विश्वस्मिन् विश्वे विशिष्टगुणयुतानां सर्वेषां मानवानां चिन्तनसामर्थ्यमन्यूनमनतिरिक्तं विद्यते। पाश्चात्त्यकाव्यचिन्तनपरम्परायां यानि तत्त्वानि विवेचितानि सन्ति, तानि प्रायशः प्राच्यसमालोचनपरम्परायां प्राचीनकालादेव विवेचनविषयीभूतानि दृश्यन्ते।
गुरुप्रसादकोइरालाः, विद्यावारिधिः
सहप्राध्यापकः, साहित्यविभागस्य,
नेपालसंस्कृतविश्वविद्यालयः,
पिण्डेश्वरविद्यापीठम्, धराननगरम्
Email: koiralaguru38@gmail.com
लेखसारः
विश्वस्मिन् विश्वे विशिष्टगुणयुतानां सर्वेषां मानवानां चिन्तनसामर्थ्यमन्यूनमनतिरिक्तं विद्यते। पाश्चात्त्यकाव्यचिन्तनपरम्परायां यानि तत्त्वानि विवेचितानि सन्ति, तानि प्रायशः प्राच्यसमालोचनपरम्परायां प्राचीनकालादेव विवेचनविषयीभूतानि दृश्यन्ते। तद्वत् अवस्था साधारणीकरणविरेचनसिद्धान्तयोर्विषयेऽपि विद्यते। पौरस्त्यकाव्यशास्त्रेतिहासे भरतमुने रससूत्रस्य व्याख्यायाः प्रसङ्गे रसनिष्पत्तौ नायकादिकाव्यविषयैः सह भावकस्य ऐक्यभाव आवश्यक इति विचार्य भट्टनायकेन परिकल्पितः साधारणीकरणसिद्धान्तः पाश्चात्त्येऽरस्तुमहोदयेन काव्यात् सर्वथा आनन्द एव लभ्यते इति विचारपरिपोषार्थमाविष्कृतो विरेचनसिद्धान्तश्च कुत्रचित् परस्परं साम्यं भजेते। साधारणीकरणविरेचनसिद्धान्तयोर्भूमिका समाना दृश्यते। यद्यपि प्रक्रियायां वैभिन्न्यं विद्यत एव तथापि भावकः काव्यविषयीभूतं पदार्थं विरेचनस्य माध्यमेन सामान्यीकृत्य आनन्दमनुभवतीति विरेचनं तथैव काव्ये वर्णितान् विशिष्टान् पदार्थान् साधारणीकृत्य भावको रसानुभूतिं करोतीति साधारणीकरणञ्चेति सिद्धान्तद्वयं कार्यगतं साम्यं भजते। एतादृशं तथ्यं निष्कर्षयितुमत्र पुस्तकालयमुपयुज्य द्वितीयकस्रोतसामग्रीरधीत्य तुलनात्मकविश्लेषणादिविधिरवलम्ब्यते।
शब्दकुञ्जिका : साधारणीकरणम्, विरेचनम्, काव्यशास्त्रम्, काव्यानन्दः, रसः।
विषयपरिचयः
साधारणीकरणसिद्धान्तः पौरस्त्यरसपरम्पराया महत्त्वपूर्णा उपलब्धिर्मन्यते। काव्यात् सामाजिकमनसि रसानुभूतिः कथं भवतीति जिज्ञासायां तत्र दीर्घतरा चर्चा सञ्जाता। तत्क्रमे भट्टनायको भोजकत्वाख्यं व्यापारं परिकल्प्य तस्य व्यापारस्य साधारणीकरणरूपेण कार्येण सामाजिकाः काव्ये नाट्ये चाभिव्यक्तान् रसान् अनुभवन्तीति नवीनां धारणां प्रतिपादयति। अस्यैव चिन्तनस्य पृष्ठभूमौ ध्वनिसम्प्रदायसंवर्धकोऽभिनवगुप्तः परिष्कारपूवर्कं साधारणीकरणसिद्धान्तं दृढीकरोति।
पाश्चात्त्यकाव्यशास्त्रपरम्परायां प्रारम्भकालिकः काव्यशास्त्री प्लेटोनामको दार्शनिकः सञ्जातः। एष कविकल्पनायामाधारितं काव्यं सामाजिकेषु रौद्रशोकादीन् भावान् संसृज्य विकृतसमाजनिर्माणे प्रेरयतीति विचिन्त्य नैतिकसमाजात् कविकलाकारादयो बहिष्करणीया इत्युद्घोषयति। अस्यैव शिष्यरूपेण समागतोऽरस्तु गुरोः काव्यविपरीतं विचारं परिष्कृत्य तादृशा भावा अपि विरेचनस्य माध्यमेन मनोविकारान् संशोध्य सामाजिकमनस्यान्दमुत्पादयन्तीति सामर्थ्ययुतं विरेचनसिद्धान्तं प्रवर्तयति।
एतयोः साधरणीकरणविरेचनसिद्धान्तयोः सामाजिकेषु काव्यानन्दानुभूतेः किञ्चित् सम्बन्धस्तु विद्यत एव इत्यध्ययनमस्य लेखस्य विषयो विद्यते।
साधारणीकरणसिद्धान्तः पौरस्त्यकाव्यशास्त्रस्य रसानुभूतौ माध्यमत्वेन विकसितोऽस्ति। पाश्चात्त्यकाव्य- शास्त्रिणोऽरस्तुनाम्नः विदुषो विरेचनसिद्धान्तश्च दुःखात्मकाद् विषयादान्दप्राप्त्यर्थं परिकल्पितसिद्धान्तोऽस्ति। अनयोर्मध्ये स्वरूपाकारादिविषये किञ्चिद् वैभिन्न्येऽपि बीजतत्त्वे समानता दृश्यते। लेखेऽस्मिन् एतद्विषये इतः पूर्वं कृतमध्ययनमत्र प्रस्तूयते।
