कविभोजराजेन विरचितं चम्पूरामायणकाव्यं चम्पूकाव्यपरम्परायां सुविख्यातमस्ति। विविधरसभावैः विलसितेऽस्मिन् महाकाव्ये शब्दार्थालङ्काराणां गुणरीतीनाञ्च सम्यक् संयोजनं संलक्ष्यते। लेखेऽस्मिन् कविभोजराजविरचितस्य चम्पूरामायणकाव्यस्य बालकाण्डे कीदृशानामलङ्काराणां रसभावानां गुणानां छन्दसां च प्रयोगो विहितोऽस्तीति तथ्यं काव्यशास्त्रीयसिद्धान्तदृष्ट्याऽनुशीलनं कृतमस्ति।
डा. महानन्दतिमिल्सिना
सहप्राध्यापकः साहित्यम्
नेपालसंस्कृतविश्वविद्यालयः, पिण्डेश्वरविद्यापीठम्, धरानः
Email: timsinamahananda@gmail.com
लेखसारः
कविभोजराजेन विरचितं चम्पूरामायणकाव्यं चम्पूकाव्यपरम्परायां सुविख्यातमस्ति। विविधरसभावैः विलसितेऽस्मिन् महाकाव्ये शब्दार्थालङ्काराणां गुणरीतीनाञ्च सम्यक् संयोजनं संलक्ष्यते। लेखेऽस्मिन् कविभोजराजविरचितस्य चम्पूरामायणकाव्यस्य बालकाण्डे कीदृशानामलङ्काराणां रसभावानां गुणानां छन्दसां च प्रयोगो विहितोऽस्तीति तथ्यं काव्यशास्त्रीयसिद्धान्तदृष्ट्याऽनुशीलनं कृतमस्ति। अस्मिन् लेखे रसालङ्कार-गुण-छन्दसां विवेचनसामग्रीभिर्विवेचनपद्धतिमग्रे सारितं विद्यते। गुणात्मिकायामनुसन्धानपद्धत्यामाधारितेऽस्मिननुसन्धाने द्वितीयकस्रोतयुतानां सामग्रीणां संयोजनं वर्तते। अत्रोपमोत्प्रेक्षारूपकादीनां शब्दार्थालङ्काराणां शृङ्गारादीनां रसानां माधुर्यादीनां गुणानामनुष्टुप्प्रभृतीनां छन्दसां च प्रयोगस्थितिर्विवेचिता। काव्येऽस्मिन्नलौकिकचमत्कारजनक रसपरिपाकः, हृदयाह्लादका भावाः, मनोहरा अलङ्कारा गुणगणाश्च विराजिता विद्यन्ते। भोजराजोऽसौ स्वाभाविकालङ्कारसंयोजने भावानुकूलरससंयोजने च कुशलो विद्यते। काव्ये प्रयुक्तैः शब्दार्थालङ्कारैः कथावस्तु स्वाभाविकं संलक्ष्यते। चम्पूरामायणकाव्यस्य बालकाण्डे प्रयुक्ता अलङ्कारा भावानुकूलाः, विषयानुकूलाश्च दृश्यन्ते। अतः सौन्दर्यपक्षदृष्ट्या चम्पूरामायणस्य बालकाण्डं समुचितं प्रतीयते। शब्दार्थालङ्काराणां कुशलेन संयोजनेनास्य काव्यं सहृदयहृदयाह्लादकं प्रतीयते। अत्र ललितानां पदानां मनोहरः सन्निवेशो वर्तते। काव्यमिदं श्रुतिमधुरमानन्दसन्दोहप्रदायकञ्च प्रतीयते। अस्मिन् काव्ये भामह-रुद्रट-दण्डि-मम्मट-विश्वनाथादिभिः पौरस्त्यकाव्यशास्त्रिभिः प्रतिपादितानामलङ्कार-रस-ध्वनि-गुण-रीति-छन्दसां च सान्दर्भिकं संयोजनं प्राप्यते। विषयवस्तूनां सन्दर्भानुसारेणात्रालङ्कार रसगुणछन्दसां च प्रयोगो विहितः संलक्ष्यते। अत्र संयोजितानि काव्यतत्त्वानि काव्यस्य सौन्दर्यपक्षं परिपोषयितुं सफलानि विद्यन्ते।
बीजशब्दाः अलङ्कारः, चम्पूकाव्यम्, छन्दः, व्याख्यानविधिः, सौन्दर्यम्।
विषयपरिचयः
भोजराजः मालवदेशस्य महाराज आसीत्। असौ स्वयं कविः, कवीनां पोषकश्च। कविभोजराजेन रामायणचम्पूः कृता। कृतिरियं किष्किन्धाकाण्डावसाना एव। तस्या युद्धकाण्डं लक्ष्मणभट्टेन कृतम्। अयं भोजराज एकादशशतकोद्भवः प्रसिद्धः साहित्यसेवी। चम्पूरामायणस्य साहित्यिकं गौरवमतिमहत्त्वपूणर्मस्ति। भोजस्य शब्दगुम्फः स्वभावसरलोऽर्थराशिश्च चमत्कारातिशयशाली। असौ मुक्तकण्ठेन वाल्मीकिकाव्यस्य प्रशंसां च विदधाति। भोजराजस्य प्रमुखाः कृतयः – सरस्वतीकण्ठाभरणम् (अलङ्कारशास्त्रग्रन्थः), चम्पूरामायणम् (काव्यम्), राजमार्तण्डः (पातञ्जलयोगसूत्रभाष्यम्), राजमृगाङ्ककरणम् (रसायनशास्त्रग्रन्थः), नाममालिका (कोशः), शालिहोत्रम् (अश्वशास्त्रग्रन्थः), शृङ्गारमञ्जरीकथा (गद्यकाव्यम्), तत्त्वप्रकाशः (शैवसिद्धान्तग्रन्थः), व्यवहारमञ्जरी (धर्मशास्त्रग्रन्थः), समराङ्गणसूत्रधारः (शिल्पशास्त्रग्रन्थः)।
अनेन शृङ्गारप्रकाश-सरस्वतीकण्ठाभरणनामकयोः काव्यशास्त्रीयग्रन्थयोः काव्यस्वरूप-काव्यभेद-रसालङ्कार-नाटक-रीति-वृत्ति-साहित्य-नायकनायिकाभेद-शब्दशक्ति-ध्वन्यादीनाञ्च विस्तारपूर्वकं वणर्नं कृतमस्ति। अस्यानुसारेण काव्यं त्रिविधम् – वक्रोक्तिः, रसोक्तिः, स्वभावोक्तिश्च। तत्रापि रसोक्तिस्तु सर्वाधिकं महत्त्वपूर्णं काव्यम्।
चम्पूकाव्ये वर्ण्यविषयस्य निरूपणं गद्यपद्ययोर्मिश्रितशैल्या विधीयते। कविभोजस्य चम्पूरामायणं संस्कृतसाहित्यस्यादिकवेर्वाल्मीके रामायणे आधारितमस्ति। अत्र बाल-अयोध्या-अरण्य-किष्किन्धा-सुन्दरकाण्डानि भोजप्रणीतानि मन्यन्ते। एवञ्च षष्ठं युद्धकाण्डं लक्ष्मणभट्टसूरिविरचितं स्वीक्रियते। मूलतो बालकाण्डं सुन्दरकाण्डञ्चातीव जनप्रियमस्ति। प्रस्तुते लेखे भोजप्रणीतस्य चम्पूरामायणस्य बालकाण्डे संलक्षितानां सौन्दर्यपक्षान्तर्गतानामलङ्काररसगुणादीनां समीक्षणं कृतमस्ति।
समस्याकथनम्
चम्पूरामायणकाव्यस्य बालकाण्डस्य पद्यानां काव्यसौन्दर्याणामनुशीलनम् इत्यस्मिन् लेखे निम्नाङ्किते समस्ये समागते स्तः –
क. चम्पूरामायणकाव्यस्य बालकाण्डस्य पद्येषु कीदृशाः शब्दार्थालङ्काराः प्रयुक्ताः सन्ति ?
ख. चम्पूरामायणकाव्यस्य बालकाण्डस्य पद्येषु कीदृशानां रसगुणछन्दसां प्रयोगोऽस्ति ?
