अस्मिन् शोधालेखे न्यायशास्त्रे प्रतिपादितानां मोक्षोपयोगित्वेन निर्दिष्टानां द्वादशप्रमेयाणां विशेषतो मोक्षहेतुत्वेन प्रतिपादनमस्ति। न्यायसूत्रे आत्मादयो द्वादशः पदार्थाः प्रमेयत्वेन गृह्यन्ते। ते च आत्मा‚ शरीरम्‚ इन्द्रियाणि‚ बुद्धिः‚ मनः‚ प्रवृत्तिः‚ दोषः, प्रेत्याभावः‚ फलम्‚ दुःखम्, अपवर्गश्चेति। कथमेतेषामेव प्रमेयत्वेन ग्रहणं क्रियत इति अस्मिन् शोधालेखे विवेचितं वर्तते।
तुलसीपौडेलः
उपप्राध्यापकः, न्यायविभागस्य
पिण्डेश्वरविद्यापीठम्, धराननगरम्, नेपालः।
Email : – shubharahos@gmail.com
लेखसारः
अस्मिन् शोधालेखे न्यायशास्त्रे प्रतिपादितानां मोक्षोपयोगित्वेन निर्दिष्टानां द्वादशप्रमेयाणां विशेषतो मोक्षहेतुत्वेन प्रतिपादनमस्ति। न्यायसूत्रे आत्मादयो द्वादशः पदार्थाः प्रमेयत्वेन गृह्यन्ते। ते च आत्मा‚ शरीरम्‚ इन्द्रियाणि‚ बुद्धिः‚ मनः‚ प्रवृत्तिः‚ दोषः, प्रेत्याभावः‚ फलम्‚ दुःखम्, अपवर्गश्चेति। कथमेतेषामेव प्रमेयत्वेन ग्रहणं क्रियत इति अस्मिन् शोधालेखे विवेचितं वर्तते। तथा च प्रमेयाणां निरूपणम्‚ मुक्तौ प्रमेयतत्वानां ज्ञानम्‚ तस्य हेतुता मुक्तौ भवति न वेति शोधालेखस्य प्रतिपाद्यो विषये वर्तते। सर्वमपि विचारः प्रामाणिकग्रन्थानुसारं विहितमस्ति। एतस्मिन् विषये विशेषान्वेषणम् अस्मिन् शोधालेखे कृतमस्ति। प्रमेयाणां व्याख्या विश्लेषणञ्च प्रचलितपद्धतिमनुसृत्यैव कृतमस्ति। ताः पद्धतयः आगमननिमनविश्लेषणादयो वर्तन्ते। न्यायदर्शनपरिचयपूर्वकं न्यायसम्मतप्रमेयं सम्यग् समालोच्य मुक्तौ आत्मादिप्रमेयपदार्थानां यथार्थज्ञानमावश्यकमिति निष्कर्षो विहितास्य शोधालेखस्य।
शब्दकुञ्जी – प्रमेयः‚ निश्रेयस्‚ मोक्षः‚ तत्त्वज्ञानम्‚ आत्मा।
विषयपरिचयः
प्रेक्षार्थकदृशिर्धातोः भावे करणे चार्थे ल्युट्यनादेशे दर्शनशब्दो निष्पद्यते। विवेचकैः दर्शनशब्दस्य विवेचना विविधया पद्धत्या विभिन्नार्थेषु च कृता दृश्यते। तेष्वर्थेषु ‘दृश्यते ज्ञायते अनेन इति’ करणार्थे निष्पन्नः दर्शनशब्दः विशेषप्रयुक्तो दृश्यते। अनया व्युत्पत्त्या दर्शनशब्दस्यार्थः ज्ञानस्य साधनं भवति। प्रसङ्गात् कतिपयावस्थासु दर्शनशब्दस्यार्थः दृष्टिः ज्ञानमपि क्रियते। प्रदर्शितव्युत्पत्त्यनुसारेण – दर्शनं नाम यथार्थज्ञानस्य साधनम्। अनया व्युत्पत्त्या – येन साधनेन समस्तवस्तूनां यथार्थज्ञानं जायते तदेव दर्शनमिति दर्शनशब्दस्यार्थः प्रस्फूटितो भवति। तानि च दर्शनानि असंख्यकानि, तथापि मुख्यत्वेन द्वादशदर्शनानि सुप्रसिद्धानि। तेष्वपि च आस्तिकनास्तिकभेदेन दर्शनद्वयमुपलभ्यते। वेदस्य प्रामाण्यमङ्गीकृत्य तदनुकूलसिद्धान्तप्रतिष्ठापकानि दर्शनानि आस्तिकदर्शनानि। वेदस्य प्रामाण्यमनङ्गीकृत्य तद्विपरीतमतप्रतिष्ठापकदर्शनानि च नास्तिकदर्शनानि भवन्ति। तथा च नास्तिकदर्शनानि चार्वाकदर्शनम्‚ बौद्धदर्शनम् जैनदर्शनम् चैतानि लोके सुप्रसिद्धानि सन्ति। एतेषामेव नास्तिकशब्देन लोके व्यवहारः क्रियते। नास्तिकदर्शने बौद्धदर्शनस्यापि माध्यमिक-योगाचार-सौत्रान्तिक-वैभाषिकेति चत्वारो भेदा वर्तन्ते। तानि च आहत्य षट्संख्यकानि नास्तिकदर्शनानि। न्यायवैशेषिकसांख्ययोगमीमांसावेदान्तदर्शनानि आस्तिकदर्शनानि। तेषु आस्तिकदर्शनेषु न्यायवैशेषिकयोः सर्वशास्त्रोपकारकत्वात् दर्शनक्षेत्रे महत्त्वं सातिशयं गौरवास्पदमस्ति। तत्र गौतमप्रणितं न्यायशास्त्रं साम्प्रतं पौरस्त्यदर्शनस्य प्रवेशमार्गो वर्तते। न्यायपथानुगमनेन पौरस्त्यवाङ्मयस्य यथार्थबोधो जायत इति। साम्प्रतं न्यायदर्शनमाश्रित्य मुक्तौ प्रमेयतत्त्वज्ञानहेतुविचारः इति शीर्षकमादाय शोधलेखलेखनप्रारम्भात् न्यायदर्शनस्य सङ्क्षेपेण परिचयः प्रस्तूयते।
न्यायदर्शनम्
