चम्पूरामायणस्य बालकाण्डस्य पद्यानां काव्यसौन्दर्याणामनुशीलनम्

कविभोजराजेन विरचितं चम्पूरामायणकाव्यं चम्पूकाव्यपरम्परायां सुविख्यातमस्ति। विविधरसभावैः विलसितेऽस्मिन् महाकाव्ये शब्दार्थालङ्काराणां गुणरीतीनाञ्च सम्यक् संयोजनं संलक्ष्यते। लेखेऽस्मिन् कविभोजराजविरचितस्य चम्पूरामायणकाव्यस्य बालकाण्डे कीदृशानामलङ्काराणां रसभावानां गुणानां छन्दसां च प्रयोगो विहितोऽस्तीति तथ्यं काव्यशास्त्रीयसिद्धान्तदृष्ट्याऽनुशीलनं कृतमस्ति।