उद्देश्यम्
अध्ययनमेतत् निम्नाङ्कितयोरुद्देश्ययोः केन्द्रितमस्ति –
क. चम्पूरामायणकाव्यस्य बालकाण्डस्य पद्येषु प्रयुक्तानां शब्दार्थालङ्काराणामनुशीलनम्,
ख. चम्पूरामायणकाव्यस्य बालकाण्डस्य पद्येषु प्रयुक्तानां रसगुणछन्दसां समीक्षणम्,
अध्ययनविधिः
एतदध्ययनं गुणात्मिकायामनुसन्धानपद्धत्यामाधारितं विद्यते। अध्ययनेऽस्मिन् पुस्तकालयीयानां सामग्रीणामुपयोगोऽस्ति। संस्कृतकाव्यशास्त्रिभिर्विरचितान्यलङ्कारसिद्धान्तविषयकानि पुस्तकान्यप्यत्र सामग्रीरूपेण संयोजितानि विद्यन्ते। चम्पूरामायणकाव्यविषये लिखितानि पुस्तकानि, विचाराः, लेखाश्चात्र सङ्कलनं विधाय विश्लेषणं विहितं वर्तते। सङ्कलितानां सामग्रीणां व्याख्याविश्लेषणेऽत्र वर्णनात्मकस्य व्याख्यात्मकस्य च विधेः प्रयोगः कृतो विद्यते।
सीमा
एतस्मिनध्ययने चम्पूरामायणकाव्यस्य बालकाण्डे विद्यमानानां काव्यसौन्दर्याणां समीक्षणं कृतमस्ति। काव्यस्यास्य विविधकाण्डस्थेषु सकलेष्वपि श्लोकेषु काव्यसौन्दर्यं प्रतिभाति। काव्येऽस्मिन् काव्यशास्त्रिभिः प्रतिपादितानामनेकेषामलङ्काराणां प्रयोगो विलोक्यते। काव्यस्य सकलेष्वपि काण्डेषु रसध्वनिगुणादीनां सम्मीलनं संलक्ष्यते, परमत्रास्य काव्यस्य बालकाण्डस्य पद्येषु विद्यमानानां प्रमुखाणां शब्दार्थालङ्काराणां रसगुणछन्दसां च सौन्दर्यस्याध्ययनं कृतमस्ति। अत्र बालकाण्डगतानां पद्यानामपि काव्यसौन्दर्यान्तर्गतानां ध्वनि-रीति-वक्रोक्तीनामाधारेण विवेचनं नैव कृतमस्ति। एतदेवास्य लेखस्य सीमा वर्तते।
पूर्वकार्यसमीक्षा
अस्मिन् लेखे चम्पूरामायणकाव्यस्य बालकाण्डस्य पद्यानां काव्यसौन्दर्याणामनुशीलनं विहितमस्ति। एतत्शीर्षकसम्बद्धानि पूर्वकार्याणि क्रमिकरूपेणात्र सङ्क्षेपेण प्रस्तूयन्ते –
रामचन्द्र मिश्रः ‘चम्पूरामायणम्’ (ई.२०१९) काव्यस्य भूमिकाखण्डे ‘चम्पूरामायणस्य काव्यचमत्कारः’ इति शीर्षके कविभोजराजस्य, तस्य चम्पूरामायणस्य च वैशिष्ट्यं प्रतिपादयति। अस्यानुसारेण भोजराजेन वाल्मीकिं प्रति कृतज्ञता प्रकटिता। भोजराजस्य कवितायामलङ्काराणामुत्तमः समावेशः प्राप्यते। श्लेषबन्धद्वारा उपमालङ्कारस्य प्रयोगेण पाठकान् रञ्जयितुमसौ बाणभट्टतुल्यो वर्तते। अस्य कवितायां कुत्रचिद् माघस्य शैली, कुत्रचित्तु कालिदासस्य शैली दृश्यते। चम्पूरामायणे प्रसादगुणस्य प्राबल्यं दृश्यते। एवमेव काव्ये वर्णनचातुर्यं च प्रतिभातीत्यादिना भोजस्य तत्काव्यस्य च वैशिष्ट्यं प्रकाशयति (मिश्रः, ई.२०१९ पृ.१०-११)।
डा.राजवंश सहाय ‘हीरा’ ‘संस्कृत साहित्य-कोश’ (ई.२००२) इति कोशस्य ‘भोज’ इति शीर्षकेऽस्य जीवनवृत्तस्य काव्यानाञ्च वैशिष्ट्यं प्रतिपादयति, यत् – भोजस्य विद्वता दानशीलता चेतिहासे प्रसिद्धाः। राजतरङ्गिण्यां काश्मिरनरेशस्यानन्तराजस्य मालवाधिपतेर्भोजराजस्य च समानरूपेण विद्वत्प्रियत्वं प्रस्तुतम् –
स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ।
सूरी तस्मिन् क्षणे तुल्यं द्वावास्तां कविबान्धवौ ॥
अस्यानुसारेण काव्यं त्रिविधम् – वक्रोक्तिः, रसोक्तिः, स्वभावोक्तिश्च। तत्रापि रसोक्तिस्तु सर्वाधिकं महत्त्वपूर्णं काव्यम् –
वक्रोक्तिश्च रसोक्तिश्च स्वभावोक्तिश्च वाङ्मयम्।
सर्वासु ग्राहिणीं तासु रसोक्तिं प्रतिजानते ॥ (सरस्वतीकण्ठाभरणम्, ५/८)
इत्यादिनास्मिन् कोशे भोजराजस्य महत्तां तद्काव्यवैशिष्ट्यं च प्रतिपादितं वर्तते (राजवंश, ई.२००२, पृ.३५६-३५७)।
आचार्य बलदेव उपाध्याय ‘संस्कृत साहित्य का इतिहास’ (ई.१९९२) इति ग्रन्थस्य अष्टमपरिच्छेदस्य ‘गद्य तथा चम्पू साहित्य’ इति शीर्षके महाकवेः भोजस्य तस्य काव्यानाञ्च चर्चां विदधाति। असौ कथयति यत् –
चम्पूकाव्येषु सर्वविश्रुतं भोजराजस्य लेखन्या प्रसूतं रामायणचम्पूकाव्यम्। अस्योपजीव्यं वाल्मीकिरामायणम्। रामायणचम्पूकाव्यं रोचकं मञ्जुलं च वर्तते। अत्र भोजेन कलापक्षस्य सौन्दर्यं पूणर्तः प्रदर्शितमस्ति। अत्र प्रसादमय्यां शैल्यां नवीनानां भावानां चमत्कारः संलक्ष्यत इत्यादिविषयं प्रतिपाद्य समीक्षको बलदेवो भोजस्य तस्य काव्यस्य च महत्तां प्रस्तौति। (उपाध्याय, ई.१९९२, पृ.४१८-४१९)।
कृष्णकुमारः ‘अलङ्कारशास्त्र का इतिहास’ (ई.१९९८) इति पुस्तकस्य ‘भोजराजः’ इति शीर्षकमाध्यमेन कवेर्भोजराजस्य विषये तत्काव्यसन्दर्भे विवेचयति, यत् – काव्यशास्त्रस्य प्रायशः सर्वेषु विषयेषु भोजराजेन विवेचनं कृतम्। अनेन प्राचीनानामाचार्याणां मतानां स्वकीये ग्रन्थे समन्वयो विहितः। तथैवानेन नवीनं मौलिकञ्च चिन्तनं प्रस्तुतमस्ति। अनेन रसविवेचनेऽधिकं महत्त्वं प्रदत्तम्। अनेन दशसङ्ख्यकानां रसाणां विवेचनं कृतम्, तत्रापि सर्वेषां रसाणां मूलरूपेण शृङ्गार एव स्वीकृतः –
रसोऽभिमानोऽहङ्कारः शृङ्गार इति गीयते।
योऽर्थस्तस्यान्वयात् काव्यं कमनीयत्वमश्नुते ॥ (सरस्वतीकण्ठाभरणम्, ५/१)
शृङ्गारी चेत्कविः काव्य. जातं रसमयं जगत्।
स एव चेदशृङ्गारी नीरसं सर्वमेव तत् ॥ (सरस्वतीकण्ठाभरणम्, ५/३)
इत्यादिना समीक्षकः कृष्णकुमारः कवेर्भोजराजस्य काव्यशास्त्रविषयकं वैशिष्ट्यं प्रतिपादयति (कृष्णकुमार, ई.१९९८ पृ.१३९)।
आचार्यरामचन्द्र मिश्रः ‘संस्कृतसाहित्येतिहासः’ (ई.२०१०) इति पुस्तकस्य ‘भोजराजः’ इति शीर्षके भोजराजस्य तस्य चम्पूरामायणकाव्यस्य च विषये स्वल्पैः शब्दैर्विवेचयति –
