आलेखेऽस्मिन् श्रीमता वेङ्कटेशेन गौतममहर्षेः न्यायसूत्राणां याऽऽलोचना न्यायपरिशुद्धिनामके ग्रन्थे विहिताऽस्ति तस्या एवालोचनाया यथाशक्यमध्ययनमत्र मया विहितं वर्तते। यतो हि को नाम दर्शनजगति न्यायदर्शनस्य वैशिष्ट्यं नाभिजानाति ? अथापि किमर्थं न्यायसूत्राणामालोचना कर्तव्याऽभूत् वेङ्कटेशाय ?
लक्ष्मण आचार्यः
उपप्राध्यापकः,
ने.सं.वि.वाल्मीकिविद्यापीठस्य
Email: laxmanac.42@gmail.com
लेखसारः
आलेखेऽस्मिन् श्रीमता वेङ्कटेशेन गौतममहर्षेः न्यायसूत्राणां याऽऽलोचना न्यायपरिशुद्धिनामके ग्रन्थे विहिताऽस्ति तस्या एवालोचनाया यथाशक्यमध्ययनमत्र मया विहितं वर्तते। यतो हि को नाम दर्शनजगति न्यायदर्शनस्य वैशिष्ट्यं नाभिजानाति ? अथापि किमर्थं न्यायसूत्राणामालोचना कर्तव्याऽभूत् वेङ्कटेशाय ? इति या कुतूहलता मनसि जायते तस्या उपशमनार्थमत्र मया तस्य अध्ययनं कृत्वा वेङ्कटेशस्य गौतमसूत्राणामुपरि विहित आलोचनाप्रकारः, तस्योपयुक्तत्वानुपयुक्तत्वादि च सर्वं पर्यालोच्य अयमालेखः सज्जीकृतो वर्तते। वेङ्कटेशप्रदर्शितस्य तदीयपक्षस्य स्वीकार–अस्वीकाररीत्योश्च अध्ययनमत्र मया विहितं वर्तते। गुणात्मकशैल्यां सज्जीकृतेऽस्मिन् आलेखे च निगमनात्कविधेरुपयोगो विहितो वर्तते। सामग्रीसंकलनार्थं पुस्तकालयीयविधेरुपयोगेन साकं विषयस्य स्फुटतरप्रतिपत्तये विदुषां परामर्शस्य चोपयोगो विहितो वर्तते।
शब्दकुञ्जिका– आन्वीक्षिकी, प्रमाणशोधनम्, परिशोधनरीतिः, वेदोपाङ्गत्वम्, स्वीकारास्वीकारप्रदर्शनरीतिः।
विषयप्रवेशः/पृष्ठभूमि
महर्षिगौतमप्रणीतस्य न्यायशास्त्रस्य सर्वविद्योतमत्वं को न जानाति दर्शनजगति ? न्यायदर्शनस्य विशिष्टं स्थानं जानद्भिः पराशर–याज्ञवल्क्य–मनुप्रभृतिभिः महर्षिभिरत एवास्य दर्शनस्य विद्यास्थाननिरूपणावसरे पृथक् ग्रहणं कृतं वर्तते। श्रीमद्भागवते प्रह्लादचरित्रे, श्रीकृष्णस्य विद्याध्ययनकाले च वर्णितकथायामपि आन्वीक्षिक्यपरनामधेयस्यास्य दर्शनस्य सादरं नामग्रहणं कृतं प्राप्यते। एतावता किं ज्ञायते इति चेत् न केवलं बाह्यपदार्थानां विश्लेषणे न्यायशास्त्रं स्थिरं वर्तते अपितु न्यायशास्त्रस्यापि प्रयोजनं वदता महर्षिणा गौतमेन निःश्रेयसप्राप्तिरेव मुख्यप्रयोजनमिति प्रथमसूत्रतः कण्ठत एव संसूचनात्, सर्वविद्योत्तमस्य न्यायदर्शनस्यालोचनं किं वा महर्षिगौतमोपज्ञानां न्यायसूत्राणां खण्डनं न तावत् सहजम्, अथापि न्यायसूत्रानधिकृत्यैव वेङ्कटेशेन विदुषा न्यायपरिशुद्धिग्रन्थस्य न्यायसूत्राणामालोचनपरकतया निर्माणं कियद् न्याय्यमिति मनसि जिज्ञासा जागर्ति एव। उक्तालोचनञ्च वस्तुतः किमुद्देश्यकमस्तीत्यपि अवश्यमेव ज्ञेयमिति कृत्वा वेङ्कटेशकृतस्य न्यायसूत्राणामालोचनस्य अध्ययमत्र मया कृतं वर्तते। जयन्तभट्ट–उद्योतकरप्रभृतयो विद्वांस इमं गौतमोपज्ञं न्यायदर्शनं बहु प्रशंसन्ति। न केवलमेते अपितु काणादादिदर्शनमिव न्यायदर्शनस्य खण्डनीयत्वं नास्तीति जानन् श्रीवेदव्यासोऽपि खण्डनीयत्वेन न्यायदर्शनं साक्षान्न निर्दिशति वेदान्तसूत्रे। इदं सर्वं दृष्ट्वा किं ज्ञायते इति चेत् न्यायदर्शनस्य स्थानं नूनं महनीयं वर्तते। इदं च तथ्यं स्वयं वेकटेशोऽपि प्रकटयति तत्र तत्र। अथापि तद्वारा कृतं न्यायसूत्राणामालोचनं किं निमित्तकमिति प्रश्नो जागर्ति पुनः।
इदानीन्तनानि गौतममहर्षिप्रणीतत्वेन ज्ञातानि सर्वाण्यपि न्यायसूत्राणि सर्वथा वैदिकमतानुकूलानि न सन्तीति वैदिकमतविरूद्धतया स्थितानां तेषां सूत्राणां संशोधनमुखेनैव मुमुक्षुभिः ग्रहीतुं शक्यानि भवन्तीति मन्वानेन वेङ्कटेशेन विरूद्धांशानामालोचना तत्र कृतास्तीति निश्चीयते। नो चेत् न्यायशास्त्रस्य वेदप्रामाण्यवादित्वकथनं एकदेशिसत्यता एव स्यात्। यतो हि तत्रत्याः बहवो विषया वैदिकमार्गानुकूला न सन्तीति साक्षात् सूत्रदर्शनेनैव ज्ञायते। वेदप्रामाण्यवादिना न्यायशास्त्रेण च वैदिकमार्गं विहाय न कस्मिन् अपि अंशे गन्तव्यमासीदिति श्रीवेङ्कटेशस्य आशयो ज्ञायते। न्यायसूत्राणि सर्वथा अनालोच्यानि भवन्तीति तु सर्वथा न वक्तुं शक्यमेव दर्शनजगति। अत एव न्यायभूषणकारप्रभृतिभिरपि पश्चकालिकैः कतिपयैराचार्यैः कतिपयस्थलेषु गौतममतस्य आलोचना विहिता दृश्यते। विशिष्टाद्वैतसम्प्रदायस्थैः कतिपयपूर्वाचार्यैरपि तत्तत्स्थलेषु न्यायदर्शनस्य खण्डनं विहितं वर्तते इति च स्वयमेव वेङ्कटेशो निर्दिशति न्यायपरिशुद्धौ। परन्तु भाष्यकार–उद्योतकरप्रभृतिभिः पश्चकालिकैः न्यायदर्शनसमुद्धारकैराचार्यैः बौद्धादिगोष्ठीतो न्यायदर्शनस्य संरक्षणेऽपि बहुषु विषयेषु यत्र तथाव्याख्याने अकृतेऽपि संभवति स्म तत्रापि प्रकृतन्यायदर्शनस्य स्वरूपमन्यथाकृतमिति अस्य आरोपो वर्तते। कतिपयस्थले सूत्राणां वेदानुकूलार्थनिर्वाहनबलादपि सूत्राणि व्याख्यातुं शक्यन्ते स्म। यत्र सर्वथा विरोधः प्रतीयते तत्रान्यार्थपरिकल्पनेनापि निर्वाहः सम्भवप्रायम्, परन्तु तत्रापि