‘ऋते ज्ञानान्न मुक्ति’रित्याभाणकेन मुक्त्यर्थं ज्ञानमपेक्षितमिति ज्ञायते। ज्ञानञ्च यथार्थायथार्थभेदेन द्विधा विभज्यते। तत्र यथार्थज्ञानं हि प्रमापदेन व्यवह्रियते। तत्साधनञ्च प्रमाणम्। न्यायशास्त्रे प्रमाणानां प्रत्यक्षादिभेदेन चातुर्विध्यमुरीक्रियते चेद् वैशेषिके च प्रत्यक्षानुमानभेदेन द्वैविध्यम्। तदितरेषां तत्रैवान्तर्भावात्। तत्रोभयोरपि दर्शनयोः प्रत्यक्षस्य पृथक्प्रामाण्यं निराबाधम्। व्यापारवत्त्वे सत्यसाधारणकारणत्वमेव प्रमाणत्वम्। एतन्नाम व्यापारद्वारैव प्रमाणं फलवज्जायते। तदन्तरा तु तन्निष्फलम्।
केशवशरणोऽर्यालः
सहप्राध्यापकः, न्यायविभागः
वाल्मीकिविद्यापीठम्,
Email: keshavsharanaryal88@gmail.com
लेखसारः
‘ऋते ज्ञानान्न मुक्ति’रित्याभाणकेन मुक्त्यर्थं ज्ञानमपेक्षितमिति ज्ञायते। ज्ञानञ्च यथार्थायथार्थभेदेन द्विधा विभज्यते। तत्र यथार्थज्ञानं हि प्रमापदेन व्यवह्रियते। तत्साधनञ्च प्रमाणम्। न्यायशास्त्रे प्रमाणानां प्रत्यक्षादिभेदेन चातुर्विध्यमुरीक्रियते चेद् वैशेषिके च प्रत्यक्षानुमानभेदेन द्वैविध्यम्। तदितरेषां तत्रैवान्तर्भावात्। तत्रोभयोरपि दर्शनयोः प्रत्यक्षस्य पृथक्प्रामाण्यं निराबाधम्। व्यापारवत्त्वे सत्यसाधारणकारणत्वमेव प्रमाणत्वम्। एतन्नाम व्यापारद्वारैव प्रमाणं फलवज्जायते। तदन्तरा तु तन्निष्फलम्। न्यायवैशेषिकशास्त्रयोः प्रत्यक्षज्ञाने व्यापारत्वेन सन्निकर्षः स्वीकृतः। ‘सम्नी’त्युपसर्गपूर्वकात् कृषधातोः घञि निष्पन्नं सन्निकर्षपदं सान्निध्यं सम्बन्धं वाऽभिधत्ते। तथाभिधायकः सन्निकर्षो लौकिकालौकिभेदेन द्विधा विभक्तः। तत्र भावपदार्थग्रहणे व्याप्रियमाणलौकिकसन्निकर्षः संयोगादिभेदेन पञ्चविधश्चेदभावग्रहणे व्याप्रियमाणस्य विशेष्यविशेषणताख्यस्याऽनेकत्वेऽपि विशेष्यविशेषणतात्वेन एकत्वाद् विशेष्यविशेषणताख्यः एकविध एव। एतावता न्यायवैशेषिकयोः षड्विधा लौकिकसन्निकर्षाः प्रथिताः। तत्र घटादिद्रव्यग्रहणे संयोगः, तद्गतरूपादिग्रहणे संयुक्तसमवायः, रूपत्वादिग्रहणे संयुक्तसमवेतसमवायः, शब्दग्रहणे समवायः, शब्दत्वग्रहणे समवेतसमवायः, अभावग्रहणे च यथायथं संयुक्तविशेष्यभाव–संयुक्तविशेषणभाव–संयुक्तसमवेतविशेष्यभाव–संयुक्तसमवेतविशेषणभावादिसन्निकर्ष इति। अत्र च केचिद् ‘आधाराधेयभाववद् विशेष्यविशेषणभाव एक एव सन्निकर्षः’ इति विचारं पोषयन्ति। कतिपये वस्तुगतिं पुरस्कृत्य विशेष्यभावः विशेषणभाव इति सन्निकर्षद्वयमाचक्षते। अन्ये तु विशेषणभाव इत्येवातिष्ठन्ते।
पारिभाषिकशब्दाः सन्निकर्षः, समवायः, विशेषणता, विशेष्यता।
विषयपरिचयः
पौरस्त्यचिन्तने न्यायदर्शनन्तावत् प्रमाणशास्त्रम्। नीयते प्राप्यते विवक्षितार्थसिद्धिर्न्यायः। अथ च विशेषपदार्थमधिकृत्य प्रवर्त्तमानं चिन्तनं वैशेषिकत्वेन प्रथितम्। न्यायशास्त्रे प्रत्यक्षादीनि चत्वारि प्रमाणान्युरीक्रियन्ते। वैशेषिके च प्रमाणद्वयम्। तदितरप्रमाणानि यथायथं तत्रैवान्तर्भाव्यन्ते। अथ च मीमांसावेदान्तादिषु वैदिकदर्शनेष्वथ च बौद्धादिष्ववैदिकदर्शनेष्वपि प्रमाणानि स्वीक्रियन्त एव। प्रमाणफलन्तावत् प्रमा। तत्र फलसाधनयोः किञ्चन द्वारमपेक्षितं भवति। यच्च ‘व्यापारः’ इत्युच्यते। व्यापारत्वञ्च तज्जन्यत्वे सति तज्जन्यजनकत्वम्। प्रमाणजन्यत्वे सति प्रमाणजन्यप्रमाया जनकत्वं व्यापारत्वम्। तत्र प्रमाणभेदानुगतो व्यापारभेदः। तत्र प्रत्यक्षे सन्निकर्षो व्यापारः। अथ चाऽनुमाने परामर्शो व्यापारः। उपमाने वृद्धवाक्यार्थस्मरणम्। एवमेव शब्दे पदजन्यपदार्थस्मरणं व्यापारः। अस्मिँश्च लेखनव्यापारे सन्निकर्षपदं विविच्य न्यायवैशेषिकदर्शने पुरस्कृत्य तत्स्वरूपं प्रकाराँश्च प्रकाश्य षड्विधा लौकिकसन्निर्षा विविच्यन्ते।
लौकिकसन्निकर्षविषयकं चिन्तनं तत्र तत्र ग्रन्थेषु कृतं लभ्यते। तथा सत्यपि सन्निकर्षतत्त्वमादाय समग्रतयैकीकृत्य तत्तन्मतानामाकरमन्विष्य च न तथा विमृष्टिर्लभ्यते यथाऽपेक्ष्यते। न जातेऽपि पृथक्त्वेन समग्रतयाऽऽकरस्थप्रसङ्गमन्विष्य लौकिकसन्निकर्षविषयके विमर्शने, तद्विषयकं चिन्तनं किञ्चन लभ्यत एव। तदेवाऽत्र थालीपुलाकन्यायेन कालक्रमानुसारेण प्रस्तूयते– काशिकानन्दगिरिमहाभागेन द्वादशदर्शनसङ्ग्रहः (१९८८) इत्याख्ये ग्रन्थे न्यायवैशेषिकदर्शनदृष्ट्या सन्निकर्षविषयकं सामान्यवर्णनं कृतं लभ्यते। तत्र तेन ‘प्रत्यक्षज्ञानार्थं व्यापारीभूतः सन्निकर्षः पञ्चविधः, अभावग्रहणाय च विशेषणताख्यः षष्ठः’ इति नामग्राहमात्रं प्रस्तुतं वर्त्तते। तत्रभवता गिरिमहोदयेन तदधिकं विश्लेषणं विधाय न निष्कर्षणे ध्यातम्। गजाननशास्त्रिमुसलगाँवकरमहाभागेन तर्कभाषा (१९९५) इत्याख्यग्रन्थस्य व्याख्यानक्रमे सन्निकर्षविषयकं विश्लेषणं विहितं लभ्यते। तत्र तेन सन्निकर्षवैविध्यं प्रकाश्य सभेदः सन्निकर्षो व्यालोडितो वर्त्तते। तत्क्रमे तेन लौकिकसन्निकर्षेषु विशेषतो विशेष्यविशेषणभावमादाय बहु चिन्तनं प्रस्तुतमस्ति। तत्क्रमे संयोगादिषु पञ्चविधेषु सम्बद्धं सन्नेव विशेष्यविशेषणभावसन्निकर्षोऽभावप्रत्यक्षहेतुर्जायत इत्यादिकमभाणि। अथापि तत्रभवता सन्निकर्षविभजने सहेतुकविचारं प्रस्तुत्य विश्लेषणं न कृतं वर्त्तते। आचार्यबलदेवेन सम्पादिते संस्कृतवाङ्मय का बृहद् इतिहास (वै.२०५६) इत्याख्ये ग्रन्थे न्यायवैशेषिकसाङ्ख्ययोगमीमांसादर्शनगतेतिहासपरिशीलनपूर्वकं तद्गतविषयाणामपि विश्लेषणं विहितं वर्त्तते। तत्क्रमे प्रत्यक्षज्ञानं कथं जायते ? अथ च तत्र कः सन्निकर्षः ? सन्निकर्षश्च कतिविधः ? इत्यादिषु विषयेषु नैकविधान् विचारान् प्रस्तुत्य संयोगादीनां षड्विधानां लौकिकसन्निकर्षाणां सामान्यं विवेचनं विहितं वर्त्तते। अथापि तत्र सन्निकर्षपदव्यालोडनपूर्वकं तद्गतप्रकारादिविषयेऽपि आन्तमालोडनं कृतं नास्ति। नव्यमङ्गलाभिजनेन वरदाचार्यनाम्ना विदुषा तर्कसङ्गहः (२००७) इत्याख्यस्य ग्रन्थस्य आलोकव्याख्यायां तट्टिप्पण्याञ्च सन्निकर्षविषयकं विश्लेषणं विततमस्ति। तत्क्रमे तत्रभवता लौकिकसन्निकर्षेषु विशेषणविशेष्यभावसन्निकर्षस्य आवश्यकत्वविषये तत्स्वरूपविषयेऽपि आन्तं चिन्तनं प्रस्तुतं वर्त्तते। तस्मिन् क्रमे वरदाचार्यमहोदयेनाऽलौकिकसन्निकर्षस्यापि साधु चर्चा विहिता। शशाङ्कशिवरामभट्टमहोदयेन महस्विनी (२०२३) इत्याख्यायां पत्रिकायां सन्निकर्षविचारः (पृ. ७७–८४) इत्यभिधः शोधलेखो विरचितो वर्त्तते। तत्रभवता शोधकर्त्रा सन्निकर्षपदं व्याकृत्य तद्भेदविषयकं विश्लेषणपूर्वकं चिन्तनं प्रस्तुतमस्ति। अथापि भट्टमहाभागेन संयोगादीनामावश्यकत्वविषये आन्तं चिन्तनं प्रस्तुतं नास्ति।
एतावता तत्राऽनेकैर्विद्वद्भिः साक्षात् परम्परया वा न्यायवैशेषिकदर्शनाऽभिमतसन्निकर्षविषयकं विश्लेषणन्तु कृतं वर्त्तते। तथापि न्यायवैशेषिकदर्शनदृष्ट्या सन्निकर्षपरिशीलनक्रमे ऐतिहासिकरूपेणाऽऽचार्याणां मतभेदविषयकं समीक्षणं वस्तुगत्या तत्तात्पर्यञ्च न परिशीलितं दृश्यते। अतः तत्र तत्र ग्रन्थेषु यदपि विश्लेषणं विहितं तेन विश्लेषणेन सन्निकर्षविषयकचिन्तनेऽभीष्टाऽसिद्धेरत्र सम्पादिते च शोधलेखे न्यायवैशेषिकदर्शनगतलौकिकसन्निकर्षविषयिणी मीमांसा प्रस्तूयते। तत्राऽऽदौ समस्याकथनादिकं वितन्यते।
समस्याकथनम्
न्यायवैशेषिकदर्शनमाधारीकृत्य सन्निकर्षविषयकमथ च लौकिकसन्निकर्षविषयकं विश्लेषणं नैकविधैर्विपश्चिदपश्चिमैः कृतं लभ्यते, अथापि न्यायवैशेषिकदर्शनदृष्ट्या सन्निकर्षपरिशीलनक्रमे ऐतिहासिकरूपेणाऽऽचार्याणां मतभेदविषयकं समीक्षणं वस्तुगत्या तत्तात्पर्यञ्च न परिशीलितं दृश्यते। अतोऽस्मिन् विषये एताः समस्या मूलभूता वर्त्तन्ते–
(क) सन्निकर्षतत्त्वं किम् ?