भोजराजेन धाराधीशेन कृता रामायणचम्पूः किष्किन्धाकाण्डावसाना एव, तस्या युद्धकाण्डं लक्ष्मणभट्टेन कृतम्। चम्पूरामायणस्य साहित्यिकं गौरवमतिमहत्त्वपूणर्म्। भोजस्य शब्दगुम्फः स्वभावसरलः अर्थराशिश्च चमत्कारातिशयशाली। सीताया अशोकवाटिकायां तिष्ठन्तया दशां वणर्यति कविः –
उपघ्नवृक्षस्य परोक्षभावादाश्रित्य भूमिं सुचिरं लुठन्त्याः।
नक्तञ्चरस्त्रीमुखकर्शितायाः सीतालतायास्त्रिजटा जटाऽभूत् ॥ (चम्पूरामायणम्, सुन्दर./२५)
तदिदमतिचमत्कारि चम्पूकाव्यम्। (मिश्रः, ई.२०१० : पृ.१४६)
अनेन प्रकारेण भोजराजस्य जीवनवृत्तविषये तस्य काव्य-काव्यशास्त्रविषये च विविधैः समीक्षकैर्विविधेषु सन्दर्भेषु समीक्षणं कृतं दृश्यते। मूलतः समीक्षकाः भोजराजस्य काव्यशास्त्रविषये जीवनवृत्तानुसन्धानविषये च केन्द्रिता विद्यन्ते। कतिपयैः समीक्षकैरस्य चम्पूरामायणकाव्यस्य विषये समग्रं समीक्षणं विहितमस्ति परं काव्यस्यास्य बालकाण्डमधिकृत्य सौन्दर्यपक्षस्याध्ययनं न केनापि समीक्षकेन समीक्षितम्। अतो लेखोऽयं नवीनानुसन्धानकार्ये समर्थोऽस्तीति प्रतीयते।
सौन्दर्यशास्त्रीयः सिद्धान्तः
काव्ये आनन्दप्रदायकं तत्त्वमेव सौन्दर्यम्। तत्त्वमिदं सहृदयानां हृदयमाकर्षयति। अस्याभावे काव्येऽलङ्कारत्वं रसत्वं ध्वनित्वं वा नैव संलक्ष्यते। कतिपयैः समालोचकैः काव्यशास्त्रमेव सौन्दर्यशास्त्रनाम्ना प्रतिष्ठापितम्। दण्डि-वामनाभिनवगुप्त-भोज-अप्पयदीक्षितादिभि आचार्यैः काव्ये सौन्दर्यस्यानिवार्यता प्रतिपादिता। दण्डिना सौन्दर्याधायकं तत्त्वमिदमलङ्कारत्वेन स्वीकृतम्, तेनोक्तञ्च –
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते। (काव्यादर्शः, २/१)
वामनेनालङ्कारस्य द्वितीयं नाम एव सौन्दर्यं प्रतिपादितम् –
सौन्दर्यमलङ्कारः। (काव्यालङ्कारसूत्रवृत्तिः, १/१/२)
काव्ये चारुत्वस्यातिशयप्रदर्शनमेव सौन्दर्यम्। यद्यलङ्काराः काव्ये सौन्दर्यवर्धका न भवन्ति चेत् तदा ते भूषणाः न, अपि तु दूषणा एव। वामनपूर्ववर्तिनो भामहोद्भटादयो गुणालङ्कारयोरभेदमङ्गीकुर्वन्ति, परं वामनः काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः (वामनः, ई. १९१०, पृ.१) इति स्वसिद्धान्तं प्रकटयति। असौ सौन्दर्यमलङ्कार इत्यलङ्कारलक्षणं प्रतिपाद्य दोषहानाद् गुणालङ्कारादानाच्चालङ्कारः सम्भवतीति कथयति। ध्वन्यालोककार आनन्दवर्धनः काव्यस्य प्रधानभूते रसे तदङ्गभूतयोः शब्दार्थयोरङ्गरूपेणाऽऽश्रिता अलङ्काराः कटकादिवद् भवन्तीति प्रतिपादयति (आनन्दवर्धनः, पृ.३४१)। असौ काव्ये रसादीनां व्यञ्जकत्वेनालङ्काराणां संयोजनं कर्तव्यमित्यलङ्कारप्रयोगस्थितिं प्रकटयति। काव्येऽलङ्कारा अङ्गित्वेन न प्रयोक्तव्या अपि तु रसस्याङ्गरूपेणैव निवेशनीया इत्यसौ प्रतिपादयति। मम्मटप्रतिपादितस्यालङ्कारस्य लक्षणानुसारेणाङ्गिनं रसमनुप्रासोपमादयोऽलङ्काराः शब्दार्थमाध्यमेनोपकुर्वन्ति, परं सर्वदैव न कदाचिदेव (मम्मटः, पृ.३८५)। आचार्यो जयदेवस्तु अनुष्णस्य अग्नेरिव शब्दार्थालङ्काररहितस्य काव्यस्याप्यसम्भवतां स्वीकरोति (जयदेवः, ई.१९९९, पृ.१०)। अलङ्कारसम्प्रदायप्रवर्तकस्य भामहस्यालङ्कारविषयकं मतमाधारीकृत्य दण्ड्युद्भट-रुद्रट-जयदेवसदृशा आचार्या काव्येऽलङ्कारतत्त्वमेव प्राधान्येन स्वीकुर्वन्ति। भामहानुसारमलङ्काररहितं काव्यमाभूषणरहिता वनिता इव न शोभते। अनेन रसस्य प्राधान्यमस्वीकृत्य रसो रसवदलङ्कारेऽन्तर्भावितः। भामह-दण्डि-रुद्रट-जयदेवप्रभृतय आचार्या अलङ्कारमेव साहित्यस्यात्मस्वरूपं मन्यन्ते, अपरेऽलङ्कारमहत्त्वाभिज्ञा ध्वनिवादिनो मम्मटजगन्नाथादयोऽपि स्वस्वग्रन्थेषु अलङ्कारान् विस्तरेण व्याकुर्वन्ति। तत्राभिनवगुप्तेन वाच्यार्थस्यापेक्षायां व्यङ्ग्यार्थे सौन्दर्यं दृश्यत इति प्रस्तुतम् – गुणालङ्कारौचित्यसुन्दरशब्दार्थशरीरस्य ध्वन्यात्मनि आत्मनि काव्यरूपताव्यवहारः (ध्वन्यालोकः, लोचनटीका, पृ.१७)। भोजराजेनापि काव्ये सौन्दर्यस्यानिवार्यता प्रकटिता। असौ कथयति – ‘धूमोऽयमग्नेः’ इत्यत्र काव्यत्वं न, कस्याप्यलङ्कारस्योदाहरणमपि न, यतोऽत्र सौन्दर्यं न। सौन्दर्यशास्त्रं न केवलं काव्यशास्त्र एव, अपितु ललितकलान्तर्गतासु नृत्यगीतवाद्यचित्रमूर्तिकलासु च विस्तारितं संलक्ष्यते।
विषयविश्लेषणम्
कविभोजराजेन विरचिते चम्पूरामायणकाव्ये पौरस्त्यकाव्यशास्त्रिभिः प्रतिपादितानां विविधानां काव्यसौन्दर्याणां प्राचुर्यं संलक्ष्यते। मूलतोऽत्रालङ्कार-रस-ध्वनि-गुण-वृत्तैर्निर्मितस्य सौन्दर्यस्य समीक्षणं विधीयते।
चम्पूकाव्यस्य परिचयो वैशिष्ट्यञ्च
गद्यपद्यमिश्रितं काव्यमेव चम्पूकाव्यम्। विविधैः प्राचीनै आचार्यैश्चम्पूकाव्यस्य विषये परिभाषा प्रदत्ता संलक्ष्यते, यथा-
प्रथमं कविर्दण्डिना चम्पूकाव्यस्य लक्षणं प्रस्तुतं यत् –
मिश्राणि नाटकादीनि तेषामन्यत्रविस्तरः।
गद्यपद्यमयी काचिच्चम्पूरित्यभिधीयते ॥ (काव्यादर्शः, १/३१)
तथैव हेमचन्द्रेण चम्पूकाव्ये मिश्रशैल्यातिरिक्तमङ्कानामुच्छ्वासानाञ्च परिकल्पना विहिता। अस्य चम्पूकाव्यलक्षणं यथा –
गद्यपद्यमयी साङ्का सोच्छ्वासचम्पूः। (काव्यानुशासनम्, ८/९)
एवञ्च विश्वनाथेन गद्यपद्यमयी रचना एव चम्पूरिति लक्षणं प्रस्तुतम्, यथा-
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते। (साहित्यदर्पणः, ६/३३६)
तथैव केनाप्यज्ञातेनाचार्येण चम्पूकाव्ये उक्ति-प्रत्युक्ति-विष्कम्भशून्यता भवतीति प्रतिपादितम्, यथा –
गद्यपद्यमयं साङ्का सोच्छ्वासा कविगुम्फिता।