न्यायसूत्रव्याख्यातृभिः भाष्यकार–वार्तिकार–जयन्तभट्टप्रभृतिभिस्तथा न कृतमिति तु तथ्यम्। एवञ्च गौतमीयन्यायसूत्राणामत्र परिशोधनोद्देश्येन उक्तपरिशुद्धिग्रन्थस्य आगतत्वात् परिशुद्धिकारकृतालोचनप्रकारोऽत्र विशेषतो विचिन्त्यते अग्रे। न्यायदर्शनस्य बहुषु विषयेषु एकैकं विषयमधिकृत्य पूर्वाचार्यैरर्वाचीनैश्च विद्वद्भिः विषयस्य चिन्तनकरणेऽपि वेङ्कटेशकृतस्य न्यायसूत्रालोचनस्य पर्यालोचनं कैश्चिदपि न कृतमस्तीति मत्वा एतद्विषये केषांचिदपि पूर्वसम्पादितानां लेखानां शोधग्रन्थानां वा दृष्ट्यगोचरीभूतत्वेन नूनमयं विषयो मत्कृते नूतनो वर्तते इति विभावयामि। वस्तुतोऽयं विषयः शोधस्य विषयोऽस्ति। यतो वेङ्कटनाथेन परिशुद्धिग्रन्थे गौतमीयपदार्थानां शोधनमुखेन यद् आलोचनं किंवा तेषां शोधनीयत्वस्य अत्यावश्यकत्वं प्रदर्शितमस्ति तस्य समग्रतः पर्यालोचनमप्येकोऽनुसन्धानस्य विषयो भवितुमर्हतीति मत्वा अहमेव विषयेऽस्मिन् शोधकार्यं कर्वन्नस्मि। तदंगत्वेनैव अयमालेखो मया सज्जीकृतोऽस्त्यत्र। आलेखेऽस्मिन् मया सामान्यतः इदमित्थं स्यादिति प्राक्कल्पना सम्भाविता वर्तते। परिशुद्धिग्रन्थस्थविषयान् आदाय लेखाश्च प्राप्यन्ते। उक्तसमग्रग्रन्थमादाय एकः शोधप्रबन्धोऽपि मया प्राप्तो वर्तते परन्तु यो विषयः तत्र मया अनुसन्धानस्य विषयत्वेन गृहीतो वर्तते तस्मिन् विषये ते ते लेखाः केन्द्रिता न दृश्यन्ते, अतो नूनमयं विषयो मत्कृते अनुसन्धेयार्होऽस्तीति तदंगत्वेनैव अयमालेखो वर्तत इति विनिवेद्यते।
समस्या/शोधप्रश्नः
न्यायपरिशुद्धिग्रन्थे गौतमीयसूत्राणां शोधनीयत्वसन्दर्भे एताः समस्या दृग्गोचरीभवन्ति–
क– गौतमीयसूत्राणामालोचनस्य बीजं किम् ?
ख– वेंकटेशद्वारा गौतमीयसूत्राणामालोचनकरणम् समुचितं न वा ?
एतत्प्रभृतयः समस्या अत्र स्वस्य आलेखस्य मुख्यप्रश्नत्वेन/समस्यात्वेन वर्तन्ते
अध्ययनोद्देश्यम्
न्यायपरिशुद्धिकारेण गौतमीयसूत्राणां कृतालोचनस्य परिशीलनेनाधोनिर्दिष्टानां समस्यानां समाधानकरणमेव आलेखस्यास्य प्रमुखमुद्देश्यमस्ति।
क– गौतमीयसूत्राणामालोचनस्य बीजान्वेषणम्।
ख– वेंकटेशकृतगौतमीयसूत्रालोचनस्य पर्यालोचनम्।
शोधविधिः, क्षेत्रम्, सीमाङ्कनं च
आलेखेऽस्मिन् आवश्यकसामग्रीणां सङ्कलनाय मुख्यत्वेन पुस्तकालयीयाऽध्ययनविधेरेवाऽवलम्बनं कृतमस्ति। उपर्युक्तविधिद्वारा संकलितसामग्रीणामध्ययनेन वस्तुनिष्ठं चिन्तनं सम्पाद्य तत आवश्यकतानुसारेणाऽधुनिक–वैज्ञानिकाऽगमनात्मक–निगमनात्मकविध्योरवलम्बनं कृत्वा अयमनुसन्धानात्मक आलेखः सम्पादितो विद्यते।
आलेखे च न्यायपरिशुद्धिकारप्रदर्शितयोः प्रमाणानां स्वीकार–अस्वीकारपक्षयोश्च विचार्यमाणत्वाद् दर्शनशास्त्रस्य क्षेत्रमर्यादां, प्रयोजनं चानतिक्रम्य प्रमाणसम्बद्धानां न्यायवेदान्तादिग्रन्थानामालेखानां चाध्ययनेन उक्तविषयस्य चिन्तनीयत्वात् तत्सम्बद्धा ग्रन्था आलेखाश्च मम अनुसन्धानात्मकालेखस्य क्षेत्रत्वेन सीमात्वेन च निर्धारिताः वर्तन्ते।
अध्ययनस्यौचित्यम्
कस्यापि विषस्य अध्ययनेन कतिपयविषयेषु नव–नव विषयाः सहजरूपेण समुपस्थिता भवन्ति। विशेषतोऽनुसन्धानकार्ये अनुसन्धीयत्वेनोपस्थापितस्य विषयस्य च नूनमेव कामपि समस्यामधिकृत्यैव विषयाणां प्रस्तोतव्यत्वेन तस्य समस्यासमाधानमूलकतयैव विस्तृतमध्ययनमग्रे वर्धते। प्रकृतेऽपि वेङ्कटेशस्य न्यायसूत्राणालोचनसन्दर्भे कतिपयाः प्रश्ना मनसि जाग्रति। प्रश्नस्य निराकरणं च तस्य विशेषाध्यययनेन भवति। तथा सत्येव याथार्थ्येन वस्तुतत्वस्य ज्ञानं भवितुमर्हति, येन चास्माकं प्रयोजनमपि पूरितं भवति। गौतमीयन्यायदर्शने च पदार्थानां चिन्तनं यद्यपि सूक्ष्मातिसूक्ष्मरूपेण सम्यक्तया विहितं वर्तते। तथाऽपि वेदोपांगभूतेन न्यायदर्शनेन सर्वथा तदनुकूत्वेन भाव्यमित्यादयो वेङ्कटनाथद्वारा उपस्थापिताः केचन पक्षा अत्र अवश्यं विचारणीयाः प्रतीयन्ते। अत आलेखेऽस्मिन् यथाशक्यमयं विषयः सम्यक्तया विचिन्त्यते इति। अनेन अध्ययनस्यास्य औचित्यमपि स्फुटमवगतं भवति ।
सैद्धान्तिकपर्याधारः
विषयोऽयं विशुद्धः शास्त्रीयो वर्तते अत एतद्विषयसम्बद्धानां ग्रन्थानां पत्रपत्रिकाणामेवात्राधारत्वेन वर्तमानत्वादेतद्विषयसम्बद्धा ग्रन्थाः पत्रपत्रिकाणि च लेखस्यास्य पर्यालोचने आधारभूतानि भवन्ति।
वेङ्कटेशप्रदर्शितपदार्थशोधन–आलोचनयोः प्रकारः