इदं दर्शनमत्यन्तं प्राचीनतमम्। नि-उपसर्गपूर्वक-गत्यर्थकात् इण् धातोः भावार्थे करणार्थे वा घञ् प्रत्यये जाते न्यायशब्दो निष्पद्यते। न्यायदर्शनस्यास्य प्रवर्तक आचार्यः गौतमो वर्तते। अस्यैवापरा संज्ञा अक्षपादोऽपि प्रचलितो विद्यते। अनेन सर्वप्रथमं न्यायसूत्रं विरचितम्। तदातनतः अधुना यावत् न्यायशास्त्रस्य निर्मला धारा गण्डकीव निरवच्छिन्नगत्या भुवि प्रचलन्ती दृश्यते। ‘नीयते प्राप्यते यथार्थवस्तुज्ञानम्’ येन स न्यायः इति न्यायशब्दस्यार्थः। भाष्यकारेण प्रमाणैरर्थपरीक्षणं न्याय इति भाष्ये प्रतिपादितमस्ति (न्यायभाष्यम्‚ ई.१९८६‚ पृ.४)। लोके न्यायशब्दस्य प्रयोगो दृष्टान्तार्थाय अपि कृतो दृश्यते। यथा सुन्दोपसुन्दः, काकतालीयः इति। लौकिकन्यायार्थाय अपि प्रयोगो मिलति यथा– बीजाङ्कुरन्यायः प्रशिद्धो वर्तते। परन्तु ते अर्थाः दर्शनस्य नैव पोषकाः। न्यायशब्दस्य निर्वचनादिकं न्यायभाष्ये विशेषरूपेण प्रतिपादितं दृश्यते। भाष्यकारेण न्यायस्यैवापरं नाम आन्वीक्षिकीशास्त्रमिति उक्तम्। ‘प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा तया प्रवर्तते इत्यान्वीक्षिकी’ (न्यायदर्शनम्‚ पृ. ०४ )। कतिपयस्थलेषु न्यायशास्त्रस्य तर्कशास्त्रत्वेन व्यवहारः कृतोऽपि दृश्यते । अन्नंभट्टेन केशवमिश्रेण च तर्कशब्दस्यैव प्रयोगं विधाय स्वकीयग्रन्थस्य संज्ञा निर्धारिता। तर्कसंग्रहकारस्य व्याख्यातृणा तर्कस्य निर्वचनम् – ‘तर्क्यन्ते प्रमितिविषयी क्रियन्ते’ इति विहितमस्ति (तर्कसंग्रहः‚ पृ.२ )। तर्कस्य शास्त्रं तर्कशास्त्रम्। तदेव न्यायशास्त्रम्। न्यायविद्या हेतुविद्या च कथ्यते। एतावता च विमर्शणेन न्यायशास्त्रस्य तर्कशास्त्रम्‚ आन्वीक्षिकी‚ हेतुविद्या च एतानि नामानि पर्यायत्वेन प्रचलितानि दृश्यन्ते।
एतादृशस्य न्यायशास्त्रस्य विकाशः प्राचीननव्यभेदेन द्विविधया पद्धत्या चाभूदिति। प्राचीनन्याये पदार्थनिरूपणं विशेषतः क्रियते। अतः एव तत्वज्ञानविषयकमीमांसा प्राचीनन्यायस्य प्रतिपाद्यो विषयः। नव्यन्याये प्रमाणमीमांसायाः महत्तरं विवेचनं कृतं दृश्यते। प्रमाणानां गभीरविवेचनम्, लक्षणपरिष्कारशैली‚ भाषापरिष्करणञ्च नव्यन्याये दृश्यते। एतादृशं न्यायशास्त्रं सर्वविद्यानां प्रदीपत्वेन लोके सुपरिचितोऽपि वर्तते। उक्तञ्च न्यायभाष्ये– प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। आश्रयः सर्वधर्माणां विद्योदेशे प्रकीर्तिताः।। (न्यायभाष्यम्‚ ई.१९८६‚ पृ. ८)। न्यायशास्त्रस्य प्रदीपकत्वं सर्वैरपि अनुभूतो विषय एव। न्यायशास्त्राध्ययनं विना शास्त्रान्तरे प्रवेशः क्लेशकरोऽनुभूयते। तेन न्यायशास्त्रस्य प्रदीपकत्वं सिद्ध्यतीति। न्यायशास्त्रं विना नास्तिकानां कुतर्कानां निरसनमपि क्लेशकरमेव भवति सर्वदैव। एतदर्थमपि न्यायशास्त्रस्योपयोगित्वं सर्वथा सुग्राह्यमेव। न्यायदर्शनस्य मुख्योद्देश्यं नास्तिकमतखण्डनपूर्वकं वेदसंरक्षणमस्ति। तदतिरिक्तं न्यायस्य भाषाशैल्यादयोऽनुकरणीया वर्तन्ते। सर्वैरपि दर्शनशास्त्रकारैः न्यायशास्त्रानुकरणं कृतमेव। एवञ्च न्यायदर्शनस्य मुख्योद्देश्यत्वेन परमनिःश्रेयस् अपि गृहीतं भवति। सूत्रकारेणैव तस्य न्यायशास्त्रस्य मुख्योद्देश्यत्वेन निर्दिष्टमस्ति (न्या.सू १।१।१)। मुक्तिः निश्रेयसः मोक्षः एते समानार्थकाः। मोक्षस्य कृते तावत् प्रमाणैः प्रमेयादिपदार्थपरिशीलनं प्रथमं कर्तव्यम्। तेन परीशीलनेन मननेन वा प्रमाणप्रमेयादिषोडशपदार्थानां तत्त्वज्ञानं भवति। तेषां तत्त्वज्ञानान्तरं मोक्षप्राप्तिर्भवतीति सूत्रकारस्य वचनम्। प्रमेयत्वेन सर्वमपि पदार्थजातं स्वीकर्तुं शक्नुमः। तथापि तत्त्वज्ञानस्योपकाराय न्यायदर्शने आत्मादिद्वादशप्रमेयाणि प्रतिपादितानि। एतेषां प्रमेयाणां प्रतिपादनं दर्शनेऽस्मिन् महत्त्वपूर्णविषयत्वेन गृह्यते। अत्र च विचारणीयो विषयोऽयं न केवलं न्यायशास्त्रे अपितु पौरस्त्यदर्शनेष्वपि प्रमेयाणां महत्त्वं विशेषेण वर्तते। साङ्ख्याचार्येण ईश्वरकृष्णेनोक्तम् यत् प्रमेयाणां सिद्धिः प्रमाणद्वारा एव भवतीति। एवञ्च प्रमेयाणां सङ्केतः श्रीन्यायभास्यकारैरपि भाष्यारम्भे कृतं वर्तते यथा- ‘प्रमाणतोऽर्थः प्रतिपत्तौ प्रवृत्तिसामर्थ्यात्’ इति (न्यायभाष्यम्‚ पृ. १)। अत्र अर्थशब्देन प्रमेयाणां सङ्केतः कृतो वर्तत इति। अनेन च ज्ञायते प्रमेयज्ञानाय प्रमाणस्य प्रवर्तनमभूदिति। तेन प्रमेयपदार्थः मुख्यः। तस्य साधनं प्रमाणम् इति। तथैव प्रमेयः साध्यस्थले वर्तमानो दृश्यते सर्वत्र दर्शनशास्त्रे। अस्य शब्दस्यार्थः – प्रमाया विषय प्रमेय इत्येव भवति। भाष्यकारैरुक्तं यत् – योऽर्थः प्रमीयते तत् प्रमेयम्। (न्यायभाष्यम्‚ पृ.