न्यायसारग्रन्थः भासर्वज्ञस्य रचना वर्तते। परिच्छेदात्मकन्यायसारे ग्रन्थे प्रमाणानां निरुपणं पार्थक्याङ्गीकरणञ्च भासर्वज्ञेन न्यायसूत्रोपदेशकगौतमस्य पारम्परिकन्यायदर्शनप्रणाल्याः पृथक् कृतमिति दृश्यते। प्रत्यक्षानुमानोपमानशब्दाश्चेति चत्वारि प्रमाणानि न्यायसूत्रे निरुपितानि।
तुलसीपौडेलः
उपप्राध्यापकः, न्यायविभागः
नेपालसंस्कृतविश्वविद्यायलयः,
पिण्डेश्वरविद्यापीठम्, धराननगरम्
Email : shubharahos@gmail.com
लेखसारः
न्यायसारग्रन्थः भासर्वज्ञस्य रचना वर्तते। परिच्छेदात्मकन्यायसारे ग्रन्थे प्रमाणानां निरुपणं पार्थक्याङ्गीकरणञ्च भासर्वज्ञेन न्यायसूत्रोपदेशकगौतमस्य पारम्परिकन्यायदर्शनप्रणाल्याः पृथक् कृतमिति दृश्यते। प्रत्यक्षानुमानोपमानशब्दाश्चेति चत्वारि प्रमाणानि न्यायसूत्रे निरुपितानि। न्यायसारे भासर्वज्ञेनोपमानं प्रमाणं विहाय प्रत्यक्षानुमानशब्दाश्च त्रिण्येव प्रमाणानि निरुपितानि। उपमानस्य पृथृक् प्रमाणत्वं नावश्यकं तत्तु शब्दप्रमाणरूपमेवोक्त्वा तस्य पृथगस्त्वित्वं नाङ्गीकृतम्। अनेन किमर्थं त्रिप्रणान्येव स्वीकृतानि ? अयं नैयायिकः सन्नपि किमर्थं न्यायसूत्रकारात् भिन्नावधारणां संस्थापितवान्निति विषयः अध्ययनस्योद्देश्यत्वेन परिगणितः। अयं शैवपरम्परायापि मुख्यतमाचार्यत्वेन तदानीं सुप्रतिष्ठित आसीदपि भासर्वज्ञः नैयायिक एव। तस्य त्रिप्रमाणान्यपि न्यायस्यैव अव्यक्तधाराः वर्तत इति अस्य शोधस्य निष्कर्षः। अयं पौरस्त्यदर्शनस्य तत्रापि न्यायदर्शनस्य महान् आचार्य आसीदिति आधुनिकैः शोधकर्त्रिभिः सादरानुमोदितं वर्तते। शोधेऽस्मिन् मया स्रोतसामग्रीत्वेन भासर्वज्ञस्य न्यायसारः, तस्य अन्ये कतिपयग्रन्थाः, तथा च न्यायदर्शनसम्बन्धिग्रन्थाः, भासर्वज्ञस्योपरि कृताः शोधरचनाः स्वीकृताः। एतेषामाधारेण भासर्वज्ञस्य विषये, प्रमाणविषये च विश्लेष्य निष्कर्षः समुद्घाटितः।
शब्दकुञ्जिका : भासर्वज्ञाचार्यः, न्यायदर्शनम्, प्रमाणवादः, हेत्वाभासः, न्यायभूषणम्।
विषयपरिचयः
आचार्यगौतमप्रतिपादितं न्यायशास्त्रं समग्रदर्शनशास्त्रस्य द्वारमस्ति। न्यायदर्शनशास्त्रप्रवेशेण न्यायेतरदर्शनशास्त्रेऽपि प्रवेशो जायते इति। तदर्थमेवोक्तं – प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम्। न्यायदर्शनस्य परम्परा आचार्यगोतमादपि पूर्वं विद्यमाना आसीदिति तु बहुसंख्यकैर्दार्शनिकैः सहर्षं स्वीक्रियते। भूतले अनादिकालतः इयं दर्शनधारा प्रवहन्ती विद्यते। अनन्तरञ्च न्यायनये धाराद्वयं प्रवाहितं वर्तते। प्रथमं प्राचीनन्याय इति नाम्नो न्यायदर्शनस्य प्राचीना धारा वर्तते। द्वितीया च नव्यन्याय इति नाम्नो न्यायदर्शनस्य नवीनधारा विद्यते। प्रथमधारायां सूत्रभाष्यवार्तिकतात्पर्यटीकादिग्रन्थाः विरचिताः। तत्रैव न्यायमञ्जरीत्यादयोऽपि ग्रन्था सुप्रसिद्धाः जाताः। प्राचीनन्यायधारायां प्रमेयाणां निरुपणं मुख्यलक्ष्यमस्ति। द्वितीयधारायां तत्र गङ्गेशोपाध्यायस्य तत्त्वचिन्तामणिग्रन्थः, तथा च तदधिकृत्य विरचिता अन्ये टीकाग्रन्थाः प्रणीताः। अत्र प्रमाणनिरुपणं मुख्योद्देश्यमस्ति।
एतद्द्वाभ्यां धाराभ्यां पृथक् भासर्वज्ञाचार्य अस्ति। भासर्वज्ञो न नवीनः, न च प्राचीनः, अयं स्वतन्त्रः। न्यायभूषणकारस्य व्यक्तित्वं तस्य रचनासूपलभ्यते। सुप्रसिद्धस्य न्यायभूषणग्रन्थस्य लेखकीयशैल्यादिकं दृष्ट्वा जानिमः अयं तत्कालवर्तिषु नैयायिकेषु श्रेष्ठतमः आसीदिति। पौरस्त्यदर्शने न्यायवैशेषिकयोः समानतन्त्रत्वं सर्वस्वीकार्यमस्ति। तस्माद् न्यायशास्त्रस्य विकासनदी वैशेषिकेन सह मिलित्वैव अग्रे प्रवहिता। तेन च न्यायवैशेषिकदर्शनयोर्मिथः साङ्कर्यं चाभूत्। समानतन्त्रत्वेन समानबलं दर्शनानां विशेषोपलब्धिर्भवति। सर्वे दर्शनमार्गाः समानबलेनैव सुफलाः सुकराश्चाभूवन्। न्ययवैशेषिकयोरपि इयं पद्धति अधुनाऽपि प्रचलन्तीति। समानतन्त्रस्वीकारव्याख्नारुपा चेयं पद्धति सर्वथा अनया गत्या दर्शनयोद्वयोः विकासश्च अभूत्। इयं स्थिति दर्शनान्तरेष्वपि वर्तते। समानतन्त्राभिधानदर्शनशास्त्रेषु परस्परं सङ्करता स्पष्टं दृश्यते एव। पौरस्त्यदर्शनस्य इयं व्यवस्था अतीवोचिता एव, अतः न कैरपि इयं पद्धतिः