श्रीमता वेङ्कटेशेन न्यायपदार्थशोधनोद्देश्येन विरिचते न्यायपरिशुद्धिनाम्नि ग्रन्थे गौतमर्षिप्रणीतानि न्यायसूत्राणि त्रिषु विभज्य तत्र आवश्यकांशानां परिशोधनप्रकारः प्रदर्शितो विद्यते। वेदस्य शिरोभागभूतानामुपनिषदामर्थनिर्णयार्थं महर्षिवेदव्यासेन विरचितानां परमप्रामाण्यभूतानां ब्रह्मसूत्राणाम् अत्यन्तानुकूलानि यानि सूत्राणि सन्ति तानि च सर्वाण्यपि सूत्राणि विना परिवत्र्य स्वीकृतानि सन्ति चेत् येषां सूत्राणां किञ्चिन्मात्रं तात्पर्यपरिवर्तनेन पूर्णं वैदिकमतानुकूलत्वं सम्पादयितुं शक्यते तेषां सूत्राणामपि स्वरूपपरिवर्तनमकृत्वैव यथास्वरूपमभितमेव। परन्तु यानि सूत्राणि सर्वथा वैदिकमतविरूद्धानि सन्ति तेषां तेषां सूत्राणामवश्यशोधनीयत्वमिति मत्वा शोधनप्रकारप्रदर्शनेन साकं शोधितन्यायः कीदृशः ? इति प्रदर्शितो विद्यते। यथा– प्रमाणशब्दस्य भावे करणे च व्युत्पत्तिमाश्रित्य उभयविधव्युत्पत्यनुरोधेन प्रमाणशब्दस्य व्युत्पत्तिकरणेऽपि तेन वेदविरुद्धार्थाप्रतिपादनात् तत्र स्वस्यापि संमतिः प्रकटिता। लोकव्यवहारसिद्धः प्रमाणशब्दश्च यद्यपि प्रमितिपरः। इदं प्रमाणम्, इदं चाप्रमाणमिति ज्ञानस्य प्रामाण्यमादाय लोकव्यवहारात्। अतो वेङ्कटनाथो परिशुद्धेः प्रारम्भे प्रमाणाप्रमाणयोः व्यवस्थापनप्रदर्शनसन्दर्भे प्रमाणस्य प्रामाण्यपरीक्षणीयत्वसन्दर्भमादाय बहु विचारयति प्रमाणपदार्थम्। न्यायसूत्रकारेण पूर्वं प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इत्युक्त्वा प्रमाणपरकतया प्रमाणशब्दस्य प्रयोगः कृतश्चेत् ततः सद्यः प्रत्यक्षलक्षणे इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यम् अव्यभिचारीत्यादिना कीदृशस्य प्रत्यक्षस्य प्रामाण्यं भवतीति स्पष्टीकृतम्। तदर्थमेव चाव्यभिचारीति पदं तत्र। इन्द्रियार्थसन्निकर्षेण उत्पन्नं ज्ञानं तदेव प्रत्यक्षमुच्यते यदव्यभिचारि भवतीत्यर्थप्रकटनेन एवंविधस्य प्रत्यक्षस्यैव वस्तुतः प्रमात्वमिति फलितं भवति। एवं च एवंविधायाः प्रत्यक्षात्मकप्रमायाः करणत्वेन इन्द्रियाणि प्रत्यक्षप्रमाणानीत्युच्यन्ते। अनेन च करणभूतानामिन्द्रियाणामपि अर्थवत्वे प्रमाणभूतं ज्ञानमेव हेतुरिति वस्तुतः कारणीभूतस्य प्रमाणस्य प्रमाणत्वे परीक्षणीयेऽपि मुख्यपरीक्षणीयत्वं शोध्यत्वं वा प्रमितेरेव। अस्य कथनस्य तात्पर्यमिदमस्ति यत् न्यायपरिशुद्धिग्रन्थो न्यायदर्शनोक्तप्रमाणानां विशेषतः परिशोधनपरक इत्युक्ते अत्र प्रमाणपदेन न्यायदर्शने प्रसिद्धानां प्रत्यक्षानुमानोपमानशब्दभूतानां केवलं परिशोधनं न, अपितु प्रमाणस्य प्रमितिपरकत्वेन प्रमितेरपि शोध्यत्वमत्रेति सन्दर्शनाय स्वयमादौ ग्रन्थे प्रमाणाप्रमाणयोः व्यवस्थापनप्रदर्शनमुखेन ग्रन्थं विस्तारयति परिशुद्धिकारः। इदं सर्वं विचार्य एवायं गौतमीयसूत्राणां स्वीकार–अस्वीकाररीति–विरोधपरिहार–न्यायदर्शनाधिकारीत्यादीनां निरूपणानन्तरं सद्य एव प्रमाणप्रमाणयोः व्यवस्थापनं विधायान्ते द्विधापि प्रमितिरेव शोध्येति निष्कर्षयति (वेंकटेशः, ई.२००३ : पृ.१९)। तदनन्तरं प्रमितिमेव लक्षयन् वदति– वयं तु बू्रमः– यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमा (ई.२००३ : पृ.१९) इति। गौतमदर्शने आत्मशरीरेन्द्रियार्थेत्यादिना प्रसिद्धानां द्वादशविधानां प्रमेयानां समानतन्त्रसिद्धे वैशेषिकदर्शने च द्रव्यगुणकर्मेत्यादिरूपेण प्रतिपादितानां प्रमेयानां शोधनस्य लघुरूपप्रकारः पंचमे अध्याये प्रदर्शितश्चेत् शोधितानां प्रमेयानां स्वरूपं च कीदृशं भवतीत्यस्य प्रदर्शनं विस्तरशो न्यायसिद्धांजनेऽपरे विपुले ग्रन्थे अनेनैव विहितम्।
एवं प्रमाणप्रमेयादिभिन्नत्वेन पठितानां संशयादीनां स्वरूपकथनेऽपि न तावान् लम्बायमानं “समानानेकधर्मोपपत्तेः विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षः संशयः’’(न्या.सू.१.१.२३) इत्यादिकथनम् अपितु “अव्यवस्थितव्यवहारकारणं ज्ञानं संशयः। अयथाज्ञानकारणं ज्ञानं च विपर्ययः” (वेङ्कटेशः, ई.२००३ : पृ.४)। इत्येवंरीत्या सूत्रस्य अल्पाक्षरत्वनियमं संस्मृत्य क्वचित् सूत्रस्वरूपपरिवर्तनमपि कर्तुं शक्यम्, यत्र तु वेदानुकूलानि सूत्राणि न सन्ति तानि तु अवश्यमेव त्याज्यानि, अथवा संशोधनीयानि। इत्येवंरीत्या वेदाविरूद्धार्थतयैव प्रमाणादिपदार्थानां शोधनमावश्यकमिति तत्र तत्र प्रकटयति वेङ्कटेशः।
वेङ्कटेशस्य न्यायसूत्राणामालोचने हेतुः
श्रीमता वेंकटाचार्येण परिशुद्धेः प्रारम्भे एव मूलभूतन्यायदर्शनस्य स्वरूपं पूर्वं वस्तुतो विशुद्धवैदिकमताविरूद्धमासीदिति सूचितमस्ति। मूलभूतस्य न्यायदर्शनस्य वैदिकमताविरूद्धत्वादेव विद्यास्थानेषु अस्य सादरं नामग्रहणं, तदपि विस्तरपदयोजनेन साकम्। परन्तु तदानीन्तने काले जैनबौद्धादिदर्शनयोः प्रभावात् यदा महर्षिणा गौतमेन न्यायदर्शनस्य उद्धारः कृतः तदात एव तेषामेव प्रभाववशाद् स्यात् न्यायदर्शनस्य किंचित्स्वरूपपरिवर्तनं विधाय यथा वैदिकानां रक्षणं भवेत्, यथा चेदं दर्शनं वैदिकमतस्य अत्यन्तविरूद्धं न गच्छेत् तदनुरूपतया तदनुकूलानि सूत्राणि संरचय्य लुप्तप्रायस्य न्यायदर्शनस्य स्वरूपं महर्षिणा अनेन सर्वेषां पुरतः संस्थापितमिति संभावयति अयम्। न्यायपरम्परायामाबद्धविदुषां जैनबौद्धादिदर्शनाचार्यैः सह बहुकालपर्यन्तं जायमानेन संघर्षेणेदं तथ्यं स्फुटमपि भवति। दशमशताब्द्यां जातस्य न्यायाचार्योदयनस्य कालपर्यन्तमयं न्यायबौद्घदर्शनयोः संघर्षो दृग्गोचरीभवति। परन्तु विद्यास्थानीभूतस्य अस्य दर्शनस्य वास्तविकं स्वरूपं किंचिद् भिन्नमेव आसीदिति अयं न केवलं स्वीयमनसा एवमेव कल्पयति अपितु तत्पूर्वाचार्यैः नाथमुनि–यामुन–प्रभृतिभिः वैदिकन्यायदर्शनस्य स्वरूपप्रदर्शनपरकतया लिखितस्य न्यायतत्व–न्यायरक्षादिग्रन्थानामध्यनेनेदं तत्थ्यं स्फुटं भवतीति अयं मनुते। भगवन्नाथमुनिभिर्न्यायतत्त्वसमाह्वया…न्यबन्धि न्यायपद्धतिः (वेङ्कटेशः, ई.