नैपालसमालोचकः केशवप्रसादोपाध्यायः स्वकीये ‘साहित्यप्रकाशः’ इत्याख्ये नेपालीभाषायां प्रकाशिते ग्रन्थे समुल्लिखति यत्- संस्कृतसाहित्ये रसानुभूतेः समस्यां समाधातुं साधारणीकरणाख्यः सिद्धान्तः परिकल्पितः। पाश्चात्त्यसमालोचको- ऽरिस्टोटलस्याग्रेऽपि शोकमयदुःखान्ताद् हर्षमयदुखान्ताच्च कथमानन्दानुभूतिर्जायते इति समस्याऽऽसीत् परमयं विषयेऽस्मिन् मौनमास्थाय विरेचनाख्यं नवीनं सिद्धान्तं परिकल्प्य भावादीनां संयोजने स्वकीयं विचारं प्रस्तौति तथापि विरेचनसिद्धान्तो विषयस्य साधारणीकरणे सम्प्रेषणीयतायां वा पौरस्त्यसाधारणीकरणस्य सामीप्यं समागच्छत्येव (उपाध्यायः, २०६७, पृ. २४५)।
नेपालीमार्क्सवादिसमालोचकश्चैतन्यः स्वकीये ‘मार्क्सवादीसौन्दर्यचिन्तनम्’ इत्याख्ये नेपालीभाषायां प्रकाशिते ग्रन्थे रसविरेचन- सिद्धान्तयोः सम्बन्धविषये प्रस्तौति यत् – रसो भारतीयसौन्दर्यचिन्तनस्य तथैव विरेचनसिद्धान्तोऽरस्तुप्रतिपादितस्य युनानदेशीयसौन्दर्यचिन्तनस्य प्रणयने स्तः। युनानभाषायामरस्तुप्रतिपादितं विरेचनं ‘कैथार्सिस’ इति कथ्यते। अस्यार्थो मलानपसार्य शुद्धीकरणमिति जायते। शब्दोऽयमरस्तुनाम्ना काव्यशास्त्रिणा चिकित्साशास्त्रात् समानीतः। पौरस्त्ये रसशब्दोऽपि चिकित्साशास्त्रादेव गृहीतः।
अरस्तुनाम्नो विदुषो गुरुः प्लेटोनामा दार्शनिकः काव्ये नैतिकतत्त्वमावश्यकमिति समुल्लिखति। अयं शोककरुणादयः कल्पिता भावा जनान् विक्षिप्तान् कुर्वन्ति तस्मादेतादृशान् भावान् परिकल्प्य साहित्यसर्जकाः साहित्यकारा निरुत्साहयोग्या इति प्रस्तौति। एतादृशं गुरोर्विचारं परिष्कृत्यारस्तु ‘ते विपरीता अपि भावा विरेचनस्य माध्यमेनानुकूलानन्दप्रदायका भवन्ती’ति परिकल्प्य विरेचनसिद्धान्तं प्रतिपादयति। ‘साधारणीकरणेनाप्यसामान्यान् शोकादीन् भावान् सामान्यीकृत्य रस आस्वाद्यते’ इत्युल्लिख्य मार्क्सवादिसमालोचकश्चैतन्यः साधारणीकरणविरेचनसिद्धान्तयोः सन्निकटसम्बन्धोऽस्तीति प्रस्तौति (चैतन्यः, २०६९, पृ. १०१)।
संस्कृतसमालोचकः श्वेतपद्माशतपथी ‘प्राच्यपाश्चात्त्यसौन्दर्यपरम्परायाम् अरस्तुः’ इति नामके ग्रन्थे अरस्तुनामकः पाश्चात्त्यकाव्यशास्त्री विरेचनाख्यं सिद्धान्तं समीक्षयति। तत्र विरेचनसिद्धान्तस्य स्वरूपप्रकाशनप्रसङ्गे समुल्लिखति यत्- “परिवर्तिनि काले दार्शनिकैर्विरेचनशब्दस्य बहुधा व्याख्यानं कृतम्। यद्वा तद्वा भवेत्, अरस्तुनाम्ना विदुषा यत् त्रासदीप्रसङ्गे विरेचनस्योल्लेखः कृतः, अतस्तस्य मुख्यं लक्ष्यं भवति विरेचनद्वारा त्रासदीष्वप्यानन्दो लब्धुं शक्यते। एतेन त्रासदीष्वतिशयोत्तेजनद्वारा मनोवेगानां शमनं भवति तथा तेन मनः शान्तं भवति, तदनन्तरमानन्दः करुणरसादपि प्राप्यते इति” (शतपथी, २०१२, पृ. ९८)।
भारतीयसमालोचको ममताचतुर्वेदी स्वकीये ‘सौन्दर्यशास्त्रम्’ इत्याख्ये हिन्दीभाषायां प्रकाशिते ग्रन्थे समुल्लिखति यत्- पाश्चात्त्यसमालोचकेष्वरस्तुमहोदयानन्तरं आइ ए रिचार्डनाम्नो विदुषः सिद्धान्तेऽपि सम्प्रेषणस्य महत्त्वं प्रतिपादितं विद्यते। तत्र सम्प्रेषणस्य कृते साधारणताया आवश्यकता समुल्लिखिता। तस्य पौरस्त्यसाधारणीकरणेन सह सन्निकटसम्बन्धो ज्ञायते। (चतुर्वेदी, १९९७, पृ. १९२)
