवस्त्र्याख्यस्तत्र नदीसंज्ञा न भवति। यथा- अतिश्रियां ब्राह्मणानाम्, अतिभ्रुवां ब्राह्मणानामिति (बुद्धिपादः ; १९६५ : ५०७ ) ।
ङिति ह्रस्वश्च (पा.सू. १।४।६)
अत्र यू स्त्र्याख्यौ नदी इति सम्पूर्णसूत्रमनुवर्तते, नेयङुवङ्स्थानावस्त्री इति नकारवर्जमनुवर्तते,
वाऽऽमि इत्यतो वा इति चानुवर्तते। तथा च– इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ ह्रस्वौ चेवर्णोवर्णौ स्त्रियां वा नदीसंज्ञौ स्तो ङिति परे इति सूत्रार्थः (दीक्षितः ; २००८ : २९) ।
नागेशस्तु सूत्रमिदं द्विधा विभज्य द्विधार्थं कृतवान्। यथा– अत्र वाक्यद्वयम् ; ङिति इत्येकम्, ह्रस्वश्च इत्येकम्। आद्ये यू इति, स्त्र्याख्यौ इति, अस्त्री इति, इयङुवङ्स्थानौ इति, वा इति चानुवर्तन्ते। अन्त्ये यू इति, वा इति, स्त्रीवाचकौ इत्येतन्मात्रार्थकं स्त्र्याख्यौ इति च (नागेशः ; २०५३:२७४)। तथा च- ‘इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वा स्तो ङिति परे’ इति प्रथमवाक्यार्थः। द्वितीयवाक्ये इश्च उश्च यू। ह्रस्व इति प्रत्येकमन्वेति। स्त्र्याख्यौ इति पदेन ‘स्त्रीलिङ्गौ’ इत्येतावदेव विवक्षितम्, न तु ‘नित्यस्त्रीलिङ्गौ’ इति, व्याख्यानात्। तथा च- स्त्रीलिङ्गौ हस्वौ चेवर्णोवर्णौ नदीसंज्ञौ वा स्तो ङिति परे इति द्वितीयवाक्यार्थः । दीक्षितेन तु वाक्यद्वयमपि संश्लिष्य सूत्रार्थः कृतः।
तत्र नदीसंज्ञाप्रकरणे ह्रस्वयोरप्राप्ते, दीर्घयोस्तु यू स्त्र्याख्यौ नदी (पा.सू.१।४।३) इति प्राप्तेऽपि नेयङुवङ्स्थानावस्त्री (पा.सू.१।४।३) इति निषेधे प्राप्ते आरब्धत्वात् अप्राप्तविभाषासूत्रमिदम् (दीक्षितः ; १९९७ : ४३१)। सूत्रोदाहरणानि च यथा –
ईकारान्ताः – श्रियै / श्रिये, श्रियाः/श्रियः, अतिस्त्रियै/ अतिस्त्रिये।
ऊकारान्ताः – भ्रुवै / भ्रुवे, भ्रुवाः / भ्रुवः, भ्रुवाम् / भ्रुषु
इकारान्ताः – मत्यै/ मतये, मत्याः / मतेः
उकारान्ताः– धेन्वै / धेनवे, धेन्वाः/धेनोः
अवनति-इष्टि-उन्नति-उत्पत्ति-ऊर्मि-ऋद्धि-कान्ति-कृति-गति-गुप्ति-नीति-प्रकृति-युवत्यादीनां ह्रस्वेकारान्तानां, चञ्चु-तनु-रज्जु-रेणु-लघु-स्नायु-हन्वादीनां ह्रस्वोकारान्तानां शब्दानाञ्चैवमेव रूपाणि।
नदीत्वे आण्नद्याः(पा.सू. ७।३।११२) इत्याटि, आटश्च (पा.सू. ६।१।९०) इति वृद्धौ दीर्घयोः श्री / भ्रू + ऐ इत्यत्र इयङुवङादेशयोः श्रियै भ्रुवै इति, ह्रस्वयोश्च मति / धेनु + ऐ (आ +ए ) इत्यत्र यणि मत्यै, धेन्वै इत्यादि। नदीत्वाभावे दीर्घयोः श्री / भ्रू + ए इत्यत्र इयङुवङादेशयोः श्रिये भ्रुवे इति, ह्रस्वयोस्तु शेषो घ्यसखि (पा.सू. १।४।७) इति घिसंज्ञायां घेर्ङिति (पा.सू. ७।३।१११) इति गुणे मते / धेनो + ए इत्यत्र अयवादेशयोः मतये, धेनवे इत्यादि।
स्त्रीशब्दस्य यू स्त्र्याख्यौ नदी (पा.सू. १।४।३) इत्यनेन नदीसंज्ञा भवति। तत्र नेयङुवङ्स्थानावस्त्री (पा. सू.१।४।४) इत्यनेन तस्य निषेधोऽपि न भवति, अस्त्री इत्युक्तत्वात्। अस्मिन्सूत्रेऽपि ‘अस्त्री’त्यनुवृत्तिसत्त्वादनेनापि ङित्प्रत्यये परे स्त्रीशब्दस्य नदीसंज्ञा न विकल्प्यते। अतो ङित्प्रत्यये परेऽपि स्त्रीशब्दस्य नदीसंज्ञा नित्यैव भवतीति ज्ञातव्यम्। अतः स्त्रीशब्दादेकवचने ‘स्त्रियै’ इत्येव रूपं सिद्ध्यति। स्त्र्याख्यौ इत्यनुवृत्तिसत्त्वाच्च अग्निभान्वादिषु पुंलिङ्गशब्देषु नास्य प्रवृत्तिः।