२००७ : पृ.१४) इत्यादिना ग्रन्थस्य प्रारम्भे एव इदं निर्दिशति। विशिष्टाद्वैतपरम्परायां बहवो विद्वांसो न्यायमधिकृत्य ग्रन्थान् निर्मितवन्त आसन् इति च विशिष्टाद्वैतपरम्परातो ज्ञायते। परन्तु ते सर्वे इदानीं लुप्ताः। श्रीवेंकटाचार्यस्य काले एव लुप्तप्रायानां तेषां ग्रन्थानामपि शास्त्राध्ययनपरम्परातो मात्रं कर्णगोचरीभूतानां कतिपयपङ्तीनामुल्लेखमयमपि करोति। तान्नुपजीव्यैव वस्तुतो वेंकटाचार्यो न्यायसूत्राणामालोचनं न्यायमतपरिशोधनप्रकारं वा प्रदर्शयति। अत्र स्वीयाः विशिष्टतर्कपूर्णाः युक्तयोऽपि द्रष्टुं शक्यन्ते। पश्चकालिकैराचार्यैः वात्स्यायन–उद्योतकर–प्रभृतिभिः जैनबौद्धादिदर्शनाचार्यैः सह कृतखण्डनमण्डनपरम्परातः तैरेव न्यायदर्शनमिदं वैदिकमतादत्यन्तं दूरमानीतमिति च विभावयत्यम्। अस्य चार्थस्य संकेतो ग्रन्थस्य प्रारम्भे एव कृतवान् अस्ति– स च विल्पावितस्तैस्तैः ततोऽत्र परिशोद्ध्यते (वेङ्कटेशः, ई.२००३ : पृ.१) इति।
वेङ्कटेशोऽयं न्यायपरिशुद्धिग्रन्थस्य आरम्भे एव अक्षपादगौतमर्षेः ऋषित्वेन तत्प्रणीतस्य शास्त्रस्य अतामसत्वेन च कथं तदीयसूत्राणां खण्डनीयत्वमिति शंकामुद्भाव्य अन्यकणादादि–ऋषीणामपेक्षया अस्मिन् श्रद्धातियशायित्वं प्रकटयति यद्यपि कथञ्चिदाक्षपादं सत्पक्षे निक्षेप्तुं शक्यम्… इत्यादिग्रन्थसन्दर्भेण (वेङ्कटेशः, ई.२००३ : पृ.२ ) तथापि आर्षत्वादेव तदीयसूत्राणि अखण्डनीयानि इत्यपि न वक्तुं शक्यते। आर्षत्वेऽपि तदीयं मतं वेदविरूद्धमिति वेदविरूद्धत्वहेतुना वेदैकपक्षपातिभिः तन्मतखण्डनेपि न दोष इति श्रीवेदव्यासेन ब्रह्मसूत्रे काणादकापिलादिमतानां कृतखण्डनदृष्टान्तेन स्वात्मानं रक्षयति। अनेन च ऋषिप्रोक्तत्वमखण्डनीयत्वे हेतुर्न भवतीति आगतं भवति। काणादशाक्यपाषण्डैः त्रयीधर्मो विलोपितः … इत्यादिमनुवाक्यसमुद्धरणेन च गौतमर्षेरपि तथासम्भाव्यतां दर्शयति। (तत्रैव)
यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगदो जगाद।
कुतार्किकाज्ञाननिवृत्तिहेतुः करिष्यते तस्य मया प्रबन्धः॥(भारद्वाजः, ई.१९९७ : पृ.१)
अथ जगदेव दुःखपंकनिमग्नमुद्दिधीर्षुरष्टादशविद्यास्थानेषु अभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय (वाचस्पतिः, ई.१९९० : पृ.३), (गदाधरः, ई.१९९२ : पृ.७) इत्यादिभिः वचनैः गौतमर्षेः सर्वज्ञत्व–कारुणिकत्वादिधर्ममात्रं परिलक्ष्यन्ते, अथवा तत्पक्षपातित्वेन तदीयैर्जनैः मुनौ तस्मिन् श्रद्घातिशायित्वं प्रदर्श्यते इत्येव मन्तव्यम्, न तु तस्याखण्डनीयत्वं तेन वक्तुं शक्यते। यतः काणादशाक्यपाषण्डैस्त्रयीधर्मो विलोपितरित्यादिस्मृतिभिः, बहवो पुरुषा राजन् सांख्ययोगविचारिणः …समासेन तु तद्व्यासः पुरुषैकात्म्यमुक्तवान्(महाभारतम्) काणादमाक्षपादं वा कापिलं तन्त्रमेव वा। तन्त्राण्येतानि सर्वाणि न तन्त्राण्यात्मनिर्णये इति पूर्वाचार्यैश्च तथाकथनात् मुन्युक्तवेदविरुद्धार्थो वैदिकानां कृते खण्डनीय एवेति वेङ्कटेशेन संस्थापितो न्यायपरिशुद्धौ (ई.२००३ : पृ.३)। एवंरीत्या वैशेषिकादिशास्त्राणामपेक्षया गौतमोपज्ञस्य न्यायशास्त्रस्य वैशिष्ट्यसत्वेऽपि वेदविरुद्धांशे तत् त्याज्यमेवेति स्थापितम्।
९. वेङ्कटेशकृतन्यायसूत्रालोचनस्य पर्यालोचनम्
गौमतमीये न्यायदर्शने शोधनीया अंशा बहवः सन्तीति वेंकटाचार्यो मनुते। केचन अंशाः तादृशा अपि सन्ति ये अनावश्यकाः अधिकाश्च। तस्य स्वरूपमुपर्येव प्रदर्शितमस्माभिः। शास्त्ररीत्या यदि वस्तूनां चिन्तनं कूर्मश्चेत् मानाधीना मेयसिद्धिरिति न्यायात् सर्वप्रथमं प्रमाणस्य स्वरूपमवश्यं वक्तव्यम्। व्यवहारसम्पादनार्थं च प्रमाणस्य व्यवस्थाऽर्थात् इदं प्रमाणं भवति, इदं चाऽप्रमाणमिति व्यवस्था अवश्यमेव सम्पादनीया भवति। नो चेत् प्रमेयाणां याथार्थ्येन व्यवस्थापनं न भवत्येवेदं तु सर्वविदितो विषयः। परन्तु प्रमाणानां व्यवस्थापनं तार्किकं यथा भवेत् तथा करणीयम्। तर्कोऽपि वेदानुकूलो भवेत् वेदशास्त्राविरोधिना यस्तर्केणानुसन्धत्ते (मनुः, १२/१०६) इत्यादिना मनुना स्मरणात्। यद्यपि तर्कस्यापि प्रमाणापेक्षितत्वेन तर्केणापि प्रमाणमपेक्षते। प्रमाणमपि पुनः तर्कमपेक्षते इति अन्योन्याश्रयो भाति। तथापि सिंहवनगुप्तिन्यायेन परस्परमुभयोः उभयापेक्षत्वेन, तर्कस्य च प्रमाणानुग्राहकत्वसिद्धान्तितत्वात् परमप्रमाणभूतवेदानुग्राहकत्वेऽपि तर्कस्य वेदाविरोधित्वेनैव भाव्यमिति आस्तिकस्य वेदप्रामाण्यवादिनो न्यायशास्त्रस्यापि वेदोपांगत्वेन शास्त्रस्यास्य स्वरूपं वैदिकपक्षविरूद्धतया न भवनीयमेव। वैदिकपक्षाविरूद्धत्वेनैव स्वरुपं पूर्वमस्य शास्त्रस्य वस्तुगत्या सत्वेन अत एव आत्मवि़द्याऽभिन्नत्वेन कथनमस्य श्रीमद्भागवतमनुस्मृत्यादिषु दृश्यते। विद्यामान्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवात् (श्रीमद्भागवतम्, १०.