भारतीयसमालोचको निर्मलाजैनः स्वकीये ‘रससिद्धान्त और सौन्दर्यशास्त्र’ नामके ग्रन्थे समुल्लिखति यत्- रसः सिद्धान्तः पौरस्त्यसमालोचनाया सुमेरुत्वेन विराजितोऽस्ति। अस्य विभिन्नैरङ्गैः सह तुलनायोग्या विषयाः पाश्चात्त्यसमालोचनापरम्परायां दृश्यन्ते। तेषु रसनिष्पत्तिप्रक्रियायामत्यावश्यकत्वेन परिकल्पितस्य साधारणीकरण- सिद्धान्तस्य किञ्चत् सामीप्यसम्बन्धो विरेचन-सामानुभूति-निर्वैयिकताप्रभृतिभिः सिद्धान्तैः सह विद्यते। (जैनः, १९७७, पृ. ६,७)
पूर्वाध्ययनक्रमेऽधीतेषु ग्रन्थेषु प्रायशः साधारणीकरणविरेचनसिद्धान्तयोः पृथक् पृथग् विवेचनं लभ्यते। कुत्रचित् साम्यवैषम्ययोः सङ्केतो प्राप्यते, परं स्पष्टतया तुलनात्मकरूपेण साम्यवैषम्ययोरध्ययनं नोपलभ्यते। समानगुणयोर्द्वयोः सिद्धान्तयोः साम्यवैषम्यं विनिभाल्य निष्कर्षप्रतिपादनमेवास्य लेखस्य शोधान्तरालं विद्यते।
समस्याकथनम्
काव्यादानन्दानुभूतिप्रक्रियायां पौरस्त्ये भट्टनायकप्रतिपादितस्य साधारणीकरणसिद्धान्तस्य पाश्चात्त्ये अरस्तुमहोदयस्य विरेचनसिद्धान्तस्य च कार्यविधिः समाना लक्ष्यते। परं तयोः साम्यवैषम्यविषये स्पष्टता नोपलभ्यते। अतोऽस्मिन् विषये सञ्जाता समस्या एवास्याध्ययनस्य समस्या इति बिन्दुवाक्येनाधः प्रस्तूयते-
साधारणीकरणविरेचनसिद्धान्तयोः स्वरूपं कीदृशम् ?
साधारणीकरणविरेचनसिद्धान्तयोः साम्यं वैषम्यञ्च कीदृशम् ?
उद्देश्यम्
समस्याशीर्षके समुल्लिखितायाः समस्यायाः समाधानमेवोद्देश्यं भवति। तदनुसारमस्याध्ययनस्योद्देश्यं बिन्दुवाक्येनाधः प्रस्तुतं विद्यते-
साधारणीकरणविरेचनसिद्धान्तयोः स्वरूपप्रकाशनम्।
साधारणीकरणविरेचनसिद्धान्तयोः साम्यवैषम्यप्रकाशनम्।
अध्ययनविधिः
शोधकार्यस्य विषयानुसारमध्ययनविधिमवलम्ब्यते। अस्याध्ययनस्य सम्यक् उद्देश्यपरिपूरणाय साधारणकरणविरेचनसिद्धान्तयोः परिचयविश्लेषणादिविषयसम्बद्धेभ्यः पुस्तकेभ्यः सामग्रीसङ्कलनं विधाय तस्मात् तथ्यप्रतिपादनार्थं वर्णनात्मकविश्लेषणात्मकतुलनात्मकविधीनां यथावसरमुपयोगो विहितोऽस्ति। लेखोऽयं द्वयोः सिद्धान्तयोस्तुलनायामाधारितो विद्यते। तस्मादत्र सिद्धान्तमुल्लिख्य तदनूदाहरणान्वेषणात्मकेन निगमनविधिना विषयविश्लेषितोऽस्ति। अध्ययनमिदं गुणात्मकं विद्यते। विषयानुकूलेभ्यः पुस्तकेभ्यः समानीतानां तथ्यानां तुलनात्मकेन विधिना सम्यक्तया पर्यालोच्य विश्लेषणञ्च विधाय साधारणीकरणविरेचनसिद्धान्तयोः साम्यवैषम्यात्मको निष्कर्षः समुपस्थापितो विद्यते। अत्र सन्दर्भोल्लेखने सन्दर्भसामग्रीसूचीनामुल्लेखने च लेखकमितिपद्धति (एपिए) प्रयुक्ता वर्तते। कुत्रचित् संस्कृतभाषासम्बद्धानां श्लोकादीनामुद्धरणे शब्दसन्धिविषये च संस्कृतस्य परम्परिता पद्धतिरुपयुज्यते।
पाश्चात्त्यसमालोचनापरम्परायां विरेचनसिद्धान्तस्य विविधपक्षात्मकमध्ययनं विस्तृतं विद्यते। एवमेव पौरस्त्यकाव्यशास्त्रे साधारणीकरणसिद्धान्तस्याङ्गोपङ्गाध्ययनमसीमितं दृश्यते। अस्मिन् लेखे तयोः केवलं सामान्यपरिचयमुपस्थाप्य कुत्रचित् स्थले साम्यम्, कुत्रचिच्च वैषम्यं विद्यते ? इति साम्यवैषम्यप्रतिपादनमेव क्रियते। अतः साधारणीकरविरेचनसिद्धान्तयोः साम्यवैषम्यात्मकमध्ययनमेवास्य लेखस्य सीमा विद्यते।
सैद्धान्तिकपर्याधारः