समालोचिता। अन्तर्दर्शनव्याख्यानपरम्परा वा परस्य दर्शनस्य मतं स्वदर्शने व्याख्यापनं वा, अयं च विधिः पौरस्त्यदर्शने अद्यापि प्रचलति। तया दार्शनिककलहाय नावशरः। सद्भावमार्गेणैव विदुषां दर्शनपथारोहणं सुकरमिति। एवं चिन्तनगतिः पौरस्त्यदार्शकिनां प्राच्यकालादेव आसीदिति। परन्तु अत्रापि कतिपया दोषांशाः समुत्पन्नाः। अनेन दर्शनस्य स्वकीयाः ह्राद्धाः परमतानां स्वीयतन्त्रे भावगभीरव्याख्यानात् दर्शनगर्भे एव स्थिता। बहिः स्फुटनं तेषां नाभूत्। तेन च दर्शनस्य मौलिकी धारा तत्रैव अवरुद्धाः। परस्परं समानतन्त्रमिति व्यवहारः तदानीं न केवलं नैयायिकैः वैशेषिकैश्च कृतः, अपितु सर्वैरपि दार्शनिकैरवलम्बितः। तदानींतनाः दार्शनिकाः दर्शनेषु दर्शनान्तरस्येदं शाङ्कर्यं परिहाराय न कमपि प्रयासमकार्षुः। न्यायदर्शनस्योपरि वैशेषिकस्य प्रभाव अतिशयमात्रं चाभूत्। तद्प्रभावं न्यूनं कर्तुं अयं भासर्वज्ञः प्रयासमकार्षीत्। तदर्थंमेव अयं न्यायसारं तस्योपरि भूषणाख्यं स्वव्याख्यासहितं ग्रन्थं व्यररचत्। कतिपयविद्वांसः एनं शुद्धनैयायिकविद्वान् इति प्रशंसन्ति। अयं शुद्धन्यायमार्गमनुसृत्य स्वकीयं न्यायसारं ग्रन्थमरचयत् इतीमं विद्वांसः वदन्ति। अस्य दार्शनिकस्य वैशिष्यट्यमेतदपि वर्तते यत् – प्रायः सर्वेपि नैयायिकाः वैशेषिकशास्त्रमनुकूलमेव न्यायशास्त्रं समालोचयन्। परन्तु एतैः वैशेषिकमतदूषणपूर्वकं न्यायदर्शनसम्बन्धो ग्रन्थो विरचितः। एतादृशेण नैयायिकेन बहवो ग्रन्थाः रचिताः स्युः। प्रमाणोपयोगिकं पुस्तकं न्यायसारो वर्तते। तदुपरि आत्मनैव न्यायभूषणाख्या ग्रन्थटीकापि विरचिता। एतयोर्विषये किञ्चत् विचारः अत्यावश्यक एव।
न्यायसारः न्यायदर्शने नविनशैल्या लिखितं प्राथमिकं प्रकरणं शास्त्रमस्ति। न्यायसारे त्रयः परिच्छेदाः सन्ति। प्रथमं प्रत्यक्षपरिच्छेदो वर्तते। द्वितीयपरिच्छेदः अनुमानपरिच्छेदोऽस्ति। तृतीयपरिच्छेदश्चागमः परिच्छेदो वर्तते। अस्योपरि ग्रन्थकर्त्रा एव न्यायभूषणनाम्नी विस्तृता पाण्डित्यपूर्णा टीका विरचिता। सा टीका एवानन्तरं प्रशिद्धा जाता। न्यायभूषणे भासर्वज्ञमुनिना दर्शनविषयसम्बद्धाः सर्वेपि विषयाः सुष्ठु प्रोक्ताः। भासर्वज्ञमुनेः प्राक् तदानीं न्यायदर्शने सूत्रानुक्रमेण व्याख्यानस्य ग्रन्थरचनायाश्च परम्परा विद्यामाना आसीत्। भासर्वज्ञेन च न्यायसूत्रस्थान् विषयान् आदाय न्यायसारः विरचितः। साम्प्रतं न्यायसार ग्रन्थः शोधस्यास्य क्षेत्रमस्ति। न्यायदर्शने ग्रन्थपरम्परायाः सुदीर्घविवरणं समकालेऽपि समुपलभ्यत। स्वतन्त्रपद्धत्याऽपि ग्रन्थप्रणयनपरम्परा न्यायदर्शने तथैवोपलभ्यते यथा सूत्रभाष्यवार्तिकपरम्परा समुपलभ्यते। स्वतन्त्रग्रन्थप्रणेतृषु मध्ये भासर्वज्ञाचार्यः सुकीर्तिमान् नैयायिको वर्तते। न्यायसारस्य सर्वस्वं न्यायभूषणमस्तीति प्रौढैः दार्शनिकधुरन्धरैः श्रीमता योगीन्द्रानन्दैः समुदिष्टो वर्तते (न्यायभूषणम्, १)। तथैव तत्रैव न्यायसारस्य अष्टादशसंख्यकाः टीका प्रणिताः विद्यन्ते इति अनेनैव निर्दिष्टमस्ति। तच्च राजशेखरस्य षड्दर्शनसमुच्चयनाम्नि ग्रन्थे समुल्लेखो वर्तत इति। तथा निर्देशनेनेदमनुभूयते यत् अस्य अध्ययनस्य परम्परा सुसमृद्धा आसीत्। तासु टीकासु केचन ग्रन्थाः प्रकाशितापि वर्तन्ते। तथा च न्यायसारग्रन्थस्य अध्ययनम्, तस्य टीकायाः प्रकाशनादिकम्, सम्पादनादिकञ्च अधुनापि प्रचलितं वर्तते। तेषु च न्यायभूषणग्रन्थस्य संशोधकः सम्पादकश्च श्रीमान् योगीन्द्रानन्दः प्राथम्येन परिगणितो विद्यते। तदनन्तरं तेन सम्पादितं ग्रन्थमाश्रित्य नैकैः विद्वद्वरेण्यैः अनुसन्धानकार्यं कृतम्। तथैव सम्पादकेन श्रीमता उमारमणझामहोदयेन न्यायसारविचारनाम्नो टीकाग्रन्थस्य श्रीरणवीरकेन्द्रीयसंस्कृतविद्यापीठजम्भुतः प्रकाशनं विहितमुपलभ्ये (न्यायसारविचारः, १९९६)। एवञ्च के. शाम्बशिवशास्त्रिणा अनन्तशयनसंस्कृतग्रन्थावलिः संख्या १०९ इत्युल्लिख्य त्रिवेन्दमितिस्थानतः वासुदेवसूरिविरचितन्यायसारपदपञ्जिकाख्या न्यायसारस्य टीका १९३१ तमे इशवीये प्रकाशितमुपलभ्यते। तथा च अस्योपरि साम्प्रतं कतिपयैरनुसन्धातृभिः शोधः कृतोऽपि वर्तते। श्रीमती अञ्जना इति नाम्न्या कयाचित् लेखिकयाऽपि न्यायभूषणस्य