उक्तिप्रत्युक्तिविष्कम्भशून्या चम्पूरुदाहृता ॥ (अज्ञात)
मूलरूपेण चम्पूकाव्यस्य वैशिष्ट्यानि बिन्दुरूपेणाधो निर्दिश्यन्ते –
१. गद्यपद्यमयम् २. अङ्कयुतम्
३. उच्छ्वासेषु विभक्तम् ४. अष्टाधिकपरिच्छेदयुतम्
५. मूलस्रोतः पुराणम् ६. वस्तुवर्णनस्याधिक्यम्
७. मुख्यपात्रस्य चरित्रचित्रणे केन्द्रितम् ८. शृङ्गार-वीर-शान्तानामेकस्याङ्गीरसत्वम्
९. गद्यांशस्य समासबाहुल्यम् १०. वार्णिक-मात्रिकछन्दसोः प्रयोगः
११. खलनिन्दा-सज्जनानां स्तुतिः १२. नायकत्वेन देवता-गन्धर्व-मानव-पशुपक्षिणाञ्च प्रयोगः
संस्कृतकाव्यपरम्परायां चम्पूकाव्यस्य महती भूमिका वर्तते। विविधेषु काव्यभेदेषु चम्पूकाव्यस्य स्थानमधो निर्दिष्टायां वृक्षरेखतालिकां प्रदर्श्यते –
चम्पूरामायणस्य बालकाण्डस्य कथासारः
कविना भोजराजेन विरचितं चम्पूरामायणं वाल्मीकिरामायणस्य कथामवलम्ब्य प्रणीतं काव्यमस्ति। चम्पूरामायणस्य बालकाण्डे ब्रह्मणा रामायणाख्यं ग्रन्थं रचयितुमादिष्टो वाल्मीकि रामायणं विरचय्य तस्य प्रचारार्थं कुशलवसमक्षं प्राप्नोतीति प्राक्कथा प्रस्तुता विद्यते। अनन्तरमत्र रामजन्मत आरभ्य सीतया सह विवाहानन्तरम् अयोध्याप्रत्यावर्तनपर्यन्ता कथा संयोजिता विद्यते।
राजा दशरथोऽनपत्यतया चिन्तितो वर्तते। स गुरोराज्ञया पुत्रलाभार्थं यज्ञं करोति। तदा एव रावणेन पीडाग्रस्ता देवा विष्णुं स्तुवन्ति। विष्णुश्च झटिति एव नवीनमवतारं गृहीत्वा भवतां समस्यां निवारयामि इति वचनं प्रददाति। तदनुरूपं राजा दशरथो यज्ञस्य प्रसादस्वरूपान् रामभरतलक्ष्मणशत्रुघ्नान् चत्वारः पुत्रान् प्राप्नोति। स तान् पुत्रान् शिक्षणार्थं गुरुकुले सम्प्रेषयति। प्रारम्भिकीं शिक्षां प्राप्य ते गृहं प्रति गच्छन्ति। कतिचित् कालानन्तरं विश्वामित्रः समागत्य ऋषीणां यज्ञबाधां परिहर्तुं दशरथेन सह रामं नेतुं याचते। वात्सल्यपीडितो राजा दुःखेन रामलक्ष्मणौ प्रेषयति। तत्र वने रामः ऋषीणां यज्ञान्तरायभूताया ताटकाया वधं विधाय विश्वामित्रादीनां मुनीनां हर्षं वर्धयति। तदनन्तरं विश्वामित्रो रामादीनां राजकुमाराणां विवाहयोग्यं वयो विचार्य तौ मिथिलां नयति। तत्र मिथिलागमनक्रमे मार्गे समागतानां प्राचीनमहत्त्वाधायकानां स्थानानाम्, गङ्गादीनां पवित्रनदीनाञ्च परिचयं प्रददाति। तत्रस्थानां प्राकृतिकसौन्दर्याणां वणर्नमस्य काव्यस्य वैशिष्ट्यं प्रतिपादयति। तदनन्तरम् अयोध्यां प्राप्य तत्र सीतास्वयंवरवणर्नम्, रामस्य शृङ्गारभावसौन्दर्यप्रकाशनञ्च मनोहारिभिः गद्यपद्यमयैर्वाक्यैः कृतं विद्यते। रामादीनां राजकुमाराणां विवाहानन्तरमयोध्यागमने नागरिका हर्षोल्लासपूर्वकं नववरवधूनां स्वागतञ्च कुर्वन्तीति बालकाण्डस्य कथावस्तु संलक्ष्यते।
चम्पूरामायणस्योपजीव्यं वाल्मीकिरामायणमेव संलक्ष्यते। संस्कृतसाहित्यस्य विद्वांसः काव्यरचनासन्दर्भे भूयसा पौराणिकाख्यानमुपजीव्यरूपेण स्वीकुर्वन्ति। तथैव रामायणं महाभारतञ्च कथावस्तुनः स्रोतोरूपेण स्वीकृत्य काव्यं रचयन्ति। एवञ्च भोजराजोऽपि वाल्मीकिप्रणीतस्य रामायणस्य कथामवलम्ब्य गद्यपद्यमयं चम्पूरामायणं निर्माति। वाल्मीकिरामायणे बालकाण्डादीनि षट्काण्डानि सन्ति। तथैवास्मिन् काव्येऽपि षट्काण्डानि विद्यन्ते। सर्गसङ्ख्या-कथावस्तु-भावसंयोजनादिदृष्ट्या वाल्मीकिरामायणमेवास्योपजीव्यमिति कविरेव प्रमाणयति। कविभोजः काव्यस्य प्रारम्भे रामायणस्यैव कथावस्तु पुनश्चम्पूशैल्या प्रणयने किं नावीन्यमायाति ? इत्याशङ्क्य भागीरथ्या गङ्गाया दृष्टान्तमुल्लिखति, यत्
वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैस्तृप्तिं करोमि कथमप्यधुना बुधानाम्।
गङ्गाजलैर्भुविभगीरथयत्नलब्धैः किं तर्पणं न विदधाति नरः पितृणाम् ॥
काव्येऽस्मिन् वाल्मीकिरामायणस्यादरभावप्रदर्शनाय कविः प्रायशः काण्डस्य प्रारम्भे समानशब्दग्रहणं करोति। अत्र काव्यप्रतिभाबलात् कविना काव्यसौन्दर्यं प्रकाशितमस्ति।
चम्पूरामायणस्य वैशिष्ट्यम्
कविभोजस्य चम्पूरामायणगतानि वैशिष्यानि सङ्क्षेपेणाधः प्रस्तूयन्ते –
रामायणाधारितं चम्पूकाव्यम्
बाल-अयोध्या-अरण्य-किष्किन्धा-सुन्दरकाण्डानि भोजप्रणीतानि
षष्ठं युद्धकाण्डं लक्ष्मणभट्टसूरिविरचितम्
मूलतो बालकाण्डं सुन्दरकाण्डञ्चातीव जनप्रियम्
बालकाण्डे ११७ श्लोकाः, गद्यभागश्च।
अनेन काव्यशास्त्रविषयकेषु ग्रन्थेषु काव्यस्वरूप-काव्यभेद-रसालङ्कार-नाटक-रीति-वृत्ति-शब्दशक्ति-ध्वनिप्रभृतीनां विषयाणां विस्तारपूर्वकं वणर्नं कृतम्
अस्यानुसारेण काव्यं त्रिविधम् – वक्रोक्तिः, रसोक्तिः, स्वभावोक्तिश्च। रसोक्तिस्तु महत्त्वपूर्णं काव्यम्
रसविषये दार्शनिकं मनोवैज्ञानिकञ्च व्याख्यानं कृतम्
शृङ्गाररसे एवानेन सर्वेषां रसाणामन्तर्भावनं कृतम्
अनेनालङ्कारस्य त्रयो भेदाः प्रकाशिताः – शब्दालङ्काराः, अर्थालङ्काराः, उभयालङ्कारश्च।
अत्र चम्पूरामायणगतानामलङ्काररसगुणादीनां सौदर्यपक्षाणां समीक्षणं विधीयते –
अलङ्कारसौन्दर्यम्
चम्पूरामायणे विविधानां शब्दार्थालङ्काराणां प्रयोगबाहुल्यं संलक्ष्यते। काव्येऽलङ्कारसंयोजनेऽसौ कुशलो दृश्यते, यतोऽनेन काव्यशास्त्रीयाः ग्रन्था अपि विनिर्मिताः सन्ति। अत्रास्य काव्यस्य बालकाण्डे संलक्षितानां शब्दार्थालङ्काराणां विश्लेषणं विधीयते।
अनुप्रासः