कस्यापि विषयस्याध्ययनं कमपि सिद्धान्तमवलम्ब्य क्रियते। अस्मिन् लेखे साधारणीकरणविरेचनसिद्धान्तयोः तुलनात्मकं विश्लेषणात्मकञ्चाध्ययनं विद्यते। साधारणीकरणसिद्धान्तो रसस्यास्वादनार्थं परिकल्पितो विद्यते। पौरस्त्यकाव्यशास्त्रे रसस्यानुभूतेर्विषये विश्लेषणपरम्परा दीर्घतरा विद्यते। तत्र रसस्य प्रतीतिर्नटे सामाजिके वा भवतीति विषये विदुषां मतभेदाः प्राप्यन्ते। तेषु भट्टनायक रसस्यानुभूतिः सामाजिके भवतीति मतं स्थिरीकर्तुं साधारणीकरणसिद्धान्तं प्रतिपादयति। तत्र भावकत्वाख्येन व्यापारेण विशिष्टरामादीनां विभावादीनां साधारणीकृत्य सामाजिके रसस्यानुभूतिर्भवतीति साधारणीकरणसिद्धान्तस्य प्रयोजनं प्रस्तौति। तदनतन्तरं रससिद्धान्ते साधारणीकरणसिद्धान्तः पूरकत्वेन सर्वमान्यः सञ्जातः। पाश्चात्त्यसमालोचनायामपि त्रासकरुणादिकठोरभावाद् विरेचनस्य माध्यमेन सामाजिके आनन्दानुभूतिर्जायते इत्यरस्तुनामको विदुषो विरेचनसिद्धान्तं प्रतिपादयति। एतयो साधारणीकरणविरेचनसिद्धान्तयोः साम्यवैषम्याध्ययनकार्ये तुलनात्मकसिद्धान्तोऽपि स्वीकृतो विद्यते। तस्माद् अरस्तुप्रतिपादितो विरेचनसिद्धान्तः, भट्टनायकप्रतिपादितः साधारणीकरणसिद्धान्त एवमेव साम्यवैषम्यप्रतिपादने तुलनात्मकसिद्धान्तश्चास्य लेखस्य सैधान्तिकाधारो विद्यते।
विषयविश्लेषणम्
अस्य लेखस्य विषयविश्लेषणे पौरस्त्यकाव्यशास्त्रस्य साधारणीकरणसिद्धान्तस्य पाश्चात्त्यकाव्यशास्त्रस्य विरेचनसिद्धान्तस्य च सामान्यस्वरूपमुपस्थाप्य तयोः साम्यवैषम्यनिरूपणादिकं विधीयते।
साधारणीकरणसिद्धान्तः
पौरस्त्यकाव्यशास्त्रस्य मेरुदण्डत्वेन प्रसिद्धस्य रसस्य निष्पत्तौ रससूत्रस्य व्याख्यातृषु भट्टनायकस्य महत्त्वं समधिकं विद्यते। अस्य ग्रन्थो हृदयदर्पणस्तु न लभ्यते। तस्मादभिनवभारत्यादिकाव्यशास्त्रीयग्रन्थेषु प्राप्तान्युद्धरणान्येवास्याधिकारिकी प्राप्तिर्मन्यते। अनेन सामाजिके रसानुभूतये साधारणीकरणाख्यः सिद्धान्तः प्रतिपादितः। तत्र रसनिष्पत्तिप्रक्रियायां भट्टनायकेन अभिधा भावकत्वं भोजकत्वञ्चेति त्रयो व्यापाराः स्वीकृताः। तेष्वभिधाव्यापारेणाधीयमानस्य काव्यस्य वाच्यार्थप्रतीतिर्भवति। भावकत्वव्यापारेण काव्यगतचरित्राणां भावकमनसि स्थितैर्भावैः सह साधारणीकरणं भवति, अर्थात् रामसीतादिविशिष्टज्ञानं परिवर्त्य नायकनायिकारूपं साधारणज्ञानं जायते। अनन्तरं भोजकत्वव्यापारेण सहृदयमनसि रजोगुणतमोगुणयोरभिभवानन्तरं सत्त्वगुणस्योद्रेको जायते। तदा सामाजिकः काव्यगतैश्चरित्रैः सह तादात्म्यमनुभूय विलक्षणानन्दमयं रसमास्वादयति।
अभिनवगुप्तमम्मटविश्वनाथप्रभृतिभिः काव्यशास्त्रिभिर्भट्टनायकस्य साधारणीकरणव्यापारस्तु स्वीकृतः परं तस्य भावकत्वभोजकत्वनामकौ व्यापारौ न स्वीकृतौ।
अनेन सिद्ध्यति यत्- भट्टनायकेन प्रतिपादितः साधारणीकरणसिद्धान्तो रसनिष्पत्तयेऽत्यावश्यकसिद्धान्तत्वेन स्थापितः।
रससम्प्रदायप्रस्थापनपरमाचार्योऽभिनवगुप्तो भट्टनायकमतस्य पृष्ठभूमौ साधारणीकरणसिद्धान्तं परिष्कृत्य सर्वस्वीकार्यं विदधाति। भट्टनायकः ‘भोजकत्वव्यापारेण विभावादिसाधारणीकरणात्मना’ (अभिनवगुप्तः, १९६०, पृ. ४७१) इत्युल्लिख्य विभावादीनामेव साधारणीकरणं भवतीति कथयति। तत्र किञ्चित् परिष्कृत्याभिनवगुप्तो विभावादीनामेव नापितु सर्वेषां रससामग्रीणां साधारणीकरणं भवतीत्युल्लिखति यत्-