अनुमानपरिच्छेदमाश्रित्य शोधः कृतो वर्तते। (न्यायभूषण के अनुमान परिच्छेद ई. २००२)। अन्यैश्च बहुशंख्यकैः विद्वद्भिश्च न्यायसारस्य विशद्विवेचनं कृतमुपलभ्यते। साम्प्रतं न्यायसारं न्यायभूषणं च आधिरीकृत्य, भासर्वज्ञस्य त्रिप्रमाणवादमादाय च शोधेऽस्मिन् प्रमाणानि समीक्षन्ते। तत्र च अनेन त्रिण्येव प्रमाणानि अङ्गीकृतानि। नैयायिकेनानेन त्रिप्रमाणानामेव पार्थक्यं साधितम्। एतद्पूर्वमनन्तरं वा न केनाऽपि नैयायिकेन प्रत्यक्षानुमानोपमानशब्दा त्रिण्येव प्रमाणानीति विवेचितानि। भासर्वज्ञस्येदं वैशिष्यट्यं समीक्षायाः विषयोऽपि वर्तते। त्रिप्रमाणवादः न्यायतन्त्रे अनेन संस्थापितत्वाच्च अस्यानुसन्धानस्यौचित्यमपि स्फुटीभवतीति। साङ्ख्ययोगादिषु प्रमाणानि त्रीणि निरुप्यन्ते। परन्तु दर्शनान्तरेषु प्रवेशो न क्रियते। अत्र च भासर्वज्ञस्य गौतमस्य च प्रमाणविवेचने को भेदः ? अस्य त्रिप्रमाणवादः कीदृशः ? एतस्यैव विषयस्य समीक्षणं साप्प्रतमावश्यकं वर्तते। अनेन भासर्वज्ञस्य त्रिप्रमाणवादः किदृश इति जिज्ञासा समाधीयते। एतादृशोद्देश्यं परिगृह्य केनापि शोधः कृत इति मया न दृष्टः। तदर्थमिदमारभ्यतेऽधुना।
समस्याकथनम्
न्यायभूषणकारस्य विषये सन्त्येव समस्या नानाविधाः। ताषु च मुख्या समस्याः अधो निर्दिष्टाः सन्ति –
क) प्रमाणं किम् ?
ख) भासर्वस्य त्रिप्रमाणवादः कः ?
उद्देश्यम्
उपरि समस्याकथनकाले उपस्थापितानां समस्यानां समाधानमेवात्र मुख्योदेश्यं वर्तते। तासां समास्यानां समाधानञ्चात्र क्रियते। अतः उपस्थापितानां समस्यानां निराकरणम् तथा च भासर्वज्ञेण प्रतिपादितप्रमाणस्य निरुपणमेव मुख्योद्देश्यो भवतीति। अत उद्देश्यमित्थं प्रदर्शयितुं शक्यते
क) प्रमाणानां परिचयप्रदानम्।
ख) भासर्वज्ञस्य त्रिप्रमाणवादनिरूपणम्।
अध्ययनविधिः
भासर्वज्ञस्य व्यक्तिवैशिष्ट्यविवेचनपूर्वकं प्रमाणानां विश्लेषणाय विविधसामग्रीप्राप्त्यर्थं पुस्तकालयीयाध्ययनविधिरेव प्रामुख्यं वर्तते। तत्र च दर्शनसम्बन्धीविविधग्रन्थाः, प्रमाणविषयकाः संस्कृतमूलाकारग्रन्थाः, प्राथमिकसामग्रीत्वेन अत्र गृह्यन्ते। तदतिरिक्तं नैकविधपूर्वीयदर्शनानुसन्धातृभिः कृतशोधग्रन्थानपि द्वितीय सामग्रीत्वेन स्वीकृत्य अनुसन्धानं विहितम्। शोधलेखस्य निर्माणाय यथासम्भवं स्थापितानां न्यायसिद्धान्तानामाधारे प्राप्तसामग्रीणां विश्लेषणाय विश्लेषण-व्याख्यान-कार्य-कारणविधीनाञ्चात्र यथावसरमुपयोगो विहितो वर्तते। अस्यालेखस्य सीमा च भासर्वज्ञस्य परिचयपूर्वकं तेनाङ्गीकृतानां त्रिप्रमाणानां विश्लेषणमेवास्ति।
सैद्धान्तिकपर्याधारः
पौरस्त्यवाङ्मये दर्शनं द्विधा विभक्तं नास्तिकास्तिकभेदेन। नास्तिको वेदनिन्दकः (मनुः – २/७) इति मनुवचनानुसारेणास्तिकदर्शनानि षट् सन्ति। तेषु न्यायदर्शनमन्यतमं वर्तते। न्यायदर्शनेन षोडश पदार्थाः स्वीकृताः सन्ति। एवं चत्वारि प्रमाणानि चात्र स्वीक्रियन्ते। महर्षि-गौतमतः प्रारब्धेयं न्यायधारा विस्तृता वर्तते। धारायामस्यां बहवो विद्वांसोऽभवन्। तेष्वन्यतमोऽयमाचार्यो भासर्वज्ञः। प्रत्यक्षानुमानोपमानाख्यानि चत्वारि प्रमाणानि न्यायदर्शनसम्मतानि। परन्त्वनेनाचार्येण त्रिण्येव प्रमाणानि स्वीकृतानि सन्ति। अयमुपमानं पृथक्प्रमाणत्वेन नाङ्गीकरोति। एवं यद्यप्यस्य प्रमाणविवेचनं न्यायदर्शनस्य परम्परागत-प्रमाणसिद्धान्ताद्भिन्नं वर्तते, तथापि स्वप्रमाणत्रित्वप्रतिपादनं न्यायसिद्धान्ताविरुद्धमिति तस्य मतम्। शोधलेखस्यास्य निर्माण उक्त न्यायदर्शनस्य सिद्धान्त एवावलम्बितो वर्तते।
विषयविश्लेषणम्
प्रमाणविषयविचारः