स्वरवैसादृश्येऽपि व्यञ्जनवर्णानां साम्येऽनुप्रासः। अस्यापि द्वौ भेदौ दृश्येते। अनेकस्य व्यञ्जनस्य सकृत् सादृश्यं छेकानुप्रासः तथैवैकस्यानेकस्य वा व्यञ्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृत्त्यनुप्रासः। एवञ्च तालुरदादिक एकस्मिन् स्थाने उच्चार्यत्वाद् व्यञ्जनस्य यद् सादृश्यं तत्र श्रुत्यनुप्रासः। तथैव स्वरवर्णयुतस्य व्यञ्जनस्य पादान्तावृत्तियोजने अन्त्यानुप्रासः। एवञ्च शब्दार्थयोः पौनरुक्त्ये तात्पर्यमात्रतो भेदप्रदर्शने लाटानुप्रासः कथ्यते (विश्वनाथः, १०/३-७)। चम्पूरामायणस्य बालकाण्डे विविधानामनुप्रासानां चमत्कारो द्रष्टुं शक्यते। तत्र लाटानुप्रासस्यैकमुदाहरणं यथा-
एनां पुराणनगरीं नगरीतिसालां
सालाभिरामभुजनिर्जितयक्षराजः ।
हेलाभिभूतजगतां रजनीचराणां
राजा चिरादवति रावणनामघेयः ॥ (बाल.१९)
अत्र नगरी-नगरी, साला-साला इति पदयुग्मयो आवृत्तिर्दृश्यते, अनयोः पदयुग्मयोस्तात्पर्यमात्रभेदात् लाटानुप्रासः।
श्लेषः
श्लिष्टैः पदैरनेकार्थाभिधाने श्लेषः। वणर्-प्रत्यय-लिङ्ग-प्रकृति-पद-विभक्ति-वचन-भाषाणां भेदाद् श्लेषोऽष्टधा (विश्वनाथः, १०/२)। चम्पूरामायणस्य बालकाण्डे यथा –
आजानपावनक्षीरां वृषानन्दविधियनीम्।
श्रुतिप्रणयिनीं सोऽयमापगामाव गामिव।। (बाल.५४)
अत्र वृषानन्दविधायिनीमित्यत्र वृषो धर्मं सुखं च, तथैवाजानपावनक्षीरामित्यत्र क्षीरं जलं दुग्धं चेत्यर्थद्वयप्रतिपादनात् श्लेषालङ्कारः।
उपमा
भिन्नयोरपि उपमानोपमेययोः साधर्म्ये उपमालङ्कारो भवति। एषोपमा पूर्णालुप्ताभेदेन द्विविधा। यत्रोपमानोपमेयसाधारणधर्मवाचकपदानामुपस्थितिर्दृश्यते तत्र पूर्णोपमा। यत्रैतेषु चतुर्षु तत्त्वेषु मध्ये एकस्य द्वयोर्वा लोपे लुप्तोपमा भवति (मम्मटः, १०/८७)। चम्पूरामायणस्य बालकाण्डे यथा –
जग्राह जनकात्सीतां तातादेशेन राघवः
आम्नायशासनेनार्चां यजमानादिवानलः ॥ (बाल.१०८)
अत्र यथा वेदवचसा वह्निर्यजमानविहितां होमादिक्रियां स्वीकरोति, तथैव दशरथाज्ञया रामः सम्प्रदातुर्जनकात् सीतां स्वीचकार इति सकलानामपि साधारणधर्मादीनामुपादानाद् पूर्णोपमालङ्कारः।
रूपकम्
उपमानोपमेययोरभेदारोपे रूपकालङ्कारः (मम्मटः, १० /९३)। रूपकालङ्कारे उपमानोपमेययो- रतिसाम्याद् भेदप्रतीतिरपह्नुता भवति। यथा –
लक्ष्मीं तनोतु नितरामितरानपेक्ष-
मङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम्।
हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं
विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥ (बाल.१)
श्लोके वेदरूपवृक्षस्य शिखा वेदान्तास्तत्रत्यं प्रवालं गणेशचरणं चरितवेदान्तत्वेन कवि वेदान्तवेद्यमुक्तवानिति ज्ञायते। अत्र निगमाः = वेदा एव शाखिनः = वृक्षा इत्यत्र निगमानां वृक्षेष्वभेदारोपात् रूपकालङ्कारः।
उत्प्रेक्षा
प्रकृतस्यार्थस्य असम्भविनोपमानेन सह यत्सम्भावनं क्रियते सैवोत्प्रेक्षा (मम्मटः, १०/९२)। चम्पूरामायणस्य बालकाण्डे यथा –
वाणीविलासमपरत्र कृतोपलम्भ-
मम्भोजभूरसहमान इवाविरासीत्।
आभाति यत्कृतिरनेकविधप्रपञ्च-
व्याजेन्द्रजालविधिसाधकपिच्छिकेव ॥ (बाल.७)
अत्र ब्रह्मा परमकारुणिकतया महर्षेर्वाल्मीकेव्र्याधविद्धक्रौञ्चदर्शनजनितशोकापनोदार्थं नारदोक्तमेवार्थं पुनरुपदेष्टुं च प्रादुरासीत्, तत्र स एवार्थोऽसहमानभावत्वेनोत्प्रेक्षितः। अत्र पूर्वार्धेऽसहमान इवेति हेतूत्प्रेक्षा। उत्तरार्धे चोपमा।
अतिशयोक्तिः
आरोपस्य निश्चयरूपत्वे सति अतिशयोक्त्यलङ्कारः। अस्यालङ्कारस्य भेदेऽभेदः, सम्बन्धेऽसम्बन्धः, तद्विपर्ययः, कार्यहेत्वोः पौर्वापर्यात्ययः इति भेदेन पञ्चधा। (विश्वनाथः, १०/४६)। चम्पूरामायणस्य बालकाण्डे यथा –
प्रह्लादस्य व्यसनममितं दैत्यवर्गस्य दम्भं
स्तम्भं वक्षःस्थलमपि रिपोर्यौगपद्येन भेत्तुम्।
बद्धश्रद्धं पुरुषवपुषा मिश्रिते विश्वदृष्टे
दंष्ट्रारोचिर्विशदभुवने रंहसा सिंहवेषे ॥ (बाल.१५)
अत्र क्रमिकस्य स्तम्भादिविदारणस्य यौगपद्यासम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः।
दृष्टान्तः
साधारणधर्मादीनां बिम्बप्रतिबिम्बभावेन प्रस्तुतिरेव दृष्टान्तालङ्कारः (काव्यप्रकाशः, १०/१०२)। चम्पूरामायणस्य बालकाण्डे यथा –
वाल्मीकिगीतरघुपुंगवकीर्तिलेशै-
स्तृप्तिं करोमि कथमप्यधुना बुधानाम्।
गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः
किं तर्पणं न विदधाति नरः पितृणाम् ॥ (बाल.४)
अत्र भगीरथेन महता यत्नेन भुवि समानीतया गङ्गया जनाः स्वपितृन् तर्पयन्ति तथैव वाल्मीकिना वर्णिताभिः रामकथाभिरहमपि बुधानां तृप्तिं करोमीति स्वस्य प्रयत्नस्य प्रतिबिम्बरूपेण भगीरथकथाप्रसङ्गवर्णनाद् दृष्टान्तालङ्कारः।
तुल्ययोगिता
प्रस्तुतानामप्रस्तुतानां वा पदार्थानामेकधर्माभिसम्बन्ध एव तुल्ययोगिता। (विश्वनाथः, १०/४७)। चम्पूरामायणस्य बालकाण्डे यथा –
तावुभौ भृगुवंशसम्भवौ चापदण्डजमदग्निसम्भवौ।
प्रह्वभावमवलम्ब्य केवलं राघवार्पितगुणौ बभूवतुः ॥ (बाल. ११३)
अत्र चापदण्डजमदग्निसम्भवयोः केवलप्रकृतयोः प्रकृतप्रह्वभावावलम्बनरूपैकक्रियाभिसम्बन्धात् तुल्ययोगितालङ्कारः।
अर्थान्तरन्यासः
यत्र साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण समर्थ्यते, विशेषो वा सामान्येन समर्थ्यते सोऽर्थान्तरन्यासालङ्कारः। (मम्मटः, १०/१०९)। चम्पूरामायणस्य बालकाण्डे यथा –
नूनं जनेन पुरुषे महति प्रयुक्तमागः परं तदनुरूपफलं प्रसूते।
कृत्वा रघूद्वहगतेः क्षणमन्तरायं यद्भार्गवः परगतेर्विहतिं प्रपेदे ॥ (बाल.११५)