२४.४) इत्यत्र आन्वीक्षिकीविद्यायाः भवार्णवसंतरणहेतुत्वेन प्रदर्शनात् तद्व्याख्याकारैः श्रीधराचार्यैः आन्वीक्षिकीविद्यायाः कृते आत्मविद्यात्वेन व्याख्यानेन इमामेवान्वीक्षिकीं विद्यामध्यात्मविद्यात्वेन दत्तात्रेयः अलर्काय प्रह्लादिभ्यश्च ऊचिवान्निति श्रीमद्भागवते महापुराणे प्रथमस्कन्धे तृतीये अध्याये एकादशे श्लोकेऽपि प्रतिपादितमस्तीत्यस्योल्लेखं च न्यायवार्तिकस्य भूमिकायां विन्द्वेश्वरीप्रसादद्विवेदीमहाभागोऽपि करोति (ई.१९१६, पृ.३१)।
तत्र प्रमाणत्वेन च श्रीमद्भागवतव्याख्यातúणां नामानि क्रमशो गृह्णति सः। यथा– अत्र टीकाकारः श्रीधरस्वामी आन्वीक्षिकीम्–आत्मविद्याम्, वीरराघवोऽध्यात्मविद्याम्, विजयध्वजः–तत्त्वविद्याम्, बल्लभाचार्यो योगपुरस्सरमात्मविद्याम्, विश्वनाथचक्रवर्ती आत्मविद्याम्, शुकदेवः अध्यात्मविद्यामित्यर्थं कृतवन्त इति।(तत्रैव)
अनेन च न्यायशास्त्रस्य स्वरूपं वस्तुतः पूर्वं कीदृशमासीदिति सुतरामनुमातुं शक्यते। न्यायविद्यात आन्वीक्षिक्या भिन्नत्वमिति तु न शङ्क्यम्, सेयमान्वीक्षिकी प्रमाणदिभिः पदार्थैर्विभज्यमानेत्यादिना न्यायभाष्यकारेण वात्स्यायनेन तर्कविद्यायाः कृते आन्वीक्षिकीशब्दप्रयोगात्, आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोरिति अमरकोषवचनात्, आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती(कामन्दः,२/२) इति वचनात्, न्यायमञ्जर्यां जयन्तभट्टेन च इयमेव आन्वीक्षिकी चतसृणां विद्यानां मध्ये न्यायविद्या गण्यते (ई.१९८२ : पृ.९) इति चोदितत्वात्, सेयमान्वीक्षिकी न्यायतर्कादिशब्दैरपि व्यवह्रियते। तथा च न्यायो मीमांसा धर्मशास्त्राणीति श्रुतिरित्यादिना न्यायसूत्रवृत्तौ विश्वनाथपञ्चाननेन कथनाच्च आन्वीक्षिकी न्यायविद्यातो भिन्नेति तु न शंकनीया। इयं च न्यायविद्या आन्वीक्षिक्यपरपर्याया बहुत्र अन्यत्र च आत्मविद्यात्वेन परिगृहीतेति कुत्रचित् तदभेदेन कुत्रचिच्च तद्भेदेन पठितापि सा नूनमपि वैदिकपक्षं विहाय अन्यत्र गन्तुं न शक्नुयादेवेति निश्चीयते। कुत्रचिदात्मविद्यात्वेन आन्वीक्षिकीविद्याया ग्रहणम् कुत्रचिच्च तद्भिन्नत्वेनापि ग्रहणमुभयथापि दृश्यते। यथा–
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीम्।
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः॥ (मनुः, ७/४३)
अत्र च आत्मवि़द्याभिन्नत्वेन आन्वीक्षिक्याः ग्रहणं मनुना कृतम्। परन्तु अत्रैव मुनस्मृतिस्थस्य आन्वीक्षिकीं चात्मविद्यामिति श्लोकस्य भाष्ये आन्वीक्षिकीविद्याया विशेषणत्वेन आत्मविद्येति पदान्तरप्रदानस्य सार्थक्यं प्रतिपादयता मेधातिथेः भाष्येन आन्वीक्षिविद्याया द्वेधा विभागं प्रदर्शितं भवति। उक्तश्लोकस्य तात्पर्यं व्याकुर्वन् स लिखति– चार्वाकबौद्धजैनप्रभृतीनां तर्कविद्या अस्मान् सर्वान् नास्तिकतां निर्माति। अत एव विशेषतो राज्ञैः तादृशी विद्या न ग्रहणीया। किन्तु आत्मविद्यारूपी आन्वीक्षिकी विद्या तु स्वीकर्तुं शक्येति। एवं तात्पर्येणैव मनुना तत्रान्वीक्षिकीपदस्य विशेषणतया आत्मविद्याया ग्रहणं कृतमस्तीति। इदं सर्वं परिजानन् फणिभूषणतर्कवागीशश्च स्वोपज्ञे न्यायपरिचयनामके ग्रन्थे आन्वीक्षिकीविद्याया प्रकारद्वयं वर्तते इति प्रदर्शयति। तत्र राजशेखरेण (ई.८८०–९२०) कृता काव्यमीमांसाया द्वितीयेऽध्याये आन्वीक्षिकीविद्यायाः विद्यमानप्रकारद्वयस्य चर्चाप्यनेन समुपस्थापिताऽस्ति । (तर्कवागीशः, ई.१९६८ : पृ.३७ )
अतः क्वचित् आन्वीक्षिकीपदस्य आत्मविद्यात्वेन ग्रहणं क्वचिच्च तद्भिन्नत्वेन ग्रहणदर्शनादेव केशवशरणार्यालोऽपि न्यायसूत्र र वैशेषिक सूत्रको पर्यालोचन नामके नेपालिभाषायां लिखिते पुस्तके इत्थं स्वीयनिष्कर्षं प्रकटीचकार– सामान्यतः आन्वीक्षिकी भन्नाले आत्मविद्या नै हो तर न्यायशास्त्रका लागि प्रयुक्त आन्वीक्षिकी पारिभाषिक पद बनेको छ वा बनाइएको छ (अर्यालः, २०७५ : पृ.३७)। इदं सर्वं वदन्नन्ते आन्वीक्षिकीनाम्ना इदानीं रूढिंगते न्यायशास्त्रे आत्मनः चिन्तनेन साकं प्रमाणसंशयादीनामपि विशेषतो विवेनचनं यतो विहितम्, तस्मात् विशुद्धात्मवि़द्यातोऽस्य पृथक्करणं पश्चादभूदिति पुनरेवं सम्भावयति च। तत्पूर्वमपि अनेन वाल्मीकिरामायणस्थम्
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः। बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते (वाल्मीकिः, अयो.१००/२९) इदं श्लोकमादाय, एवं महाभारतस्थमपरम्—