(ख) न्यायवैशेषिकदृष्ट्या सन्निकर्षतत्त्वस्य चिन्तनप्रवृत्तिः का ?
(ग) न्यायवैशेषिकदृष्ट्या लौकिकसन्निकर्षस्य सभेदं स्वरूपञ्च किम् ?
उद्देश्यकथनम्
न्यायदर्शनदृष्ट्या लौकिकसन्निकर्षमादाय समीक्षणं वस्तुतत्त्वविवेचनञ्च विधाय तत्तात्पर्यप्रकाशनपूर्वकं निष्कर्षणमेव प्रस्तुतस्य शोधलेखस्योद्देश्यं वर्त्तते। तथा च मूलभूतोद्देश्यत्वेनेदं सन्तिष्ठते–
(क) सन्निकर्षतत्त्वस्य स्वरूपप्रतिपादनम्।
(ख) न्यायवैशेषिकदृष्ट्या सन्निकर्षतत्त्वस्य चिन्तनप्रवृत्तिविश्लेषणम्।
(ग) न्यायवैशेषिकदृष्ट्या सभेदं लौकिकसन्निकर्षस्वरूपविश्लेषणम्।
अध्ययनस्यौचित्यम्
प्रस्तुते लघुनिबन्धे न्यायवैशेषिकदर्शनदृष्टिं पुरस्कृत्य लौकिकसन्निकर्षो विमृष्टो वर्त्तते। अतश्च न्यायवैशेषिकदर्शनपुरस्सरं लौकिकसन्निकर्षमादायाऽगे्र चिन्तनाय प्रस्तुतस्य शोधलेखस्य साहाय्यं भजमानत्वादस्यौचिती सिद्ध्यतीति।
अध्ययनस्य सीमाङ्कनम्
न्यायवैशेषिकदर्शनसम्बद्धं लौकिकसन्निकर्षविमर्शनमेव प्रस्तुतस्य लघुप्रबन्धस्य क्षेत्रं सीमा चास्ति ।
शोधविधिः
प्रस्तुते शोधलेखे सामग्रीसङ्कलनार्थं पुस्तकालयाः प्रयुक्ताः । तत्र प्राप्ता ग्रन्था एव प्रमुखसामग्रीत्वेन प्रयुक्ताः। अथ च आवश्यकतानुसारेण न्यायवैशेषिकशास्त्रज्ञैः सह संवादादिकेनापि सामग्री सङ्कलिता। अथ च प्रस्तुते लघुनिबन्धे ससमीक्षगुणात्मको विधिरवलम्बितः।
सैद्धान्तिकः पर्याधारः
प्रमायाः कृते प्रमाणमपेक्षितम्। प्रमाणञ्च पुनः व्यापारमाध्यमेन प्रमां जनयति। तत्र न्यायवैशेषिकशास्त्रयोः प्रत्यक्षज्ञाने सन्निकर्षो व्यापारः। स च लौकिकालौकिकभेदेन द्विविधः। अत्र च लेखे न्यायवैशेषिकदर्शनदृष्ट्या लौकिकसन्निकर्षस्य विवेच्यत्वात्तद्विवेचने तत्सम्बद्धः न्न्यायवैशेषिकगतः सिद्धान्त एवानुस्रियते।
सन्निकर्षपदार्थस्तद्विभजनञ्च
प्रमासाधनं प्रमाणम्। न्यायशास्त्रे प्रमायाश्चातुर्विध्यात् प्रमाणानामपि चातुर्विध्यं निष्कण्टकम्। नन्वर्थापत्त्यनुपलब्ध्यादीनामपि पृथक्प्रमाणानां सत्त्वे कथं प्रमाणचातुर्विध्यं सिद्ध्यतीति चेत्, सत्यं परमर्थापत्त्यादीनामपि यथायथं तेष्वेवाऽन्तर्भावान्न न्यूनतेति विवेकः– सा च प्रमा चतुर्विधा प्रत्यक्षानुमित्युपमितिशाब्दीभेदात्। एवञ्चतसॄणान्तासां करणं प्रमाणमपि चतुर्विधं प्रत्यक्षानुमानोपपमानशब्दभेदात्। अन्येषां यथायथमेतेष्वेवान्तर्भावात् (गङ्गेशोपाध्यायः, १९९०, पृ.५३८)। तत्र प्रमाणत्वं व्यापारवत्त्वे सत्यसाधारणकारणत्वम्। एतावता प्रामाण्यार्थं व्यापारवत्त्वमपेक्षितम्। तत्र प्रत्यक्षज्ञानकरणीभूते प्रत्यक्षप्रमाणे व्यापारस्तावत् सन्निकर्षः।
‘सम् नी’त्युपसर्गद्वयपूर्वकात् कृष विलेखने (पाणिनिः, धा.पा. ९९०) इत्यस्माद्धातो हलश्च (पाणिनिः, अष्टा. ३।३।१२१) इति सूत्रेण घञि निष्पद्यते। यस्यार्थः सान्निध्यमिति। एतावतेन्द्रियाणामर्थैस्सह यः सम्बन्धो भवति, स एव सन्निकर्षः। पौरस्त्यदर्शने सन्निकर्षस्य प्रयोगः प्रथमतो वैशेषिकसूत्रे लभ्यते– आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्, आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् (कणादः, वै.सू. ३।१।१८, ३।२।१)। तदनु न्यायसूत्रे लभ्यते– इन्द्रियार्थसन्निकर्षोत्पन्नम् …, रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम्, अप्रतिघातात् सन्निकर्षोपपत्तिः (गौतमः, न्या.सू. १।१।४, ३।१।३२, ३।१।४६)। तथा प्रयुक्तेऽपि कणादेन अथ च न्यायसूत्रकारेण सन्निकर्षो नालक्षि न वा विभजनं व्यधायि। न्यायभाष्यकारेणापि सन्निकर्षस्तु प्रयुक्तः परं तेनापि न परिचायितो न वा विभजने ध्यातम्– इन्द्रियस्यार्थेन सन्निकर्षाद् उत्पद्यते यज्ज्ञानं तत् प्रत्यक्षम् (वात्स्यायनः, न्या.भा. १।१।४)। यद्यपि रश्म्यर्थसन्निकर्षविशेषाद् ग्रहणम् (गौतमः, न्या.सू. ३।१।३२) इत्यत्रस्थेन सन्निकर्षपदेन संयोगो ज्ञेय इति न्यायभाष्यगताया वृत्तेः कर्तुर्विश्वनाथस्य ‘सन्निकर्षविशेषः संयोगविशेषः’ इति कथनाज्ज्ञायते। एवमेव अनेकद्रव्यसमवायाद् रूपविशेषाच्च रूपोपलब्धिः (गौतमः, न्या.सू. ३।१।३६) इत्यादिसूत्रेण समवायस्य द्योतनं लभ्यते। अथापि वस्तुतस्तु न तानि पदानि सन्निकर्षविभजनायेति विवेकः। शबरमुनिना सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म … (जैमिनिः, मी.सू. १।१।४) इत्यादिसूत्रव्याख्यानक्रमे सन्निकर्षपदस्य प्रयोगः कृतो लभ्यते – … बुद्धिर्वा जन्म वा सन्निकर्षो वा …। लक्षणविभजनादिकन्त्वनेनापि नाकारि। सन्निकर्षविभजनविषये प्रथमतो भारद्वाजोद्योतकरेण स्वकीये न्यायवार्त्तिकनामके ग्रन्थे उक्तं दृश्यते। तत्र तेन यद्यपि सन्निकर्षस्य लौकिकालौकिकभेदो न कृतो न वा लक्षणं कृतमथापि इन्द्रियार्थयोः सन्निकर्षाद् यज्ज्ञानमुत्पद्यते तत् प्रत्यक्षमिति भाषमाणेन सन्निकर्षो हि षोढा विभज्यत इत्युक्त्वा तेषां विवरणं दत्तं लभ्यते– इन्द्रियेणार्थस्य सन्निकर्षाद्यदुत्पद्यते ज्ञानं तत्प्रत्यक्षमिति। सन्निकर्षः पुनः षोढा भिद्यते … (उद्योतकरः, न्या.वा. १।१।४)। सन्निकर्षस्य स्वरूपकथनमित्थं वर्तते– ‘सन्निकर्षश्च प्रत्यक्षकारणीभूत इन्द्रियनिष्ठप्रत्यक्षसामानाधिकरण्यघटकः’। यथा घटज्ञाने कर्तव्ये तदात्मनि जायते। यच्च समवायेन। परं तज्ज्ञानस्य विषयो घटः। तत्र घटे ज्ञानं विषयतासम्बन्धेनाऽऽस्ते। घटचक्षुरिन्द्रिययोश्च संयोगसम्बन्धः प्रथित एव। एतावता चक्षुरिन्द्रियस्य संयोगेन घटादिषु सत्त्वादुभयोः (प्रत्यक्षप्रमाचक्षुरिन्द्रिययोः) सामानाधिकरण्यं सिद्धम्। तद्घटकः संयोगादिः, स एव प्रत्यक्षज्ञानहेतुभूतः सम्बन्धः। ननु सन्निकर्षस्य सत्त्वे तदवगमे च किं प्रमाणमित्यत्रोच्यते– यदा वयं घटादिकं गृह्णीमस्तदा घटादिकं पुरतोऽवस्थितमपेक्षितं भवति, व्यवहितस्यानुपलुब्धेः। सन्निकर्षमन्तरापि प्रत्यक्षत्वे व्यवहितस्यापि प्रत्यक्षं स्यात्, न तथानुभूयते अतः सिद्ध्यति अस्ति सन्निकर्ष इति– ननु सन्निकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति ब्रूमः। यदि ह्यसन्निकृष्टमपि चक्षुरादीन्द्रियमर्थं गृह्णीयाद् व्यवहितोऽपि ततोऽर्थ उपलभ्येत, न चोपलभ्यते, तस्मादस्ति सन्निकर्षः (भट्टः, १९८२, पृ.