अत्र जनो महापुरुषविषये यादृशमपराधं करोति, तदुचितं फलमवाप्नोतीति सामान्यकथनं श्लोकस्योत्तरार्धस्थितेन रामकार्ये विघ्नस्वरूपः परशुरामो रामेणैव विनष्ट इति विशेषकथनेन समर्थनादर्थान्तरन्यासालङ्कारः।
विरोधाभासः
वस्तुगत्या विरोधाभावेऽपि यत्र विरुद्धमिवाभिधानं स विरोधाभासः (अप्पयदीक्षितः, ७६)। चम्पूरामायणस्य बालकाण्डे यथा –
सङ्क्रान्तवर्णान्तरगाधिसूनोः सम्पर्कपुण्यादिव रामभद्रः।
क्षात्रक्रमात्पिप्पलदण्डयोग्यः पलाशदण्डादृतपाणिरासीत् ॥ (बाल.४९)
अत्र पिप्पलदण्डयोग्योऽपि पलाशदण्डादृतपाणिरिति सर्वतो विरोधस्य राक्षसशिक्षणपरतया परिहृतत्वाद्विरोधाभासालङ्कारः।
एकावली
यत्र पूर्वं पूर्वं वस्तु प्रति उत्तरोत्तरस्य वस्तुनो विशेषणरूपेण स्थापनमपोहनं वा तत्र एकावली।
(काव्यप्रकाशः, १०/१३१)। चम्पूरामायणस्य बालकाण्डे यथा –
उच्चैर्गतिर्जगति सिद्ध्यति धर्मतश्चेत्तस्य प्रमा च वचनैः कृतकेतरैश्चेत्।
तेषां प्रकाशनदशा च महीसुरैश्चेत्तानन्तरेण निपतेत् क्व नु मत्प्रणामः ॥ (बाल.२)
अत्र स्वर्गादिफलं धर्मकार्यात्, धर्मकार्यं वेदात्, वेदाः ब्राह्मणात् सार्थकाः भवन्तीति प्रस्तुतम्, अतोऽत्र पूर्वं पूर्वं प्रति क्रमेण विशेषणप्रयोगादेकावल्यलङ्कारः।
तद्गुणः
यत्र किमपि वस्तु स्वगुणमुत्सृज्यान्यस्य वस्तुनः समुज्ज्वलगुणयोगाद् तद्गुणतामेति, तत्र तद्गुणालङ्कारः (काव्यप्रकाशः, १०/१३७)
क्षीराम्भोधेर्जठरमभितो देहभासां प्ररोहैः
कालोन्मीलत्कुवलयदलद्वैतमापादयन्तम्।
आतन्वानं भुजगशयने कामपि क्षौमगौरे
निद्रामुद्रां निखिलजगतीरक्षणे जागरुकाम् ॥ (बाल.१४)
अत्र विष्णोर्देहप्रभायाः सम्पर्केण क्षीराम्भोधिमध्यभागस्य नैल्यवणर्नात् तद्गुणालङ्कारः।
रससौन्दर्यम्
रसः सत्त्वगुणस्याधिक्याद् विभावादिसमूहेनाखण्डः स्वतः प्रकाशमानः सुखमयः, ज्ञानरूपः, वेद्यान्तरपदार्थसम्पर्कशून्यः, ब्रह्मसाक्षात्कारसदृशः अलौकिकचमत्कारप्राणस्वरूपो भवति। रसोऽयं सहृदयैरात्माकृतिवदभिन्नत्वेनानुभूयते (विश्वनाथः, ३/२)। विभावानुभावव्यभिचारिभिर्भावैः परिपुष्टो रत्यादिस्थायिभाव एव रसतामेति। तत्र काव्यनाट्ययो रतयाद्युद्बाधका विभावाः। विभावस्यालम्बनोद्दीपनाख्यौ द्वौ भेदौ। एवञ्चोद्बुद्धं रत्यादिकभावं बहिःप्रकाशकोऽनुभावः कथ्यते। एवमेव साम्मुख्येन रसप्रकाशनार्थं सञ्चरणशीला भावा व्यभिचारिणः। तथैव रसानुभवाङ्कुरमूलरूपो भावः स्थायी निगद्यते (विश्वनाथः, ३/१७४) मूलरूपेणाचार्यैः शृङ्गारहास्यकरुणरौद्रवीरभयानक- बीभत्साद्भुतशान्ताश्चेति नवप्रकारका रसा मन्यन्ते।
चम्पूरामायणस्याङ्गी रसः करुण एव। काव्येऽस्मिन् तदतिरिक्तानामन्येषामपि रसानां प्रयोगः संलक्ष्यते –
करुणः
इष्टनाशादनभीष्टविषयप्राप्तेश्च करुणरसो भवति (विश्वनाथः, ३/२२२)। चम्पूरामायणं वाल्मीकिरामायणस्य सार इति भोजराजेन स्वयमेव स्वीकृतम्, अतोऽस्य काव्यस्याङ्गीरसत्वेन करुण एव विराजते। कविना ग्रन्थस्यारम्भ एव वाल्मीकिना प्रस्तुतं करुणरसमयं पद्यं यथावत् प्रस्तुतम् –
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ (बाल.६)
आदिकाव्योद्गमस्य मूलकारणं शोक एव। आनन्दवर्धनाचार्येणापि रामायणस्याङ्गी रस करुण एव स्वीकृतम् –
‘रामायणे हि करुणो रसः स्वयमादिकविना सूत्रितः ‘शोकः श्लोकत्वमागतः’ इत्येवंवादिना। निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता।’
वीरः
शत्रुपक्षस्य पराक्रमौदार्यदानशीलतादिगुणान् दृष्ट्वा तत्प्रशंसनं श्रुत्वा च तस्य प्रतिकाराय स्वमनसि प्रादुर्भूतादुत्साहाद् वीररसस्यानुभूतिर्भवति। चम्पूरामायणस्य बालकाण्डे रामेण स्वकीयबाहुबलप्रदर्शनेन धनुषि गुणारोपणेऽस्योत्साहभावस्याधिक्यप्रकाशनात् पाठका वीररसमनुभवन्ति, यथा –
रामे बाहुबलं विवृण्वति धनुर्वंशे गुणारोपणं
मा भूत्केवलमात्मना तिलकिते वंशेऽपि वैकर्तने
आकृष्टं नितरां तदेव न परं सीतामनोऽपि द्रुतं
भङ्गस्तस्य न केवलं क्षितिभुजां दोःस्तम्भदम्भस्य च ॥ (बाल.१०३)
शृङ्गारः
शृङ्गार मदनप्राप्तिकारणभूतो विद्यते। चम्पूरामायणस्य बालकाण्डे रामादीनां विवाहानन्तरं तेषां वधूभिः सहायोध्यां प्रत्यागनसन्दर्भे शृङ्गाररस्य प्रयोगः संलक्ष्यते –
लज्जावशादविशदस्मरविक्रियाभिस्ताभिवर्धूभिरतिपेलवमाप्तसौख्यान्।
इक्ष्वाकुनाथतनयान् प्रथमो रसानां तारुण्ययोगचतुरश्चतुरः सिषेवे ॥ (बाल.११६)
एवमेवात्र काव्येऽङ्गिरसरूपेण करुण एव विराजते परमस्याङ्गरूपेण तु वीर-शृङ्गार-शान्तप्रभृतीनां रसानामुपस्थितिर्दृश्यते। अतो रसप्रयोगदृष्ट्या काव्यमिदं सफलं प्रतिभाति।
गुणसौन्दर्यम्
काव्यस्याङ्गिरूपेण विद्यमानस्य रसस्य धर्मा गुणाः, एते आत्मनः शौर्यादय इव। गुणा अव्यभिचारेण रसस्य पोषका विद्यन्ते, एवञ्चैते रसस्योत्कर्षकारका एवेति (मम्मटः, ८/६६)।
चम्पूरामायणकाव्ये माधुर्यौजप्रसादाख्यानां गुणानां मध्ये माधुर्यं प्रसादश्च निरतिशयं दीव्यति। काव्ये प्राधान्येन प्रसादगुणस्य प्रयोगो दृश्यते। कतिपयेषु पद्येषु विद्यमानमोजोऽपि सहृदयानाह्लादयति।
माधुर्यम्
शृङ्गारादिरसनिष्ठं द्रुतिकारणमेव माधुर्यम् (मम्मटः, ८/७१)। माधुर्यं सम्भोगशृङ्गारापेक्षया करुणे, तदपेक्षया विप्रलम्भे, तदपेक्षया शान्ते सातिशयं सहृदयैरनुभूयते। समासरहिता अल्पसमाससहिता वा मधुरा रचना माधुर्यगुणस्य व्यञ्जिका। यथा –
तां नदीं विवुधा लब्ध्वा नागलोकमनीनयत्।
तपस्यन्तीं गिरिगौरीं देवाय महते ददौ ॥ (बाल.५७)