भवेत् पण्डितमानी च ब्राह्मणो वेदनिन्दकः। आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् (अनुशा.प. ३७/१२) श्लोकमादाय महोदयेन वेदशास्त्रविरुद्धकेवलतर्कमादाय प्रसृतानां तादृशानामत्र निन्दा विहीता वर्तते इति प्रदर्श्य वेदार्थविरोधित्वे आन्वीक्षिकीविद्याया निन्दनीयत्वमेव शास्त्रकारैरनुमतमिति निष्कर्षो व्यधायि। अत एवोच्यते अनेनापि गौतमीयन्यायशास्त्रेण सर्वांशे वेदानुकूलत्वेनैव भाव्यम्। अयमेव वेंकटेशाचार्यस्यापि आशयो लक्ष्यते।
आम्नायार्थाविरोधेन न्यायचिन्तां करोति यः। तेन निश्श्रेयसं प्राप्यं शार्गालीं योनिमन्यथा ॥ मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसामित्यादीनि न्यायमतस्य तत्सिद्धान्तस्य वा निन्दापरकानि वचनान्यपि चेदमेव तथ्यमाविष्कुर्वन्ति। अतो मुमुक्षुभिरिदानीन्तनीयानि गौतमसूत्राणि परिष्कृत्यैव स्वीकर्तव्यानि भवन्ति। इदानीन्तनीयानि गौतमीयानि सर्वाण्यपि सूत्राणि वैदिकसिद्धान्तानुकूलानि न सन्तीति अतथाभूतानां सूत्राणां परिशोधनमावश्यकमेव प्रतिभाति।
वैदिकपक्षश्च– यथावस्थितव्यवहारानुगुणं ज्ञानं प्रमाणम्। यदज्ञानात्संसारो यज्ज्ञानाच्च तन्निवृत्तिस्तत् प्रमेयम्, मुमुक्षुभिः प्रकर्षेण मेयत्वादिति। तद्विविधम्–द्रव्याद्रव्यभेदात्। आगन्तुकधर्माश्रयो द्रव्यम्। अतथाभूतमद्रव्यम्। द्रव्यं पुनः द्वेधा विभक्तम्–जडाजडभेदेन। जडं द्वेधा–प्रकृतिः काल इति। अजडं चातथा…(वेंकटेशः, ई.२००३ : पृ.४)। वेंकटेशस्य प्रमाणप्रमेयादिपदार्थानां स्वरूपप्रदर्शनरीतिरेतादृशी।
तत्वमुक्ताकलापाख्ये ग्रन्थेऽपि— द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्वमाहुः़़़, द्रव्यं द्वेधा विभक्तं जडमजडमित्यादिना (वेंकटेशः, ई.१९३३ : श्लो.६) वैदिकपक्षस्य वास्तविकं स्वरूपं तत्र प्रकटीकृतमस्त्यनेन।
गौतमीये न्याये पुनः प्रमीयतेऽनेनेति प्रमाणम्। अथवा प्रमायाः करणं प्रमाणम् (केशवमिश्रः, ई.२००३ : पृ.११) इति प्रमाणशब्दस्य व्युत्पत्तिः क्रियते। तात्पर्यटीकाकारोऽपि सम्यगनुभवसाधनं प्रमाणम् (वाचस्पतिः, ई.१९९० : पृ.६) इति प्रमाणसामान्यस्य लक्षणं कृतवान्। यद्यपि प्रमाणशब्दस्य भावे करणे च व्युत्पत्या ज्ञाने, तत्साधने चोभयत्राऽपि व्यवहारो भवति। अत्र न तावान् शब्दप्रयोगे विवादः। अत एव वेंकटेशोऽग्रे एवंरीत्या वदति– सम्यगनुभवः प्रमा, यथार्थज्ञानं वा प्रमेति (ई.२००३ : पृ.४३) तत्करणं च प्रमाणमिति। परन्तु प्रमाणानि च त्रीणि एव न तु चत्वारि। एतदेव वैदिकं मतमस्ति। उक्तं च मनुनापि
प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्। त्रयं सुविदितं कार्यं धर्मसिद्धिमभीप्सता ॥ (ई.१९९२ : पृ.४०५)
गौतममहर्षिणा तु प्रत्यक्षानुमानोपमानशब्दभेदेन चत्वारि प्रमाणानि उक्तानि। परन्तु एतन्न वैदिकमतस्य अनुकूलं विद्यते। मनुना च त्रयाणामेव प्रत्यक्षानुमानशब्दानां प्रमाणत्वस्वीकारात् त्रीणि एव प्रमाणानि वैदिकानि। अत एव न्यायैकदेशिको भासर्वज्ञः त्यक्तवान् पृथक् प्रमाणत्त्वमुपमानस्य।
गौतमीयन्यायस्य आनुपूर्वितया व्याख्याने अकृतेऽपि न्यायपदार्थविवरणसन्दर्भे गौतमीयन्यायं परिष्कृत्य वैदिकसिद्धान्तानुगुणं न्यायशास्त्रं पूर्वाचार्यैः नाथमुनिवरदविष्णुप्रभृतिभिराचार्यैः प्रकटीकृतमासीदिति श्रीवेंकटेशाचार्यो वदति स्वोपज्ञे न्यायपरिशुद्धौ। यथा वेदप्रामाण्यस्य परमात्मनोऽस्तित्त्वस्य चाभ्युपगमो न्यायशास्त्रेऽपि स्वीक्रियते, परन्तु वेदस्य प्रामाण्यं तस्यापौरुषेयत्वहेतुना तैर्न प्रतिपा़द्यते। परमात्मनोऽस्तित्वं प्रत्यपि ते वेदरुपशब्दप्रमाणापेक्षया अनुमानप्रमाणेऽधिकं विश्वासमावहन्ति। अत एव प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिका इति वदन्तः स्वात्मानं धन्यं मन्यमानाः नैयायिकाः तर्कशास्त्रस्य हेतुविद्या–तर्कविद्याप्राधान्यत्वसन्दर्शनव्याजेन अनुमानप्रमाणे सर्वं भारं निक्षिप्य स्वात्मनि रमन्ते। प्रत्यक्षविषये त्वेते अनुमानप्रमाणमाश्रयन्ते चेत् किमाश्चर्यं शब्दप्रमाणविषये। परोक्षज्ञानसम्पादके शब्दप्रमाणे तु स्वाभाविकमेतत्। अत एव शब्दप्रमाण्यस्यानुमानोपोद्बलकत्वं तेऽभिप्रयन्ति ईश्वरसाधकानुमाने। क्षित्यङ्कुरादिकं सकर्तृकं कार्यत्वादित्याद्यनुमानादिद्वारा क्षित्यङ्कुरादीनां कर्तृजन्यसाधनमुखेन पारिशेष्यात् तत्कर्तृत्वेन जीवभिन्नं सर्वज्ञमीश्वरं ते साधयन्तः तत्र च द्यावाभूमी जनयन् देव एकः इत्यादिश्रुतीनामनुमानप्रमाणापोद्बलकत्वेन ते सन्दर्शयन्ति।
किं च ते पुनः जगत्कारणत्वविषयेऽपि परमात्मनो नैमित्तिककारणत्वे एव पर्यवसिताः। परमाणुवादस्य मुख्यत्वमङ्गीकृत्य परमाणूनामेवोपादानत्वं प्रतिपाद्य वेदसम्मतस्य अभिन्ननिमित्तोपादानत्वमीश्वरस्य तैर्निराक्रियते। एतदपि तर्कबलेनैव। किञ्च ईश्वरः कारणम् पुरुषकर्माफल्यदर्शनात् इत्यतः तत्कारित्वादहेतुः (न्या.सू.४.१.१९–२१) इत्यन्तेन च सूत्रेण जीवकर्मानुरूपं फलसम्पादकतया ईश्वरस्य संसाधनादनुमानमेव ईश्वरविषयेऽपि। ईश्वरस्य रागद्वेषादिराहित्यं नित्यज्ञानेच्छादिमत्वं च सर्वमपि अनुमानप्रमाणेनैव साध्यते एतैः। अस्मिन् प्रमाणे एव एतेषां परमनिर्भरत्वं जानीमो न तु वेदराशिरुपशब्दप्रमाणविषये। अत एव ईश्वरस्य जगन्निमित्तत्वमात्रं एतैः प्रसाध्यते, नोपादानत्वम्। एतदपि वैदिकमतविरूद्धमेव। एवमेव पार्थिवादिपरमाणु–आकाश–मनआदीनां च नित्यत्वमपि न वैदिकसिद्धान्तसम्मतः पक्षः।