३) अर्थात् यः पदार्थः ज्ञानविषयी भवति तत् प्रमेयम्। अनया सर्वमपि पदार्थजातं प्रमेयत्वेन व्यवहृतं भवति, यदुपरि उक्तं तदनेनेन प्रमेयनिर्वचनेन लभ्यते। । परन्तु मुक्त्यर्थं सकलवस्तुज्ञानोपादानं नैवावश्यकम्। तथा च तदर्थमाचार्येण गौतमेनैव द्वादशानां आत्माशरीरेन्द्रियार्थबुद्धमनःप्रवृत्तिदोषप्रेत्याभावफलदुःखापवर्गानां ज्ञानं विशेषहेतुः भवतीति प्रतिपादनाय प्रमेयरूपेण पृथगुपदिष्टम् (न्या.सू. १।१।९)। प्रमेयत्वेन आत्मादिपदार्थानां ज्ञानमावश्यकमस्तीति न्यायदर्शने प्रतिपाद्यते। परन्तु अत्र विशेषज्ञानाय एतेषां महत्वप्रतिपादनाय तथा सूचितमिति दृश्यते। तथा च न्यायशास्त्रे प्रमाणादिषोडशपदार्थानां तत्वज्ञानात् निश्रेयसः प्राप्तिर्भवतीति वर्ण्यते। ते प्रमाणादिपादार्था अधुना विषयगौरवात् नैव चर्च्यन्ते। तत्वज्ञानानन्तरं यः मोक्षलाभो भवति सः कीदृशः इति विचार्यते चेत् तस्य कृते श्रीमता सूत्रकारेणैव उक्तम् – ‘तदत्यन्तविमोक्षऽपवर्गः’ (न्या. सू. १।१।२२।)। सूत्रस्थितेन तत्-शब्देन दुःखस्य ग्रहणं भवति। तस्माद् विमुक्तिः अपवर्गो भवति। तथा च न्यायदर्शनस्य मोक्षः सुखदुःखानुभवविहीनो भवतीति। भासर्वज्ञं विहाय सर्वैरपि नैयायिकैः मोक्षस्य एवमेवास्था स्वीक्रियते। कतिपयैश्च दार्शनिकैः न्यायवैशेषिकस्य मोक्षावस्थायाः एतादृशीं स्थितिं विज्ञाय तस्याः परिहासः क्रियते।
मुक्तौ प्रमेयतत्त्वज्ञानहेतुमधिकृत्य प्रकारान्तरेण बाहुल्येनैव च प्राच्यार्वाच्यैः विद्वद्भिश्च शोधानुसन्धानं विहितं दृश्यते। तत्र च डा. दयाशङ्करशास्त्रिवर्येण मिथ्याज्ञानं हि संसारकारणम्‚ तस्य विनाशद्वारा अपवर्गस्य प्राप्तिर्भवतीति प्रतिपादितम्। तथा च आत्मादिप्रमेयाणां विपरीतज्ञानं हि मिथ्याज्ञानं भवति। आत्मादिप्रमेयाणां यथार्थज्ञानञ्च तत्त्वज्ञामिति उक्तं वर्तते (शास्त्री‚ ई. २००४‚ पृ.२८२)। परन्तु तत्र एतेषामेव ज्ञानं कथं मुक्तौ हेतुत्वेन स्वीक्रियते इति तत्र नैवोपपादितम्। तथा च डा. रमाशङ्करत्रिपाठीवर्येणाऽपि जन्ममरणरूपदुःखस्य सर्वदा विनाश एव मोक्षशब्देन निगद्यते इत्युक्तमस्ति। तदर्थं श्रवणमनननिदिध्यासनानि साधनानि सहायकानि भवन्तीति प्रतिपादितम् (त्रिपाठी‚ वि.सं. २०५७‚ पृ. २१२ )। एवञ्च तत्र प्राध्यापकेन पद्मप्रसादभट्टराईमहोदयेनाऽपि मिथ्याज्ञानस्य नाशः तत्त्वज्ञानेन भवति‚ तत्त्वज्ञानञ्च मोक्षस्य कृते हेतुर्भवति इत्युक्तम् (भट्टराई‚ वि.सं. २०७४‚ पृ. ५१)। तेन तत्वज्ञानेन दोषादिनां नाशो भवतीति तत्र दिङ्मात्रं निर्देशितं वर्तते। एते च मुक्तौ प्रमेयतत्त्वज्ञानहेतुत्वविषये मुख्यतया समुपलब्धाः धारणाः। एतासु कुत्रापि प्रमेयतत्त्वानां व्यख्यानम्‚ तेषां तत्र मुक्तये हेतुत्वकथनादिकञ्च मया नोपलब्धम्। एवञ्च अस्य शोधालेखस्य शीर्षकसम्बन्धस्य सोधानुसन्धानादिकं न कैरपि कृतं दृश्यते‚ अधुना यावत् मया न दृष्टमपि। तथा च मया न कुत्रापि मोक्षस्य कृते आत्मादिप्रमेयाणां ज्ञानं हेतुर्भवतीति विवेचनं सम्प्राप्तम्। प्रमेयतत्वज्ञानं न कैरपि सरलगिरा कुत्रापि प्रकटीकृतं च। आत्मादिप्रमेयाणां तत्त्वज्ञानं मोक्षोपयोगिरूपेण याथार्थ्यं प्रतिपादनाय शोधालेखनस्यारम्भः साम्प्रतं विधीयते।
समस्याकथनम्
‘मुण्डे मुण्डे मतिर्भिन्ना’ इति वचनेन सर्वैरपि अनुसन्धानकर्तृभिः स्वरूच्यनुरोधेन क्लीष्टमार्गानुसृत्य विषयाः भिन्नशैलीषु विवेचिताः दृश्यन्ते। तेन सहजबोध्याः विषयाः क्लेशकरा अभूवन्। एवं न्यायदर्शनसापेक्षेण मुक्तौ प्रमेयतत्त्वज्ञानहेतु इत्यस्मिन् विषयेऽपि काचन समस्याः समुपस्थिताः सन्ति। तथैव मोक्षहेतुत्वेन सर्वजनोपादेयेषु अत्यावश्यकीभूतेषु आत्मादिप्रमेयेषु चापि अतीव काठिन्यता समागता। अथ च सर्वेषामपि न्ययदर्शनाध्ययनजिज्ञासूनां कृते विषयाश्चेते क्लिष्टकरा अभुवन्। इयञ्चावस्था मुख्यसमस्यारूपेणात्र परिदृष्टा। समस्तन्यायदर्नस्यैव एका समस्यात्र दृश्यते, यतो हि – प्रमेयत्वेन सर्वेऽपि पदार्थाः परिगणिताः। परन्तु ते सर्वेऽपि मोक्षोपयोगित्वेन नैव गृह्यन्ते। आत्मादिद्वादशप्रमेयाणि एव मोक्षोपयोगिनः सन्ति। परन्तु आत्मादिपदार्थाः एव मोक्षोपयोगित्वेन गृह्यन्ते इति स्पष्टं व्युत्पादनं न कैरपि आधुनिकैः विवेचकैः कृतम्। तथा च प्रमेयाणां स्पष्टं निरूपणमपि न कैरपि कृतम् दृश्यते। इयमप्यन्यात्र समस्या मुख्यरूपेण दृश्यमाना वर्तते।
उपर्युक्तां समस्यां संगृह्य तासां द्वैविध्येन वर्गीकरणं चाधः कृतो वर्तते–
- 1. न्यायदर्शने के प्रमेयाः ?
- 2. मुक्तौ प्रमेयतत्त्वज्ञानहेतुः कथं भवतीति ?