अत्र समासरहितानां मधुराणां रचनानां प्रयोगाद् माधुर्यगुणः।
ओजः
चित्तस्य दीप्ततायाः कारणमेवौजः। वीरबीभत्सरौद्रेषु रसेषूत्तरोत्तरमोजस आधिक्यं भवति। रेफेण युक्तो टवर्गः, शकारषकारौ, दीर्घसमासः, विकटा रचना च ओजोगुणव्यञ्जिका (मम्मटः, ८/६९)। यथा –
रामाकर्षणभग्नकार्मुकभुवा ध्वानेन रोदोरुधा
दृप्तक्षत्रयशः सतच्छदकुले जीमूतनादायितम्।
वीरश्रीप्रथमप्रवेशसमये पुण्याहघोषायितं
सीतायाः किल मानसे परिणये माङ्गल्यतूर्यायितम् ॥ (बाल.१०४)
अत्र रेफयुतानां शब्दानां दीर्घसमासानां च प्रयोगदर्शनात् ओजोगुणः।
प्रसादः
यथाऽग्निः शुष्कमिन्धनं सहसैव व्याप्नोति यथा वा जलं स्वच्छं पटं झटित्येव व्याप्नोति तथैव यो गुणश्चित्तं सहसैव व्याप्नोति, स एव प्रसादः (मम्मटः, ८/७०)। प्रसादगुणः सर्वेषु शृङ्गारादिरसेषु सर्वासु पदसंघटनरूपासु रचनासु व्यङ्ग्यव्यञ्जकभावेन तिष्ठति। यथा –
योगेन लभ्यो यः पुंसां संसारापेतचेतसाम्।
नियोगेन पितुः सोऽयं रामः कौशिकमन्वगात् ॥ (बाल.३५)
अत्रासमसस्तरचना श्रुतिमात्रतोऽर्थबोधसामर्थ्ययुता संघटना दृश्यते। अतोऽत्र प्रसादगुणः।
एभिर्माधुर्योजप्रसादाख्यगुणैश्चास्य काव्यस्य बालकाण्डगतं सौन्दर्यपक्षं समेधितमस्ति।
छन्दसः सौन्दर्यम्
छन्दो वृत्तशब्देनाप्यभिधीयते। छन्दसा श्रुतिमाधुर्यमुत्पद्यते। छन्दःप्रयोगेणैव काव्यपठने श्रवणे च जनरुचिर्जागर्ति। सन्दर्भानुकूलानां छन्दसां प्रयोगः काव्यशोभां वर्धयति।
अस्मिन् चम्पूरामायणकाव्यस्य बालकाण्डे वार्णिकच्छन्दसां प्रयोगो दृश्यते। अस्मिन् काव्ये शार्दूलविक्रीडितम्, उपजातिः, वसन्ततिलका, इन्द्रवज्रा, द्रुतविलम्बितम्, उपेन्द्रवज्रा, पृथ्वी, अनुष्टुभ्, मालिनी, रुचिरा, मन्दाक्रान्ता, रथोद्धता, स्रग्धराचेति त्रयोदशसङ्ख्यकानां प्रसिद्धानां छन्दसामुपयोगो विद्यते। अस्य काव्यस्योपजीव्यकाव्ये वाल्मीकिरामायणे प्रायशोऽनुष्टुप्छन्दसः प्रयोगो दृश्यते। अत्र कविनाप्यनुष्टुप्छन्दसोऽधिकः प्रयोगो विहितः। अस्य काव्यस्य बालकाण्डे प्रयुक्तानां छन्दसां विवरणमत्र तालिकायां प्रदर्श्यते –
क्र.सं. छन्दसां नाम श्लोकाः सङ्ख्या
१. शार्दूलविक्रीडितम् २९, ४१, ४८, १०३, १०४, १०६, ६
२. उपजातिः १०, ४९, ९०, ९७ ४
३. वसन्ततिलका १-५, ७, १२, १६, १८-२१, २७, ३८,
३९, ५०, ५२, ९४, ११२, ११५, ११६, २१
४. इन्द्रवज्रा ११, २८, ३४, ९६ ४
५. द्रुतविलम्बितम् २४ १
६. उपेन्द्रवज्रा २५ १
७. पृथ्वी १०५ १
८. अनुष्टुभ् ६, २२, ३०-३३, ३५-३७, ४०, ४२-४४,
५१, ५४-८९, ९१-९३, ९८, १०१, १०२,
१०७, १०८, ११०, ११४, ११७ ६१
९. मालिनी ८, १७, ४५, ४६, ४७, ५३, ९९, १०९, १११, ९
१०. रुचिरा ९ १
११. मन्दाक्रान्ता १३, १४, १५, २३, १०० ५
१२. रथोद्धता २६, ११३, २
१३. स्रग्धरा ९५ १
श्लोकसङ्ख्या ११७
अत्रैतेषां छन्दसामेकैकेनोदाहरणमाध्यमेन परिचयः प्रस्तूयते –
शार्दूलविक्रीडितम् – शार्दूलविक्रीडितच्छन्दसि क्रमशो मसजसततगणा भवन्ति। अन्त्ये एको गुरुवर्णश्चागच्छति। एकोनविंशत्यक्षरात्मकेऽस्मिन् वृत्ते द्वादशाक्षरे सप्तमाक्षरे च यतिर्भवति (भट्टकेदार, २०३७, पृ.१२८)। अस्यैकमुदाहरणम् –
उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि।
निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणे-
राविर्भूतमभूतपूर्वमपरं यत्किञ्चिदेकं महः।। (बाल.२९)
उपजातिः – यत्रोपेन्द्रवज्रायाश्चरणमिन्द्रवज्रायाश्चरणेन योगं प्रयाति तत्रोपजातिवृत्तम् (शर्मा, ई.१९५८, पृ.४१)। यथा-
छन्दोमयीनां निलयस्य वाचामन्ते वसन्तौ मुनिपुङ्गवस्य।
एतौ कुमारौ रघुवीरवृत्तं यथाक्रमं गातुमुपाक्रमेताम्।।(बाल.११)
वसन्ततिलका – यत्र तगणभगणौ जगणद्वयं पुनर्द्वौ गुरुवर्णौ भवेतां तत्र वसन्ततिलकावृत्तम् (क्षेमेन्द्र, ई.१९६८, पृ.१०९)। यथा –
लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम्।
हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥ (बाल.१)
इन्द्रवज्रा – इन्द्रवज्रावृत्ते द्वौ तगणौ, एको जगणः, द्वौ गुरुवर्णौ च भवन्ति (क्षेमेन्द्र, ई.१९६८, पृ.१०९)। यथा –
अस्ति प्रशस्ता जनलोचनानामानन्दसंदायिषु कोसलेषु।
आज्ञासमुत्सारितदानवानां राज्ञामयोध्येति पुरी रघूणाम्।।(बाल.११)
द्रुतविलम्बितम् – द्रुतविलम्बितवृत्तस्यैकपादे क्रमेण नगणभगणौ भगणरगणौ च भवतः (गङ्गादास, ई.१९७६, पृ.५६)। यथा –
अवभृथेऽवसिते सरयूतटादथ यथायथमुच्चलिते जने।
दशरथः परिपूर्णमनोरथः पुरमगात्पुरुहूतपुरोपमाम्।।(बाल.२४)
उपेन्द्रवज्रा – उपेन्द्रवज्रावृत्ते जतजगणाः, द्वौ गुरुवर्णौ च भवन्ति (भट्टकेदार, २०३७, पृ.८७)। यथा – अपाटवात्केवलमङ्गकानां मनोज्ञकान्तेर्महिषीजनस्य।
शनैः शनैः प्रोज्झितभूषणानि चकाशिरे दौहृदलक्षणानि।।(बाल.२५)
पृथ्वी – पृथ्वीवृत्ते क्रमशः जसजसयगणाः, एको लघुवर्णः, एको गुरुवर्णश्च भवन्ति। अत्र क्रमेण अष्टसु नवसु च वर्णेषु यतिर्भवति (गङ्गादास, ई.१९७६, पृ.५३)। यथा –
रवः कठिनकर्षणत्रुटितचापजन्मा क्षणा-
द्दिशां द्विरदधिङ्कृतैः कृतहरित्पतिस्वागतः।
जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गना-
प्रयाणपटहध्वनिं प्रथयति स्म तारध्वनिः।।(बाल.२५)
अनुष्टुभ् – अष्टाक्षरसमायुक्तस्यानुष्टुब्वृत्तस्य सर्वेषु चरणेषु पञ्चममक्षरं लघुः, षष्ठमक्षरं गुरुः, द्वितीये चतुर्थे च चरणे सप्तममक्षरं लघुः, प्रथमे तृतीये च चरणे सप्तममक्षरं गुरुर्भवति (शर्मा, ई.१९५८, पृ.३०)। यथा-