“तत एव न परिमितमेव साधारण्यमपि तु विततम्। व्याप्तिग्रह इव धूमाग्न्योर्भयकम्पयोरिव वा। तदत्र साक्षात्कारायमाणत्वेन परिपोषका नटादिसामग्री। यस्यां वस्तुसतां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यप्रतिबन्धवलादत्यन्तमपसारणे स एव साधारणीभावः सुतरां पुष्यति। अत एव सर्वसामाजिकानामेकघनतयैव प्रतिपत्तिः सुतरां रसपरिपोषाय।” (अभिनवगुप्तः, १९६०, पृ. ४७१)।
भट्टनायकस्य साधारणीकरणाख्यं मतं परिष्कृत्य सर्वस्वीकार्यं विदधात्यभिनवगुप्तः। अस्य परिष्कारो विद्यते यत्- साधारणीकरणं केवलं विभावादीनामेव नापितु सर्वेषां रसोपकरणानां भवति, तथा च भोजकत्वव्यापारोऽसामयिकी कल्पना विद्यते, रसोपकरणानां साधारणीकरणे तु प्रसिद्धा व्यञ्जनावृत्तिरेव समर्था इति। अतः साधारणीकरणसिद्धान्तस्य परिष्कृतं स्वरूपं भवति यत्-
काव्ये नाट्ये च प्रयुक्ता यावत् सामग्र्यः काव्यपठनश्रवणसमकाले विशिष्टा भवन्ति। तेषां वाच्यार्थोऽभिधया ज्ञायते। अनन्तरं व्यञ्जनया शब्दशक्त्या ताः सर्वाः सामग्र्यो विशिष्टार्थं परित्यज्य नायकनायिकादिसामान्यरूपे परिणमन्ति। तदा सामाजिकोऽखण्डरूपेण रसमास्वादयति।
अभिनवगुप्तस्य मते साधारणीकरणं कथं भवति ? रसास्वादने च तस्य भूमिका कीदृशी ? इत्यादिविषये सूत्रात्मकशैल्या निर्दिश्यते-
> सामाजिकानां हृदयेषु रत्यादिस्थायिभावाः सूक्ष्मवासनारूपेण विद्यमाना भवन्ति।
> लोके रत्यादिभावानां कारणानि कार्याणि सहकारीणि च काव्येष्वलौकिकविभावानुभावव्यभिचारिभावपदवाच्यानि भवन्ति।
> काव्येषु प्रयुक्तानां विभावादीनां साधारणीकरणं व्यञ्जनाव्यापारेण सञ्जायते। तेषां स्वकीयत्वपरकीयत्वभावास्तिरोहिता भवन्ति। तदा तेषु सामान्यांशोऽवशिष्यते।
> सम्पन्ने साधारणीकरणव्यापारे प्रमातुश्चित्तसीमानो बन्धनरहिता, चित्तवृत्तयोऽपरिमिता भवन्ति। अतो रत्यादीनामपि साधारणीकरणं भवति। इयं साधारणीकरणप्रक्रिया सहृदयैरनुभूयते। एवञ्चाभिव्यज्यमानः स्थायिभाव एव रसपदवाच्यो भवति।
> रसस्वरूपं त्वास्वद्यमानमेव। यावत्कालं विभावादयो विद्यमानास्तावत्कालं रसानुभूतिर्जायते। विभावादीनामियं प्रतीतिः पृथक् पृथग् रूपा न, अपित्वाखण्डात्मिका एव। यथा पानकरसे सकलसामग्रीस्वादविलक्षणस्वादो भोक्त्राऽनुभूयते तथैव विभावादिलक्षणो रसोऽप्यास्वाद्यते। अलौकिकरसास्वादनं सहृदयैरनुभूयते। सामाजिकहृदये प्रागनुभूतसंस्काररूपेण स्थितः स्थायिभाव एव विभावानुभावाव्यभिचारिसंयोगाद् रसरूपतामेति’ इत्यभिनवगुप्तस्य रसनिष्पत्तिविषयकी धारणा मम्मटविश्वनाथजगन्नाथप्रभृतिभिः काव्याशास्त्रमर्मज्ञैः स्वीकृता दृश्यन्ते।
विरेचनसिद्धान्तः
पाश्चात्त्यकाव्यशास्त्रस्य विशिष्टसमालोचकस्यारस्तुनाम्नो विदुषो महत्त्वाधायकः सिद्धान्तोऽस्ति विरेचनम्। ‘क्याथर्सिस’ इति ग्रिकशब्दाद् आङ्लभाषायामनुवादरूपेण ‘पर्गेसन’ एवमेव नेपालीभाषायां समानार्थको विरेचनशब्दः प्रयुज्यते। ग्रीकभाषायां चिकित्साशास्त्रसम्बद्धस्य ‘क्याथर्सिस’ शब्दस्यार्थो भवति यत्- रेचकाख्ययेनौषधिना शरीरान्तर्गतान् विकारान् दूरीकृत्य शरीरं स्वस्थं नीयते इति। वैद्यस्य पुत्रोऽरस्तुश्चिकित्साशास्त्राच्छुद्धीकरणार्थकं शब्दं काव्यशास्त्रे तादृशं कार्यसम्पादनार्थं विवेचयति इति। (शतपथी, २०१२, पृ. ९८)
