हरिः ॐ आनो भद्द्रा: क्क्रतवो यन्न्तु व्विश्वतो दब्धासोऽअपरीतासऽउद्भिद÷ ।
देवा नो यथा सदमृद्विधेऽ असन्नप्रायुवो रक्षितारो दिवेदिवे ।।१।।
हरिः ॐ आनो भद्द्रा: क्क्रतवो यन्न्तु व्विश्वतो दब्धासोऽअपरीतासऽउद्भिद÷ ।
देवा नो यथा सदमृद्विधेऽ असन्नप्रायुवो रक्षितारो दिवेदिवे ।।१।।
देवानाम्भद्द्रासुमतिर्ऋजूयतान्देवानाᳩरातिरभिनोनिवर्त्तताम् ।
देवानाᳩ सक्ख्यमुपसेदिमा व्वयन्न्देवानऽआयु: प्प्रतिरन्तु जीवसे ।।२।।
तान् पूर्व्वया निविदाहूमहे व्वयम्भगम्मित्र्त्रमदितिन्दक्षमस्रिधम् ।
अर्य्यमणं व्वरुणᳮ सोममश्श्विना सरस्वती न: सुभगामयस्करत् ।।३।।
तन्नो व्वातो मयोभुव्वातु भेषजन्तन्न्माता पृथिवी तत्पिता द्यौः ।
तद्ग्रावाण: सोमसुतोमयोभुवस्तदश्श्विना श्रृणुतन्धिष्ष्ण्या युवम् ।।४।।
तमीशानञ्जगतस्तस्त्थुषस्पतिन्धियञ्जिन्वमवसे हूमहेव्वयम् ।
पूषानो यथाव्वेदसामसद्वृधे रक्षिता पायुरदब्ध: स्वस्तये ।।५।।
स्वस्तिनऽइन्द्रो व्वृद्धश्रवा: स्वस्तिन÷ पूषा व्विश्ववेदा: ।
स्वस्ति नस्तार्क्ष्योऽअरिष्टनेमि: स्वस्ति नो बृहस्पतिर्द्दधातु ।।६।।
पृषदश्वा मरुत: पृश्निमातर: शुभं य्यावानो व्विदथेषु जग्ग्मय: ।
अग्निजिह्वा मनव: सूरचक्षसो व्विश्वे नो देवाऽअवसागमन्निह ।।७।।
भद्द्रङ्कर्णेभि: श्रृणुयाम देवा भद्द्रं पश्येमाक्षभिर्ययत्त्रा: ।
स्थिरैरङ्गैस्तुष्टुवाᳩसस्तनूभिर्व्व्यशेमहि देवहितं य्यदायु÷ ।।८।।
शतमिन्नुशरदोऽअन्ति देवा यत्र्त्रानश्चक्क्रा जरसन्तनूनाम् ।
पुत्र्त्रासो यत्र्त्र पितरो भवन्ति मानो मद्ध्यारीरिषतायुर्ग्गन्तोः ।।९।।
अदितिर्द्यौरदितिरन्तरिक्षमदितिर्म्माता सपितासपुत्र्त्रः ।
विश्वे देवाऽअदिति: पञ्चजनाऽअदितिर्ज्जातमदितिर्ज्जनित्वम् ।।१०।।
तं पत्क्नीभिरनुगच्छेम देवा: पुत्त्रैर्भ्रातृभिरुतवाहिरण्ण्यै: ।
नाकङ्गृभ्णानाः सुकृतस्य लोके तृतीये पृष्ठेऽअधिरोचने दिवः ।।११।।
द्यौः शान्तिरन्तरिक्षᳮशान्ति: पृथिवी शान्तिराप: शान्तिरोषधय: शान्ति: ।
व्वनस्पतय: शान्तिर्व्विश्श्वेदेवाः शान्तिर्ब्ब्रह्मशान्तिः सर्व्वᳮ शान्ति: शान्तिरेव शान्ति: सामाशान्तिरेधि ।।१२।।
ॐ यतोयत: समीहसे ततो नोऽअभयङ्कुरु ।
शन्न÷ कुरूप्प्रजाभ्योभयन्नः पशुभ्य÷ ।।१३।।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ।।१४।।
ॐ शान्तिः, शान्तिः, शान्तिः