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।। (बाल.२५)
मालिनी – ननमययगणसहिता मालिनी भवति। अत्राष्टाक्षरैः सप्तभिरक्षरैश्च यतिर्भवति (ढकालः, २०६७, पृ.३०१)। यथा –
अथ सरसिजयोनेराज्ञया रामवृत्तं करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या।
शुभमतनुत काव्यं स्वादु रामायणाख्यं मधुमयभणितीनां मार्गदर्शी महर्षिः।।(बाल.८)
रुचिरा – रुचिरावृत्ते जभसरगगणा भवन्ति। अत्र चतुर्भिर्नवभिश्चाक्षरैर्यतिर्जायते (भट्ट, ई.१९९९, पृ.७३)। यथा-
उपागतौ मिलितपरस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ।
विचक्षणौ विविधनरेन्द्रलक्षणौ कुशीलवौ कुशलवनामधारिणौ।। (बाल.९)
मन्दाक्रान्ता – मन्दाक्रान्ताछन्दसि मभनततगगगणा भवन्ति। अत्र चतुर्भिः षड्भिः सप्तभिश्चाक्षरैः यतिर्भवति (ढकालः, २०६७, पृ.३०५)। यथा –
सन्तापघ्नं सकलजगतां शार्ङ्गचापाभिरामं
लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम्।
वैकुण्ठाख्यं मुनिजनमनश्चातकानां शरण्यं
कारुण्यापं त्रिदशपरिषत्कालमेघं ददर्श।। (बाल.१३)
रथोद्धता – रथोद्धताछन्दसि रनरलगगणा भवन्ति (ढकालः, २०६७, पृ.२११)। यथा –
मन्दमन्दमपयद्वलित्रया गाधताविषयनाभिगह्वरा।
कोसलेन्द्रदुहितुः शनैरभून्मध्ययष्टिरपि दृष्टिगोचरा।। (बाल.२६)
स्रग्धरा – स्रग्धरावृत्ते म-र-भ-न-य-य-यगणा भवन्ति। अत्र त्रिबारं सप्तभिरक्षरैश्च यतिर्जायते (ढकालः, २०६७, पृ.२११)। यथा –
तिष्ठन् क्षत्रार्हवृत्तौ मुनिरगमदसावाश्रमं ब्रह्मसूनो-
रातिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्राभवादित्यवेत्य।
सा तेन प्रार्थिताभूत्तदनु मुनिवरे नाभ्युपेते चकर्ष
क्रोशन्तीं तां तयैव प्रचुरबलजुषा कान्दिशीको बभूव।।(बाल.२६)
अत्र वर्ण्यविषयानुकूलानां छन्दसां समुचितः प्रयोगः संलक्ष्यते। रसानुकूलानां विषयानुकूलानाञ्च छन्दसां संयोजनेनापि चम्पूरामायणकाव्यस्य सौन्दर्यं समेधितमस्ति।
निष्कर्षः
संस्कृतचम्पूकाव्यपरम्परायां कवेर्भोजस्य चम्पूरामायणकाव्यस्य विशिष्टं स्थानमस्ति। संस्कृतसाहित्येऽस्य कवेर्विशिष्टा प्रतिभा विराजते। अत्र गद्यपद्यमय्यां शैल्यां कविना रामकथा प्रस्तुता। वाल्मीकिना संरचितमध्यात्मरामायणमेवास्योपजीव्यं काव्यम्। रामायणस्य प्रत्यक्षेण प्रभावेणैवानेन एतत्काव्यं संरचितम्। अत्र बाल-अयोध्या-आरण्य-किष्किन्धा-सुन्दर-युद्धकाण्डानि सन्ति। षट्काण्डेषु विरचितेऽस्मिन् काव्ये रामजन्मत आरभ्य सीतया सह विवाहानन्तरम् अयोध्याप्रत्यावर्तनपर्यन्ता कथा संयोजिता विद्यते। अत्रानुप्रासश्लेषोपमोत्प्रेक्षारूपक- विरोधाभासादीनां शब्दार्थालङ्काराणामौचित्यपूर्वकं प्रयोगो दृश्यते। अत्रालङ्कारप्रयोगे कविना प्रयत्नो न विहितः, अत्र येऽलङ्काराः प्रयुक्ताः सन्ति, तेऽयत्नेनैव परिगताः प्रतीयन्ते। काव्येऽस्मिन् रसभावगुणालङ्कारादीनां काव्यतत्त्वानां समुचितो विन्यासः प्राप्यते। शब्दार्थालङ्काराणां कुशलेन संयोजनेनास्य महाकाव्यं सहृदयहृदयाह्लादकं प्रतीयते। अत्र ललितानां पदानां मञ्जुलः सन्निवेशो वर्तते। काव्यमिदं श्रुतिमधुरमानन्दसन्दोहप्रदायकञ्चानुभूयते। अस्मिन् काव्ये भामह-रुद्रट-दण्डि-मम्मट-विश्वनाथादिभिः पौरस्त्यकाव्यशास्त्रिभिः प्रतिपादितानामलङ्कार-रस-ध्वनि-गुण-रीति-छन्दसां च सान्दर्भिकं संयोजनं संलक्ष्यते। अस्य चम्पूकाव्यस्य बालकाण्डस्य पद्येषु काव्यसौन्दर्यं प्रचुरतरं विलोक्यते। विषयवस्तूनां सन्दर्भानुसारेणात्रालङ्काररसगुणछन्दसां च प्रयोगो विहितः संलक्ष्यते। अत्र संयोजितानि काव्यतत्त्वानि काव्यस्य सौन्दर्यपक्षं भावपक्षं च परिपोषयितुं सार्थकाः संलक्ष्यन्ते।
सन्दर्भग्रन्थसूचीः
अप्पयदीक्षितः (ई.१९७६), कुवलयानन्दः, (व्या.भोलाशङ्करव्यासः), चौखम्बाविद्या भवन।
आनन्दवर्धन (ई.२००६), ध्वन्यालोकः, चौखम्बा संस्कृत सिरिज अफिस।
उपाध्याय, बलदेव (ई.१९९२), संस्कृत साहित्य का इतिहास (दशम सं.), शारदा निकेतन।
कृष्णकुमार (ई.१९९८), अलङ्कार शास्त्र का इतिहास (पं.सं.), साहित्यभण्डार।
क्षेमेन्द्रः (ई. १९६८ ), सुवृत्ततिलकम्, चौखम्बा संस्कृत सिरिज अफिस।
गङ्गादासः (ई.१९९७ ), छन्दोमञ्जरी, ष.सं., चौखम्बा संस्कृत सिरिज अफिस।
जयदेव (ई.१९९९), चन्द्रालोकः, चौखम्बा सुरभारती प्रकाशन।
ढकाल, वेणीमाधव (२०६७), काव्यदीपिका, (दो.सं.), विद्यार्थी पुस्तक भण्डार।
दण्डी (ई.१९९७), काव्यादर्शः, चौखम्बा विद्याभवन।
भट्ट, केदारः (२०३७), वृत्तरत्नाकरः, ष.सं., चौखम्बा संस्कृतसंस्थान।
भोजराजः (ई.१८२०), चम्पूरामायणम्, (टीका-रामचन्द्रबुधेन्द्र), काशीनाथ पाण्डुरङ्ग परव।
………. (ई.२०१९), चम्पूरामायणम्, (टीका-रामचन्द्रमिश्र), चौखम्बाविद्याभवन।
………..(ई. १९३४), सरस्वतीकण्ठाभरणम्, (टीका-रामसिंह), पाण्डुरङ्ग जावजी।
मम्मटः (ई.१९९४), काव्यप्रकाशः (द्वि.सं.), (व्या. – वासुदेव शास्त्री अभ्यंकर), चौखम्बा विद्याभवन।
मिश्रः, रामचन्द्र (ई.२०१०), संस्कृतसाहित्येतिहासः, चौखम्बाविद्याभवन।
राजपुरोहित, भगवतीलाल (ई.१९९०), राजा भोज का रचना विश्व, पब्लिकेसन स्किम।
राजवंश सहाय ‘हीरा’ (ई.१९७०), अलङ्कारानुशीलन, चौखम्बा विद्याभवन।
………. (ई.२००२), संस्कृत साहित्य-कोश (च.सं.), चौखम्बा विद्याभवन।
विश्वनाथः (ई.१९९५), साहित्यदर्पणः (पञ्चम सं.), कृष्णदास अकादमी।
शर्मा, वसन्त (ई. १९५८ ), वृत्तमञ्जरी, चौखम्बा विद्याभवन।