पश्चकालिकैराचार्यैरुद्योतकरप्रभृतिभिरपि प्रत्यक्षानुमानादिप्रमाणविचारे यावान् आदरः प्रदर्शितो न तावान् आदरो वेदानुकूलतया प्रमाणप्रमेयादितत्वविचारे इति तु स्पष्टमेव दृश्यते। यद्यपि न्यायदर्शनस्याऽपि मुख्यं प्रयोजनं मोक्षप्राप्तिरेव, तत्प्राप्तौ च साक्षादङ्गत्वं प्रमेयानामेवाऽस्ति। तत्राऽप्यात्मनो याथार्थ्येन ज्ञानमपेक्षितं भवतीति न्यायनयेऽपि उच्यते। सत्यप्येवं तन्मात्रनिरूपणे इदमप्यात्मविद्यामात्रमेव स्यादतोऽन्येऽपि पदार्थाः संशयादयो विशेषेण निरुप्यन्तेऽत्रेति अस्य शास्त्रस्य सत्यपि मोक्षप्रयोजनवत्वे वेदप्रामाण्यवादित्वेऽपि च नाऽत्ममात्रस्य निरूपणं व्याख्यानं वा अत्र क्रियते (वात्स्यायनः, ई.१९९८ : पृ.५) इत्येवंरूपेण सूत्रकारस्य संरक्षणमस्मिन् प्रसंगे भाष्यकारेण कृतमस्ति अथापि पक्षस्य अस्य वैदिकसिद्धान्तविरुद्धतया न्यायसिद्धान्तस्य स्थापना वेदप्रामाण्यवादीनां मुमुक्षूणां कृते न सम्भवप्रायमेव।
किञ्च न्यायशास्त्रमपि वेदप्रामाण्यवादि एव। अत इदमपि शास्त्रं वैदिकपन्थानं कथं त्यक्तुं शक्नुयात् इति प्रश्नो जागत्र्येव। भाष्यकारस्य गौतमर्षिप्रणीतानां न्यायसूत्राणां सन्दर्भे न्यायशास्त्रस्य मुख्यप्रयोजनस्य समुद्घाटनमाध्यमेन महर्षिगौतमोपरि सम्भाविताक्षेपस्य उपस्थापनमपि इदं संकेतयति यत् – सूत्रकारः किंचिद् मार्गान्तरमेव गतवान् वर्तते इति। यद्यपि तस्य संरक्षणं भाष्यकारेण विहितं सा अन्या कथा।
गौतमीये न्याये च वेदविरुद्धतयैव कतिपयसिद्धान्ताः स्थापिताः सन्ति। यथा परमाणूनां जगत्कारणत्वम्, ईश्वरस्य जगन्निमित्तकारणत्वमात्रम्, मोक्षस्यात्यन्तिदुःखनिवृत्तिरूपतामात्रम्, आत्मनो न ज्ञानरूपता, ज्ञानेन्द्रियाणां भौतिकत्तत्वम्, प्रमाणचतुष्टयस्वीकारः, अवयवातिरिक्तावयविस्वीकार इत्यादयः।
वैदिकसिद्धान्तेतराद्वैतादिसिद्धान्तेषु निष्ठा विद्यमानानां वाचस्पतिप्रभृतीनाम् अन्याचार्याणामप्यरुचिरत्र गौतमीयन्यायशास्त्रे स्यात्, तथापि वेदप्रामाण्यवादिनोऽपि ते अस्य न्यायशास्त्रस्य पृथक् विद्याप्रस्थानत्वमिति मत्वा न्यायप्रतिपादितप्रमाणप्रमेयादीनादाय स्वतन्त्रतया वेदान्तदेशिकोक्तपरिशोधनप्रणालीप्रदर्शनरीत्या नैव स्वलेखनीं चालितवन्तोऽपितु सूत्रानुसार्येव व्याख्यानं कुर्वन्तः तदेव मतं न्यायशास्त्रस्येति प्रदर्शितवन्तः। वेदप्रामाण्यवादिनोऽस्य न्यायशास्त्रस्य वेदविरुद्धांशप्रमाणप्रमेयादिप्रतिपादने सति कथं वैदिकमतं सर्वांशेन संरक्षितं स्यादित्यादिरीत्या नैव चिन्तितवन्तः पश्चभाविनो न्यायशास्त्रव्याख्यातारः। अत एव वात्स्यायन–उद्योतकरप्रभृतिभिराचार्यैः यथासूत्रमेव सूत्रभाष्यादिव्याख्यानं कृतमवलोक्यते। केवलं गौतमसूत्राणामुपरि बौद्धाचार्यैः कृतानामाक्षेपाणां परिहाराय तदीयामेव शैलीमनुसरन्तः स्वपक्षतो तेषां मतानां खण्डने, अपेक्षितपरिष्कारपक्षे च श्रमो न्यायदर्शनव्याख्यातृभिः विहितो वर्तते।
वेंकटेशात् पूर्वमपि विद्यमानैः विशिष्टाद्वैताचार्यैरेतावद्विपुलतया न्यायसिद्धान्तो नैव चिन्तितो यथाऽयं चिन्तयत्यत्र न्यायपरिशुद्धौ। पूर्वाचार्यैस्तु केवलं स्वसिद्धान्तानुकूलप्रमेयस्थापनबेलायां किं वा वैदिकप्रमेयस्थापनाबेलायां ते ते विषयाः समुपस्थापिताः सन्ति। इदानीं यद्यपि मेघनादारिविरचितं नयद्युमणिं विहाय पूर्वाचार्यविरचितानां तेषां ग्रन्थानामुपलब्धिर्नास्ति, एतदप्यस्य वेंकटेशस्य निदर्शनेन तथाऽसन्निति ज्ञायते केवलम्। नाथमुनिप्रणीतस्य न्यायतत्वनामकाग्रन्थस्य त्वनुपलब्धिस्तदानीमेव जात आसीदिति ज्ञायते। स्वसम्प्रदायाचार्यस्य श्रीरामानुजमुनेः परमगुरोः श्रीयामुनाचार्यस्यात्मसिद्धिनामकग्रन्थस्योद्धरणं प्रदर्श्य नाथमुनिभिरपि न्यायतत्वं रचितवान् आसीदिति सुस्पष्टयत्ययमेव। यामुनाचार्याणां पङ्क्तिं चोल्लिखति– आत्मप्रहाणानभ्युपगमादविहायैवात्मानमितस्ततश्चेतना इन्द्रियादिद्वारा निस्सरति। विच्छिन्नायास्तस्याः संधानासम्भवः शास्त्र एवोक्त (वेंकटेशः, ई.२००३ : पृ.५०) इति। शास्त्रे इत्यस्य व्याख्यानं च स्वयमेव श्रीमन्नाथमुनिभिरिति करोति। एवमेव वरदविष्ण्वाचार्यैः प्रणीतं मानयाथात्म्यनिर्णयः, पराशरभट्टानां तत्वरत्नाकरः, श्रीविष्णुचित्तानां प्रमेयसंग्रह इत्यादयो वास्तविकन्यायतत्वप्रतिपादकाः ग्रन्था आसन्। एते सर्वे ग्रन्था अद्य नैवोपलभ्यन्ते। केवलं वेंकटेशाचार्यैरुद्धृतांशानां दर्शनेन एते ग्रन्थाः स्वसम्प्रदायिका आसन्निति ज्ञायते।