पाश्चात्त्यकाव्यशास्त्रे विरेचनसिद्धान्तस्य प्रणयनमैतिहासिकघटनायाः कारणेन सञ्जातम्। अरस्तुनाम्नो विदुषो गुरोः प्लेटोनाम्नः दार्शनिकस्य मनसि काव्यं प्रति विपरीता धारणाऽऽसीत्। काव्यं कवेः कल्पनाया निर्मितिरस्ति। काव्यगतानां भावानां पठनेन श्रवणेन च सामाजिकेषु विषयवासना विनष्टा न भवन्ति प्रत्युत तादृशान् भावान् परिपोष्य ता विक्षिप्ता भवन्ति। (चामलिङ्, २०४० : १५९) अतः कविकलाकारा आदर्शगणराज्याद् बहिष्करणीया इति प्लेटोनामकः समालोचक उद्घोषितवान्। एतत्प्रकारेण गुरुणा काव्यं प्रति प्रस्तुतस्याक्षेपस्य निराकरणायारस्तु विरेचनसिद्धान्तस्य प्रणयनमकरोत्। प्लेटोनाम्नो विदुषोऽऽक्षेपेऽस्य प्रत्युत्तरमस्ति, यत्- सामाजिकानां मनसि स्थितानां तादृशानां भावानां वन्दीकरणमनुपयुक्तम्। दुःखान्तता (ट्रेजेडी) त्रासकरुणयोरावेगबहिष्करणे द्वाररूपोऽस्ति। यस्य कार्यं प्रागुद्वेज्य पश्चाच्छमनमस्ति। अनेन प्रकारेण दुःखान्तस्य माध्यमेन विकसिता त्रासकरुणादिभावा अस्माकं मनसि स्थितान् त्रासकरुणादिभावान् दूरीकृत्य प्रशम्य आनन्दानुभूतिं विदधति। एतादृशस्य भावार्थस्य कृतेऽरस्तुना कथार्सिस शब्दः प्रयुक्तः। (चामलिङ्, २०४०, पृ. १५९) अस्य सिद्धान्तस्य सारो विद्यते यत् – कलासाहित्यस्य पठनेन श्रवणेन चास्माकं मनसि सञ्जातानां विकाराणां समुचितं विरेचनं भवति। समुचिता त्रासदी विरेचनस्य माध्यमेन करुणात्रासादीभावानामुद्बोधनं कृत्वा शमनस्य माध्यमेनात्मानमानन्दमयं विदधाति।
अरस्तु विरेचनस्य सामान्यरूपेणोल्लेखनं करोति। अस्य स्वरूपादिविषयिणी व्याख्या तत्र न लभ्यते। स स्वकीये ‘पोयटिक्स’ इत्याख्ये ग्रन्थे ‘राजनैतिक’ इत्याख्ये ग्रन्थे चात्मशुद्धिरित्यर्थे विरेचनं प्रस्तौति। तत्र तस्य भणितिर्विद्यते यत् – कविकलाकारस्य निर्मितिरनेकान्नुद्देश्यान् परिपूरणार्थं भवति तेषु बौद्धिकानन्दोऽपि विद्यते। कविकलाकारकृतिभ्यः सञ्जाता आवेशादयो भावकस्य मनसि स्थितेभ्यो धार्मिकरागेभ्यः शान्ता (विरेचिताः) भवन्ति। अनन्तरं तेनानन्दोऽनुभूयते। (चाम्लिङ्, २०४०, पृ. १६१)
अरस्तुप्रणीते काव्यशास्त्रे विरेचनस्य विस्तृता चर्चा नोपलभ्यते। पश्चवर्त्तिभिराचायैरेतस्य विषये सुविस्तृता विवेचनपरम्परा निर्मिता। ते विरेचनस्य धर्मनीतिकलासम्बद्धां व्याख्यां कुर्वन्ति।
धर्मसम्बद्धा व्याख्या
इयं व्याख्या ‘गिल्वर्टमरे’ नामकेन विदुषा कृता। तस्याशयो विद्यते यत्- यूनानदेशे ‘दियोन्युसस’ नामकस्य देवस्योत्सव आयोज्यते स्म। तस्योद्देश्यं कलुषितभावाद् वा पापादेव नापितु मृत्योरपि मुक्तिलाभ आसीत्। अत्र बाह्यघटितात् देवोत्सवजन्यविकारादान्तरिकविकाराणां शमनं भवतीति विश्वास आसीत्। अरस्तुमहोदयस्य समये धार्मिकभावस्य चरमोत्कर्ष आसीत्। तस्मादित एव भावं प्रगृह्यात्मिकशुद्धये ‘कथार्सिस’ इति शब्दस्य प्रयोगः कृतः।
नीतिसम्बद्धा व्याख्या
‘बारनेज’ नामकेन जर्मनदेशस्य विदुषा विरेचनस्य नीतिसम्बद्धां व्याख्यां करोति स्म। अस्य मते मानवमनो विकाराणां खनिभूतमस्ति। तत्र विशेषतः करुणादिदुःखयुता मनोवेगा भवन्ति। त्रासयुते रङ्गभूमौ-अवास्तविक्य घटना अतिरञ्जितशैल्या प्रस्तुत्य कृत्रिमसामग्र्या भावकस्य मनसि वासनात्मकरूपेण स्थितानामेतेषां मनोविकाराणां निराकरणद्वारा मानसिकसामञ्जस्यं स्थाप्यते। अस्याधारे विरेचनस्यार्थो मनोविकाराणामुत्तेजनानन्तरं शमनमर्थाद् मानसिकी शुद्धिर्भवति।
कलासम्बद्धा व्याख्या