११४)। नन्वव्यवहितस्यैव ज्ञानं भवतु का कथा सन्निकर्षस्येत्यपि न वाच्यम्। इन्द्रियाणां प्राप्यकारित्वात्। सन्निकर्षसिद्धेरेव तत्सिद्धत्वादिति– नन्वव्यवधानमेवास्तु कि सन्निकर्षेण ? मैवम्। इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात्, संसृष्टञ्च कारकं फलाय कल्पत इति कल्पनीय संसर्गः (भट्टः, १९८२, पृ.११४)। न्यायसूत्रे इन्द्रियाणां भौतिकत्वाभौतिकत्वप्रसङ्गे सूत्रमिदं लभ्यते– अव्यभिचाराच्च प्रतिघातो भौतिकधर्म्मः (गौतमः, न्या.सू., ३।१।३८)। तदर्थश्च– कुड्यादिभिर्व्यवहितानां पदार्थानां चक्षुरादिनाऽग्रहणात्तेषां भौतिकधर्म्मोऽव्यभिचारः। एतन्नामेन्द्रियाणि भौतिकानीति सिद्ध्यति। अथ च भौतिकत्वात् प्राप्यकारित्वञ्च साधयितुं सुशकम्। तथा च प्रत्यक्षज्ञानाय सन्निकर्षस्यापरिहार्यत्वं निराबाधम्। सन्निकर्षश्च प्रथमन्तावल्लौकिकालौकिकभेदेन द्विविधः। लोके भवः लौकिकः, लोकस्य प्रयोगगम्यः सन्निकर्ष एव लौकिकः सन्निकर्षः। तद्भिन्नोऽलौकिक इति विवेकः।
लौकिकसन्निकर्षविभजनम्
लौकिकप्रत्यक्षेष्वपि प्रत्यक्षविशेषे सन्निकर्षविशेषो हेतुरभ्युपगम्यते। एतन्नाम प्रत्यक्षभेदेन सन्निकर्षो भिद्यते। तथा च लौकिकसन्निकर्षाणां षाड्विध्यं प्रथितम्। तच्च सर्वप्रथमम् उद्योतकरभारद्वाजेनाभ्यधायि चेत्ततोऽन्यैर्दार्शनिकैरपि तदेवावालम्बि–
सन्निकर्षः पुनः षोढा भिद्यते– संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति (न्या.वा. १।१।४), सन्निकर्षस्त्विन्द्रियाणामर्थैः सह षट्प्रकारः। तत्र द्रव्यं चक्षुषा, त्वगिन्द्रियेण वा संयोगाद् गृह्यते। तद्गतो रूपादिर्गुणः संयुक्तसमवायात्। रूपत्वादिसामान्यानि संयुक्तसमवेतसमवायाद् गृह्यन्ते। चक्षुषा संयुक्तं द्रव्यम्, तत्र समवेतं रूपम्, रूपे च समवेतं रूपत्वमिति। समवायाच्छब्दो गृह्यते। श्रोत्रमाकाशद्रव्यम्, तत्र समवेतः शब्दः। शब्दत्वं समवेतसमवायाद् गृह्यते, श्रोत्राकाशसमवेते शब्दे तद्धि समवेतमिति। संयुक्तविशेषणभावादभावग्रहणं व्याख्यातम्। इह घटो नास्तीति चक्षुषा संयुक्तो भूप्रदेशस्तद्विशेषणीभूतश्चाभाव इति (भट्टः, १९८२, पृ.११४)। प्रत्यक्षविशेषे सन्निकर्षविशेषो हेतुरनुगत एव। संयोगेन द्रव्यग्रहः, संयुक्तसमवायेन रूपकर्म्मणोर्ग्रहणम्, संयुक्तसमवेतसमवायेन रूपत्वादेः, समवायेन शब्दस्य, समवेतसमवायेन शब्दत्वादेः, विशेषणतया शब्दाभावस्य …(गङ्गेशोपाध्यायः, १९९०, पृ.५७४)।
ननु लौकिकसन्निकर्षस्य संयोगादिरूपेण षाड्विध्यं कुतः सिद्धम्, का वा तत्र राजाज्ञा? किमर्थं ततो नाधिकं न न्यूनं वेत्यत्र कश्चन विचारो न्यायभूषणे लभ्यते। तदत्राऽऽलोडयामः– नीत्युपसर्गपूर्वकात् कृष विलखने (पाणिनि, पा.धा. ९९०) इत्यस्माद्धातोः घञि निष्पन्नेन निकर्षशब्देनैव सम्बन्धवाचकत्वेऽपि सम् इत्युपसर्गयोजनस्य वैयर्थ्यापत्तेः सन्निकर्षस्य षाड्विध्यं सिद्ध्यतीति अक्षपादसूत्राणामपरो भाष्यकर्ता आचार्याध्ययनपादोऽथ च पक्षिलस्वामिभाष्यस्यापरटीकाकारविश्वरूपप्रभृतयश्च स्वमतं पुरःस्थापयन्ति। आचार्याध्ययनपादोऽक्षपादसूत्राणामपरो भाष्यकर्त्तेति विश्वरूपश्च वात्स्यायनभाष्यस्यापरटीकाकार इति तु न्यायभूषणस्थेन टिप्पणादिना संसूचितम्– आचार्याध्ययनपादः– अक्षपादसूत्राणामपरो भाष्यकर्ता इति प्राचीनटिप्पणम्। विश्वरूपः– पक्षिलस्वामिभाष्यस्यापरः टीकाकार इति प्राचीनटिप्पणम् (भासर्वज्ञः, २००४, पृ.१६७– टिप्पणम्)। तत्र नीत्युपसर्गस्य प्रयोजनान्तरभावात् तद्वैविध्यं सिद्ध्यतीति तेषां हृदयम्। परमत्रोच्यते– निकर्षशब्दस्य सम्बन्धवाचकत्वं कथं सिद्ध्यति ? कुत्र वा तथार्थः प्रसिद्धः। अर्थावगतिर्हि व्याकरणादिभ्यो भवति। यथोक्तम्–
शक्तिग्रहं व्याकरणोपमानात् कोषाप्तवाक्याद् व्यवहारतश्च।
वाक्यस्य शेषाद् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।। (भट्टाचार्यः, वै.२०५२,पृ.२९६)
निकर्षशब्दो सम्बन्धमभिधत्ते इति तु न कुतश्चाऽपि सिद्ध्यति। परं निकृष्टतामभिधत्ते इति तु लोकसिद्धिः शास्त्रानुमतिश्च, व्याकरणव्यापाराभ्यां तत्सिद्धेः। अतः ‘सन्नी’त्युपसर्गद्वययुतस्य कृषधोतोरेव सम्बन्धाभिधायकत्वं निष्कण्टकम्। अत आचार्याध्ययनपादानामथ च विश्वरूपप्रभृतीनां व्याख्यानं न हृद्यम्। तर्हि कुतः षाड्विध्यं ज्ञेयमिति चेच्छ्रूयतामवहितमनस्कत्वेन– यथा प्रत्यक्षसूत्रेऽनुक्तानामप्यालोकादीनाम् अन्वयव्यतिरेकबलात् प्रत्यक्षकारणत्वं सिद्ध्यति, तथैव अन्वयव्यतिरेकबलादेव षड्विधलौकिकसन्निकर्षाणां हेतुत्वसिद्धेः तत् षाड्विध्यं सिद्ध्यति, तदेव सूत्रकारानुमतत्वादिति। प्रसङ्गेऽत्र भूषणकारस्य वचनरचनमिदं गाढमवधेयम्–
कुतः पुनः षड्विधसम्बन्धसिद्धिः ? ‘सम्’शब्दोपादानात्, निकर्षग्रहणादेव सम्बन्धमात्रसिद्धेः, ‘सम्’शब्दोऽनर्थकः स्यात्। तस्मात् सम्भवी निकर्षः, सम्भवी च षड्विध एवेति आचार्याध्ययनपादः, विश्वरूपप्रभृतयोऽप्येवमेव व्याचक्षते। तैस्तु ‘नि’ग्रहणस्यापि प्रयोजनान्तरं वाच्यम्। कर्षग्रहणादेव सम्बन्धमात्रसिद्धेरनेकार्थत्वाच्च धातोरिति। सम्बन्धार्थत्वेन कर्षशब्दस्याप्रसिद्धत्वादिति चेत्, निकर्षशब्दः क्व सम्बन्धवाचकत्वेन प्रसिद्धः? किन्तु निकृष्टिर्निकर्ष इति निकृष्टताभिधायकत्वेनैव प्रसिद्धः। तस्मादुपसर्गद्वयसहितस्य कृषेः सम्बन्धवाचकत्वं यथा समवाभ्यां सहितस्येणः। शिष्टप्रयोगदर्शनानुरोधेन हि धातूनां व्यस्तसमस्तोपसर्गसामर्थ्यादन्यार्थत्वं स्वार्थावद्योतनं वाभ्युपगन्तव्यम्। यदृच्छाशब्दश्चेदुपसर्गविचारेण तर्हि किं ? कुतस्तर्हि षड्विधसम्बन्धसिद्धिः ? प्रकाशादिसहकारिसिद्धिवदन्वयव्यतिरेकाभ्यां न्यायसिद्धस्यापि सूत्रकारानुमतत्वादिति (भासर्वज्ञः, २००४, पृ.१६८)।
प्रसङ्गेऽस्मिन् मुक्तावलीकारस्य विश्वनाथपञ्चाननस्य कथनमपीषत् स्मर्तव्यम्। स चाह– यद्यपि विशेषणता नानाविधा भवति, अतस्तद्रीत्या सन्निकर्षाणां नैकविध्यं सम्भवति, अथापि नैकविधानां विशेषणतानां विशेषणतात्वेनैकत्वं ज्ञेयमन्यथा सन्निकर्षस्य षाड्विध्यमिति प्राक्तनानां विदुषां कथनं व्याहन्येतेति– अत्र यद्यपि विशेषणता नानाविधा। ….तथापि विशेषणतात्वरूपेणैकैव सा गण्यते। अन्यथा षोढा सन्निकर्ष इति प्राचां प्रवादो व्याहन्येतेति (भट्टाचार्यः, वै.२०५२, पृ.२०५)।