उद्देश्यम्
न्यायशास्त्रे प्रतिपादितानां प्रमेयाणां मोक्षहेतुत्वेन प्रतिपादनम्. तथा च तेषां सुबोध्यविधया सरलभाषया सर्वग्राह्यत्वधीया विवेचनञ्चात्र मुख्योद्देश्यमस्ति। तथा च प्रमेयत्वेन सर्वेऽपि पदार्थाः संगृह्यन्ते चेदपि मोक्षोपयोगित्वेन च इमानि आत्मादीनि द्वादशप्रमेयाणि एव गृह्यन्ते इति प्रतिपादनमपि अत्रोद्देश्यत्वेन गृहीतो वर्तते। एवमेव आत्मादिप्रमेयाणां क्रमशः प्रतिपादनं कृत्वा तेषां याथार्थस्वरूपप्रदर्शनमपि अस्यालेखस्य उद्देश्यत्वेन परिग्रहणं क्रियते। तथा च उद्देश्यं चाधः निर्दिश्यते –
- 1. न्यायदर्शने प्रतिपादितानां प्रमेयाणां निरूपणम्।
- 2. मुक्तौ प्रमेयतत्त्वानां ज्ञानहेतुत्वनिरूपणम्।
अनुसन्धानविधिः
अस्यानुसन्धानालेखस्य कृते दर्शनविषयाध्ययनसहयोगित्वेन उपलब्धा विविधविषयाः स्वीक्रियन्ते। अतोऽनुसन्धानालेखस्य निष्कर्षरूपेण फलप्राप्त्यर्थं पुस्तकलय्याद्यनुसन्धानविधिरवलम्वितो वर्तते। आलेखस्य कृते उपयोगीभूता विधयश्चाधो निर्दिष्टाः सन्ति।
सामग्रीसङ्कलनविधिः
अस्य शोधालेखस्य कृते विविधसामग्रीणां सङ्कलनाय पुस्तकालयीयाध्ययनविधिरेव प्रामुख्यं वर्तते। तत्र च प्राच्यदर्शनसम्बद्धविविधग्रन्थाः, प्रमेयविषयकाः संस्कृतमूलाकारग्रन्थाः, प्राथमिकसामग्रीत्वेन स्वीक्रिता वर्तन्ते। तदतिरिक्तं नैकविधपूर्वीयदर्शनानुसन्धातृभिः प्रमेयविषयकग्रन्थानां कृतशोधग्रन्थानामपि अवलोकनं विधाय च ततः आवश्यकप्रमेयसम्बद्धाविषयाः द्वितीयसमग्रीत्वेन ग्रहीष्यन्ते।
अध्ययनविश्लेषणविधिः
अस्मिन् शोधालेखे विश्लेषणात्मकविधेः प्रयोगः कृतो वर्तते। तथा च आवश्यकमागमनात्मकविधेर्निगमनात्मकविधेश्च प्रयोगं विधाय व्याख्यात्मको विश्लेषणात्मको विधिश्चाङ्गीकृतो वर्तते। एवञ्च आधुनिकवैज्ञानिकानुसन्धानविधिञ्चावलम्ब्य विविधसमस्यायाः परिहारो विहितो वर्तते। तदर्थं विद्वज्जनसम्पर्कः, तैस्सह परामर्शश्च आवश्यकस्थले क्रितो वर्तते।
शैद्धान्तिकाधारः
सन्ति न्यायसूत्रभाष्यादिषु प्रमेयविषये जातानि बहुनि चिन्तनानि। किन्तु महर्षिगौतमप्रणीते न्यायसूत्रे‚ वात्यास्यायनविरचिते भाष्यग्रन्थे‚ उद्योतकरप्रणीते न्यायवार्तिके तथा च अन्यैश्च न्यायमञ्जर्यादिष्वपि प्रमेयमधिकृत्य विस्तरतो ग्रन्थाः प्रणीताः। तेषु ग्रन्थेषु वर्णिताः प्रमेयविषयाः तत्त्वबोधाय आवश्यकीभूताः। प्रमेयादीनां यथार्थज्ञानाय प्रमाणस्यावश्यकतां विलोक्य प्रथमं दर्शनेऽस्मिन् प्रमाणानि निरूपितानि। न्यायदर्शनसम्बन्धा विषयाः अतीव गभीराः परिश्रमसाध्याश्च। तेषां सूक्ष्माध्ययनं विना यथार्थरूपेण वर्णयितुं न पारयामः। इदानीं विषयानुरोधेन न्यायोक्ताः मोक्षस्य कृते प्रयोजनभूताः द्वादशविधाः प्रमेयाः चिन्तनविषयत्वेन स्वीक्रियन्ते। मोक्षोपयोगित्वेन तेषां सर्वैरपि नैयायिकैः प्रतिपादितं दृश्यते। उक्तान् विषयान् न्यायवैशेषिकप्रतिपादित-सिद्धान्तानुसारेण शोधालेखनं कृतं वर्तते।
विषयविश्लेषणम्
कणादप्रणिते वैशेषिकदर्शने पदार्थाः सप्त स्वीक्रियन्ते। तत्र च तेषां प्रयोजनं तत्त्वस्य ज्ञानोत्पादनाय एव वर्तत इत्यत्रापि न केषामपि विप्रतिपत्तिः। न्यायवैशेषिकं समानतन्त्रमित्युक्तत्वात् वैशेषिके सप्त, न्याये च षोडशः पदार्थाः प्रतिपाद्यन्ते। वैशेषिकमतानुसारेण तेषु पदार्थेषु प्रथमं द्रव्यमस्ति। द्रव्यस्यापि नव विभागाः कृताः। नवसु द्रव्येषु अष्टम द्रव्यत्वेन आत्मपदार्थो निरूपितो वर्तते ( वै.सू.१।१।५ )। एवं च दर्शनग्रन्थस्य प्रारम्भे स्थूलद्रव्याणि निरूपितानि। तानि पञ्चमहाभूतानीति नाम्नापि व्यपदिश्यन्ते। तदनन्तरं विभुत्वेन वर्तमानाः सजातीयाः आकाशकालदिशो निरूप्यन्ते। तदनन्तरं सूत्रकारैः ज्ञानाश्रयत्वेन आत्मपदार्थो निरूप्यते। ज्ञानाश्रयत्वेन आत्मनो विलक्षणत्वात् अन्येभ्य आत्मा पृथङ्निरूपितो दृश्यते। तत्पश्चात् अणुस्वरूपस्य मनसो निरूपणं वर्तते। आत्मा अष्टमद्रव्यतया क्रमतो निरूपितो वर्तते इति अत्र प्रदर्शितम्। वैशेषिकदर्शने आत्मनिरूपणं तृतीयाध्याये समुपपादितमस्ति (वै.सू.३।२।१) ग्रन्थस्याध्यायोऽयं विस्तरेण प्रतिपादितश्चास्ति। अत्र विशेषत आत्मतत्त्वविचारस्य प्रधानस्थानं वर्तते। अध्यायेऽस्मिन् अतीव गहनतया आत्मतत्त्वस्य साधकानि लिङ्गानि प्रदर्शितानि दृश्यन्ते (वै.सू.३।२।४)। वैशेषिकमते आत्मा चरमं प्रमेयं वर्तते। तथैव न्यायदर्शनेऽपि प्रमाणादिषोडशः पदार्थाः निरूपिताः सन्ति। तत्र प्रमाणानि निरूप्य प्रमेयाणि निरूप्यन्ते। ते एव मोक्षस्य कृते हेतवो भवन्तीति अग्रे प्रतिपादिता सन्ति। प्रथमं कानि प्रमेयाणि ? इति जिज्ञासायाः समाधानं विधाय तेषां क्रमेण विवेचनं कर्तव्यमेव भवति। तदधिकृत्य अधुना प्रमेयपदार्थो निरूप्यते।