पाश्चात्त्यकाव्यशास्त्रे स्वच्छन्दतावादिनां विचारे विरेचनस्य कलासम्बद्धाः सङ्केतादयो लभ्यन्ते। तेष्वरस्तुनाम्नो विदुषो विचारव्याख्याकारो बुचरमहोदयः कथयति यत्- ‘विरेचनम्’ केवलं मनोविज्ञानस्य निदानशास्त्रस्य चैकं तथ्यमेवोद्दिश्य प्रयोक्तुमनुचितं भवति। अयं कलासिद्धान्तस्याभिव्यञ्जको विद्यते। अस्य प्रयोजनं केवलं त्रासकरुणयोरभिव्यक्तेर्माध्यमरूपेणैव नापितु सुनिश्चितकलात्मकपरितोषाय विद्यते। अस्य कलासिद्धान्तरूपेण परिष्कार आवश्यको दृश्यते। कलासम्बद्धार्थो भवति यत्- मानसिकसन्तुलनमस्य प्रारम्भिकमेव कार्यम्। परिणामेऽस्य कलात्मकपरितोषस्य परिष्कारो विद्यते। येन विना करुणात्रासयोः कलागत आस्वादोऽपूर्ण एव।
एतेषां व्याख्यातृणां विचारान्निसृतोऽर्थो ज्ञायते यत् करुणत्रासादिका काव्यगता भावा विरेचनस्य माध्यमेन भावकमनसि स्थितान् भावान् उद्विज्य शान्तावस्थां नीत्वाऽऽनन्दास्वादनं कारयति।
अनयोः साम्यं वैषम्यञ्च बिन्दुवाक्यैरधोल्लिख्यते यत्
साम्यम्
काव्यात् सर्वथाऽऽनन्दास्वादनमेव जायत इति बीजप्रयोजनम्
सामाजिकेष्वेव काव्यानन्दास्वादनिर्धारणम्
बाह्यपदार्थानामान्तरिकैर्भावैः सहाभेदसम्बन्धस्थापनम्
वैषम्यम्
विरेचनसिद्धान्तः काव्यस्य दुराक्षेपनिवारणार्थं प्रणीतः परं साधारणीकरणसिद्धान्तो रसप्रतीतौ पात्रत्वनिर्धारणार्थमाविष्कृतः।
विरेचनस्य कार्यं करुणत्रासादिकठोररसेभ्य आनन्दानुभूतये एव परं साधारणीकरणं सर्वेषां रसानामनुभूतये प्रयुज्यते।
विरेचनं सीमाबद्धं विद्यते परं साधारणीकरणमसीमितं सामर्थ्ययुतं च परिकल्पितम्।
विरेचनस्य माध्यमेन बाह्यपदार्थानामान्तरिकैर्भावैः सह समान्यीकृत्य तान्युद्विज्य प्रशमनानन्तरमानन्द आस्वाद्यते परं साधारणीकरणस्य माध्यमेन बाह्यपदार्थैः सह आन्तरिकभावानां स्वकीयपरकीयादिविभेदप्रशमनान्तरं करुणादिरसा आस्वाद्यन्ते।
अरस्तुमहोदयस्य काव्यशास्त्रे कतिपयेषु वाक्येषु साधारणीकरणस्य सङ्केतः प्राप्यते। एकत्र विशिष्टव्यक्तेरनुभूतिः सार्वभौमतां यातीति कथनं साधारणीकरणस्य साम्यं भजति। तत्रोल्लिखितं विद्यते यत् काव्ये वर्ण्यविषयस्तु विशेष एव भवति अर्थात् काव्ये विशेषनामरूपयुतस्य पात्रविशेषस्य जीवने घटिता घटना एव वर्ण्यते परं तेषां स्थूलरूपमुपेक्ष्य तस्मिन् स्थितान् सामान्यमानवीयगुणानेव सम्बोध्यते तस्मात् तस्य पात्रस्य विशिष्टरूपं गौणतया तिष्ठति। अस्य विबोधाय ‘इफिगेनिया’ इत्यस्य कथा उल्लिखिता विद्यते। तत्र ‘इफिगेनिया’ विशिष्टनामरूपयुता स्त्रीभावेन नैवापितु विपद्ग्रस्ता सामान्या नारी एव ज्ञायते या सहृदये स्थितं मानवीयकरुणाभावमुद्बोधयति। ‘नामरूपयुक्तस्य विशिष्टव्यक्तेर्माध्यमेन सार्वभौमिकतासिद्धिरेव काव्यस्य लक्ष्यं भवति।’ अनेन विचारवाक्येन सह ‘सीतादिविशेषाणां कामिनीत्वादिसामान्यत्वेनोपस्थितिः’ इति भट्टनायकस्य साधारणीकरणप्रसङ्गे वर्णितं विचारवाक्यं साम्यं भजति। अनयोर्द्वयोर्वाक्ययोः मूलभावस्तु समान एव, परम् उद्देश्यन्तु पृथक् विद्यत इति भारतीयकाव्यशास्त्री नागेन्द्रः समुल्लिखति। (उपाध्यायः, २०६७, पृ. २४४)
अत्र मननीयं विद्यते यत् पौरस्त्ये साधारणीकरणमेव समस्यारूपेण विनिभाल्य सिद्धान्तत्वेन परिकल्पितः परं पाश्चात्त्यसमालोचकैः पात्रभावकयोर्भावसामान्यीकरणमुपेक्ष्य केवलं त्रासकरुणादिकठोरभावादानन्दलाभमुद्दिश्य विरेचनसिद्धान्तः प्रतिपादितः। तस्मात् काव्यादानन्दप्राप्तये साधारणीकरणं समष्टिक्रियात्मकं तत्त्वं चेद् विरेचनं प्लेटोमहोदयस्याक्षेपापनयनार्थं त्रासकरुणादिकठोरभावतः काव्यानन्दनिष्पत्तये परिकल्पितं व्यष्टिक्रियात्मकं तत्त्वमिति सारतया ज्ञायते।