वेंकटेशस्तु तान् सर्वानादाय (कतिपयान्नुपलब्धान् कतिपयाककांश्च परम्पराप्राप्तान् ज्ञानान्) तेषामाशयं ज्ञात्वा वैदिकपथानुसारि न्यायं प्रदर्शितवान्निति। इदं च तथ्यं श्रीवेंकटेशविश्वविद्यालयस्थेन विदुषा वरदाचार्येण न्यायविशिष्टाद्वैतमतयोः प्रमाणविचारः इत्यस्मिन् स्वीयालेखेऽपि वेंकटेशप्रणीतो न्यायपरिशुद्धिनामको ग्रन्थो गौतमन्यायं परिष्कृत्य सिद्धान्तान् सर्वान् प्रतिपादयतीति। एतेषामाचार्याणां स्वीयतत्वमुक्ताकलापग्रन्थस्य व्याख्यायां सर्वार्थसिद्धौ सन्दर्भविशेषेषु एते विषया सुविचारिताः सन्ति (सारस्वतीसुषमाः, २०२४ : अंकः ३–४, पृ ३०३–३१९) इत्यादिना च प्रकटीकृतं वर्तते।
निष्कर्षः
अस्मिन् आलेखे मया वेंकटेशस्य न्यायसूत्राणामुपरि कृताया आलोचनाया अथवा तद्वारा प्रदर्शितायाः पदार्थशोधनपद्धतेः स्वरूपविषये तत्पर्यालोचनेन दिग्दर्शनं कारितमस्ति। यद्यपि सर्वेषां दर्शनानां स्वीयं स्वीयं क्षेत्रं वर्तते। एकेन अन्यस्य अतिक्रमणं नोचितम्, न कर्तव्यञ्च, अथापि न्यायविस्तरपदवाच्येन विद्यास्थानपदमधिरूढेन वैदिकमतस्य सर्वतो नास्तिकजनेभ्यः संरक्षकत्वस्य दायित्वमधिवहता गौतमीयन्यायदर्शनेन वेदोपाङ्गरूपत्वादपि वैदिकमतभिन्नेन मार्गेण नैव गमनीयमिति कतिपयस्थलेषु अस्य वैदिकमार्गतो बहिर्गमनमस्मै दर्शनाय न रोचते एव। बहिरगमनेनापि स्वस्योद्देश्यसम्पूर्तौ बाधकाभावात् या दृष्टिः तत्र विशिष्टाद्वैतसम्बद्धैराचार्यैः तत्र तत्र स्थलेषु एवं वेंकटाचार्येण च विशेषतो न्यायपरिशुद्धौ प्रदर्शिता विद्यते तदपि एको नूतनो विषय एवेति वक्तुं शक्यते। यादृशीं दृष्टिमादाय प्रमाणानि चादाय अयं तथा वदति तत्र विरोधस्य असत्वेऽपि कतिपयस्थलेयषु यानि मतानि साक्षाद् वेदेन सह सम्बद्धानि न भवन्ति तादृशस्थलेष्वपि विशिष्टाद्वैतमतरीत्या न्यायमतस्य नयनं किंचिदधिकं वा वेंकटेशस्य ? इति कदाचित् मनसि भाति। इदं तु सत्यं तथ्यं यत् यादृशं स्वरूपमस्य न्यायदर्शनस्य पूर्वमासीत् तच्च कालक्रमेण किंचिद् किंचिद् परिवर्तितमस्ति। तच्च जैनबौद्धादिमतैः सह संघर्षस्य कारणेन वा भवतु अन्यया रीत्या वा भवतु । स्वरूपपरिवर्तनं तु अवश्यमेव जातमस्ति। अत्र नास्ति विमतिः। अत एव श्रीकृष्णस्य विद्याग्रहणकाले श्रीमद्भागवते आन्वीक्षिकीविद्याया स्वातन्त्र्येण उल्लेखः अस्या महत्वप्रदर्शनेन साकमेतत्पदव्याख्यातृश्रीधराचार्यप्रभृतिरात्मविद्यात्वेन अस्य पदस्य तथाव्याख्यानमिदं संकेतयतीति विभाव्यते। अतो न्यायपरिशुद्धिग्रन्थमादाय वेंकटेशकृतस्य न्यायसूत्राणामालोचनप्रकारस्य नूतनरीत्या अध्ययनमपि दर्शनशास्त्राध्येतúणां कृते अनुसन्धानस्य विषयो भवितुं शक्नोति।
कृतज्ञताज्ञापनम् –
वेंकटेशकृतन्यायसूत्रालोचनस्य पर्यालोचनमिति शीर्षके सज्जीकृतोऽयमालेख इदानीं विश्वविद्यालय अनुदान आयोग भक्तपुर सानोठिमीतः पी.एच.डी.विद्वद्वृत्यन्तर्गततया सम्प्राप्तविद्वद्वृत्तौ नेपालसंस्कृतविश्वविद्यालयानुसन्धानकेन्द्रतः क्रियमाणस्य न्यायपरिशुद्धिदृष्ट्या न्यायदर्शनाभिमतप्रमाणपरिशोधनम् इति शीर्षकस्यैवांगतया वर्तत इति विज्ञापयन् आलेखस्यास्य सज्जीकरणे विशिष्टपरामर्शप्रदानेन मामुपकृतवद्भ्य एवं शोधकार्यार्थं विद्वद्वृत्तिप्रदानेन मामुपकृतवते विश्वविद्यालयानुदानायोगाय च विशेषतः कार्तज्ञभावं व्यनज्मि।
सन्दर्भग्रन्थसूचीः
अर्याल, केशव. (२०७५). न्यायसूत्र र वैशेषिक सूत्रको पर्यालोचन. काठमाण्डौ : नेपाल प्रज्ञा प्रतिष्ठान।
कणादः.(सन्.२००५).वैशेषिकदर्शनम् (रसायनव्याख्या). चेन्नै : उत्तमूरुश्रीवीरराघवाचार्य सेनेटेरी ट्रस्टर।
भट्टः,जयन्तः. (सन्.१९८२). न्यायमञ्जरी. (ग्रन्थिभंगव्याख्या) वाराणसी : सं. सं. वि. वि.।
भारद्वाजः. (सन्.१९९७). न्यायभाष्यवर्तिकम्. दिल्ली : भारतीयदार्शनिकानुसन्धानपरिषद्।
भारद्वाजः.(सन्.१९१६).न्यायवार्तिकम्. (विन्द्वेश्वरी प्र.द्विवेदिनो विस्तृतभूमिकायुता) वाराणसी : विद्याविलासयन्त्रम्।
भट्टः,गदाधरः. (ई.१९९२).प्रामाण्यवादः (कृष्णाख्यसंस्कृतव्याख्या) वाराणसी : चैखम्बासुरभारतीप्रकाशनम्।
मनुः. मनुस्मृतिः. वाराणसी : चौखम्बा संस्कृत सीरिज।
याज्ञवल्क्यः. (सन्.२०१५). याज्ञवल्क्यस्मृतिः.(हिन्दीभाषाटीका). लखनउ।
पराशर. (सन्.२०५९). विष्णुपुराण. (हिन्दी अनुवाद) गोरखपुर : गीताप्रेस।
मिश्रः, वाचस्पतिः. (सन्.१९९०). तात्पर्यटीका. वाराणसी : चैखम्बासंस्कृतसंस्थानम्।
वात्स्यायनः. (सन्.१९९८). न्यायभाष्यम्. (प्रसन्नपदाव्याख्या). वाराणसी : बौद्धभारती।
वेंकटेशः. (सन्.१९१३). न्यायपरिशुद्धिः. (मूलमात्रम्) चेन्नै : श्रीविशिष्टाद्वैतप्रवचनसभा।
वेंकटेश. (सन्.२००३). न्यायपरिशुद्धि. (हिन्दीव्याख्या). वाराणसी : चैखम्बाविद्याभवनम्।
वेंकटेशः. (सन्.२००७). न्यायपरिशुद्धिः १–२. (न्यायसारव्याख्यायुता). मद्रास : राष्ट्रियसंस्कृतविद्यापीठम्।
वेंकटेशः. (सन्.१९३३). तत्वमुक्ताकलापः. (सर्वार्थसिद्घिव्याख्या). मैसूर : ओरियण्टल लाईब्रेरी।
वेदव्यासः. ––––– श्रीमद्भागवतम्. (श्रीधरीटीका). वाराणसी : मोतिलाल बनारसीदास।