ननु इषु, अशनि इत्यादावपि नदीत्वविकल्प इष्ट:, नित्यस्त्रीलिङ्गौ इत्युक्ते च न प्राप्नोतीत्याशङ्क्य कैयटेन ङिति ह्रस्वश्चेत्यत्र नित्यस्त्रीलिङ्गौ इत्येवंविधो नियमो नाश्रीयते इत्युक्तम्, तत्कथमत्र दीक्षितेन ‘नित्यस्त्रीलिङ्गौ’ इत्युक्तम् ? इत्याशङ्कायामाह नागेशः– “इष्वादिष्वप्राप्तिमाशङ्क्य ङिति ह्रस्वश्चेत्यत्र नित्यस्त्रीलिङ्गावित्येवंविधो नियमो नाश्रीयत इति कैयटस्तु ह्रस्वांशमात्रविषयः” (नागेशः ; २०५३ : २७४) इति। दीक्षितेनापि प्रौढमनोरमायां “ह्रस्वयोस्तु स्त्रियामित्येव, न तु नित्यस्त्रीत्वपर्यन्तम्, अन्यथा इष्वशनिप्रभृतीनामुभयलिङ्गानां सर्वलिङ्गानां च स्त्रीत्वेऽपि नदीत्वं न स्यात्, कैयटरीत्या नित्यस्त्रीत्वाभावात्… अत एव आख्याग्रहणमपहाय स्त्रीशब्दमात्रं निष्कृष्य सम्बद्ध्यते” (दीक्षितः ; १९९७ : ४३१–४३२) इत्युक्तम्।
इत्थञ्च नदीसंज्ञाविषयकेनानेन विमर्शेन- नित्यस्त्रीलिङ्गानाम् अटवी-नदी-बहुश्रेयसी-कुमारीत्येतादृशानामीकारान्तानां, वधूचमूश्वश्र्वादीनामूकारान्तानाञ्च शब्दानां नित्यनदीसंज्ञा, अतिस्त्री-श्री-भ्रू इत्येतादृशानाम् इयङुवङ्स्थितिवतां नित्यस्त्रीलिङ्गानां दीर्घेकारोकारान्तानां शब्दानाम्, उन्नति-मति-धेनु-कान्ति-कृति-चञ्चु-तनु-रज्जु-प्रभृतीनां ह्रस्वेकारोकारान्तानां शब्दानाञ्च ङिद्विभक्तिषु विकल्पेन नदीसंज्ञा, श्री-भ्रू इत्येतादृशानां संयुक्तवर्णवद्धातुनिष्पन्नानां स्त्रीशब्दातिरिक्तशब्दानाम् आमि परतः विकल्पनेन नदीसंज्ञा, ग्रामणीत्यादीनां त्रिलिङ्गानां, पुंलिङ्गानां, तमात्मन इच्छतीत्यर्थे क्यजन्तात् कर्तरि क्विपि निष्पन्नानां कुमारी सुखी सुती इत्येतादृशानां शब्दानां, भू-सुधीत्यादीनां बाधकाबाधितेयङादिस्थितिवताञ्च नदीसंज्ञा न, कटप्रू-वातप्रमीत्यादीनां स्त्रीत्वाभावात्, वर्षाभू इत्यादीनाञ्च नित्यस्त्रीत्वाभावात् नदीत्वं न। क्रियार्थकयोराधीप्रधी-शब्दयोस्त्रिलिङ्गत्वान्न नदीत्वम्, प्रकृष्टा धीः प्रधीरित्यर्थे तु नित्यस्त्रीत्वात् नदीत्वं सम्भवम्। सुधीशब्दस्य च सुष्ठु धीर्यस्याः, सुष्ठु ध्यायतीति वेत्यर्थे न नदीसंज्ञा, सुष्ठु धीरिति विग्रहे तु नदीत्वमिति निष्कृष्यते।
घिसंज्ञाविषयकविमर्शः
पाणिनिना शेषो घ्यसखि (पा. सू. १।४।७), पतिः समास एव (पा. सू. १/४/८), षष्ठीयुक्तश्छन्दसि वा (पा. सू.१.४.९ ) इति सूत्रत्रयेण च घिसंज्ञायाः सुव्यवस्था कृतेति तान्येवात्र विश्लेषणविषयीक्रियन्ते–
शेषो घ्यसखि (पा. सू. १।४।७)
शेषः, घि, असखि इति पदत्रयमपि प्रथमैकवचनान्तम्। घि इति संज्ञानुकरणम्, असखि इति च शब्दस्वरूपानुकरणम्। अत उभयमपि नपुंसकलिङ्गम्। अत्र ‘यू स्त्र्याख्यौ’ इत्यतो ‘यू’ इत्यनुवर्तते। अत्रानुवृत्तेन यू इत्यनेन च किं बोध्यते ? ह्रस्वेकारोकारौ दीर्घौ वेति विचारणीयः। सखिशब्दवर्जं ‘यू’ इत्यतः शेषस्य घिसंज्ञेति सरलार्थः। ‘असखि’ इत्यत्र पर्युदासस्य सत्त्वात् सखिशब्दभिन्नाः सखिशब्दसदृशाःग्राह्याः। सादृश्यञ्च तत्र ह्रस्वत्वेनैव, सखिशब्दस्य तथात्वात्। अत एवात्र यू इत्यनेन ह्रस्वेकारोकारौ बोध्येत इति सिद्ध्यति। इश्च उश्च