निष्कर्षः
विश्ववाङ्मयस्येतिहासे क्षेत्रगतरूपेण द्वयोर्भागयोः कलाकृतीनां विकासः सञ्जातः। संस्कृतवाङ्मयं पौरस्त्यनाम्ना आङ्लादिवाङ्मयं पाश्चात्त्यनाम्ना व्यवह्रियन्ते। तयोर्द्वयोः क्षेत्रयोः कविकलाकारैः स्वप्रतिभया निर्मितानां कृतीनामितिहासः प्राचीनतमो विद्यते। कविकलाकाराणां कृतीनां नियमनाय काव्यशास्त्रिभिः शास्त्रीयसिद्धान्ता अपि प्रणीताः। तत्र नामप्रक्रियादिकतिपयेषु स्थलेषु रूपवैभिन्न्यं दृश्यते परं बीजतत्त्वं तु समानमेवाभाति। अस्याध्ययनस्य विषयभूतयोः साधरणीकरणविरेचनसिद्धान्तयोरपि तादृश्यवस्था विद्यते। पौरस्त्ये काव्याद् भावकेषु कथम् आनन्दप्राप्तिर्भवतीति समस्यासमाधानार्थं काव्यसङ्घटितान् भावकमनसि स्थिताञ्च सर्वान् पदार्थान् सामान्यीकृत्य सामाजिकेषु विलक्षणानन्दानुभूतये साधारणीकरणाख्यः सिद्धान्तः परिकल्पितः। पाश्चात्त्ये च सामाजिकाः काव्यपठनाद् दूषितान् भावान् अनुगृह्णन्ति, यस्मात् ते भ्रमिता जायन्ते इति काव्यविरुद्धं प्रक्षिप्तस्याक्षेपस्य निरासाय काव्यात् सर्वथा आनन्दप्राप्तिरेव भवतीति काव्यमहत्त्वपरिपोषणार्थं विरेचनसिद्धान्तस्य प्रणयनं सञ्जातम्। यद्यपि द्वयोः सिद्धान्तयोः कार्यपरिधौ महदन्तरं परिलक्ष्यते। साधारणीकरणे काव्याद् रसानुभूतये सर्वेषां रससमग्रीणां विषयतया स्वीकृतः, परं विरेचने आक्षेपविषयभूतात् त्रासकरुणादिकठोरभावादपि काव्यानन्दप्राप्तिर्भवतीति एक एव पक्षोऽवलम्बितः। कविकलाकारप्रणीतायाः कृतेः केवलमानन्द एव लभ्यते इति बीजप्रयोजनं तु द्वयोः सिद्धान्तयोः समानमनुलक्ष्यते। एवमेव पाश्चात्त्यकाव्यशास्त्रे प्रसिद्धाः ये सिद्धान्ताः सन्ति प्रायशः तेषां पौरस्त्यकाव्यशास्त्रे विवेचितैर्विषयैः सह कुत्रचित् सम्बन्धो दृश्यत एव। अतः पाश्चात्त्यकाव्यशास्त्रस्य तादृशाः सिद्धान्ताः पौरस्त्यैः सिद्धान्तैः सह तुलनीया इति शोधकार्योत्सुकानां छात्राणां कृते विषयत्वेन स्वीकर्तुं शक्यते।
कृतज्ञताज्ञापनम्
लेखस्यास्य सम्पादनाय यैर्विज्ञैः सहयोगः प्राप्तः, ते सर्वेपि कार्तज्ञविनिवेदनेन स्मर्यन्ते।
सन्दर्भसामग्रीसूचिः
अभिनवगुप्तः. (१९६०) अभारभिनवती, हिन्दी विभाग दिल्ली विश्वविद्यालय।
आनन्दवर्धनः.(२०४२) ध्वन्यालोकः, चौखम्बा संस्कृत भवन।
उपाध्याय, केशवप्रसाद. (२०६७) साहित्य प्रकाश, साझा प्रकाशन।
चतुर्वेदी, ममता. (१९९७) सौन्दर्यशास्त्र, राजस्थान हिन्दी ग्रन्थ अकादमी।
चामलिङ्, गुमानसिं. (२०४०) एरिष्टोटल र उनको काव्यशास्त्र, राजकीय प्रज्ञा प्रतिष्ठान।
चैतन्य. (२०६९) मार्क्सवादी सौन्दर्यचिन्तन, साझा प्रकाशन।
जैन, निर्मला. (१९७७) रससिद्धान्त और सौन्दर्यशास्त्र, (द्वि. सं.) नेशनल पब्लिसिङ् हाउस।
नगेन्द्र. (१९७४) भारतीय सौन्दर्यशास्त्र कि भूमिका, नेशनल पब्लिसिङ् हाउस।
पाण्डेय, कान्तिचन्द्र. (१९६७) स्वतन्त्र कलाशास्त्र, (भा १) चौखम्बा संस्कृत सीरिज आफिस।
… (१९७८) स्वतन्त्र कलाशास्त्र, (भाग २) चौखम्बा विद्याभवन।
बराल, ईश्वर. (२०५५) नेपाली साहित्य कोश, नेपाल राजकीय प्रज्ञा प्रतिष्ठान।
भरतमुनिः. (१९६४) नाट्यशास्त्रम्, मोतीलाल बनारसी दास।
शतपथी, श्वेतपद्मा. (२०१२) प्राच्यपाश्चात्त्यसौन्दर्यशास्त्रपरम्परायाम् अरस्तुः, भारतीय विद्या प्रकाशन।