न्यायसूत्रे रवत एव सन्निकर्षविभजनं न लभ्यते परं वैशेषिकसूत्रे तु किञ्चित् स्पष्टतः सवर्णनं विभजनं लभ्यते। तदत्र व्यालोडयामः– आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् (कणादः, वै.सू. ३।१।१८) अर्थाद् ‘आत्मेन्द्रियार्थसन्निकर्षादुत्पद्यमानं यज्ज्ञानं तदनुमित्यादिभ्यः पृथक्’ अथ च आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् (कणादः, वै.सू. ९।१।११) अर्थाद् ‘आत्ममनसोः संयोगविशेषाद् आत्मनि प्रत्यक्षं (आत्मप्रत्यक्षम्) जायते’। अमुना च वचनरचनेन द्रव्यप्रत्यक्षं प्रति संयोगसन्निकर्षस्य हेतुत्वं द्योतितं भवति। एवमेव तत्समवायाद् गुणकर्मसु (कणादः, वै.सू. ९।१।१४) अर्थाद् ‘द्रव्येषु स्थितानां गुणानां ज्ञानं द्रव्यसंयुक्तसमवायसम्बन्धेन सम्पद्यते’। अथ च आत्मसमवायादात्मगुणेषु (कणादः, वै.सू. ९।१।१५) अर्थाद् ‘आत्मनि समवेतानां ज्ञानादिगुणानां ज्ञानं संयुक्तसमवायसम्बधेन जायते’ इत्यादिसूत्रेषु संयुक्तसमवायो निर्दिष्टो लभ्यते। एवमेव अनेकद्रव्यसमवायाद् रूपविशेषाच्च रूपोपलब्धिः, सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि (कणादः, वै.सू. ४।१।८,११) इत्यादिसूत्रैर्द्रव्यसंयुक्तसमवेतसमवायः सम्बन्धो द्योतितो भवति। अथ च एतेन गुणत्वे भावे च सर्वेन्द्रियं व्याख्यातम् (कणादः, वै.सू. ४।१।१३) इति सूत्रद्वारा संयुक्तसमवेतसमवायो निर्दिष्टोऽस्ति। यतो हि तत्र घटादिगतानां रक्तादीनां रक्तत्वादिप्रत्यक्षं जायते इत्युक्तं वर्त्तते। एवमेव श्रोत्रग्रहणो योऽर्थः स शब्दः (कणादः, वै.सू. २।२,२१) इति सूत्रेण शब्दस्य ग्राहकं श्रोत्रमिति ज्ञापितं वर्त्तते। श्रोत्रञ्च पुनः कर्णशष्कुल्यवच्छिन्नमाकाशम्। शब्दाकाशयोः समवायः सम्बन्धः। श्रोत्रस्य आकाशत्वात् शब्दस्य तु तत्रैव समवायात् समवायेन शब्दग्रहणमिति स्पष्टीभवति। एवमेव एतेन गुणत्वे भावे च सर्वेन्द्रियं व्याख्यातम् (कणादः, वै.सू. ४।१।१३) इति सूत्रद्वारा शब्दत्वग्रहणे समवेतसमवायसम्बन्धो द्योतितो भवति।
न्यायशास्त्रे सर्वप्रथमं वार्त्तिककारेणेव वैशेषिकशास्त्रे च व्योमशिवाचार्येण षड्विधाः सन्निकर्षा उद्दिष्टा लभ्यन्ते। तदभिधातुं व्योमशिवाचार्येण प्रशस्तपादीयं सन्निकर्षचतुष्टयमिति पदं बीजत्वेन गृहीतम्– चतुष्टयादिसन्निकर्षाभिधानात् षोढा सम्बन्धो लभ्यत एव। स च संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः (समवायः) समवेतसमवायो विशेषणविशेष्याभावश्चेति (व्योमशिवाचार्यः, १९८४ पृ.१३९)। कन्दलीकारेण बीजप्रदशर्नमन्तरा षड्विधः सन्निकर्ष उद्दिष्टो वर्त्तते। यच्च सामान्यतो व्योमशिवाचार्यस्यैवावलम्बनमित्यभिधातुं सुशकम्– तत्र संयोगाद् द्रव्यग्रहणम्, संयुक्तसमवायाद् गुणादिप्रतीतिः, संयुक्तसमवेतसमवायाद् गुणत्वादिज्ञानम्, समवायाच्छब्दग्रहणम्, समवेतसमवायाच्छन्दत्वग्रहणम्, सम्बद्धविशेषणतया चाभावग्रहणमिति षोढा सन्निकर्षः (भट्टः, १९९७, पृ.४६३– न्या.क.)। यद्यपि विषयोऽयमुदयनाचार्येणाऽपि स्वव्याख्यानक्रमे किरणावल्याम् उपस्थापितो वर्त्तते– द्रव्ये संयोगाद् रूपादिषु बुद्ध्यादिषु च संयुक्तसमवायात्। रूपत्वादौ संयुक्तसमवेतसमवायात्। शब्दत्वादिषु समवेतसमवायात् (उदयनाचार्यः, १९८०, पृ.२८३), तथा सत्यप्युदयनाचार्यस्य प्राधान्येन नैयायिकत्वेन प्रथितत्वात् प्रसङ्गेऽत्र व्योमवतीकारस्य कन्दलीकारस्य च वचनरचनमनुसृतमिति।
इदमत्र गाढं चिन्तनीयम्– वस्तुतस्तु प्रशस्तपादेन त्रिविधे महति द्रव्ये कथं प्रत्यक्षं जायते इत्यस्मिन् प्रसङ्गे सन्निकर्षचतुष्टयपदं प्रयुक्तम्। तेन च चतुर्भिः सन्निकर्षैः प्रत्यक्षं जायत इत्यर्थः प्रतिफलति। तत्र आत्मनो मनसा सह सन्निकर्ष एकः। मनस इन्द्रियैः सह सन्निकर्षः द्वितीयः। अथ चेन्द्रिस्याऽर्थेन सह सन्निकर्षः तृतीयः। तत्र सन्निकर्षास्तावद् त्रयः । परं ते सन्निकर्षाश्च चतुष्टयस्य किंवा चतुर्ण्णां समूहस्येति यावत्। एतावता स च सन्निकर्षः संयोग एव। एवमेव प्रशस्तपादेन तु तदग्रे रूपादि–रूपत्वादि–शब्दग्रहणं कथं भवतीत्यत्र संयुक्तसमवायादीनां सङ्केतो विहितो लभ्यते। यथा … रूपरसगन्धस्पर्शेष्वनेकद्रव्यसमवायात् … शब्दस्य त्रयसन्निकर्षाच्छ्रोत्रसमवेतस्य ….. भावद्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणम् … (प्रशस्तपादाचार्यः, १९९७, पृ.४५९–४६४)। एतावता केचिल्लौकिकसन्निकर्षास्तु प्रशस्तपादेन स्वयमेव सङ्केतिताः, अतः सन्निकर्षषाड्विध्यन्तावत् सन्निकर्षपदाभिधानेन लभ्यत इति न वाच्यम्।
तदत्र तेषां षड्विधानां लौकिकसन्निकर्षाणामेकैकशो विवरणं प्रस्तुमः–
संयोगः
सम्बन्धस्तावद् द्विविधो नित्यानित्यभेदात्। प्रथमोऽयुतसिद्धो द्वितीयश्च युतसिद्ध इत्युच्यते। अयुतसिद्धलक्षणञ्च– ययोर्द्वयोर्मध्ये एकमविनश्यदवस्थमपराश्रितमेव तिष्ठति तावयुतसिद्धौ। यथा– अवयवाऽवयविनौ गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति (भट्टः, २००३, पृ.१६९)। युतसिद्धश्च पुनः पृथक्सिद्धः। युतसिद्धस्योदाहरणमिदम्– घटविषयके ज्ञाने इन्द्रियं चक्षुरिन्द्रयं, घटश्चार्थः। अनयोः संयोगः सन्निकर्ष उभयोर्द्रव्यत्वात्, परस्परं संयोगाभावे च तिष्ठतो युतसिद्धत्वात्– तत्र युतसिद्धयोः संश्लेषः संयोगः, युतसिद्धिस्तु द्रव्ययोः पारम्पर्येणाप्यवयवावयविभावरहितत्वम् (भासर्वज्ञः, २००४, पृ.१७०)। एवमान्तरेन्द्रियेण मनसा यदात्मविषयकं ज्ञानं जायते, तदा आत्ममनसोश्च संयोगसन्निकर्ष एव– तत्र यदा चक्षुषा घटविषयं ज्ञानं जन्यते यदा चक्षुरिन्द्रियं, घटोऽर्थः। अनयोः सन्निकर्षः संयोग एव, अयुतसिद्ध्यभावात्। एवं मनसाऽन्तरिन्द्रियेण यदात्मविषयकं ज्ञानं जन्यतेऽहमिति, तदा मन इन्द्रियम्, आत्माऽर्थः, अनयोः सन्निकर्षः संयोग एव (मिश्रः, १९९५ पृ.७७)। न्यायबोधिनीकारो गोवर्द्धनसूरिरेवमाह— द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुस्संयोगस्य हेतुत्वम् (भट्टः, २००३, पृ.८१– न्या.बो.)। तदर्थश्च किञ्चन ज्ञानं भवति चेत् तस्य कश्चन विषयो भवति। तत्र च विषये ज्ञानीया विषयता अस्ति। एतन्नाम घटो विषये सति घटज्ञानं विषयि। तस्य घटज्ञानरूपस्य विषयिणो विषयो घटः। एतावता तत्रस्था विषया ज्ञानीया। चक्षुषा घटज्ञाने कर्तव्ये लौकिकसम्बन्धेन क्रियते। अतो विषयतापि लौकिकी। सा च घटरूपद्रव्यवृत्तिः। ज्ञानञ्च चाक्षुषम्। चाक्षुषज्ञानमात्रं चाक्षुषत्वावच्छिन्नम्। तथा च तादृशज्ञानं प्रति अर्थ(घट)चक्षुरिन्द्रिययोः संयोगः कारणम्। एतावता चाक्षुषत्वावच्छिन्नं ज्ञानं प्रति द्रव्यवृत्तिलौकिकविषयतासम्बन्धेनैव चक्षुस्संयोगो हेतुर्भवति।