यू। इवर्णश्च उवर्णश्चेति भावः। ‘ङिति ह्यस्वश्चे’त्यतो ‘ह्रस्व’इत्यनुवर्तते। तच्च यूभ्यां प्रत्येकमन्वेति। उक्तान्नदीसंज्ञकादन्यः शेषः। ‘शब्दस्वरूप’मित्यध्याहार्यं यूभ्यां विशेष्यते। अतस्तदन्तविधिः। तथा च सूत्रार्थः– ‘सखिशब्दं वर्जयित्वा अन्ये ह्रस्वेकारोकारान्ताः नदीसंज्ञावर्जिताः शब्दाः घिसंज्ञकाः भवन्ति’ इति। अस्मिन् सूत्रे ‘शेष’ इत्यनेन शब्देन तेषाम् ह्रस्वेकारोकारान्तानां शब्दानां ग्रहणं भवति, ये नदीसंज्ञकाः न सन्ति। तेषां सर्वेषामनेन सूत्रेण घिसंज्ञा भवति। ते च मुन्यग्न्यतिथ्यरिव्याध्यहि-कवि-कपि-कृमि-गिरि-धूर्जटि-मणि-वनस्पति-हरिहेमाद्रि-भान्वंश्वण्विन्दु-चित्रभानु-तरु-पशु-प्रभु-मनु-मृत्यु-विभु-शत्रु-
शम्भु-साध्वादयः।
घिसंज्ञायाः प्रयोजनञ्च– आङो नाऽस्त्रियाम् (पा.सू.७।३।१११) इति घेः परस्याङो नाविधानम्, घेर्ङिति (पा.सू.७।३।१११) इति ङिति परे घिसंज्ञकस्याङ्गस्य गुणविधानम्, अच्च घेः(पा.सू.७।३।११९) इति ङिप्रत्यये परे घिसंज्ञकस्याङ्गस्यान्त्यस्यात्त्वविधानम् ङेरौत्त्वविधानञ्च, द्वन्द्वे घिः (पा.सू.२।२।३२) इति द्वन्द्वसमासे घिसंज्ञकस्य पूर्वप्रयोगश्च। अत्र सूत्रे केचन ज्ञातव्याः पक्षाः सन्ति। ह्रस्वेकारोकारान्ताः पुंलिङ्गाः नपुंसकलिङ्गाश्च शब्दाः घिसंज्ञकाः भवन्ति। यथा – मुनि, साधु, वारि, मधु इत्यादयः। ह्रस्वेकारोकारान्ताः स्त्रीलिङ्गाः शब्दाः समासस्थले घिसंज्ञकाः दृश्यन्ते। तत्फलञ्च बुद्धिबलयोरित्यादौ बुद्धिशब्दस्य द्वन्द्वे घिः (पा.सू.२।२।३२) इति पूर्वप्रयोगः। ह्रस्वेकारोकारान्ताः स्त्रीलिङ्गाः शब्दाः ङित्प्रत्यये परे तदा एव घिसंज्ञकाः भवन्ति, यदा तेषां नदीसंज्ञा न भवति। यथा– श्रुतिमतिबुद्धिगतिधेनुचञ्चुरज्जुरेण्वादिशब्देभ्यश्चतुर्थीपञ्चमीषष्ठीसप्तम्येक-वचनेषु ङेङसादिषु ‘ङिति ह्रस्वश्च (पा.सू.१।४।६) इत्यनेन विकल्पेन नदीसंज्ञाविधानात्तदभावपक्षेऽनेन घिसंज्ञा क्रियते। घित्वे च घेर्ङिति (पा.सू.७।३।१११) इत्यनेन अङ्गस्य गुणे श्रुतये, श्रुतेः, धेनवे, धेनोरित्यादीन्यपि रूपाणि। सूत्रेऽस्मिन्नेकोऽपवादोऽप्युक्तोऽस्ति- ‘सखि’शब्दः। सखिशब्दोऽयं यद्यपि इकारान्तपुंलिङ्गस्तथाप्यस्य घिसंज्ञा न भवति। अत एव सखिशब्दस्य कानिचन रूपाणि मुनिशब्दात् भिद्यन्ते। यथा ‘सखि + ङे’ इत्यादौ घिसंज्ञायाः अभावात् घेर्ङिति (पा.सू.७।३।१११) इत्यनेन अङ्गस्य गुणो न भवति, अतः ‘सख्ये’, ‘सख्युरित्यादिरूपाणि सिद्ध्यन्ति।
नन्वत्र सूत्रेऽसखीति पर्युदासः कृतः, ‘सखिशब्दं वर्जयित्वा अन्ये ह्रस्वेकारोकारान्ताः नदीसंज्ञावर्जिताः शब्दाः घिसंज्ञकाः भवन्ति’ इति सूत्रार्थे सु = शोभनः सखा सुसखेति सुसखिशब्देऽपि सखिशब्दत्वात् घित्वाऽभावे नात्वादि न प्राप्नोति किम् ? इति जिज्ञासायां जागृतायां दीक्षित आह – “समुदायस्य सखिरूपत्वाभावादसखीति निषेधाऽप्रवृत्तेर्घिसंज्ञा। सुसखिना। सुसखये। ङसिङसोर्गुणे कृते कृतयणादेशत्वाऽभावात् ख्यत्या’दित्युत्त्वं न। सुसखेः” (दीक्षितः ; २००८ : २३) इति । ‘ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति’ इत्यनया परिभाषया अत्र तदन्तविधिर्नास्ति, अतोऽनेन सूत्रेण केवलसखिशब्दस्यैव घिसंज्ञा निषिध्यते ; सुसखि, राजसखि, प्रियसखि इत्येतेषाम् शब्दानाम् घिसंज्ञा भवत्येवेति दीक्षितमतम्।