न्यायशास्त्रस्य प्रवृत्तिः त्रिविधया गत्या प्रचलितो दृश्यते। उद्देशलक्षणपरीक्षाः न्यायशास्त्रस्य त्रिविधाः प्रवृत्तयः। वस्तूनां नामसङ्कथनं उद्देशो विद्यते, तथैव नामसङ्कथितानां पदार्थानां असाधारणो धर्मः लक्षणं भवति, लक्षणकृतस्य पदार्थस्य लक्षणं तत्रैव पदार्थेषु सङ्गच्छति न वेति विचारः परीक्षा। एवमुत्तपरम्परान्सारं न्यायशास्त्रस्य प्रवृत्तिः समारब्धो वर्तते। न्यायशास्त्रे आत्मादिनां पदार्थानां तत्वज्ञानं निश्रेयसं समुत्पादयतीति प्रतिपाद्यते। परन्तु मानाधीनं मेयसिद्धिः इत्यनुसारेण प्रमेयाणां ज्ञानं प्रमाणज्ञानानन्तरमेव भवतीति मन्तव्यम्। तथा च ईश्वरकृष्णेन साङ्ख्यशास्त्रे समुपदेशो कृतो विद्यते यत् – ‘प्रमेयसिद्धिः प्रमाणाद्धि’ अर्थात् प्रमेयसिद्धिः प्रमाणाधीनमिति (साङ्ख्यकारिका, श्लोक ४ )। अतः प्रथमं प्रमाणावबोधः आवश्यकः। प्रमाणपदञ्च – ‘प्रमीयते अनेनेति’ अर्थात् प्रमाकरणतया साध्यते। तेन च प्रमाणकरणं प्रमाणं सिद्ध्यति। प्रमाकरणं प्रमाणं अस्तीति न्यायसूत्रकारस्याभिमतं प्रमाणविभागावसरे भाष्यकारेण सुष्ठूक्तम् (न्या.भा. पृ. )। तथैव प्रमाणस्य प्रतिपादनं न्यायवार्तिककारेण ‘अर्थोपलब्धिहेतुः’ प्रमाणमिति शब्दैर्न्यायवार्तिके क्रियते। ( कमला सर्मा पृ.२३) प्रमाणविवेचनानन्तरं प्रमाविषयस्य विवेचनं न्यायतन्त्रे विहितम्। न्यायतन्त्रे वस्तुतः प्रमाणस्य परिष्कारं दृष्ट्वा प्रमाणं प्रमाया साधनमस्तीति अवगम्यते। तदेव प्रमायाः साधनभूतस्य प्रमाणस्य चत्वारो भेदाः आचार्येण गौतमेन न्यायसूत्रे प्रतिपादिताः (न्यायसूत्रम् १.१.४)। समग्रन्यायतन्त्रे प्रमाणस्य विवेचनं यथाविहितं तथा विवेचनं तु अन्यत्र दुर्लभमेव। अन्यत्रापि प्रमाणविषये विवेचनं कृतं विद्यते। वैशेषिकबौद्धमीमांसादिषु गाम्भीर्येण प्रमाणतत्वस्य समीक्षा विहिता दृश्यते। एतच्च सत्यमेव न्याये सर्वातिशयेन प्रमाणानां स्थानं प्रदीयते, तच्च न्यायभाष्यकारेण न्यायभाष्यारम्भे प्रमाणशब्दप्रयोगादपि अनुमातुं शक्यते। प्रमाणप्रतिपादनलक्षीकृत्य प्रवर्तितं शास्त्रमिति कथनं न्यायस्य गौरवास्पदमेव।
भासर्वज्ञानुसारं प्रमाणविवेचनम्
भासर्वज्ञेन ‘सम्यगनुभवसाधनं प्रमाणम्’ इत्युक्तम् (न्यायभूषणम्, पृ. ११)। प्रथमं अस्य प्रमाणलक्षणस्य पदकृत्यविवेचनमावश्यकम्। अस्मिन् लक्षणे अनुभवपदं विशेष्यः। सम्यग्पदं विशेषणम्। अनुभवसाधनमित्येव प्रमाणं कथं नोक्तमिति ? अस्यां जिज्ञासायां संशयविपर्यादिषु प्रमाणलक्षणस्यातिव्याप्तिदोषो न गच्छेदिति तन्निवारणाय सम्यग्पदं अनुभवस्य विशेषणत्वेनात्र गृहीतम्। अनेन नूतना शैलीप्रमाणविषये संदर्शिता। तेन अनुभवसाधनमितिकथनेन ‘प्रमाणकरणमेवार्थः’ फलितः। न्यायसम्मतार्थः प्रसारितो दृश्यते। न्यायदर्शनसंस्थापकेन श्रीगोतममुनिना स्वीये न्यायसूत्रे प्रमाणसामान्यलक्षणं नैवोपदिष्टम्। तथापि न्यायभाष्ये वात्स्यायनेन प्रमाणसामान्यं सम्यग् निरुपितम्। आचार्यवात्स्यायनेन प्रमाणस्य सार्थकं लक्षणं दर्शयतोक्तं यत् ‘ उपलब्धिसाधनं प्रमाणम् इति (न्यायभाष्यम् पृ. )। उपलब्धीसाधनं तथा च अनुभवसाधनं शब्दान्तरमेव दृश्यते। न तु तत्रार्थान्तरत्वम्।
वस्तुतः प्रमाणस्य साधनार्थत्वेन अर्थात् प्रमाकरणत्वेनैव विवेचनम् अद्यापि क्रियते। प्रमाणस्य वैशिष्ट्यं प्रतिपादनाय भासर्वज्ञाचार्येण प्रमायाः महत्वं प्रदर्शितं दृश्यते। प्रमाणं तु साधनमेव। साध्या तु प्रमा एव। प्रमायाः ज्ञापकः प्रमाणमस्तीति निश्चयितुम् आदौ एव प्रमाणस्य निरुपणं न्याये क्रियते।
त्रिप्रमाणवादः
वादः शब्दस्य अर्थाः सन्ति खलु बहवः। शोधेऽस्मिन् त्रिप्रमाणवादस्यार्थः त्रिप्रमाणविचारः एव वर्तते। अत्रापि त्रिप्रमाणानां यथावश्यकं समीक्षणमुद्देशलक्षपरीक्षाविधिना क्रियते। ‘प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि’ (न्यायसूत्रम्, १।१।४) इत्यस्मात् न्यायसूत्रात् पृथगेव ‘प्रत्यक्षमनुमानमागमः’ (न्यायभूषणम् पृ.७९) इति त्रिण्येव प्रमाणान्यादाय प्रमाणविषयकं सूत्रं भासर्वज्ञैः विरचितम्। त्रिविधमिति शब्दोच्चारणपूर्वकम्, तथा च त्रिण्येव प्रमाणानि निश्चित्यानेन उपमानस्य पृथगस्तित्वं समुच्छेदितम्। तेन उपमानं विहाय त्रिप्रमाणात्मकं सूत्रमत्र निदर्शितम्। भासर्वज्ञाचार्येण उपमानं प्रमाणमेव नाङ्गीक्रियते इति तु न। अनेनोपमानं प्रमाणं पृथग्तया नैवाङ्गीक्रियते। उपमानास्य शब्दप्रमाणे अन्तर्भावः कृतः (न्यायभूषणम्, पृ.४२७)। उपमानं प्रमाणं शब्दव्यवहारमात्रं विद्यत इति प्रतिपादयता तस्य पृथक्त्वं नाङ्गीकृतम् (न्यायभूषणम्, पृ. ४१९)। त्रिप्रमाणवादस्य संस्थापनाय अनेन महान् यत्नो विहितो वर्तते। तदर्थ प्राथम्येन चार्वाकमतं खण्डयति एवंरीत्या बौद्धजैनमीमांसादीनां मतं सम्यगालोचितम्। आलोच्यानन्तरं स्वीयं त्रिप्रमाणवादविषयकं मतं प्रस्तुतम्। त्रिप्रमाणवादे स्वीकारे सति सूत्रकारैः सह विरोधः भवतीति आक्षेपस्य परिहारायापि अनेनोक्तं वर्तते यत् – यथा हेत्वाभासा निग्रस्थानेषु पठ्यन्ते। निग्रहस्थानां व्याख्यानावसरे हेत्वाभासानामपि व्याख्यानं सम्भवतीति तथापि तेषां पृथक्निरुपणं ग्रन्थकतृभिः कृतम्, तद्वद् आचार्येण उपमानस्य शब्दप्रमाणकोटौ अन्र्तभूतत्वादपि आचार्येण शब्दस्य प्रमाण्यं दार्ढ्याय सूत्रकारेण उपमानस्य पृथगुल्लेखो विहितो वर्तते इति। वस्तुतः आचार्यगौतमस्य मतमेव त्रिप्रमाणवादः वर्तते। इत्येवाभिप्रायः तत्र अनेन प्रकटीकृतम् (अञ्जना, पृ. ६८)।