न्यायदर्शने प्रतिपादितानां प्रमेयाणां निरूपणम्
न्यायदर्शनेऽपि आदौ प्रमाणादिषोडशपदार्थाः निरूपिताः सन्तीत्युक्तमेव। प्रमाणानि चत्वारि न्याये स्वीकृतानि। तेषां विवेचनञ्च दर्शनस्यास्य वैशिष्ट्यमस्ति। तथा च न्यायदर्शने प्रथमं प्रमाणं निरूप्य पश्चाच्च प्रमेयपदार्थः निरूपितः। तानि च द्वादशसङ्ख्यकानि। तेषु चादिमं प्रमेयं आत्मा वर्तते (न्या.सू. १.१.९)। अत्र न्यायदर्शने प्रतिपादितानां प्रमेयाणां सूक्ष्मरूपेण विवेचनां विधाय मोक्षाप्तौ तज्ज्ञानस्य हेतुत्वविषये चर्चा विधीयते।
प्रमेयम्
प्रमेयविचारारम्भे किं नाम प्रमेयम् ? इति जिज्ञासा प्रथमं उदेति। अस्मिन् विषये भासर्वज्ञेनोक्तं यथा – ‘यत् विषयकं ज्ञानमन्यज्ञानानुपयोगित्वेनैव निःश्रेयसाङ्गं भवति, मिथ्याज्ञानञ्च संसारं प्रतनोति, तत्प्रमेयम्’ ( न्यायभूषणम्, ई.२००४, पृ .४३६) अर्थात् यद्विषयकं ज्ञानमन्यविषयकज्ञानोत्पत्तौ अहेतुर्भूत्वा साक्षात् निःश्रेयसाङ्गं भवति तदेव प्रमेयम्। तथा च यथार्थज्ञानस्य विषयकाणि प्रमेयाणि इत्यर्थावबोधो जायते। यथार्थज्ञानस्य विषयाः घटपटादिपदार्थाः भवन्ति। ते च प्रमेयत्वेन व्यवहर्तुं शक्यन्ते एव। प्रमेयकथनात् प्रमायाः विषयत्वेन सर्वमपि पदार्थं स्वीकुर्मः। प्रमेयस्य न्यायदर्शने विस्तृतं चिन्तनमभूत्। प्रमेयविषयकनिरूपणं तेषां स्वरूपप्रदर्शनञ्च नवीननैयायिकापेक्षया प्राचीननैयायिकैः सुष्ठु कृतं विद्यते। परन्तु मोक्षोपयोगित्वेन च न्याये द्वादशविधानि आत्मादिप्रमेयाणि आचार्यैः प्रोक्तम्। तेषामेवाधुना चाधः क्रमशः प्रतिपाद्यते।
आत्मा
द्वादशविधप्रमेयेषु आदौ आत्मनो ग्रहणेन ज्ञायते प्रमेयेषु आत्मनो स्थानं महत्त्वपूर्णमस्तीति। तत्प्राधान्यं ज्ञापनाय हि तस्य ग्रहणं प्रारम्भे एव विहितमिति। प्रकर्षेण मेयः इत्यर्थलाभेनापि आत्मनो निरूपणं सर्वदा प्राधान्यं भवतीति ज्ञायते। प्रमेयेषु आत्मनः प्राधान्यं मोक्षहेतुत्त्वेन परिगृहीतमिति। अस्य लक्षणञ्च ज्ञानस्याधिकरणमिति। ज्ञानाश्रयता तत्रात्मनि भवतीति। अस्य भेदो द्विविधो वर्तते। जीवात्मा परमात्मा चेति। आत्मा सकलेन्द्रियाधिष्ठातापि अस्ति। न्यायसिद्धान्तमुक्तावलीकारेण- ‘आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम्’ इति आत्मनिरूपणावसरे प्रोक्तम् (विश्वनाथ‚ कारिकावली‚ का. ४७)। तर्कभाषाकारेण च आत्मनो लक्षणम् – ‘आत्मत्वसामान्यवान् आत्मा’ इति विहितम् (तर्कभाषा, ई.२००३ पृ.१५०)। आत्मा च मानसप्रत्यक्षविषयः, तथापि शब्दानुमानप्रमाणाभ्यामपि आत्मा साध्यते। महर्षिणा गौतमेन सूत्रे उक्तम् – ‘इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्’ इति। एतल्लक्षणे प्रयुक्तानि ज्ञानेच्छाद्वेषप्रयत्नानि केवलमात्मनि भवन्ति, तथा च सुखदुःखद्वेषाश्च संसारबद्धजीवात्मनि भवन्तीति वृत्तिकारैः विश्वनाथैः समुपदिष्टम्। एतादृश आत्मा विभुः नित्यश्चास्ति। जीवात्मा प्रतिशरीरं तिष्ठति। तेन तस्य अनन्ता भेदाः स्वीकर्तव्याः। एवञ्च परमात्मनो भेदो नास्ति। स एक एवेति।
शरीरम्
सूत्रकारैः शरीरस्य लक्षणम् – चेष्टिन्द्रियार्थाश्रयः शरीरमिति प्रोक्तम् (न्या. सू १/१/११)। चेष्टायाः इन्द्रियाणाम् अर्थानाञ्चाश्रयः शरीरम्। शरीरमाध्यमेन आत्मा सुखदुःखयोश्चोपभोगं करोति। इष्टप्राप्तये अनिष्टनिवृत्तये च या प्रवृत्तिरस्ति सा एव चेष्टा वर्तते। चेष्टाया आश्रयः शरीरमस्ति। अन्त्यावयवी शरीरमित्यपि शरीरस्य लक्षणमस्ति।
इन्द्रियम्
इन्द्रियाणि ज्ञानकरणानि भवन्ति। इन्द्रियाणि च भूतेभ्यो जायन्ते (न्यायसूत्रम्- १/१/१२) आत्मा बाह्यरूपादिविषयाणां ग्रहणाय इन्द्रियमपेक्षते। भोगसाधनत्वेन परिगृहीतानि बाह्येन्द्रियाणि पञ्चविधानि। बाह्यभिन्नमान्तरिकं मनः इन्द्रियमपि आहत्य ज्ञानेन्द्रियाणि षड्विधानि सन्ति। पृथिव्यादिभ्य एकैकशः भूतेभ्यः एतानि बाह्येन्द्रियाणि समुद्भूतानि वर्तन्ते। यथा च पृथ्वीतः घ्राणेन्द्रियम्, जलाच्च रसनेन्द्रियम्, तेजसः चक्षुरिन्द्रयम्, वायुतः त्वगिन्द्रियम्, श्रोत्रेन्द्रियरूपात् आकाशात् शब्दः समुद्भुतोऽस्ति। तथा च मनस अन्तरेन्द्रियत्वं दर्शनेऽस्मिन् स्वीकृतो वर्तते। मनसा च सुखदुःखादयऽनुभूयन्ते।
अर्थाः