ननु घटादिद्रव्यज्ञानार्थं संयोगः सन्निकर्षो मास्तु, अस्तु च संयुक्तसमवायसन्निकर्षः। यतो हि घटावयवः संयुक्तः, घटस्य तत्र समवेतत्वात् तमेव सम्बन्धं परिकल्प्य कार्यनिर्वाहात्। न च वाग्व्यापारलाघवात् संयोग एव अस्त्विति वाच्यम्, रूपादिग्रहणे तस्य (संयुक्तसमवायसन्निकर्षस्य) स्वीकारमन्तरा कार्यासिद्धेः, घटग्रहणेऽपि तेनैव सिद्धेरिति चेत्, न, आत्मग्रहणे मनःसंयोगस्यानिवार्यत्वाद् घटादिग्रहणेऽपि तस्यैव स्वीकारादिति– …. ननु संयुक्तसमवायेनावयविग्रहोऽस्तु न तु संयोगादिस्तत्र हेतुः तस्य रूपादिग्रहे क्लृप्तत्वात्। न च लाघवात् संयोग एव तथा, तस्य कल्पनीयकारणत्वाद् इति चेत्, न, आत्मग्रहे इन्द्रियसंयोगस्य कारणत्वादन्यत्रापि द्रव्यसाक्षात्कारत्वेन तथा कल्पनात् (गङ्गेशोपाध्यायः, १९९०, पृ.५८९)। ननु तर्हीत्थं कुर्मः– बहिरिन्द्रियजन्यद्रव्यावग्रहे संयुक्तसमवाय एव सन्निकर्षत्वेनाऽऽस्ताम्, आस्ताञ्चाऽऽत्मादिग्रहे संयोग इत्यपि न वाच्यम्, तथा सति द्रव्यग्रहे एव कार्यकारणभावस्य द्वैविध्येन गौरवापत्तेः, उभयत्रापि संयोगस्यैव हेतुत्वकल्पने लाघवादिति– न च बहिरिन्द्रियजन्यद्रव्यग्रहे अवयविग्रहे वा संयुक्तसमवायः कारणं, लाघवेन संयोगस्यैव कारणत्वेन कल्पनात् (गङ्गेशोपाध्यायः, १९९०, पृ.५८९)।
संयुक्तसमवायः
संयुक्ते समवाय एव संयुक्तसमवायः। अयुतसिद्धयोर्द्वयोः सम्बन्धः समवायः, द्वयोरयुतसिद्धत्वात्। यथा घटे रूपं समवायेन तिष्ठति घटाभावे घटरूपस्यास्थितत्वात्। संयुक्ते समवाय एव संयुक्तसमवायः। घटगतरूपादिज्ञानेऽयं सम्बन्धः। चक्षुरिन्द्रियस्य घटेन सह संयोगः, घटश्च संयुक्तः। तत्र वर्तमाना गुणकर्मजातयः पदार्थाः समवायेन। एतावता च चक्षुषा तेषां ग्रहणं संयुक्तसमवायेनेति। एवमेव त्वगिन्द्रियेण घटगतस्पर्शस्य ज्ञानमथ च रसनेन्द्रियेण जलादिगतरसज्ञानमथ च घ्राणेन्द्रियेण पुष्पादिगतगन्धस्य ज्ञानमपि संयुक्तसमवायसम्बन्धेनैव जायते, तेषां जलादिषु समवेतत्वात्। एवञ्च मनसा आत्मगतसुखादिज्ञानञ्च तेनैव, तत्र प्रथमं मन आत्मानं संयुनक्ति, आत्मनि च सुखादीनि समवेतानीति–
कदा पुनः संयुक्तसमवायः सन्निकर्षः ? यदा चक्षुरादिना घटगतरूपादिकं गृह्यते घटे श्यामं रूपमस्तीति, तदा चक्षुरिन्द्रियं, घटरूपमर्थः, अनयोः सन्निकर्षः संयुक्तसमवाय एव। चक्षुः संयुक्ते घटे रूपस्य समवायात्। एवं मनसाऽऽत्मसमवेते सुखादौ गुह्यमाणेऽयमेव सन्निकर्षः (मिश्रः, १९९५, पृ.७८)।
न्यायशास्त्रे ‘येन इन्द्रियेण यद् गृह्यते तेनैवेन्द्रियेण तद्गता जातिस्तत्समवायस्तदभावश्च गृह्यते’ इति नियमस्य प्रथितत्वात् तत्तत्पदार्थगतानां सामान्यसमवायाभावानामपि तेनैवेन्द्रियेण गृह्यते। एतावताऽऽन्तरेन्द्रियेण मनसाऽऽत्मगतानां सुखादिगुणानामात्मत्वजातेश्च बोधः संयुक्तसमवायसम्बन्धेनैव जायते। न्यायबोधिनीकारस्त्वेवमाह— द्रव्यसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुः समवेतसमवायस्य हेतुत्वम् (भट्टः, २००३, पृ.८१–न्या.बो.)।
ननु रूपमपि गुणः, परिमाणमपि गुणः। अथ च यथा गुणग्रहणे संयुक्तसमवायसन्निकर्षः, परिमाणग्रहणेऽपि तथैव वेति चेन्न, घटस्य काष्र्ण्यज्ञानाय अथ च रक्तिमज्ञानाय वावयवानां ज्ञानं नापेक्षितं परम् ‘अयं घटः स्थूलः अयञ्च कृशः’ इत्यादिरूपेण घटस्य परिमाणज्ञानाय तु घटस्यावयवा अपि प्रत्यक्षीकर्तव्या भवन्ति। तदर्थं चतुष्टयसन्निकर्षोऽपि स्वीकर्तव्यो भवति–
घटगतपरिमाणादिग्रहे चतुष्टयसन्निकर्षोऽप्यधिकं कारणमिष्यते। सत्यपि संयुक्तसमवाये तदभावे दूरे परिमाणाद्यग्रहणात्। चतुष्टयसन्निकर्षो यथा– (क) इन्द्रियावयवैरर्थावयविनाम्, (ख) इन्द्रियावयविनामर्थावयवानाम्, (ग) इन्द्रियावयवैरर्थावयवानाम्, (घ) अर्थावयविनामिन्द्रियावयविनां सन्निकर्ष इति (मिश्रः, १९९५, पृ.७८)।
ननु व्यवहारं पुरस्कृत्य सम्बन्धकल्पना न तु सम्बन्धं पुरस्कृत्य व्यवहारकल्पनेति प्रथितलौकिकन्यायावलम्बनेन रूपादिज्ञाने संयुक्तसमवायसन्निकर्षः स्वीक्रियताम्, परं गन्धरसादिज्ञानार्थन्तु आश्रयसंयोगेनैव निरुह्यताम्। तथैवानुभावाच्चेति चेत्, न, घटादिसंयोगात् पटादिगन्धग्रहणप्रसङ्गात्– ननु संयुक्तसमवायो न ग्रन्धग्राहकः किन्त्वाश्रयसंयोगः। …. तथा च घटसंयोगात्पटगन्धग्रहप्रसङ्गः (गङ्गेशोपाध्यायः, १९९०, पृ.५८९, ५९२)।
संयुक्तसमवेतसमवायसन्निकर्षः
घटादिगतेषु रूपेषु स्थितानां रूपत्वादीनां ग्रहणे संयुक्तसमवेतसमवायसन्निकर्षः। तत्र घटादयस्तावत् संयुक्ताः, तत्र समवेतानि रूपादीनि, तत्र समवायेन स्थितानि (समवेतानि रूपत्वादीनि), तेषां ज्ञानं संयुक्तसमवेतसमवायसम्बन्धेनेति–
कदा पुनः संयुक्तसमवेतसमवायः सन्निकर्षः ? यदा पुनश्चक्षुषा घटरूपसमवेतं रूपत्वादिसामान्यं गृह्यते, तदा चक्षुरिन्द्रियं, रूपत्वादिसामान्यमर्थः, अनयोः सन्निकर्षः संयुक्तसमवेतसमवाय एव। चक्षुःसंयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् (मिश्रः, १९९५, पृ.८०)।
प्रसङ्गेऽत्रान्नम्भट्टस्यापि वचनरचनं ध्येयम्। स चाह– रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुःसंयुक्ते घटे रूपं समवेतम्, तत्र रूपत्वस्य समवायात् (भट्टः, २००३, पृ.८३)।
समवायसन्निकर्षः
येन इन्द्रियेण स्वस्मिन्नेव समवायसम्बन्धेन स्थितः पदार्थो ज्ञायते, तदा स पदार्थस्तेनैव सम्बन्धेन गृह्यते। यथा शब्दग्राहकम् इन्द्रियं श्रोत्रम्। तच्च स्वस्मिन्नेव स्थितं शब्दं गृह्णाति न चाऽन्यत्र स्थितम्। तथा च श्रोत्रं कर्णशष्कुल्यवच्छिन्नमाकाशम्– कर्णविवरवत्र्त्याकाशस्य श्रोत्रत्वात् (भट्टः, २००३, पृ.८४)। एतन्नाम यावताऽऽकाशभागेन शब्दो गृह्यते, तावदेव श्रोत्रमिति गौतमीयं चिन्तनम्। तेन च श्रोत्रेण श्रोत्रस्थितः शब्दः समवायसम्बन्धेन गृह्यते–