प्रत्यक्षप्रमाणम्
प्रमाणेषु सर्वातिशयं लोके ख्यातिलब्धप्रमाणं प्रत्यक्षमेव। प्रत्यक्षप्रमाणं सर्वैरपि स्वीक्रियते। सर्वैर्दार्शनिकै आस्तिकैर्नास्तिकै वा प्रत्यक्षं स्वीक्रियत एव। न्यायतन्त्रेऽपि प्रथमं प्रत्यक्षस्यैव निरूपणं विहितमुपलभ्यते। साधारणतया प्रत्यक्षं नाम – इन्द्रियस्य अर्थेनसह सन्किर्षाद् यद् ज्ञानं जायते तदेव प्रत्यक्षम्। तथा च – ‘इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षमिति’ न्यायाचार्येण गौतमेन समुपदिष्टम् (न्या.सू. १-१-४)। अस्मिन्नेव विषये न्यायभाष्ये भाष्यकारेण व्याख्या विहिता दृश्यते यत् – ‘अक्षस्य अक्षस्य प्रतिविषयं वृत्तिरिति’ (न्यायभाष्यम् पृ.२३)।
भासर्वज्ञानुसारं प्रत्यक्षविचारः
प्रत्यक्षस्य लक्षणम्- ‘सम्यगपरोक्षानुभवसाधनमिति’ भासर्वज्ञैः प्रोक्तम् (न्यायभूषणम्, पृ.८४)। सम्यगपरोक्षानुभवस्य साधनं यत्, तदेव प्रत्यक्षप्रमाणम्। अनुभवस्य च परोक्षापरोक्षभेदाभ्यां द्वैविध्यं निगदितम्। परोक्षानुभवः नेन्द्रियात्मकः स तु शब्दाद्यात्मको विद्यते। तद्विपरीतापरोक्षानुभवो प्रत्यक्ष्यम्। अपरोक्षानुभवश्च इन्द्रियात्मकः। पुनश्चात्र कतिपयैः शास्त्रकारैः आशंक्यते यत् – यथा संशयात्मकं ज्ञानं भवति तथा स्मरणात्मकमपि भवत्येव। तदृश्यामवस्थायां संशयात्मकस्मरणादिषु चापरोक्षानुभवत्वं समापतत्येव। तथाङ्गीकारे सति तान्यपि ज्ञानान्यपरोक्षानुभवादयः स्युरेव। इममारोपं परिहारार्थं प्रत्यक्षप्रमाणस्य लक्षणवाक्ये भासर्वज्ञाचार्येण सम्यगितिपदं सुयोजितम्। यस्य ज्ञानस्य सम्यक्त्वं सिद्ध्यति तस्मिन् संशयत्वं न कदापि दृश्येत। भासर्वज्ञाचार्येण प्रोत्तापरोक्षपदेनापि व्यभिचारराहित्यम्, अव्यपदेश्यात्मकत्वादिकमेव सूपपाद्यते इति।
प्रत्यक्षस्य भेदाः
प्रत्यक्षस्य विभाग निर्विकल्पकसविकल्पकभेदेन द्विविधो वर्तते। परन्तु तथा विभागः प्राचीनसूत्रग्रन्थे नैवोपलभ्यते। कतिपयप्रकरणग्रन्थेषु च एवं भेदः प्रदर्शितो वर्तत इति। निष्प्रकारकं ज्ञानं निर्विकल्पकम् तथा च सप्रकारकं ज्ञानं सविकल्पकमिति तर्कसंग्रहकारेण प्रतिपादितम्। न्यायसिद्धान्तमुक्तावल्यादिग्रन्थेषु योगिप्रत्यक्षमयोगिप्रत्यक्षञ्च प्रदर्शितमस्ति। तथैव अस्मिन् विषये न्यायभूषणेऽपि भूषणकारेण प्रतिपादितमस्ति।
अयोगिप्रत्यक्षम्
न्यायभूषणकारेण योगिप्रत्यक्षमयोगिप्रत्यक्षञ्चोक्त्वा प्रत्यक्षस्य द्विविधो भेदः प्रदर्शितः। अयोगिप्रत्यक्षं
प्रकाशदेशकालादिसहयोगेनेन्द्रियार्थसन्निकर्षोत्पन्नानां स्थूलादिघटादिपदार्थानां ज्ञानं विद्यते। अत्र इन्द्रियार्थसन्निकर्षः परमावश्यकः। यथा चक्षुषा घटसंयोगानन्तरमयं घटः इत्यात्मकः प्रतीतिः। एदादृशं ज्ञानमयोगिप्रत्यक्षम्।
योगिप्रत्यक्षम्
भासर्वज्ञस्य मते योगिप्रत्क्षं देशकालादितः दूरं स्वर्गादिलोकानां तथा च परमाण्वादिनां योगाभ्यासात् सम्पादितं प्रत्यक्षं ज्ञानमस्ति। तादृशं योगिप्रत्यक्षं युक्तावस्थायुक्तावस्थाभेदेन द्विविधं विद्यते। तत्र युक्तावस्थायां तु आत्मनः अन्तकरणेन सह संयोगात् धर्मादिनामशेषार्थग्रहणं भवति (न्यायभूषणम् पृ. १७०)। इयं स्थिति तु परमयोगिनामेव भवति अन्येषां न, तद्विपरीतानां सामान्ययोगिजनानामसाध्यत्वादिति न्यायभूषणे प्रपञ्चितम्। अयुक्तावस्थायां तु चतुष्टयादिसन्निकर्षान्निमित्तात् ग्रहणं भवति। तत्र रसनेन्द्रियादिना अर्थग्रहणं चतुष्टयसन्निकर्षसहकृतो भवति। देशादिविप्रकृष्टानां वस्तूनां सम्यगपरोक्षानुभव एव योगिप्रत्यक्षस्य लक्षणं विद्यते इति न्यायभूषणे सम्यगुपपादितम् (न्यायभूषणम्, पृ. १७१)।
अनुमानप्रमाणम्