अर्थाः पदार्थाः षड्विधा भवन्ति। ते च द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः (तर्कभाषा‚ पृ.१३०)। तत्र द्रव्यपदार्थस्य निरूपणं समवायिकारणत्वेन निरूपितं वर्तते। तथा च नव विधानि द्रव्याणि भवन्ति। एवं च सामान्यवत्वेन असमायिकारणत्वेन च गुणाः निरूपिताः सन्ति। चतुर्विंशतिसंख्यका गुणाः भवन्ति। पञ्च विधानि कर्माणि सन्ति। सामान्यस्य च द्विविधो भेदो भवति। नित्यद्रव्यवृत्तयो विशेषा अनन्ताः। नित्यसम्बन्धः समवायोऽस्ति, स च एक एव। अभावविषये तु उक्तमस्ति यत् – निषेधमुखप्रमाणगम्यत्वं भवति। स च अभावस्वरूपः (तर्कभाषा‚ पृ.१८४)।
बुद्धिः
उपलब्धिः प्रत्ययः ज्ञानञ्चेति शब्दैर्यत् अभिधीयते तदेव बुद्धितत्वमस्ति। तत्र तर्कभाषाकारेण अर्थप्रकाशशब्देन बुद्धेः निरूपणं कृतम् (तर्कभाषा‚ ई. २००३‚ पृ. १७१)। वस्तुतः प्रत्ययः‚ उपलब्धिः ज्ञानमित्यादयः शब्दाः बुद्धेरेव पर्यायाः। एतेषु भेदो दर्शनेऽस्मिन् न स्वीक्रियते यथा सांख्यादिमते भेदो वर्तते। बुद्धि आत्मनो विशेषगुणत्वेन च परिगृहीतो वर्तते। स्मृतिरनुभवाभ्यां द्विविधो भेदो बुद्धेः प्रतिपादितं विद्यते।
मनः
सुखादिगुणानां ग्रहणाय बाह्यचक्षुरादीन्द्रियैः असम्भवात् तदतिरिक्तमन्यत् करणं स्वीकरणीयं भवति। तदेव करणं मनोऽस्ति। तथा च एकस्मिन् काले अनेकज्ञानासम्भवात् पृथगन्यदपि सहायकं कारणं मन्तव्यमेव। सुखादीनां साक्षात्कारे मनः करणं भवतीति। कारिकावलीकारेणापि समुपदिष्टं वर्तते (कारिकावली, ८५)। तथा युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति न्यायसूत्रकारस्य वचनमस्ति। एतावता च मनस इन्द्रियत्वं सिद्ध्यति। ज्ञायते अनेन इति व्युत्पत्या मनसः ज्ञानसाधनत्वमपि सिद्ध्यति। तथा च मनस अणुत्वात् एकस्मिन् काले अनेकज्ञानस्यानुपत्तिरपि सिद्ध्यति।
प्रवृत्तिः
वाक्बुद्धिशरीरेभ्यः कार्यारम्भः प्रवृत्तिरस्ति। न्यायसूत्रे ‘प्रवृत्तिवाग्बुद्धिशरीरारम्भः’ इति उक्तमस्ति (न्या. सू. १/१/१७)। भाष्यकारेणात्र सूत्रस्थबुद्धिशब्देन मनसो ग्रहणं कृतम्। बुद्ध्यते अनया इति बुद्धिः। व्युत्पत्या च मनसः एव ग्रहणं भवति। मनसा‚ वचसा, कायेन च कृतो व्यापारः प्रवृतिरस्ति। प्रवृत्तिः इत्यनेन पुण्यपापयोर्ग्रहणं भवति। तयोरेव अदृष्टशब्देन ग्रहणं भवति। दशविधश्च धर्माधर्मौ भवत इति भाष्ये प्रतिपाद्यते (न्यायभाष्यम्‚ वि.सं. २०४७‚ पृ.५४ )
दोषः
प्रवृत्तिहेतुरेव दोषशब्देनोच्यते। ‘प्रवर्तनालक्षणा दोषाः’ (न्या.सू.१/१/१८)। प्रवर्तने कारणीभूता गुणाः रागादायः। ते चात्र दोष-शब्देन निगद्यते। भाष्यकारैः प्रतिपाद्यते यत् – इमे रागदयो गुणाः पुरुषं पुण्यकर्मणा सह वा पापकर्मणा सह सदैव प्रेरयन्ति। यत्र मिथ्याज्ञानं जायते तत्र कारणत्वेन रागदोषौ गृह्येते। एतेऽपि आत्मनो गुणा इति। एते च वैराग्योत्पादनाय कारणानि भवन्तीति तत्र व्याख्याग्रन्थेषु प्रतिपादितमस्ति। वस्तुतो तत्वज्ञानानन्तरं मिथ्याज्ञानं विनश्यति। मिथ्याज्ञानविनाशानन्तरं रागादयः दोषाऽपि विनश्यन्ति। एवं यद्यपि दोषाः अनादयः तथापि एते विनाशशालीनः (न्या.भा.४/१/०२)।
प्रेत्याभावः
पुनरुत्पत्तिः प्रेत्यभावः। पुनर्जन्म प्रेत्यभावोऽस्तीति ज्ञायते। पुनर्भावस्तु आत्मनो भवतीति। शरीरञ्च भौतिकम्। तस्य विनाशशालित्वं सर्वैरनुभूयते। आत्मनोऽविनाशित्वं दर्शनेस्मिन् स्वीकृतं वर्तते। तथा च अत्र पुनर्भावशब्देन आत्मनो शरीरादिना सह वर्तमानस्य सम्बन्धस्य परिवर्तनमस्ति। न्यायदर्शनसम्बन्धिदार्शनिकैः इन्द्रियादिना युक्तस्य नवीनशरीरस्य प्राप्तिः पुनर्जन्म भवतीति प्रतिपादितो वर्तते (शास्त्री, पृ.२७३)।
फलम्
भाष्यकारैः सुखदुःखसम्वेदनं फलमिति प्रोक्तम्। तच्च रागादिदोषप्रवृत्तिजनितोऽर्थरूपमस्ति (वात्स्यायन‚ पृ.२६) तादृशं फलं हेयोपादेयभेदेन द्विविधमस्ति। साधनरतानां जनानां तु द्विविधमपि फलं हेयकोटावेव निवशतीति। यतो हि साधनरतस्य पुरुषस्य सुखदुःखोपभोगे सर्वथा वैराग्यमनुभूयते।
दुःखम्
‘बाधनालक्षणं दुःखमिति’ सूत्रकारेण प्रोक्तम्। बाधना च पीडातापादयः वर्तन्ते। सा च पीडा सर्वस्मिन् वस्तुनि अनुषक्तं वर्तते इति साधकैः तस्यानुभवः कृतो वर्तते। इदं जगत् तादृशं पश्यन् साधकः तत्परिहर्तुं प्रयतते।
अपवर्गः