कदा पुनः समवायः सन्निकर्षः ? यदा श्रोत्रेन्द्रियेण शब्दो गृह्यते तदा श्रोत्रमिन्द्रियं, शब्दोऽर्थः, अनयोः सन्निकर्षः समवाय एव। कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्। श्रोत्रस्याकाशात्मकत्वाच्छब्दस्य चाकाशगुणत्वाद् गुणगुणिनोश्च समवायात् (मिश्रः, १९९५, पृ. ८१)।
किञ्चाऽन्यानीन्द्रियाणि अन्यत्र स्थितान् पदार्थान् गृह्णन्ति, श्रोत्रन्तु स्वस्मिन्नेव स्थितं शब्दं गृह्णातीति तु विशेषः। प्रसङ्गेऽत्र कैश्चिद् उच्यते– न खलु स्वगुणान् उपलभन्ते इन्द्रियाणि, श्रोत्रञ्च कथं स्वगुणं शब्दं गृह्णातीति चेच्छ्रोत्रस्य गुणरहितस्येन्द्रियत्वेऽपि घ्राणादीनां तत्सहितस्यैवेन्द्रियत्वात्। एतावता घ्राणादीनां यत्स्वरूपमादाय इन्द्रियत्वं जायते, तदेव तेनैव न गृह्यते सहकारिवैकल्त्यादिति तदाकूतम्–
स्वगुणान् नोपलभन्ते इन्द्रियाणि, कस्मादिति चेत् ?–
सगुणानामिन्द्रियभावात् (गौतमः, न्या.सू., ३।१।७०)
स्वान् गन्धादीन् नोपलभन्ते घ्राणादीनि। केन कारणेनेति चेत् ?, स्वगुणैः सह घ्राणादीनामिन्द्रियभावाद् = घ्राणं स्वेन गन्धेन समानार्थकारिणा सह बाह्यं गन्धं गृह्णाति तस्य स्वगन्धग्रहणं सहकारिवैकल्यान्न भवति, एवं शेषाणामपि (वात्स्यायनः, न्या.भा. ३।१।७०)।
ननु घ्राणादिस्था गन्धादय एव सहकारित्वेन वर्त्तेरन् इति चेत्, न, स्वेनैव स्वस्याग्रहणादिति–
यदि पुनर्गन्धः सहकारी च स्याद् घ्राणस्य ? ग्राह्यश्च (स्यादेव?) इत्यत आह–
तेनैव तस्याऽग्रहणाच्च।।७१।।
न गुणोपलब्धिरिन्द्रियाणाम्। यो ब्रूते– यथा बाह्यं द्रव्यं चक्षुषा गृह्यते, तथा तेनैव चक्षुषा तदेव चक्षुर्गृह्यतामिति तादृगिदम्– तुल्यो ह्युभयत्र प्रतिपत्तिहेत्वभाव इति (वात्स्यायनः, न्या.भा., ३।१।७१)।
ननु श्रोत्रन्तु स्वस्मिन्नेव स्थितं गुणं गृह्णाति। इन्द्रियाणां सगुणत्वात् तद्गुणसाहित्येन इन्द्रियत्वाच्च तेनैव तस्य ग्रहणाभावे श्रोत्रेण स्वगुणा न गृह्येरन्, परं श्रोत्रेन्द्रियेण शब्दग्रहणात् न सगुणानाम् इन्द्रियत्वं सिद्ध्यति–
न, शब्दगुणोपलब्धेः (गौतमः, न्या.सू. ३।१।७२)। एतदेव स्पष्टीक्रियते तत्रस्थेन भाष्यवाक्येन– ‘स्वगुणान् नोपलभन्ते इन्द्रियाणि’ इत्येतन्न भवति– उपलभ्यते हि स्वगुणः शब्दः श्रोत्रेणेति (वात्स्यायनः, न्या.भा. ३।१।७२)।
तत्खण्डनार्थमुच्यते– परं यथा घ्राणादीनां सगन्धादित्वेन इन्द्रियत्वं न तथा सशब्दत्वेन श्रोत्रस्येन्द्रियत्वम्। तथा कथमिति चेद् गन्धशब्दादीनां पारस्परिकवैधर्म्यात्। एतच्च सर्वं स्पष्टीभवत्यधस्तनेन गौतमीयसूत्रेणाथ च तत्रस्थेन भाष्यवचनरचनेन–
तदुपलब्धिरितरेतरद्रव्यगुणवैधर्म्यात्।।७३।। न शब्देन गुणेन सगुणमाकाशमिन्द्रियं भवति, न शब्दः शब्दस्य व्यञ्जकः। न च घ्राणादीनां स्वगुणग्रहणं प्रत्यक्षं नाप्यनुमीयते, अनुमीयते तु श्रोत्रेणाकाशेन शब्दस्य ग्रहणं शब्दगुणत्वं चाकाशस्येति (वात्स्यायनः, न्या.भा. ३।१।७३)।
अत्रेदमपि स्मर्तव्यं भवति यत् श्रोत्रस्य सगुणत्वेनेन्द्रियत्वे श्रोत्रेण स्वस्थितशब्दग्रहाभावे परस्थितशब्दग्रहणार्थं समवायसम्बन्धो न कल्प्यते स्म, अथ चोपरि व्याख्यातेन संयुक्तसमवायसम्बन्धेनैव कार्यं निरुह्यते स्म। परं न तथा वर्त्तते अपितु समवायेन शब्दो गृह्यत इति सिद्धान्तः सिद्धः।
समवेतसमवायसन्निकर्षः
शब्दत्वादिसाक्षात्कारे समवेतसमवायः सन्निकर्षः। एतन्नाम यत् समवायसम्बन्धेन तिष्ठति, तत् समवेतम्। तत्रैव पुनः समवायसम्बन्धेन किञ्चन तिष्ठति चेत् तत् समवेतसमवेतम्– समवेते समवेतमिति यावत्। तस्य ग्रहणे समवेतसमवायसम्बन्धः– समवेतसमवेतत्वसम्बन्ध इति। यथा श्रोत्रेण शब्दो गृह्यते। स च श्रोत्रे एव किञ्च कर्णशष्कल्यवच्छिन्ने आकाश एव समवायेन तिष्ठति। अतः श्रोत्रेण तस्य ग्रहणे समवायश्चेत् तत्र शब्दत्वं पुनः सवायसम्बन्धेन तिष्ठति। तस्य ग्रहणे समवेतसमवायसम्बन्ध इति–
कदा पुनः समवेतसमवायः सन्निकर्षः ? यदा पुनः शब्दसमवेतं शब्दत्वादिकं सामान्यं श्रोत्रेन्द्रियेण गृह्यते, तदा श्रोत्रमिन्द्रियं, शब्दत्वादि सामान्यमर्थः। अनयोः सन्निकर्षः समवेतसमवाय एव। श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् (मिश्रः, १९९५, पृ.८१)।
विशेष्यविशेषणभावः
चक्षुःसंयुक्ते भूतलादौ ‘अत्र घटो नास्ति’ इत्यादिघटाभावप्रत्यक्षे कर्तव्ये विशेष्यविशेषणभावः सन्निकर्षः बोध्यः। तत्र द्रव्यद्रव्ययोः संयोग इति नियमाद् द्रव्य–अभावयोः संयोगस्य चासम्भवात् समवायादीनाञ्चाप्रसक्तत्वाद् विशेष्यविशेषणभावः परिकल्पितः। तथा हि यदा वयं ‘भूतले घटो नास्ति’ इति वदामः, तदा अभावस्य विशेष्यत्वेन भानाद् भूतलस्य च विशेषणत्वेन भानादुभयोर्विशेष्यविशेषणत्वम्। तदेव सम्बन्धं परिकल्प्य न्यायविचक्षणा अभावस्य ग्रहणं विशेष्यविशेषणभावेनेत्याचक्षते–
कदा पुर्नविशेष्यविशेषणभाव इन्द्रियार्थसन्निकर्षो भवति ? यदा चक्षुषा संयुक्ते भूतले घटाभावो गृह्यते ‘इह भूतले घटो नास्ति’ इति तदा विशेष्यविशेषणभावः सम्बन्धः। तदा चक्षुःसंयुक्तस्य भूतलस्य घटाद्यभावो विशेषणं, भूतलं विशेष्यम् (मिश्रः, १९९५, पृ.८२)।
अत्र विशेष्यविशेषणभावपदगतभावपदं विशेषणपदे विशेष्यपदे च योज्यम्। तावता च विशेष्यत्वं विशेषणत्वञ्च भवति। एतावता सम्बन्धद्वयमित्यपि सिद्ध्यति। पुनरत्र दृढीभवामः– ‘भूतले घटाभावः’ इत्यत्र घटाभावो विशेष्यम्, भूतलञ्च विशेषणम्। अभावस्य ग्राह्यविषयत्वान्न्यायशास्त्रे प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधस्वीकाराच्च विशेष्यत्वेनैव तद्ग्रहणाद् विशेष्यत्वसन्निकर्षः। ‘घटाभाववद् भूतलम्’ इत्यत्र भूतलं विशेष्यम्। अभावश्च विशेषणम्। अतोऽभावस्य भूतलनिष्ठविशेष्यतानिरूपितविशेषणत्वात् तद्रूपेणैव ग्रहणात् स एव सन्निकर्ष इति न्यायविचक्षणानामभिमतिः। परं शाब्दबोधे शब्दप्रयोगाधीनत्वे भेदसत्त्वेऽपि वस्तुगत्या विशेष्यविशेषणभावस्य व्यत्यासाभावादाधाराधेयभाववद् विशेष्यविशेषणभावः किंवा विशेषणविशेष्यभाव एव सन्निकर्ष इत्यपरे। एतदेव मतमादाय तर्कभाषाकारेण ‘इह भूतले घटो नास्ति’ इति तदा विशेष्यविशेषणभावः सम्बन्धः। तदा चक्षुःसंयुक्तस्य भूतलस्य घटाद्यभावो विशेषणं, भूतलं विशेष्यम् (मिश्रः, १९९५, पृ.८२) इत्याद्यभिव्यक्तमित्यनुमीयते।