आचार्येण गौतमेन अथ तत्पूर्वकं त्रिविधमनुमानम्’ इत्यादिशब्दैः अनुमानप्रदिपादकसूत्रस्य समुल्लेखो विहितः। सूत्रे विद्यामानस्य तत्पूर्वकमितिपदस्य प्रत्यक्षपूर्वकार्थः सूपपादितः भाष्यकारेण स्वीये न्यायभाष्ये। (न्यायभाष्यम्) न्यायभाष्ये अनुमानस्य भेदानां विस्तृतं विवेचनं भाष्यकारैः कृतमस्ति। अवान्तरकालिकैः कतिपयैराचार्यैश्च अनुमानस्य स्वार्थपरार्थभेदेन द्वैविध्यं स्वीक्रियते (तर्कभाषा, पृ.६२)।
भासर्वज्ञानुसारमनुमानप्रमाणम्
न्यायसारकर्तृणा भासर्वज्ञाचार्येण प्रत्यक्षस्य व्याख्यानमुपपाद्य अनुमानप्रमाणस्य व्याख्या विहिता। तेन च अनुमानस्य व्याख्यानं प्रत्यक्षागमपूर्वकमेव भवतीति अनुमानस्येदं महत्वैशिष्ट्यमपि न्यायभूषणे निर्दिष्टम्। प्रत्यक्षागमपूर्वकमेव अनुमानस्य योग्यता वर्तत इति विषये न्यायभूषणकारेणापि तत्पूर्वकपदस्य सुविस्तारव्याख्यावसरे स्वीये न्यायसारे अप्रतिपादि। न्यायभाष्ये वात्स्यायनाचार्येण प्रत्यक्षं विना अनुमानं न कदापि भवतीति अभिप्रायेण तत्पदस्य प्रत्यक्षपूर्वकार्थं गृहितवता तेन लिङ्खलिङ्खिनः सम्बन्धः सुगृहित इति मन्तव्यम् (न्यायभाष्यम् पृ. ३३)। प्रत्यक्षस्याभावे आगमादिद्वारापि कदाचिदनुमानं क्रियते तथा च विशेषावस्थाषु च प्रत्क्षाभावेपि आगमादिनां साहायतायाः अनुमानं प्रचाल्यते। वेदाशास्त्रादिनां सहयोगेन ईश्वरस्यास्तित्वं संरक्षणार्थं कदाचित् अनुमानं क्रियते। कदाचिच्च पूर्वमनुमानप्रमाणद्वारा ईश्वरो निरुप्यते। पश्चाच्च शब्दादिभिः पुनः तस्यास्तित्वं साध्यते। श्रीमता विश्वनाथपञ्चाननभट्टाचार्येण ईश्वरसिद्ध्यर्थं पूर्वमनुमानं विधाय पश्चाच्च शब्दप्रमाणद्वारा ईश्वरः निरूपितः (न्यायसिद्धान्तमुक्तावली पृ.१५) अतः तत्पूर्वकादिपदेन नकेवलं प्रत्यक्षस्य अपितु शब्दादिनामपि उपलक्षणं वर्तते इति दृश्यते। न्यायसूत्रकारेण अनुमानस्य त्रयो भेदाः प्रदर्शिताः। एवञ्च भासर्वज्ञाचार्येणापि अस्य त्रयो भेदविषये न्यायभूषणे विस्तरतो वर्णिताः। ते च भेदाः पूववच्छेषवत्समान्यतोदृष्टञ्चेति। न्यायभूषणे च त्रिविधिग्रहणं नियमार्थमुक्तम्। तेन च देशकालजात्यादिभेदात् अनुमानस्य अनन्तत्वेऽपि वस्तुतः त्रिविधमेव भवतीति नियमः स्थाप्यते। अयमेव भावः श्रीभासर्वज्ञेन न्यायभूषणे निदर्शितः (आचार्यः, पृ. १९०)।
अनुमाननिरुपणानन्तरं हेत्वाभासस्यापि निरुपणं कर्तव्यं भवति। अनुमानस्यैव अङ्गत्वेन हेत्वाभासानां निरुपणं न्यायविद्भिः कृतं वर्तते।
हेत्वाभाषाविचारः
हेत्वाभाषविषयिकी चर्चा न्यायमते विशेषः क्रियते। नैयायिकैः चतुर्षु प्रमाणेषु अनुमानस्य प्राधान्यं मन्यते। अनुमाननिरूपणाय सद्हेतुः अत्यावश्यकः, तदर्थं दर्शनशास्त्रे अनुमाननिरुपणावसरे हेत्वाभासानामपि निरुपणं प्रसंगतः क्रियते। न्यायमुक्तावलीकारेणोक्तं यद् हेत्वाभासस्य विवेचनं तु हेतुप्रसंगाद् कृतमिति। सद्हेतुज्ञानाय दुष्टहेतुज्ञानमपि आवश्यकमेव। हेत्वाभासशब्दस्य व्युत्पत्तिद्र्विविधा कृता वर्तते। प्रथमा व्युत्पत्तिर्यथा- हेतो आभासा इति हेत्वाभासाः। हेत्वाभाषाः इत्युक्ते हेतुदोषाः एव। तथैव द्वितिया व्युत्पत्तिश्च हेतुवदाभासन्ते इति हेत्वाभाषाः। ते दुष्टहेतव भवन्ति। दुष्टहेतवो नाम यस्मिन् हेतौ दोषा विद्यन्त इति। शास्त्रेषु मुख्यतो हेत्वाभासशब्दस्यार्थद्वयमेव स्वीक्रियते। हेतुदोषा इत्यनेन व्यभिचारविरोधसत्प्रतिपक्षासिद्धबाधा गृह्यन्ते चेत् दुष्टहेतव इत्यनेन सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताश्च गृह्यन्त इति। उभयविधयापि हेत्वाभासास्तु पञ्च एव। ते च हेत्वाभासा आचार्येण गौतमेन प्रारम्भे पञ्च एव निरुपिताः स्वप्रणीते न्यायसूत्रे (न्यायसूत्रम् १।२।४)। परन्तु न्यायवात्र्तिककारेण हेत्वाभासस्य सङ्ख्या अनन्ताः कथिताः। तेनोक्तं वर्तते यत् – कालपुरुषवस्त्वादिभेदैः हेत्वाभासाः विभिन्नाः भवन्तीति। तेषामपरिमितानां हेत्वाभासानां संक्षीप्य पञ्च हेत्वाभाषाः भवन्तीति (शास्त्री, पृ. १३६)। एतेषां निरुपणञ्चात्र कर्तुं वाञ्छनीयमेव। पञ्चहेत्वाभासानां न्यायसिद्धान्तमुक्तावलीतर्कभाषायाञ्च विशेषतो चर्चा कृतो विद्यते। भासर्वज्ञाचार्येण सूत्रकारात् भिन्नं षड् हेत्वाभासाः निरुपिताः। तत्र मुक्तावलीकारेणोक्तं यद् ‘अनैकान्तविरुद्धश्चाप्यसिद्धप्रतिपक्षितः। कालात्ययापदिष्टश्च हेत्वाभाषास्तु पञ्चधा’। आधुनिककालेपि पञ्चैव हेत्वाभासानां वणर्ने व्याख्यातृणां स्वीयाभिमतं प्रकटितो दृश्यते (दाहाल, पृ.४४)।