अपवर्गस्य कृते भाष्यकारेण विमुक्तिशब्दः प्रयुक्तो वर्तते (न्यायभाष्यम्‚ वि.सं. २०४७‚ पृ. ५९) । तथा च कस्माद् विमुक्तिः इति जिज्ञासायां सूत्रकारेणैव जिज्ञासायाः समाधानं प्रोक्तम्। तच्च सूत्रम् ‘तदत्यन्तविमोक्षोऽपवर्गः’ इति। भाष्यकारेण जन्मना दुःखेन च अत्यन्तविमुक्तिः अपवर्ग इत्युक्तम्। न्यायनये एतावदेव अपवर्गस्वरूपं स्वीकृतं दृश्यते। तत्र तर्कभाषाकारेण अपवर्गस्यार्थः मोक्ष इति विहितोऽस्ति। तथा च तत्र एकविंशतिप्रभेदस्य दुःखस्य चात्यान्तिकी निवृतिः मोक्ष इत्युक्तम्। दुःखस्य एकविंशतिभेदाः – शरीरम्‚ षडिन्द्रियाणि‚ षड्विषयाः‚ षड्बुद्धयः‚ सुखं दुःखञ्चेति। एतादृशैः पदार्थैः सह सम्बन्धरहितः पुरुषो मोक्षानुभवं करोति। तदा नित्यसुखाद्यनुभवो भवतीति वादः भाष्ये निरस्तीकृतं विद्यते। न्यायदर्शने जड इव अपवर्गस्य स्वरूपं प्रतिपादितो वर्तते। तदा सुखाद्यनुभवस्य निषेधः कृतो वर्तते। अस्मिन् विषये न्यायग्रन्थे बहुविस्तरेणोपपादितम्। परन्तु भासर्वज्ञेन भाष्यकाराद् पृथग्गेव सुखाभिव्यक्तिर्भवतीति वादः स्वीयग्रन्थे प्रोक्तो वर्तते। एवमेतत् द्वादशविधं प्रमेयं न्यायदर्शने प्रतिपादितमस्ति।
मुक्तौ प्रमेयतत्त्वज्ञानहेतुत्वप्रतिपादनम्
न्याये वैशेषिके च अपवर्गप्राप्तिः प्रमुख उद्देश्यो वर्तते। अपवर्गप्राप्तिः प्रमेयपदार्थतत्त्वज्ञानात् भवति। परन्तु चात्र प्रमेयत्वेन सर्वेऽपि विषयाः स्वीकर्तं शक्नुमः। तथा स्वीकृतत्वे मुक्त्यर्थं तेषां सर्वेषामपि पदार्थानां ज्ञानं कारणत्वेनावश्यकं भवतीति मन्तव्यम्। परन्तु सर्वेषामपि पदार्थज्ञानं मोक्षोपयोगित्वेन मोक्षकारणत्वेन वा सर्वैरपि स्वीकर्तव्यमिति न कुत्रापि प्रतिपादितं दृश्यते। अतः मोक्षोपयोगित्वेन तेषामेव पदार्थानां ज्ञानमावश्यकम् येषां ज्ञानेन तत्त्वज्ञानं भवतीति। तथा च न्यायदर्शने आत्मादिद्वादशपदार्थाः पृथङ्निरूपिताः सन्ति। ते प्रमेयत्वेन पाठिता इति। किमर्थं पृथक्निरूपिताः इति चेत् तेषां ज्ञानं मोक्षस्य कृते प्रयोजनमस्तीति ज्ञापनाय एव पृथङ्निरूपितं दृश्यते। अतः आत्मादिप्रमेयस्य ज्ञानमेव मोक्षहेतुः इति मन्तव्यं भवतीति। भाष्यकारैश्चोक्तं यत् – तत्त्वज्ञानं निःश्रेयसाधिगमार्थं यथाविधं वेदितव्यमिति। ( वात्स्यायन‚पृ. ९) आत्मादयो मोक्षहेतुत्त्वेन प्रमेयाः गण्यन्ते। एवञ्च द्रव्यादयो ज्ञानविषयत्वेन मेयाः इति। आत्मादयो तावत् मोक्षविषयत्वेन प्रमेया इत्यर्थो गृहीतव्य इति दृश्यते। सकलद्रव्यज्ञानं मोक्षहेतुः भवितुं न शक्नोति। न्यायपरिशुद्धिकारैश्च एतद्विषये स्पष्टोक्तं वर्तते यत् – यदज्ञानात् संसारः यज्ज्ञानात् निवृत्तिः तत्प्रमेयमिति (न्यायपरिशुद्धिः पृ.९)। तेन च ज्ञातव्यमेव हि यत् भाष्यकारोक्तं आत्मादिज्ञानमेव मोक्षहेतुत्त्वमिति मन्तव्यम्। उद्योतकरेण न्यायवार्तिकेऽपि उक्तमस्ति यत् आत्मादि- एव प्रमेयम्. मुमुक्षुणा ज्ञेयमिति (सन् १९९५‚ पृ. १८१) श्रीमता जयन्तट्टेनापि प्रतिपादितं यत् सर्वेऽपि वैशेषिकोक्ताः पदार्थाः न प्रमेयाः। अपितु न्यायदर्शने प्रतिपादिताः आत्मादिपदार्था एव प्रमेया इति। जयन्तस्याभिप्रायो वर्तते यत् प्रमायाः विषयीभूतमेव प्रमेयमिति। तथा च ‘प्रमीयते इदमिति’ व्युत्पत्तिलाभेन सन्दर्शितः पदार्थः न प्रमेयमिति। मोक्षोत्पत्तौ हेतुभूताः विषयाः एव प्रमेयत्त्वेन निर्दिष्टा इति दृश्यते। अनेन च प्रमेत्वेन आत्मादयो गृह्यन्ते चेद् तर्हि न्यायशास्त्रे अतीव महत्त्वेन गौरवादरेण च किमर्थं प्रमाणानि समुपदिष्टानि। तेषां कुत्र नियोग इति जिज्ञासायां समाधीयते यत् -प्रमाणादीनां ज्ञानं विना न तत्त्वज्ञानम्। तथा च परम्परया प्रमाणादीनामपि मोक्षप्रयोजनमस्ति। प्रमाणादिज्ञानं परम्परया मोक्षस्य कृते उपयोगी भवतीति तु मन्तव्यमेव। प्रमाणादीनि विज्ञाय एव आत्मज्ञानं सम्पाद्यते ततो मोक्षं प्राप्स्यते। मोक्षस्य कृते साक्षाद्धेतुः आत्मादिज्ञानं भवति। आत्मादितो व्यतिरिक्तानां पदार्थानां परम्परया मोक्षाय प्रयोजकं मन्तव्यम्। नव्यन्यायप्रवर्तकानामित्येवाभिप्रायः तत्र दृश्यते। यथा – प्रेक्षावत्प्रवृत्यर्थं प्रमाणादीनां तत्त्वज्ञानात् निःश्रेसाधिगमः इत्यादौ असूत्रयत् इति (न्यायतत्त्वचिन्तामणिः)। जिज्ञासूनां आत्मज्ञानेच्छुकानां सर्वेषामपि न साक्षात् प्रमेयाणां आत्मादीनां बोधो भवति। भवति चेदपि अतीव क्लेशेन भवति। तच्च न्यायसम्बद्धकतिपयग्रन्थप्रतिपादनेन ज्ञायते। अनेन विमर्शणेन मोक्षहेतुत्वेन आत्मादिप्रमेयाणां तत्त्वज्ञानं परमावश्यकमस्तीति ज्ञायते।
निष्कर्षः