नागेशस्त्वत्र दीक्षितोक्तं सर्वं हरदत्तानुसारेणेत्युक्त्वा वर्णसंज्ञापक्षे तदन्तसंज्ञापक्षे च सुसखिशब्दस्य घिसंज्ञा न भवतीति प्रतिपादितवान्। एवञ्च सुसखिशब्दस्य घिसंज्ञा नेति नागेशमतं लभ्यते (नागेशः ; २०५३: २४२)। तन्मते च सुसख्या सुसख्ये इत्यादीन्येव रूपाणि। लक्ष्मीटीकाकारेण सभापतिशर्मोपाध्यायेन नागेशमतमनूद्य प्रस्तूयान्तेऽत्र प्राचीनमतमेव ज्याय इति गुरवः (शर्मोपाध्यायः ; १९६६: ३६९) इत्युक्त्वा दीक्षितमतमेव समर्थितम्।
इत्थञ्च मुनिसाधुवार्यादिशब्दानां सर्वत्र घिसंज्ञा, श्रुत्यादिशब्दानां ङित्सु घिसंज्ञा, ह्रस्वेकारोकारान्तस्त्रीलिङ्गशब्दानां ङित्प्रत्यये परे नदीसंज्ञाऽभावपक्षे घिसंज्ञेति ज्ञातव्यम्। सुसखि–अतिसखि–प्रियसखीत्यादिशब्दानां घिसंज्ञाविषय आचार्याणां मतभेदो दृश्यते। अतोऽस्मिन् विषये वैकल्पिकः प्रयोगः कर्तुं शक्य इति मे प्रस्तावः। विद्वांसोऽत्र यथोचितं विभावयन्तु।
पतिः समास एव (पा. सू. १/४/८)
त्रिपदमिदेऽस्मिन्सूत्रे पूर्वसूत्रात् शेषो घ्यसखि (पा.सू.१।४।७) इत्यस्मात् ‘घि’ इत्यनुवर्तते। पूर्वसूत्रेणेकारान्तत्वेन पतिशब्दस्य घिसंज्ञायाम् प्राप्तायां सूत्रेणानेन सा नियम्यते। पतिरिति चात्र स्वं रूपमिति परिभाषासूत्रबलात् शब्दस्वरूपार्थकं पदम्। पतिशब्दस्य समासे एव घिसंज्ञा भवति (दीक्षितः;२००८:२३) इति सूत्रार्थः। केवलपतिशब्दस्य तु सा संज्ञा न भवतीत्येतत्सूत्रतात्पर्यम्। अत एव पतिशब्दस्य घिसंज्ञाऽभावात् पत्या, पत्ये इत्यादीनि रूपाणि।
ननु एवकारोऽत्र व्यर्थः, ‘भूपतये’ इत्यादौ समासस्थले ‘शेषो घ्यसखि’ इत्येव सिद्धेऽपि प्रकृतसूत्रारम्भसामर्थ्यात् समास एव पतिशब्दो घिसञ्ज्ञ इत्यर्थस्य ज्ञापनादिति चेन्न, इष्टस्यावधारणाय एवकारग्रहणस्यावश्यकत्वात्। अन्यथा ‘समासे यदि घिसञ्ज्ञा, तर्हि पतिशब्दस्यैवे’ति विपरीतनियमस्यापि सम्भवात्, अतिथिमहाद्रिमुरारिमहर्षिमहाकपिमहाकविनरहरिवेदध्वनिजलबिन्दुमहामणिदृढमुष्टिशिक्षणविध्यादि-शब्दानां घिसंज्ञाऽनापत्तेः, ‘अतिसखेरि’ति भाष्योदाहरणस्याऽसङ्गतेश्च। भाष्ये हि ख्यत्यात्परस्य (पा.सू. ६।१।११२) इति सूत्रे (पतञ्जलिः ; १९९९ : ६५५–६५६), यस्येति च (पा. सू. ६।४।१४८) इति सूत्रे च ‘अतिसखेः’ (पतञ्जलिः ; १९९९ : ९५५) इति प्रयोगः कृतः। अत एव सूत्रे एवकार इष्टतोऽवधारणार्थः (नागेशः ; २०५३ : २४३)। अत एव केवलपतिशब्दस्य घिसंज्ञा न भवतीत्येतत्सूत्रतात्पर्यम्। सूत्रञ्चेदं पतिशब्दस्य समासे एव घिसंज्ञा भवति, नान्यथेति नियमयति। यथा– ‘पति+ङे’ इत्यत्र घिसंज्ञायाः अभावात् घेर्ङिति (पा. सू. ७।३।१११) इत्यनेन अङ्गस्य गुणो न भवति, अत इको यणचि (पा. सू. ६।१।७७) इति यणादेशे ‘पत्ये’ इति सिद्ध्यति। ‘सेनापति’ इत्यस्य तु घिसंज्ञायां मुनिकपिहर्यादिशब्दवत् घेर्ङिति (पा.सू.७।३।१११) इति अङ्गस्य गुणे सेनापतये इति। एवं भूपति-प्रजापति-राष्ट्रपति-गणपति-निधिपति-नृपत्ति-अधिपति-नरपति-पशुपत्यादय:।