न्यायसारे प्रदर्शितहेत्वाभासनिरूपणम्
भासर्वज्ञाचार्येण स्वीये न्यायभूषणेऽपि हेत्वाभासस्य सम्यग् निरूपणं विहितम्। अनेन तावत् प्रथमं हेत्वाभासस्य विवेचनं कृतमस्ति। अस्य मते हेत्वाभास नाम – हेतुलक्षणरहिता हेतुवद् आभासमाना इति (न्यायभूषणम् पृ. ३०८)। तत्र असिद्धविरुद्धानैकान्तिकानध्यवसितकालात्ययापदिष्टप्रकरणसमाः हेत्वाभासाः वर्णिताः। न्यायसूत्रकारेण पञ्च हेत्वाभाषा उपदिष्टाः। न्यायसारे भासर्वज्ञाचार्येण च अनध्यवसितनाम्नो हेत्वाभासं समाविश्य आहत्य षड् हेत्वाभासाः समुपदिष्टाः। भासर्वज्ञस्य मतानुसारं क्रमशः हेत्वाभासा अत्र विचार्यन्ते।
असिद्धः
भासर्वज्ञाचार्येण असिद्धस्य लक्षणं स्वीये न्यायसारग्रन्थे एवमुक्तम् – तत्रानिश्चितपक्षवृत्तिरसिद्धः
(न्यायभूषणम् पृ.३०९) अर्थात् यस्य पक्षे वृत्तिः अनिश्चिता वा पक्षवृत्तिरज्ञाता अथवा पक्षवृत्तिरेव सन्दिग्धा अस्ति स असिद्धो हेत्वाभासो वर्तते।
विरुद्धः
भासर्वज्ञाचार्येण यो हेतुः पक्षविपक्षयोः वर्तमानो स विरुद्धः हेत्वाभास भवतीति स्वीये न्यायसारग्रन्थे स्पष्टं निर्दिष्टम्। सपक्षे अविध्यमानः सन् साध्यं विरुणद्धीति विरुद्धो भवतीति।
अनैकान्तिकः
भासर्वज्ञाचार्येण अनैकान्तिकस्य लक्षणं प्रतिपादितं वर्तते यत् – पक्षसपक्षवृत्तिरनैकान्तिक इति। अस्मिन्नेव काले भासर्वज्ञाचार्येण ऐकान्तिकानैकान्त्योर्भेदोऽपि निदर्शितः। वस्तुतः एकस्मिन्नेवार्थे साध्यस्य नियतोपस्थितत्वं दृश्यते चेद् स ऐकान्तिकः। तदुभिन्नः अनैकान्तिकः इति।
अनध्यवसितः
साध्यसाधकः पक्ष एव वर्तमानोऽनध्यवसितः इति अनध्यवसितस्य लक्षणम् भासर्वज्ञाचार्येण प्रतिपादितम्। अस्मिन् लक्षणे भासर्वज्ञाचार्येण केवलं पक्ष एव वर्तमानो इत्येव पदं नोक्तम्। तावदेव कथनेन तत्र केवलव्यतिरेकिहेत्वाभासस्य लक्षणे अस्य लक्षणस्य अतिव्यप्तिः स्यात्। तन्निवारणार्थं पक्ष एव वर्तमानः इत्यनेन सह साध्यसाधक इति पदमपि तत्पूर्वं समुपस्थापनं विहितम्।
कालात्ययापदिष्टः
कालात्ययापदिष्टो नामः – प्रमाणबाधिते पक्षे वर्तमानो हेतुर्विद्यते। श्रीभासर्वज्ञाचार्येणैव अस्य लक्षणम् – प्रमाणबाधिते पक्षे वर्तमानो हेतुः कालात्ययापदिष्ट इत्युत्तम्। कालस्यातिक्रमस्यार्थ अत्ययो विद्यते। कालातिक्रमादनन्तरमपदिष्टत्वात् अस्य हेत्वाभासस्येयं संज्ञा।
प्रकरणसमः
स्वपक्षपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः इति प्रकरणसमस्य लक्षणम्। प्रकरणयोः पक्षप्रतिपक्षयोः साधने सिद्धौ समस्त्रिरुपत्वैनैव जायत। तानि त्रिणि रूपाणि च पक्षधर्मता, सपक्षे सत्ता तथा च विपक्षाद् व्यावृत्तिश्च वर्तन्त इति।
आगमप्रमाणविचारः
आप्तोपदेशः शब्दः इति न्यायसूत्रम् ( न्यासू.१।१।७)। तर्कभाषाकारेण आप्तवाक्यं शब्दप्रमाणं भवतीति उक्तम् (तर्कभाषा, पृ.८७)। भाष्यकारेण आप्तशब्दस्य यथार्थवक्ता इत्यर्थः कृतः। यथार्थवक्तुः पुरुषस्य वचनं शब्दप्रमाणं भवतीति। प्रत्यक्षीकृतविषयः पुरुष एव आप्तो भवतीति। यथा दृष्टः तथोपदेशकः यः स आप्त इत्यादिराप्तशब्दस्य निर्वचनम्। आप्तिशब्दः प्राप्त्यर्थे प्रयुज्यते। तत्र वार्तिककारेण वस्तुसाक्षात्कारः आप्तिर्भवत्युक्तम् (न्यायदर्शनम् पृ.३६५)। तया प्रवर्तमान आप्तो भवति। दृष्टार्थादृष्टार्थभेदेन शब्दप्रमाणस्यापि द्विविधो भेदो दृश्यते। लौकिकानां वाक्यानीव दृश्यमानोऽर्थो दृष्टार्थो भवति। यस्यार्थः पारलौकिकमस्ति स अदृष्टार्थः (न्यायभाष्यम्) आर्षवचनानि वेदवाक्यादिनि अदृष्टार्थस्योदाहरणानि। तथैव लौकिकवाक्यस्य प्रतिपाद्यर्थः साक्षादस्मिल्लोके एव उपलब्धो भवति चेद् तादृशोपलब्धोऽर्थो दृष्टार्थः। वैद्यस्योपदेशादिरस्योदाहरणानि।
भासर्वज्ञस्यानुसारमागमप्रमाणम्
भासर्वज्ञेन – ‘समयबलेन सम्यगपरोक्षानुभवसाधनमागमः’ इति आगमप्रमाणस्य लक्षणमुक्तम्