अस्माकं भूमौ न्यायररूपा दर्शनशास्त्रीया महती गण्डकीधारा अनादितकालाद् नितरां मुक्तिमार्गं सञ्चालयन्ती प्रदर्शयन्ती च प्रवहति वर्तते एव। अस्या द्वादशविधविभक्ता धारा मुक्त्यर्थमेव सकलप्राणिनं तत्र च जीवात्मानं विशेषत उपदिशति। विशेषतो न्यायवैशेषिकयोः आत्मादिद्वादशप्रमेयमुपरि निर्दिष्टमेव। तेषां तत्त्वज्ञानेन निःश्रेयसप्राप्तिर्भवतीति शास्त्रकाराणां दिङ्निर्देशनमपि विषयप्रतिपादनकाले प्रदर्शितमेव। तत्त्वज्ञानस्यार्थः वस्तूनां यथार्थज्ञानमस्ति। न्यायमते प्रमेयरूपेण तत्त्वज्ञानोपयोगित्त्वेन च प्रमेयादिः द्वादशपदार्थाः न्यायसूत्रकारैरेव न्यायसूत्रे प्रतिपादिताः। ते आत्मादयः प्रमेयत्वेन परिगृहीताः। तत्त्वज्ञानविषयीभूताश्च ते। यथार्थज्ञानेनैव मिथ्याज्ञानं विनश्यतीति। प्रमाणबलेन आत्मादिप्रमेयाणां बोधो भवतीति। प्रमाणादिपदार्थापि प्रमेयसाधनत्वेन निश्रेयस्प्राप्तये पारम्पर्येण हेतुस्थाने निबद्धा भवन्तीत्यपि उपरि सुष्ठूपपादितमेव। प्रमेयाणां याथार्थ्यज्ञानानन्तरं दुःखानि विनश्यन्ति। तानि च दुःखानि एकविंशतिसंख्यकानि न्यायदर्शने उक्तानि सन्ति। दुःखात्यन्ताभाव एव अत्र मोक्षशब्देन व्यपदिष्टो भवतीति। नवीननैयायिकैरपि अपवर्गार्थं आत्मादितत्त्वानां यथार्थज्ञानं कारणत्त्वेन स्वीक्रियते। आचार्यभासर्वज्ञैः प्रोक्तं यत् ‘मिथ्याज्ञानं संसारं प्रतनोतीति। तत्तु सत्यमेव अनात्मनि आत्माज्ञानम्‚ सुखरहिते वस्तुनि सुखादिज्ञानं मिथ्याज्ञानमेव। तेन जीवात्मानं संसारपथमेव प्रचालयति। अनादिकालादेव जीवात्मा इममेव चक्रं समारुह्य भवचक्रे निबद्धो वर्तते। तस्य कारणं तु अज्ञानमेवाऽस्ति। अज्ञानवशादेव जीव संसरादुःखपङ्कनिमग्नो दृश्यते। स्वयं दुःखात् बहिरागन्तुमशक्तश्च जीवो दृश्यते। दुःखाद् बहिर्निष्काशनाय भ्रमः एव बाधकत्त्वेन हेतुः भवति। सः एव भ्रमो वस्तुत आत्मा भ्रमोऽस्ति। आत्मा कः ? शरीरं किम् ॽ इत्यादिज्ञानं जीवात्मा यदा प्रमाणादिनां साहाय्येन करोति तदा मिथ्याज्ञानं विनश्यतीति ग्रन्थेषु प्रष्टोक्तमुपलभ्यते। इदमपि च तादृशमिथ्याज्ञाननाशाय आत्मादिप्रमेयाणां वास्तविकं ज्ञानमावश्यकमिति नितरां बोध्यो भवीति। तदेव तत्वज्ञानमस्ति। तेन च मोक्षप्राप्तिर्भवति। मोक्षश्च दुःखात्यन्तनिवृत्तिरस्ति। तदर्थं प्रमेयत्वेन परिगृहीतानामात्मादीनां तत्वज्ञानमावश्यकमिति। अयमेव विषयः अत्र शोधालेखने विशेषाध्ययनेन स्पष्टीभवतीति। एतावता च वस्तुतो गौतमीयस्य न्यायशास्त्रस्य तत्त्वज्ञानमेव मुख्योद्देश्यमस्तीति। तत्त्वज्ञानाय एव पदार्थाः उपदिष्टाः। न्यायस्य समानतन्त्रत्वेनोपदिष्टे वैशेषिकेऽपि आदौ स्थूलपदार्थं विचार्य क्रमशः सूक्ष्मपदार्थनिरूपणं कृतं दृश्यते। तथा च न्यायेऽपि विषयेऽस्मिन् नैव विप्रतिपत्तिः। न्यायवैशेषिकतन्त्रयोः समानतन्त्रत्त्वेन उभयोरपि दर्शनयोः मोक्षहेतुत्वेऽपि साम्यमवलोक्यत एव। तेन च मुक्तिविषयेऽप्यनयोः नास्ति वैमत्यम्। निःश्रेयसहेतुत्वेऽपि समाना एव धारणा। प्रमेयत्वने परिगणिताः विषयाः वैशेषिकेऽपि तथैव स्वीकृताः सन्ति यथा न्याये स्वीकृता वर्तन्ते। अन्त्ये निष्कर्षत्वेन इदमेव वक्तव्यं भवति यद्- न्यायवैशेषिकयोः निःश्रेयसे आत्मादिप्रमेयज्ञानं सुतरामावश्यकमेव। न केवलं न्यायशास्त्रे एव मोक्षस्य कृते तेषां तत्त्वज्ञानमावश्यकमपितु सकलपौरस्त्यदर्शनस्य कृतेऽपि तदावश्यकमिति निष्कर्षत्वेन मन्तव्यमेव हि।
सन्दर्भग्रन्थसूचीः
अन्नम्भट्टः( त्रितीयआवृत्ति) तर्कसंग्रहः (तृतीय आवृति), श्रीकृष्णवल्लभाचार्यः‚ वाराणसी : व्यास प्रकाशन।
केशवः ( ई. २००३) तर्कभाषा ( पण्डित रुद्रधर झा), वाराणसी : चौखम्बा संस्कृत सीरीज आफिस।
गौतमः (ई. १९८५) न्यायदर्शनम्, (भाष्यवार्तिकतात्पर्यटीकावृत्तिसहितम्), दिल्ली : अमरेन्द्रमोहन तर्कतीर्थ‚ तारानाथ न्यायतर्कतीर्थ‚ मुन्सीराम मनोहारलाल पव्लिसर।
मुसलगाँवकर‚ गजाननशास्त्री (पु. सं.‚२००३), न्यायसिद्धान्तमुक्तावली, वाराणसी : चौखम्बा सुरभारती प्रकाशन।
योगीन्द्रानन्दः, स्वामी ( ई. २००४), न्यायभूषणम्, (पुनर्मुद्रित संस्करण) चौखम्बा विद्याभवन।
विद्याभूषण‚ श्रीआशुबोध‚ विद्यारत्न‚ श्रीनित्यबोध (ई.१९८६), न्यायदर्शनम‚ वाराणसी : चौखम्बा संस्कृत प्रतिष्ठान।
शास्त्री, दयाशङ्करः (ई. २००४), उद्योतकर का न्यायवार्तिक एक अध्ययन, वाराणसी : चौखम्बा विद्या भवन।
शास्त्री‚आचार्य ढुण्डिराज (पुनर्मुद्रित २०६८), वैशेषिकदर्शन प्रशस्तपादभाष्य‚ वाराणसी : चौखम्बा संस्कृतसंस्थान।
शास्त्री‚आचार्य ढुण्डिराज ( वि.सं. २०४७), न्यायदर्शनम्‚ वाराणसी : चौखम्बा संस्कृतसंस्थान।