इदमत्राकूतम्– ‘घटाभाववद् भूतलम्, किंवा ‘भूतले घटाभावः’ इत्यत्र अभावो गृह्यमाणो वर्त्तते। तद्ग्राहकञ्च चक्षुः। चक्षुर्नाम तैजसम्। तेजसो द्रव्यत्वाच्चक्षुषोऽपि द्रव्यत्वं निराबाधम्। द्रव्याभावयोः संयोगादेरसम्भवादत्र कोऽयम् सम्बन्ध इति विचिकित्सा स्वाभाविकी। भूतलगतघटाभावबोधार्थं द्विधा व्यवहारो जायते। एको ‘घटाभाववद् भूतलम्’ अन्यश्च ‘भूतले घटाभावः’ इति। उभत्रयापि को भेदः ? इति चेद् आदौ भूतलं विशेष्यञ्चेद् अन्त्ये घटाभावः विशेष्यम्। तत्रादौ किंवा ‘घटाभाववद् भूतलम्’ इत्यत्र भूतले घटाभावो विद्यते। स च संयोगादिना नाऽऽस्ते अथ च स्वरूपेणैव। स्वरूपेण नाम नान्यं सम्बन्धं कल्पते अथ च स्वं रूपमेव सम्बन्धं कल्पयित्वा तिष्ठति। एतावता घटाभावनिष्ठा वृत्तिता स्वरूपसम्बन्धावच्छिन्ना। सैव विशेषणता। या घटाभावे वर्त्तते। तथा च ‘घटाभाववद् भूतलमि’त्यत्र अभावप्रत्यक्षे इन्द्रियसम्बन्धविशेषणता हेतुरिति। एवमेव यदा ‘भूतले घटाभावः’ इति बोधो जायते तदा घटाभावो विशेष्यम्। ‘घटाभावो वर्त्तते’ इति व्यवहारात् तत्रस्था विशेष्यता घटाभावनिष्ठवृत्तिताया अवच्छेदिका। सा च वृत्तिता भूतलनिष्ठविशेषणतानिरूपिता (भूतलनिरूपिता)। ‘भूतले घटाभावः’ इत्यत्र अस्माकं बोधस्य विषयस्तावद् अभावः किंवा घटाभावः। तत्र भूतले घटाभावस्य वर्त्तनाद् भूतलं तेनैव सम्बन्धेन (वृत्तितासम्बन्धेन) घटाभावस्य विशेषणं घटाभावो विशेष्यम्, ‘भूतलवृत्तितावान् घटाभावः’ इति तदर्थत्वात्। अतः ‘भूतले घटाभावः’ इत्यत्र घटाभावप्रत्यक्षे चक्षुःसंयुक्तभूतलनिरूपितविशेष्यताख्यः सन्निकर्षः कारणमिति। ‘घटाभाववद् भूतलम्’ इत्यत्र तु भूतलं विशेष्यम्, अभावश्च विशेषणम्। तदा चक्षुःसंयुक्तभूतलनिरूपितविशेषणताख्यः सन्निकर्षो बोध्यः इति सन्निकर्षद्वयमतावलम्बिनां हृदयम्। इतरमतमादायेदमित्थं व्याकर्तुं सुशकम्– विशेषणं विशेष्यञ्च न निरपेक्षमपि तु सापेक्षमेव। एतावता किमपेक्ष्य विशेष्यं विशेषणञ्च भवति इति चेच्छ्रूयताम्– भूतले घटो नास्ति इत्यत्र भूतले घटाभावः तत्र घटश्च विशेषणम्। भूतलञ्च विशेष्यम्। तदेव सम्बन्धं परिकल्प्य व्यवह्रियते। किञ्चित् स्पष्टीभवामः– घटवद् भूतलम् इति व्यवहारतो घटाभाववद् भूतलमिति व्यवहारो भिद्यते तद्वैलक्षण्यात्। अत्र भूतलं तावद् घटाभावविशिष्टम्। एतावता च घटाभावो विशेषणम्। भूतलञ्च विशेष्यम्। तथा ह्युभययोर्विशेष्यविशेषणभावः। विशेषणं विशेष्यञ्च तयोरेव सम्भवि ययोः कश्चन सम्बन्धः स्यात्। तावता च भूतल–अभावयोः कश्चन सम्बन्धः कल्पनीयः। तत्र संयोगः न सम्भवति द्रव्ययोरेव संयोगात्। अत्र च भूतलस्य द्रव्यत्वेऽपि अभावस्य तदभावात्। समवायोऽप्यसम्भवी भावस्यैव समवायात्। कालिकदैशिकादीनाञ्चासत्त्वाद् घटाभावभूतलयोः स्वरूपमेव सम्बन्धत्वेन आदरणीयः। एतावताऽभावात्मकविशेषणस्वरूपे सम्बन्धत्वेन गृहीते सति तच्च विशेषणतापदेन व्यवह्रियते। अथ च भूतलाद्यात्मकविशेष्यस्वरूपे सम्बन्धत्वेन गृहीते विशेष्यतापदेन व्यवह्रियते। एतदेव व्याकर्तुं भूतलघटाभावसम्बन्धो विशेष्यविशेषणभावः किंवा विशेषणविशेष्यभावपदेन ज्ञाप्यते। परं सामान्यतो न्यायसिद्धान्तरीत्या तु विशेष्यभावपदस्य विशेषणभावपदस्य वा प्रयोगोऽवलम्ब्यते। एतावता ‘घटाभाववद् भूतलम्’ इत्यत्र अभावश्चक्षुःसंयुक्तविशेषणतासम्बन्धेन ग्राह्यश्चेद ‘भूतले घटाभावः’ इत्यत्र चक्षुःसंयुक्तविशेष्यतासम्बन्धेन ग्राह्यः। तत्रापि प्रायः प्रयोगे तूभयत्रापि विशेषणतापदमेव दृश्यते। तच्च वस्तुतस्तु न्यायसिद्धान्तं पुरस्कृत कृतस्य शब्दप्रयोगस्य दृष्ट्या यद्वा तद्वा भवतु वस्तुदृष्ट्या तु अभावस्य सर्वदा विशेषणत्वात् तथा प्रयोगाच्चेति विवेकः। उपरि व्याख्याने ‘सामान्यतः’ इति किमर्थमिति चेत् कैश्चित्तु विशेष्यविशेषणभावपदस्यापि प्रयुक्तत्वात्। यथा केशवमिश्रेण ‘इह भूतले घटो नास्ति’ इति तदा विशेष्यविशेषणभावः सम्बन्धः (मिश्रः, १९९५, पृ.८२) इत्यादिकमुक्तम्।
ननु अत्र घटवद् भूतलमित्यादिषु विशेष्यविशेषणभावेन निरपेक्षाभावो गृह्यते वेति चेन्न, तथा असम्भवात्। किं तर्हि इति चेद् इतः पूर्वं व्याकृतेषु संयोग–संयुक्तसमवाय–संयुक्तसमवेतसमवाय–समवाय–समवेतसमवायेषु एकतमेन सम्बन्धेन सम्बद्धेन यथायथं विशेष्यविशेषणभावरूपेण सन्निकर्षेणैकतमेन सम्बन्धेन सम्बद्धस्याभावो गृह्यते। एतन्नाम ‘भूतले घटाभावः’ किञ्च ‘घटाभाववद् भूतलमि’त्यत्र संयुक्तविशेषणविशेष्यभावसन्निकर्षेणाभावो गृह्यते। तन्नाम ‘भूतले घटाभावः’ इत्यत्र चक्षुःसंयुक्तं भूतलं तद्विशेष्यभावेन (संयुक्तविशेष्यभावेन) घटाभावो गृह्यते। ‘घटाभाववद् भूतलमि’त्यत्र तु संयुक्तविशेषणभावसन्निकर्षेण। ‘घटरूपे घटाभावः’ इत्यत्र पुनः चक्षुःसंयुक्तसमवेतविशेष्यभावसन्निकर्षेण। ‘घटाभाववद् घटरूपम्’ इत्यत्र चक्षुःसंयुक्तसमवेतविशेषणभावसन्निकर्षेणेति। एवमेव घटरूपस्थरूपत्वे घटाभावग्रहणे चक्षुःसंयुक्तसमवेतसमवेतविशेष्यभावसन्निकर्षो हेतुः। एवमेव ‘घटाभाववद् घटरूपत्वम्’ इत्यत्र तु चक्षुःसंयुक्तसमवेतसमवेतविशेषणभावसन्निकर्षः। एवमेव ‘कवर्णे खत्वाभावः’ इति प्रत्यक्षं श्रोत्रसमवेतविशेष्यभावसम्बन्धेन जायते। ‘खत्वाभाववान् कवर्णः’ इत्यत्र तु श्रोत्रसमवेतविशेषणभावसन्निकर्षेण। एवमेव कत्वे खत्वाभावस्य प्रत्यक्षं पुनः श्रोत्रसमवेतसमवेतविशेष्यभावसम्बन्धेन। अथ च ‘खत्वाभाववद् कत्वम्’ इति प्रत्यक्षं पुनः श्रोत्रसमवेतसमवेतविशेषणभावसम्बन्धेन जायते। एवमेवान्यत्रापि ऊह्यम्।
वस्तुतस्तूपर्युक्तस्य विवेचनस्य व्यवहारानुगतत्वाद् यथायथं विशेष्यतासन्निकर्षः, विशेषणतासन्निकर्ष इति सन्निकर्षद्वयं सिद्ध्यति। परं मुक्तावलीकारेण तु द्विविधेऽपि स्वरूपे विशेषणतासन्निकर्षपदस्यैव प्रयोगः कृतो लभ्यते। तत्र बीजञ्च वस्तुगत्याभावस्य सर्वदापि विशेषणत्वाभिमतिरित्यनुमीयते। यच्चात्रापि लेखनव्यापारे संसूचितपूर्वमेव–