(न्यायभूषणम्, पृ.३७९)। समयबलेन अनुभवसाधनमागमः इत्येवागमप्रमाणलक्षणमस्ति। उच्यते च शब्दस्यार्थावबोधकत्वञ्च समयबलेनैव भवतीति। तथा च तत्र आगमप्रमाणलक्षणे प्रयुक्तं ‘समयबलेन’ इति पदं सङ्केतं निदर्शयति। तादृशः संकेतः न अविनाभाववत् स्वाभाविकः। तद्विपरीतमपि न। धूमदहनमिव जलादिकं नानुमापयति। दहनादिशब्दैः तावत् पुरुषसंकेतद्वारा यथार्थमेव प्रतिपाद्यन्ते। समयो वस्तुत अविनाभावात् भिन्नोऽस्ति। तादुशेण समयबलेन परोक्षविषयस्यानुभवसाधकमागमप्रमाणं भवतीति मन्तव्यम्। तादृशमागमप्रमाणं शब्दात्मकम्, चेष्टालिप्यक्षरादिकञ्चाशब्दात्मकं वा भवतीति। आचार्यभासर्वज्ञेन दृष्टादृष्टार्थभेदाभ्यां द्वैविध्यमागमस्य स्वीकृतमस्ति, तच्च न्यायसूत्रमिव (न्यायभूषणम्, पृ. ३८९)। दृष्टार्थानां वाक्यानां सफलप्रवृत्यादिना प्रामाण्यं निश्चीयते। अदृष्टार्थानाञ्चाप्तोक्तत्वात् प्रामाण्यं भवति ( न्यायभूषण के अनुमान परिच्छेद, पृ.७४)। ‘नद्याः तीरे फलानि सन्तीति’ वाक्यानि दृष्टार्थस्य, तथा च ‘स्वर्गकामो यजेतेत्यादि’ वाक्यानि अदृष्टार्थस्य चोदाहरणानि भवन्तीति।
निष्कर्षः
एतावता भावसर्वज्ञस्य अतिशयप्रशिद्धो न्यायसारग्रन्थः, तस्याधारेण तत्सम्बद्धविषयाश्च समीक्षिताः। भासर्वज्ञो त्रिप्रमाणवादं स्वीकारणेनैव दर्शनजगति ख्यातिलब्धो दृश्यते। त्रिप्रमाणवादस्याधारेण स्वीयन्यायसारस्य परिच्छेदविभागः प्रदर्शितः, यथा – प्रत्यक्षपरिच्छेदः, अनुमानपरिच्छेदः, आगमपरिच्छेदश्च। अस्य माहात्म्यगौरववर्धनस्य कारणमेकम् एतदपि वर्तते यत् – भासर्वज्ञादन्यः कोऽपि नैयायिको नास्ति यः त्रिप्रमाणवादं अङ्गीकरोति। अयमेव एको नैयायिकः, येन त्रिप्रमाणान्येव प्रतिपादितानि। अधुनापि त्रिप्रमाणवादी नैयायिक नैवोपलभ्यते। अन्ये सर्वेऽपि नैयायिकाः चत्वारि प्रमाणानि स्वीकुर्वन्ति। गौतमेनोक्ता न्यायपरम्परापि सा एव वर्तते। भासर्वज्ञस्य त्रिप्रमाणवादः मौलिकं मतमस्ति। वस्तुतः शोधस्यास्य निश्कर्षाेपि अयमेव। अन्येषां सर्वेषां नैयायिकानां चत्वारि प्रमाणानि सर्वसम्मतानि। त्रिप्रमाणवादः आचार्यगौतमस्यापि वर्तते इति यद् अनेनोक्तं तदसमीचीनम्। यदि आचार्यस्य तथाभिप्रायः स्यात् तदा भाष्यकारवार्तिककारादयः तथा प्रदिपादयेरन्। न तथा केनापि प्रतिपादितम्। तेन यदुपरि निष्कर्षतया यदुक्तं तदेव वास्तविकं दृश्यते। भासर्वज्ञ किञ्चिद् स्वीयं वैयक्तिकं मतं प्रतिपादयितुमिच्छतीति प्रतिभाति। यतो हि गौतमप्रतिपादितन्यायस्य कतिपयस्थलेषु भासर्वज्ञस्य मतभिन्नता दृश्यते। तेन ज्ञायते यत् अयं पारम्परिकन्यायमार्गं यथावत् स्वीकर्तुं नेच्छतीति। ते कतिपयविषयाश्चात्र न समीक्षिताः शोधसीमाप्रतिबन्धात्। अत्र शोधपरिस्करणे मया भासर्वज्ञस्य जन्मस्थानसमयनिर्धारणग्रन्थप्रणयनादिविषयेषु च समुपलब्धप्रमाणानि संगृह्य सारसंक्षेपतया विषयानां यथार्थं क्रमेण सुसज्जीकृतम्। एतावता च भासर्वज्ञेन न्यायसारस्य प्रणयनप्रयोजनं शुद्धन्यायदर्शनस्य प्रतिष्ठामप्यस्तीति दृश्यते। अनेन शोधकृतेन तस्य वैयक्तिकविवरणञ्च इतोऽपि प्रामाणिकतां प्राप्स्यतीति विश्वासः। तथा च अस्य त्रिप्रमाणवादविषयकविप्रत्तिरपि क्रमेणाध्येतृणां समाधानपदं प्राप्नोतीति विश्वासाे वर्तते।
कृतज्ञताज्ञापनम्
लेखस्यास्य परिष्करणाय विषयवस्तुसज्जीकरणाय च प्रविध्यादिविषयेषु यैर्विज्ञैः सहयोगाे विहितः, ते सर्वेपि कृतज्ञताज्ञापनपूर्वकं स्मर्यन्ते।
सन्दर्भसामाग्रीसूचिः
अञ्जना (ई. २००२), न्यायभूषण का अनुमान परिच्छेद, जे.पी. पब्लिशिंग हाउस।
गौतमः (ई. १९६७), न्यायदर्शनम् (न्यायचतुर्थीग्रन्थीकासमलंकृतम्), मिथिलाविद्यापीठम्।
गौतमः (वि. २०५७) न्यायदर्शनम् (वात्स्यायनभाष्यसहितम्, सम्पा. नारायणमिश्र), चौखम्बा संस्कृतसंस्थानम्।
भट्टः, राघवः (ई. १९७६), न्यायसारविचारः, (सं डा. श्री उमारमणझा), श्रीरणवीरकेन्द्रीयसंस्कृतविद्यापीठम्।
मिश्रः, केशवः (ई. २०१७), तर्कभाषा (टिका. आचार्य सुरेन्द्रदेव शास्त्री), चौखम्बा विद्याभवन।
योगीन्द्रानन्दः, स्वामी (ई. २००४), न्यायभूषणम्, (पुनर्मुद्रित संस्करण), चौखम्बा विद्याभवन।
शास्त्री, दयाशङ्करः (ई. २००४), उद्योतकर का न्यायवार्तिक एक अध्ययन, चौखम्बा विद्या भवन।
सूरिः, वासुदेव (ई. १९३१), न्यायसारः न्यायसारपदपञ्जिका, (ग्रन्थाङ्कः १०९), त्रिवेन्द्रम् संस्कृत सिरिज।