सूत्रेऽस्मिन् ‘समासे’ इत्युक्तत्वात् ‘बहुपत्या’ इत्यादौ बहुच्प्रत्ययपूर्वक‘बहुपति’शब्दस्य न घिसञ्ज्ञा। ईषदूनः पतिः बहुपतिः। विभाषा सुपो बहुच् पुरस्तात्तु इति बहुच्प्रत्ययः, स च पुरस्तात्। पतिकल्प इत्यर्थः। वस्तुतो न विवाहितः पतिः, किन्तु पतिवद्व्यवहारवान्। अथवा पतिः स्वामी। पतिरिव यः पालयति, किन्तु न पतिः, स बहुपतिः। ननु समासे एव पतिर्घिसंज्ञः’ इत्यभिप्रेतनियमपक्षेऽपि सीतायाः पतये नमः (रामरक्षास्तोत्रम् ; श्लो २७), नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ’ (पाराशरस्मृतिः ;४:३० ) इत्याद्यार्षप्रयोगविरोधोऽस्त्येव, तत्कथं नियमसमन्वयः ? इति शंकां मनसि निधायोक्तं नागेशेन –
“स्मृतिपुराणेषु ‘पतये’ ‘सखिना’ इत्यादि व्याकरणानिष्पन्नत्वेनासाध्वेवे”ति। सखिना वानरेन्द्रेण इति रामायणम्, कृष्णस्य सखिरर्जुन इति भारतम्। ननु स्मृतिपुराणादिषु यद्यसाधुपाठस्तर्हि तेषां दोषभागित्वं स्याद्, अस्माकमपि पारायणादौ प्रत्यवायः स्यादित्याशंकायामाह नागेश:- “त्रिशङ्क्वाद्ययाज्ययाजनादाविव तपोमाहात्म्येन असाधुप्रयोगेऽपि ऋषीणां दोषाऽभावात्, याज्ञे कर्मण्येवाऽसाधुप्रयोगे दोषाच्च। अस्माकमपि स्मृतिपुराणाऽध्ययनबलात् तेषां तपोबलाच्च यज्ञमध्येऽपि तदन्तर्गततत्पाठे दोषाभावः। स्वातन्त्र्येणेदृशं प्रयुञ्जाना अस्मदादय : प्रत्यवयन्त्येव। अत एव नदीसंज्ञासूत्रे भाष्ये – छन्दोवत्कवयः कुर्वन्ति’ इत्युक्त्वा न ह्येषेष्टिरस्ति’ इत्युक्तम्” (नागेशः;२०५३:२४३)। तपोमाहात्म्येन असाधुप्रयोगेऽपि ऋषीणां दोषाऽभावादिति नागेशेन यत्समाधानमुक्तं, तद् अभ्युपेत्यवादेन (परकीयवचनानुरोधेन)। वस्तुतस्तु याज्ञे कर्म्मणि एव असाधुप्रयोगे दोषात् तत्र तेषां दोषाऽभावो बोध्यः।
दुर्घटवृत्तिकारेण तु शेषो घ्यसखीति सूत्रे भिन्नेनैवोपायेनैतत्समस्यासमाधानप्रयत्नो व्यधायि। तदनुसारेण च– असखीत्यत्र अलवणा यवागूरितिवदल्पार्थे नञो विधानात् क्वचित् सखिशब्दस्यापि घिसंज्ञासिद्धिरिति सखिना इत्यादेः साधुत्वम् (शरणदेवः ; १९८५:३८)। ‘पतिना नीयमानायाः पुरः शुक्रो न दुष्यति’ (बृहद्दैवज्ञरञ्जनम् ;७३ : ३२), ‘गते (नष्टे) मृते प्रव्रजिते क्लीबे च पतिते पतौ’ (पाराशरस्मृतिः ; ४ : ३० ) इत्यादि तु पतिः समास एव (पा. सू.१/४/८) इत्यस्यानित्यत्वात् सिद्ध्यति। तन्मते हि ‘शेषो घ्यसखिपती’ इति वक्तव्ये पृथक्करणं ह्यनित्यत्वज्ञापनार्थम्। दुहितुः पतौ इत्यत्र च समासे कृते ‘विभाषा स्वसृपत्योः’ (पा.सू. ६।३।२४) इत्यलुग्विधानाद् विभक्तौ दृष्टायामपि समासत्वादेव पतिशब्दस्य घिसंज्ञा (शरणदेवः ; १९८५: ३९)।
इत्थञ्च पतिः समास एव (पा.सू.१/४/८) इति सूत्रेण सेनापति-भूपति-पशुपत्यादिशब्दानां घिसंज्ञा भवति। स्मृतिपुराणादिप्रयुक्ताः ‘पतये’ ‘सखिना’ इत्यादिप्रयोगाः व्याकरणानिष्पन्नत्वेनासाध्वेवे’ति नागेशमत्। शरणदेवमते तु ‘पतिना’ इत्यादि च पतिः समास एव (पा.सू.१/४/८) इत्यस्यानित्यत्वात् सिद्ध्यति। असखीत्यत्र अल्पार्थे नञो विधानात् नगण्यमात्रायामेव (अतिन्यूनस्थलेष्वेव) सखिशब्दस्य घिसंज्ञेति क्वचित् सखिशब्दस्यापि घिसंज्ञासिद्धिरिति सखिना इत्यादेः साधुत्वम् ।
‘सीतायाः पतये नमः’ ‘पतिना नीयमानायाः’ इत्यादौ षष्ठीयुक्तस्य पतिशब्दस्य यत्र घित्वजन्यप्रयोगो दृश्यते, तत्र तथाप्रयोगाणां छन्दोवत्कवयः कुर्वन्तीति स्वीकृत्य ‘षष्ठीयुक्तश्छन्दसि वा’ इत्यनेन वैकल्पिकघित्वमिति तेषां साधुत्वं साधयितुं शक्यते, किन्तु ‘नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ’ इत्यादौ पतिशब्दस्य घित्वजन्यप्रयोगाणान्त्वसाधुत्वमेवेति नागेशमतं दृश्यते।
षष्ठीयुक्तश्छन्दसि वा (पा. सू.१।४।९ )
अत्र ‘घि’, ‘पतिः’ इत्यनुवृत्तिः। तथा च– षष्ठीयुक्तः पति: छन्दसि घि वा इत्यन्वयः। संज्ञासूत्रमिदम्। षष्ठीयुक्तः पतिशब्दः वेदानां विषये विकल्पेन घिसंज्ञकः भवतीति सूत्रार्थः। केवलपतिशब्दस्य पति: समास एव (पा.सू.१।४।८ ) इत्यनेन घिसंज्ञानिषेधे प्राप्ते वैदिकप्रयोगे यद्ययं शब्दः षष्ठ्यन्तशब्दस्यान्वय आगच्छति, तर्ह्यस्य विकल्पेन घिसंज्ञायां मुनिशब्दवद्रूपाणि दृश्यन्ते। यथा– रामरक्षास्तोत्रे ‘सीतायाः पतये नमः’ (रामरक्षास्तोत्रम् ; २७) इति प्रयोगः प्राप्यते। अत्र पतिशब्दस्य सीताया इत्यनेन षष्ठ्यन्तेन शब्देनान्वयोऽस्ति। रुद्राष्टाध्याय्यामनेकत्र पतये इति प्रयोगः कृतः प्राप्यते। यथा– दि॒शां च॒ पत॑ये॒, पशू॒नां पत॑ये॒, वना॑नां॒ पत॑ये॒, कुलु॒ञ्चानां॒ पत॑ये॒ (रुद्राष्टाध्यायी ;५:१६-२२) इत्यादि। अत्रापि पतिशब्दस्य ‘दि॒शाम्’ ‘पशूनामि’त्यादिषष्ठ्यन्तैश्शब्दैरन्वयोऽस्ति। रामायणस्य सुन्दरकाण्डे ‘पर्वतः सरितां पतौ’ (श्रीमद्वाल्मीकीयरामायणम् ;५:५३:३५) इति प्रयोगः प्राप्यते । अत्र पतिशब्दस्य ‘सरिताम्’ इत्यनेन षष्ठ्यन्तेन शब्देनान्वयोऽस्ति। ऋग्वेदे क्षेत्रस्य पनिना वयम् (ऋग्वेदः ; ४:५७: १) इति प्रयोगः प्राप्यते । अत्र पतिशब्दस्य ‘क्षेत्रस्य’ इत्यनेन षष्ठ्यन्तेन शब्देनान्वयोऽस्ति। इत्थञ्चोक्तेषु स्थलेषु सर्वत्र षष्ठ्यन्तशब्देनान्वयसत्त्वात्पतिशब्दस्य घिसंज्ञा भवति। घिसंज्ञायाञ्च पतिना पतये इत्यादिरूपसिद्धिः।
अनेन सूत्रेण पतिशब्दस्य घिसंज्ञा तदैव क्रियते, यदा तस्यान्वयः षष्ठीवाचकेन शब्देन सहास्ति। अन्या विभक्तिरस्ति चेद् वेदेष्वपि घिसंज्ञा न भवति। यथा विवाहसूक्ते – एना पत्या तन्वं संसृजस्व… ( ऋग्वेदः;१०: ८५:२७) मया पत्या जरदष्टिर्यथासः (ऋग्वेदः;१०:८५:३६) इति। अत्र पतिशब्दस्य षष्ठीवाचकेन शब्देन सहान्वयो नास्ति, अतोऽत्र पतिशब्दस्य घिसंज्ञाऽभावात्तृतीयैकवचने ‘पत्या’ इति भवति।
इत्थञ्च घिसंज्ञाविषयकेनानेन विमर्शेन- नदीसंज्ञायोग्यातिरिक्तानां सखिभिन्नतत्सदृशानां हस्वेकारोकारान्तानां मुन्यग्नि-कवि-कपि-वनस्पति-हरि-भान्वंशु-तरु-पशु-मृत्यु-विभु-साध्वादीनां पुंलिङ्गशब्दानां सर्वत्र घिसंज्ञा, ह्रस्वेकारोकारान्तस्त्रीलिङ्गानां श्रुतिमतिधेनुचञ्चुरज्ज्वादिशब्दानां ङित्प्रत्यये परे नदीसंज्ञाऽभावपक्षे घिसंज्ञा, सुसखि-अतिसखि-प्रियसखीत्यादिशब्दानां घिसंज्ञाविषये मतभेददर्शनाद्विकल्पेन घिसंज्ञा कर्तुं शक्या, सेनापति-भूपत्यादीनां पत्यन्तसमस्तशब्दानां घिसंज्ञा, केवलपतिशब्दस्य तु न, ‘सीतायाः पतये’ इत्यादीनामार्षप्रयोगाणान्तु छन्दोवत्कवयः कुर्वन्तीति स्वीकृत्य ‘पष्ठीयुक्तश्छन्दसि वा’ इत्यनेन वैकल्पिकघित्वेन साधुत्वमिति निष्कृष्यते ।
निष्कर्षः
पाणिनीयव्याकरणे शब्दसाधुत्वप्रक्रियासाधनप्रसङ्गे विविधसंज्ञानां प्रयोगो भवति, यासु घिनदीसंज्ञेऽप्यन्यतमे स्तः। तत्र शेषो घ्यसखि (पा सू १। ४। ७) इति घिसंज्ञाविधायके सूत्रे शेषपदार्थं ज्ञातुं पूर्वतनं नदीसंज्ञाप्रकरणं ज्ञातव्यम्, यतो हि नदीसंज्ञायोग्यातिरिक्तशब्दानामेव घिसंज्ञा भवतीति घिसंज्ञाप्रकरणेन नदीसंज्ञाप्रकरणमपेक्ष्यते। नदीसंज्ञाविधायके यू स्त्र्याख्यौ नदी(पा.सू.१/४/३) इत्यादिसूत्रैश्च यू नदीसंज्ञकं भवति, न भवतीति य्वोर्नदीसंज्ञाविधानात् तत्र यूशब्देन ह्रस्वयोरिकारोकारयोर्दीर्घयोर्वा ग्रहणमिति सन्देहो जायते। शेषो घ्यसखीति सूत्रे असखीति पर्युदासेन सखिभिन्नतत्सदृशानां ह्रस्वेकारवतां, तत्साहचर्याद् ह्रस्वोकारवताञ्च शेषपदेन ग्रहणम्, तत्सामर्थ्याच्च पूर्वप्रकरणे यूशब्देन दीर्घयोरेव ग्रहणमिति समाधीयते। इत्थञ्च घिनदीसंज्ञे परस्परं सम्बद्धे सापेक्षे च दृश्येते। तत्र नदीसंज्ञाप्रकरणे च इयङुवङोः प्रसक्तिरपि ज्ञातव्येति प्रकरणमिदं संश्लिष्टमत एव क्लिष्टमप्यस्ति। अत एव द्वयोरपि संज्ञयोर्विषये व्याख्या-विश्लेषणात्मकविधिना संयुक्तविशिष्टाध्ययनं कृतम्। अनेनाध्ययनेन प्राप्तो निष्कर्षश्चात्र प्रस्तूयते–
नित्यस्त्रीलिङ्गानामीकारोकारान्तानां नदीजननीवधूचम्वादिशब्दानां यू स्त्र्याख्यौ नदी (पा सू १/४/३) इति नदीसंज्ञा भवति। नित्यस्त्रीलिङ्गस्यैव नदीसंज्ञाविधानात् ग्रामण्यादिशब्दानां नदीत्वं न। बहुश्रेयसीशब्दस्य तु पुंस्त्वेऽपि प्रथमलिङ्गग्रहणान्नदीत्वम्। प्रथमवयोवाचकस्य कुमारीशब्दस्य नदीसंज्ञा भवति, किन्तु कुमारीमात्मन इच्छतीत्यर्थे क्यजन्तात् कर्तरि क्विपि निष्पन्नस्य त्रिलिङ्गस्य कुमारीशब्दस्य तु नदीसंज्ञा न भवति। बाधकाऽबाधितेयङुवङ्स्थितिवतां दीर्घेकारोकारान्तानां भूसुधीप्रतिभूपरमसुधीशब्दानां सर्वत्र, श्रीशब्दस्य च प्रथमैकवचने सम्बोधनैकवचने च नेयङुवङ्स्थानावस्त्रीति नदीसंज्ञा निषिध्यते। स्त्रीशब्दभिन्नानामियङुवङ्स्थानिनामीकारोकारान्तानां नित्यस्त्रीलिङ्गानां श्री, भ्रू इत्येतादृशानां शब्दानामाम्प्रत्यये परे वाऽऽमीति विकल्पेन नदीसंज्ञा भवति। अतिस्त्रीश्रीभ्रुवादिदीर्घेकारोकारान्तानां, कान्ति-कृति-गति- मति-धेनु-रज्जु-रेणु-लघ्वादीनां ह्रस्वेकारोकारान्तानां शब्दानां ङिति ह्रस्वश्च (पा.सू.१।४।६) इति विकल्पेन नदीसंज्ञा भवति। सखिशब्दं वर्जयित्वाऽन्येषां ह्रस्वेकारोकारान्तानां नदीसंज्ञावर्जितानां मुन्यहि-कवि-कपि-हेमाद्रि-भान्विन्दु-चित्रभानु-तरु-विभु-शत्रु-शम्भु-साध्वादिशब्दानां शेषो घ्यसखि (पा.सू.१।४।७) इति घिसंज्ञा भवति। असखीत्युक्तत्वात् सखिशब्दस्य घिसंज्ञा न भवति। केवलसखिशब्दस्य घिसंज्ञानिषेधेऽपि सुसखि-राजसखि-प्रियसखीत्येतेषां घिसंज्ञा भवत्येवेति दीक्षितमतम्, न भवतीति नागेशमतं लभ्यते । आचार्याणां मतभेदकारणाद् वैकल्पिकः प्रयोगः कर्तुं शक्यः। पतिशब्दस्य तु पतिः समास एव (पा. सू. १/४/८) इत्यनुशासनात्समास एव घिसंज्ञा भवति, केवलपतिशब्दस्य तु न। सूत्रेऽस्मिन्निष्टस्यावधारणायैवकारग्रहणाद् भूपतिपशुपत्यादीनां पत्यन्तसमस्तशब्दानाम्, अतिथिमहाकव्यादीनां पतिभिन्नह्रस्वेकारान्तसमस्तशब्दानाञ्च घिसंज्ञा सिद्धा। स्मृतिपुराणादिप्रयुक्ताः पतये सखिना इत्यादिप्रयोगाणां नागेशमतेऽसाधुत्वमेव, शरणदेवमते तु तेषां साधुत्वम् । ‘सीतायाः पतये’ इत्यादौ षष्ठीयुक्तस्य पतिशब्दस्य घित्वजन्यप्रयोगस्तु छन्दोवत्त्वेन ‘षष्ठीयुक्तश्छन्दसि वा’ इत्यनेन वैकल्पिकघित्वात् साधुरेव । पशू॒नां पत॑ये॒, क्षेत्रस्य पनिना इत्यादिप्रयोगाः प्राप्यन्त एव वेदेषु। षष्ठ्यन्यविभक्तियोगे तु वेदेष्वपि केवलपतिशब्दस्य न घिसंज्ञा, अतो लौकिकप्रयोगे केवलपतिशब्दस्य घिसंज्ञा न भवतीति पतिनेत्यादिप्रयोगोऽस्मदादिभिर्न कर्तव्य इति निष्कृष्यते।
कृतज्ञताज्ञापनम्
लेखस्यास्य प्राविधिकदृष्ट्या विषयप्रतिपादनदृष्ट्या च परीक्षणं विधाय सम्पादनाय परिष्काराय च परामर्शं प्रदाय महदुपकारं कृतवद्भ्यो विज्ञगुरुजनेभ्यः, अन्येभ्यः सहयोगिभ्यश्च सश्रद्धं सधन्यवादञ्च कृतज्ञतां व्यनज्मि।
सन्दर्भग्रन्थसूचीः
ऋग्वेदसंहिता ( ई.१९३६), श्रीमत्सायणाचार्यविरचितभाष्यसमेता, २–५ मण्डलात्मको द्वितीयो भागः, पूना, भारतः : वैदिकसंशोधनमण्डलम्, तिलक–महाराष्ट्र–विद्यापीठम्।
ऋग्वेदः, श्रीमत्सायणाचार्यविरचितभाष्यसमेतः, १० मण्डलात्मको भागः, ऋग्वेदः (विकिस्रोतःhttps://sa.m.wikipedia.org)
कैयटः; (२०२०) भाष्यप्रदीपः, पतञ्जलिविरचितं व्याकरणमहाभाष्यम् ( द्वितीयो भागः ), रोहतक : हरयाणा– साहित्य-संस्थानम्।
दीक्षितः, भट्टोजिः (ई २००८), वैयाकरणसिद्धान्तकौमुदी (मूलमात्रम्, पु.मु.सं.), वाराणसी : चौखम्बा विद्याभवन।
दीक्षितः, भट्टोजिः (ई १९९७), प्रौढमनोरमा (चतुर्थ संस्क.), वाराणसी : वाणीविलास प्रकाशन।
दीक्षितः, वासुदेवः(व्या) (ई १९९६), वैयाकरणसिद्धान्तकौमुदी, बालमनोरमाव्याख्यया समलङ्कृता, कारकान्तः प्रथमो भागः, वाराणसी : चौखम्बा सुरभारती प्रकाशन।
नागेशः(२०५३), लघुशब्देन्दुशेखरः (अव्ययीभावान्तः) , वाराणसी : चौखम्बा संस्कृत संस्थान।
नागेशः(२०५३), परिभाषेन्दुशेखरः (अव्ययीभावान्तः) , वाराणसी : चौखम्बा सुरभारती प्रकाशन।
पतञ्जलिः (ई १९९९) व्याकरणमहाभाष्यम्, षष्ठोऽध्यायः, दिल्ली : प्रतिभा प्रकाशन।
पतञ्जलिः ; (वै २०२०), व्याकरण-महाभाष्यम्, द्वितीयो भागः, रोहतक : हरयाणा-साहित्य-संस्थानम्।
पाणिनीयसूत्रपाठः (अष्टाध्यायी ) (२०४७), हरिवंशकुमारपाण्डेयः (सम्पा), वाराणसी : भारतीय विद्या संस्थान ।
पाराशरस्मृतिः (संस्क. २, ई १९९८) , वाराणसी : चौखम्बा विद्याभवन।
बुद्धिपादः, जिनेन्द्रः (ई१९६५) न्यासापरपर्यायकाशिकाविवरणपञ्चिका, काशिकावृत्तिः, वाराणसी : प्राच्यभारतीप्रकाशनम् ।
बृहद्दैवज्ञरञ्जनम् (ई १९९९), रामदीनपण्डितसङ्गृहीतम्, बम्बई : खेमराज श्रीकृष्णदास प्रकाशन।
मिश्रः, हरदत्तः (ई१९६५) पदमञ्जरीव्याख्या, काशिकावृत्तिः, वाराणसी : प्राच्यभारतीप्रकाशनम् ।
रामरक्षास्तोत्रम् (संस्क. ३०, २०४१ ), बुधकौशिकविरचितम्, गोरखपुर : गीताप्रेस।
रुद्राष्टाध्यायी (२०७२), गोरखपुर : गीताप्रेस।
वामन–जयादित्यौ (ई १९६५), काशिकावृत्तिः, वाराणसी : प्राच्यभारतीप्रकाशनम् ।
शब्दकल्पद्रुमः, एन्ड्रोइडसंस्करणम् ।
शरणदेवः (१९८५), दुर्घटवृत्तिः, वाराणसी : रत्ना पब्लिकेसन्स, कमच्छा।
शर्मोपाध्यायः, सभापति (व्या.) (ई १९६६), वैयाकरणसिद्धान्तकौमुदी, लक्ष्मी व्याख्योपेता, द्वितीयांशः, वाराणसी : मोतीलाल बनारसीदास ।
श्रीमद्वाल्मीकीयरामायणम् (संस्क. ११, २०४९) , द्वितीयो भागः, गोरखपुर : गीताप्रेस, गोविन्द भवन कार्यालय ।
हेगडे, जनार्दन: (२००८) , शुद्धिकौमुदी ( परिष्कृतं परिवर्धितं संस्करणम् ) बेङ्गलूरु : संस्कृतभारती।