अभावप्रत्यक्ष इति। विशेषण–विशेष्यभावो नाम विशेषणतासन्निकर्षः। पञ्चविधसन्निकर्षाणामुपरि विशेषणता योजनीया। तथा हि– द्रव्याधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता। द्रव्यसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता। द्रव्यसमवेतसमवेताधिकरणकाभावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता। संयोगस्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं घटयित्वा अभावप्रत्यक्षस्थलं निर्वाह्यम। तथा घटद्रव्यसमवेतं घटत्वं पृथ्वीत्वादिकं रूपादिकं च। तत्र नीलादौ पीतत्वाभावः घटत्वादिजातौ पटत्वाभावश्च वर्तते, स चाभावः सयुक्तसमवेतविशेषणतासन्निकर्षेण गृह्यते। एवं नीलत्वादिजातौ पीतत्वाभावोऽपीन्द्रियसंयुक्तसमवेतसमवेतविशेषणतासन्निकर्षेण गृह्यते, घटसमवेतं नीलं तत्समवेतं नीलत्वं तद्विशेषणता पीतत्वाभावे वर्तते इति सङ्क्षेपः (भट्टः, २००३, पृ.८२– न्या.बो.)।
मणिकारेण केवलविशेषणता–इन्द्रियसम्बद्धविशेषणताभेदेन विशेषणताया द्वैविध्यमभिमतम्। तत्र इन्द्रियसम्बद्धविशेषणता तूक्तरीत्या पञ्चविधा। केवलविशेषणता हि शब्दाभाववद् आकाशमित्यत्र ज्ञेयम्। तच्च पुनः मणिकृतो विशेषणतया शब्दाभावस्य, इन्द्रियसम्बद्धविशेषणतया समवायघटाभावादेर्योग्यसन्निकर्षादेव ग्रहः (गङ्गेशोपाध्यायः, १९९०, पृ. ५७६) इति वचनररचनात् पुष्यति।
निष्कर्षः
न्यायवैशेषिकशास्त्रयोः प्रत्यक्षज्ञानाय व्यापारत्वेन सन्निकर्ष उररीक्रियते। तत्र ‘सम् नी’त्युपसर्गपूर्वकात् कृषधातो घञि निष्पन्नस्य सन्निकर्षस्यावयवार्थः सान्निध्यं सम्बन्धो वा। स च लौकिकालौकिकभेदेन द्विविधो वर्त्तते। लोकप्रसिद्धसंयोगादिरूपेण प्रथितः सन्निकर्षो लौकिकश्चेत् तद्भिन्नोऽलौकिकः। लौकिकश्च भावपदार्थग्रहणार्थं पञ्चधा व्यवस्थापितः। तथा हि द्रव्यग्रहणार्थं संयोगः। द्रव्यगतानां रूपादिगुणानां ग्रहणार्थं संयुक्तसमवायः। तद्गतानां रूपत्वादीनां ग्रहणार्थं संयुक्तसमवेतसमवायः। अथ च शब्दग्रहणार्थं समवायः। शब्दग्राहकेण श्रोत्रेण स्वसमवेतं शब्दं गृह्णाति चेद् घ्राणादीनि तु स्वसमेवतगन्धादिकं न गृह्णन्ति। तेषां सगुणत्वेनैवेन्द्रियत्वात्, श्रोत्रस्य तु निर्गुणत्वेऽपि इन्द्रियत्वमित्येतावान् विशेषः। शब्दत्वग्रहणे समवेतसमवायः सन्निकर्षः। अभावग्रहणे विशेष्यविशेषणभावः सम्बन्धः। सन्निकर्षद्वयमतावलम्बिनस्तु यथायथं विशेष्यभावो विशेषणभावश्चेति। अन्ये तु विशेषणताख्य इति विवेकः। अयञ्च उपरिष्टाद् व्याख्यातेषु संयोग–संयुक्तसमवाय–संयुक्तसमवेतसमवाय–समवाय–समवेतसमवायेष्वन्यतमेन सम्बन्धेन सम्बद्धः सन्नभावग्रहणहेतुर्भवति।
सन्दर्भग्रन्थसूचीः
उदयनाचार्यः (१९१९), किरणावली, सम्पादक– विन्ध्येश्वरीप्रसाद द्विवेदी, वाराणसी : वनारस संस्कृत सिरिज।
उपाध्याय, बलदेव (प्र.सम्पा.) (वै.२०५६), संस्कृत–वाङ्मय का बृहत् इतिहास (नवम खण्ड), लखनऊ : उत्तर प्रदेश संस्कृत संस्थान ।
कणादः (२००४), वैशेषिकसूत्रम्, षड्दर्शनसूत्रसङ्ग्रहे सङ्गृहीतम्, सम्पा. जे.एल.गुप्तः, वाराणसी : चौखम्बा संस्कृत प्रतिष्ठान ।
कृष्णमूर्त्तिः, जि.एस.आर. (प्रधानसम्पा.) (२०२३), महस्विनी, सन्निकर्षविचारः (पृ.७७–८४), तिरूपतिः : राष्ट्रियसंस्कृतविश्वविद्यालयः।
गङ्गेशोपाध्यायः(१९९०), तत्त्वचिन्तामणिः (प्रथमखण्डः), श्रीमथुरानाथकृत’रहस्य’नामकटीकासहितम्, सम्पादकः– कामाख्यानाथतर्कवागीशः, वाराणसी : चौखम्बा संस्कृत प्रतिष्ठान ।
गिरिः, काशिकानन्दः (२००१), द्वादशदर्शनसङ्ग्रहः, वाराणसी : श्री स्वामी काशिकानन्दजी ट्रस्ट ।
गौतमः (१९८६), न्यायदर्शनम्, वात्स्यायनभाष्यसहितम्, विश्वनाथवृत्तियुतञ्च, श्रीमज्जीवानन्दविद्यासागरभट्टा–चार्यात्मजाभ्यां पण्डित–श्रीआशुबोध–विद्याभूषण–पण्डितश्रीनित्यबोधविद्यारत्नाभ्यां सम्पादितम्, दिल्ली : चौखम्बा संस्कृत प्रतिष्ठान।
… (२००४), न्यायसूत्रम्, षड्दर्शनसूत्रसङ्ग्रहे सङ्गृहीतम्, सम्पा. जे.एल.गुप्तः, वाराणसी : चौखम्बा संस्कृत प्रतिष्ठान ।
दीक्षितः, भट्टोजिः (१९८९), वैयाकरणसिद्धान्तकौमुदी, पुनर्मुद्रित संस्करण, वाराणसी : चौखम्बा विद्याभवन।
पाणिनिः (२०००), धातुपाठः, सम्पा.नरेश झा, वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
… (२०१९), अष्टाध्यायी, पदच्छेदवृत्तिवार्त्तिकटिप्पणीसहिता, परिष्कर्ता श्रीगोपालशास्त्री, वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
प्रशस्तपादाचार्यः (१९९७), प्रशस्तपादभाष्यम्, न्यायकन्दलीयुतम्, सम्पादकः, हिन्दीव्याख्याकारश्च– श्रीदुर्गानन्द झा, वाराणसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालय ।
भट्टः, अन्नम् (२००३), तर्कसङ्ग्रहः, गोवर्द्धनाचार्यकृत–न्यायबोधिनी–चन्द्रजसिंहकृतपदकृत्य–अन्नम्भट्टकृत–दीपिका–श्रीकृष्णवल्लभाचार्यकृत–किरणावली–व्याख्योपेतः, पुनर्मुद्रित संस्करण, वाराणसी : चौखम्बा संस्कृत संस्थान ।
… (२००७), तर्कसङ्ग्रहः, आलोकव्याख्याटिप्पणीभ्यां संवलितः, व्याख्याकारः– वरदाचार्यः, महीशूरपुरी : आर्षग्रन्थप्रकाशनम् ।
भट्टः, जयन्तः (१९८२), न्यायमञ्जरी, ग्रन्थिभङ्गव्याख्यया संवलिता, व्याख्याता– चक्रधरः, प्रथमो भागः, १–४ आह्निकयुतः, वाराणसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालय।
भट्टाचार्यः, विश्वनाथपञ्चाननः (वै.२०५२), न्यायसिद्धान्तमुक्तावली, श्रीकृष्णवल्लभाचार्यकृत–किरणावलीव्याख्योपेता, पञ्चम संस्करण, वाराणसी : चौखम्भा संस्कृत संस्थान ।
भारद्वोजोद्योतकरः (१९९७), न्यायवार्त्तिकम्, अनन्तलालठक्कुरेण संस्कृतम्, दिल्ली : भारतीयदार्शनिकानुसन्धानपरिषद् ।
भासर्वज्ञः (२००४), न्यायभूषणम्, सम्पा. स्वामी योगीन्द्रानन्दः, पुनर्मुद्रित संस्करण, वाराणसी : चौखम्बा विद्याभवन ।
मिश्रः, केशवः (१९९५), तर्कभाषा, माधुरी हिन्दीव्याख्योपेता, तृतीयं संस्करणम्, वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
वात्स्यायनः (१९९८), न्यायभाष्यम्, प्रसन्नपदापरिभूषितम्, व्याख्याता सुदर्शनाचार्यः, अभिनवसंस्करणम्, वाराणसी : बौद्धभारती ।
व्योमशिवाचार्यः (१९८४), व्योमवती (द्वितीयो भागः), वाराणसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालय।