गोरक्षराजः पृथ्वीनारायणस्य सभापण्डितेषु अन्यतमः कश्चिल्लक्ष्मणकविर्नाम तस्थौ गोरक्षदेशे। सत्स्वपि अनेकेषु कविषु लक्ष्मणो वैशिष्ट्येन वर्वरीति। कदाचित् कविप्रयुक्तपद्येषु समासतत्प्रयोज्यसुब्लुगलुगादिविचारणेन, क्वचित् रूपसिद्धिप्रक्रियागतदोषप्रदर्शनेन, कदाचित् सन्धिसन्ध्यभावादिदर्शनेन वाक्यविन्यासगतदोषपरिष्कारेण च कविरयं स्ववैयाकरणत्वं स्फुटं साधयति।
मनोज भण्डारी[1]
लेखसारः
गोरक्षराजः पृथ्वीनारायणस्य सभापण्डितेषु अन्यतमः कश्चिल्लक्ष्मणकविर्नाम तस्थौ गोरक्षदेशे। सत्स्वपि अनेकेषु कविषु लक्ष्मणो वैशिष्ट्येन वर्वरीति। कदाचित् कविप्रयुक्तपद्येषु समासतत्प्रयोज्यसुब्लुगलुगादिविचारणेन, क्वचित् रूपसिद्धिप्रक्रियागतदोषप्रदर्शनेन, कदाचित् सन्धिसन्ध्यभावादिदर्शनेन वाक्यविन्यासगतदोषपरिष्कारेण च कविरयं स्ववैयाकरणत्वं स्फुटं साधयति। सत्यपि वैयाकरणत्वे कवावेतस्मिन्, क्वचित्तु काव्येऽस्मिन्नपि दोषप्रदर्शनावसरो लभ्यत एव। स च दृष्टो दोषः कवेस्सम्पादकस्यान्यस्य वा इति तु विचारणीय एव। यदि न कवेस्तदा तु कवेर्निरङ्कुशवैयाकरणत्वं स्पष्टी भवति।
कवित्वेन ख्यातेऽस्मिन् लक्ष्मणे वैयाकरणत्वमपि प्रचुरं लोकोपयोगित्वेन काव्योपयोगित्वेन छात्रोपकारित्वेन च संलक्ष्यते इति तु अदृष्टपूर्वो विषयः। स च लेखेनानेन पुरतः समुपस्थाप्यते।
शोधेऽस्मिन् द्वैतीयकस्रोतसा लब्धा शोधसामग्री प्रयुक्ता। काव्ये समुपलभ्यमानानां प्रयोगाणां दर्शनेन तेषां विश्लेषणात्मिकया पद्धत्या निष्कर्ष आनीतः। पाणिनीयव्याकरणस्य तट्टीकानाञ्च सैद्धान्तिकपर्याधारे वैयाकरणत्वसमीक्षा करिष्यते।
शब्दकुञ्जिका – कवितानिकषोपलः, चम्पूकाव्यम्, नेपाले संस्कृतसाहित्यम्, पृथ्वीनारायणशाहः, लक्ष्मणकविः।
विषयपरिचयः
संस्कृतवाङ्मयं खलु महार्णवः। तत्र च नाना मणयो विलसन्ति, धृत्वा च यान् लोकोऽयं परममङ्गलमनुभवति। सत्स्वपि बहुषु तादृक्षु विद्वन्मौलिमणिषु कविषु लक्ष्मणकवेर्नाम प्रकर्षेण राजते बहूनां रसिकानां चेतस्सु। कविरयं स्वसमये ख्यातकीर्तिः, प्राप्तराजसम्मानो भवन्नपि असंस्कृतबहुले कदाचित् अज्ञात इव समाजे, अपरिचित इव विद्वत्स्वपि प्रतिभाति। तत्रापि गोरक्षदेशाधिपस्य मार्गदर्शकत्वेन ख्यातः, तदितरदेशेषु मन्थरं प्रवृत्तास्य यशोलहरी। अतोऽत्र कवेर्वैशिष्ट्यप्रदर्शनं नाप्रासङ्गिकम्। कविरयं नूनं साहित्यधुरन्धरस्तथापि लोकोत्तरचित्रचरित्रधुरधुर्याणां क्व कश्चन: शास्त्रभागो नूतनायते ? व्याकरणशास्त्रेऽपि कृतभूरिपरिश्रम एष इति तु काव्यानुशीलनेन विज्ञायते।
कवितानिकषोपलनामकस्य काव्यस्य प्रणयनेन लक्ष्मणकवेर्निकषोपले कथं परीक्ष्यन्ते स्म काव्यानि इति तु रोचको विषयः। तत्र च काव्यं प्रतिपित्सूनां तत्र च प्रविविक्षूणां कृते महानन्ददायकः सच्शिक्षाप्रदायकश्च एषः निकषोपलः। कवीनां रचनासु व्याकरणदोषराहित्यमपि अपेक्षते। तद्दर्शनावसरे च कवेर्वैयाकरणत्वं स्फुटतरं वर्वर्ति। तच्च वैयाकरणत्वं तस्य काव्यत एव समीक्षिष्यते। कदाचित् काव्ये व्याकरणगतदोषा वा सम्भाविताः भवेयुरिति च पक्षः सम्यक् परिशील्यते। तदवसरे च कवेरुदन्तस्तथा च काव्योदन्तश्च सन्दर्भप्राप्तत्वादवलोक्यते।
पृथ्वीनारायणशाहाख्यस्य नरपतेर्नेपालपुरविजयः कविना काव्येस्मिन् वर्णितः। तदानीं काष्ठमण्डपपुरी कीदृशी आसीदिति च सर्वं तत्र निरूपितं सन्दृश्यते। विजिते च काष्ठमण्डपे सुप्तस्य भगवतो नीलकण्ठस्य सन्निधौ समायोजिता गोष्ठी काव्ये सुवर्णिता। तत्र बहुभ्यो देशेभ्यः समागतानां कवीनां कवितासु वर्णितान् विषयान् कश्चिदेकः विचारकृन्निरीक्षते। स च न केवलं विषयान्, अपि तु छन्दोव्याकरणादिकमपि समीक्षते। यद्यपि काव्यस्य रसात्मकवाक्यभूतस्य समीक्षणे गुण-रीति-वक्रोक्ति-ध्वन्यादिरवलोक्यते तथापि शब्दार्थयुगलस्य साहित्यस्य काव्यत्वेन स्वीकारे काव्यगतशब्दादिविचारोऽपि नानुचितः। तत्र सम्पद्यमानायां कविगोष्ठ्यां स्वयमेव लक्ष्मणः सदोषां कवितां पात्रव्याजेन पठति, स्वयमेव च विचारकृद्व्याजेन तान् दोषान्निराकुरुते। तत्र च तद् दर्शं दर्शं पाठकः तत्परिशीलनेन सम्यक् शब्दसंयोजनादिकं शिक्षते।
कवेः कृतयो बह्वयः स्युरिति केवलमनुमातुं शक्यते। अन्येषां काव्यानामद्य अनुपलब्धेः केवलं कवितानिकषोपल इत्यमुमेव अधिकृत्य तत्रापि काव्यस्य द्वितीयं भागमादाय एषा चर्चा विधास्यते। यद्यपि काव्यं स्वाभीष्टं वर्णयितुमेव प्रवृत्तं भवति तथापि अस्मिन्काव्ये तु कवीनां काव्यानि श्रुत्वा लक्ष्मणकविरिति कश्चिद् विचारकृत् काव्यपात्रभूत एव। तत्र छन्दः काव्यं व्याकरणादिकं च यथायथं विचारयति, विधत्ते च परिष्कारनिर्देशनं साधुसम्माननञ्च। तत्र च वैयाकरणदृष्टिरावश्यकी इति लेखकः विषयेऽस्मिन्नग्रेसरः।
समस्योद्देश्यकथनम्
अस्मिन् शोधलेखे प्रामुख्येण कवितानिकषोपलकृतो लक्ष्मणकवेर्वैयाकरणत्वं समीक्ष्यते। अतोऽस्मिल्ँलेखे मुख्यतया एताः समस्याः विचारविषयीकृताः भवन्ति –
क) किं लक्ष्मणकविर्वैयाकरणोऽस्ति ?
ख) स्वकाव्ये व्याकरणवैदुषीदर्शनं कथङ्कारं समाचिरतमनेन ?
ख) लक्ष्मणकवेर्वैयाकरणत्वे कानि वैशिष्ट्यानि ? नैयून्यानि च कानि ?
शोधसमस्यानां निराकरणमेव वस्तुतः शोधोद्देश्यं भवति। अत्रापि पूर्वोक्तानां समस्यानां समाधानमेव शोधोद्देश्यं वर्तते। यथा –
क) लक्ष्मणकवेर्वैयाकरणत्वानुशीलने,
ख) लक्ष्मणकवेर्वैयाकरणत्वसाधकानां प्रमाणानां समुपन्यासे,
ग) लक्ष्मणकवेर्वैयाकरणत्वे विद्यमानानां वैशिष्ट्यानां नैयून्यानाञ्च समुल्लेखने।
पूर्वकार्यसमीक्षणम्
अद्यत्वे नेपालराष्ट्रत्वेन ख्याते बृहति गोरक्षदेशे कदाचित् चर्चायां विपुलायां सत्यामपि अजागरूकत्वात्प्रमादाद्वा अल्पीयसामेव संस्कृतविदुषां विषयेऽस्मिन् प्रवृत्तिस्संलक्ष्यते।
मूलतः अस्य ग्रन्थस्य विषये कार्यद्वयं समुपलभ्यते।
१. योगिनरहरिनाथस्य सम्पादकत्वेन एष ग्रन्थः प्रकाशितो वर्तते। तत्र तु योगी स्वयं प्रतिजानीते –
सर्वलोकप्रबोधाय योगी नरहरिः कृती।
सम्पाद्य मूलरूपेण प्रकाशे कृतवान् श्रमम्।
आखुजग्धः कीटकिट्टः सन्दिग्धश्च स्थले स्थले।
कवेरन्यप्रतिलिपेर्यथालब्धं प्रकाशितः। इति। (लक्ष्मणकवि:, २०१३, पृ.सं.४)
महता परिश्रमेण सम्पाद्य प्रकाशिते सत्यपि कवेर्ग्रन्थेऽस्मिन् व्याकरणदिशा समीक्षणाय तु नास्ति यत्नः। तस्मा एष यत्नः।
२. “शेषराज शर्मा रेग्मी” इत्याख्यस्य “श्री ५ पृथ्वीनारायणशाहकालिक संस्कृत साहित्य” इति नेपालीभाषायां लिखिते ग्रन्थे पृथ्वीनारायणस्य राज्ञो राजत्वे विद्यमानानां कवीनां किञ्चिद् विवरणमस्ति, तथा च केषाञ्चन काव्यानां नेपाल्यनुवादसहिता प्रस्तुतिर्वर्तते कवेरल्पीयान् परिचयश्च। (रेग्मी, २०४९, पृ.४०) तत्र च कवितानिकषोपलस्यापि व्याख्या भाषायां व्यधायि नान्यत्किञ्चिदधिकम्।
कवेर्लक्ष्मणस्य कवितानिकषोपलाधारिणी वैयाकरणत्वसमीक्षिका अनुसन्धित्सा एनदेव शोधान्तरालं वीक्ष्य सञ्जागर्ति।
विषयव्याख्यानम्
निरहम्मन्यमानानां कवीनां प्रायो न परिलक्ष्यते देशकालाद्युल्लेखः। अत एव देशकालादिनिर्धारणं दुश्शकं भवति महात्मनाम्। तथापि कस्यचिद् राज्ञो महापुरुषस्य वा देशकालादिनाऽपि चलति देशकालादिव्यवहारोऽन्येषाम्। कविरयं लक्ष्मणः इति नाम्ना प्रसिद्धः। शेषराज शर्मा रेग्मी एतं लक्ष्मण उपाध्याय इति वदति। कविः स्वयं काव्ये क्वचित् लक्ष्मण इति क्वचित् लक्ष्मणशर्मा इति च वदति। अस्य नाम लक्ष्मण एव स्यात्, ब्राह्मणत्वात् लक्ष्मणशर्मा इति, अध्यापकत्वात् उपाध्याय इति, कवित्वात् लक्ष्मणकविरिति आख्या भवेदिति कल्पयितुं शक्यते। वस्तुतस्तु, अस्य अध्यापकत्वे मानाभावात् उपाध्याय/पाध्या इति गोरखाराज्ये उपनामादेरुपलब्धत्वात् लक्ष्मण उपाध्याय एव अस्य लौकिकं नाम इति अध्यवसायः। कदाचित् गोरक्षनामकः कश्चित् देशविशेषः आसीद्यत्र राजशिरोमणिः पृथ्वीनारायणः शशास। तस्यैव राज्ञो युवराजस्य, तत्कृतनेपालविजयस्य च दर्शनात् पृथ्वीनारायणकाल एव एतस्यापि काल इत्यनुमातुं शक्यते।
न केवलं तद्राज्ञो वर्णनेन तद्राजसमय एव इति वक्तुं शक्यम्, तथा चेत् कालिदासस्य कः समयः दिलीपसमयो वा ? अजसमयो वा ? रामसमयो वा ? अतो नैतावता पर्याप्तं कालनिर्धारणाय।
अत एव कविमेवानुसरामः।
ग्रन्थस्य आरम्भे राजपरिचयप्रसङ्गे सः स्वयमेव वक्ति –
कश्चिल्लक्ष्मण इति ख्यातो महाकविः स्ववृत्तिदातारं नरपतिं कीर्तयति। (लक्ष्मणकवि:, २०१३, पृ.१)
अनेन पृथ्वीनारायणस्यैव समयः एतस्य कवेरपि इति अध्यवस्यति।
न केवलं तावदेव, नेपालविजयानन्तरं श्रीनीलकण्ठस्य भगवत: समीपे समायोजितायां सभायां वर्णितानां कवीनामपि समकालिकत्वमस्य ज्ञायते। तत्र च सभायां युवराजः राज्ञोऽनुमतेनावस्थितान् आज्ञापयति विचारकृत् कश्चन कल्प्यतामिति य: खलु समागतानां कवीनां काव्यानि समीक्षेत। तत्र च कवयः सन्ति शक्तिवल्लभ-महेश्वर-हरिदत्तशर्माणः। ते च विश्रुतयशस्काः गोरक्षराजकवयः।
तेऽपि काव्ये लक्ष्मणमेव प्रशंसन्ति, तच्चेत्थम् –
“अधुनात्रैवास्ति लक्ष्मणशर्मास्मासु मध्ये कवितायां परिपक्वः। “ (लक्ष्मणकवि:, २०१३, पृ.११)
एवं कविभिः प्रशंसाविषयीभूतोऽपि राजाग्रे लक्ष्मणकविः निरभिमानित्वं प्रकटयति –
मतिरपि न गरीयसी मदीया, न च पुनरध्ययने श्रमः कदापि।
गुरुतरगुरुदैवतप्रसादात् पठितमिवापठितं च किञ्चिदस्ति। (लक्ष्मणकवि:, २०१३, पृ.१२)
यद्यपि मम मतिर्नास्ति विपुला, अध्ययने च श्रमो न विहितस्तथापि गुरुदैवतस्य प्रसादेन अपठितानामपि ग्रन्थानाम् अपठितत्वं नास्ति। अपठिता अपि पठिता इव प्रतीयन्ते ग्रन्था इति सारः।
वस्तुतस्तु काव्ये प्रस्तावप्राप्ता कविसभा काल्पनिकी वर्तते। राजा, युवराजो लक्ष्मणकविरन्ये च शक्तिवल्लभादय एव तत्र वास्तवीं सत्तां दधते। कविसभा, विदेशादागतास्समे कवयश्च कविकल्पनाप्रसूता एवेति मन्तव्यम्।
श्री ५ पृथ्वीनारायणशाहकालिक संस्कृत साहित्य इति ग्रन्थे शेषराजः शर्मा रेग्मी अस्यैव कवेरन्यामपि रचनां सङ्केतयति। १८१६ तमे वैक्रमाब्दे नुवाकोटस्य भैरवमन्दिरस्य ताम्रपत्रे लिखिता “भैरवीस्तुतिः” इति रचनाऽपि लक्ष्मणकवे रचना।
कवितानिकषोपल इति चम्पूकाव्यम्। यस्मिन्काव्ये गद्यं पद्यं च मिश्रीभवति तत् चम्पूकाव्यमिति प्रथितं वर्तते, यथोक्तं साहित्यदर्पणे – गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते – (विश्वनाथ:, १९५८, ६/३३६)
अस्य चम्पूकाव्यस्य लेखको लक्ष्मणकविरासीत्। एतच्च काव्यं पृथ्वीनारायणशाहाख्यस्य गोरक्षदेशाधिपस्य नेपालविजयविषयमधिकृत्य प्रणीतमिति सम्पादको नरहरिनाथो लिखति – गोरक्षाधीश श्री ५ पृथ्वीनारायणकृतनेपालविजयवृत्तमय इति।
पृथ्वीनारायणः शाह इत्याख्यः सम्राण् न केवलं शूरो वीरो दृढप्रतिज्ञश्चासीत्, अपि तु विद्वत्प्रियः विदुषां प्रियश्चासीत्। तस्य राज्ये विदुषां कवीनां च महान् सम्मान आसीत्। स च कवीनां वृत्तिदाता भवति स्म। तस्य राजसभासु भासमानानां पण्डितानां धौरेयः कविर्लक्ष्मणोपाध्यायः।
निपूर्वकात्कषतेर्निकषशब्दः सिद्ध्यति। निकषति पिनष्टि स्वर्णादिर्यत्रेति घप्रत्यये निष्पन्नेनानेन शब्देन यत्र स्वर्णादीनां पेषणादिकं भवतीति फलति। उपलशब्दश्च पाषाणवाची।
उक्तं चामरे-
पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषद्। (अमरसिंह:, (२०६९), २-३-४)
यथा हि मेघदूते कालिदासः –
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णम् (कालिदास:, २०७४, पू.मे. श्लो.१९)
अनेन निकषोपल इत्युक्ते तादृशः प्रस्तरो बुद्ध्यते यत्र स्वर्णादिकं निकषणेन परीक्ष्यते।
तर्हि कवितायाः निकषेण उपलेन वा कस्सम्बन्धः इति जिज्ञासायां वक्ति नरहरिनाथः स्वीयायां पद्यमय्यां भाषायाम् –
लक्ष्मणो नाम विख्यातो गोरक्षाभिजनः कविः।
कविताकाञ्चनं लोके परीक्षितुमनाविलम्।
इतिहासदृशा चक्रे कवितानिकषोपलम्।
काव्यव्याकरणच्छन्दःकोषदोषविमोषकम्। (लक्ष्मणकवि:, २०१३, भूमिका – ३-४)
एष सारः – लोके हि यथा विविधाङ्गनाङ्गनानाशोभाधायिनः खलु सुवर्णस्य विशुद्धिरपेक्ष्यते तथैव कविवरमुखालङ्काराणां सालङ्काराणां पद्यानामपि विशुद्धिरपेक्ष्यत एव। तच्च सुवर्णं शाणेन निकषोपलाख्येन परीक्षितं सत् विशुद्धं श्यामिकामयं वेति निर्णीयते तथैव काव्यदोषेण व्याकरणदोषेण छन्दोदोषेण वा दुष्टं न स्यात्काव्यमिति प्रेक्षावतां काव्यपरीक्षणाय निकषोपलभूतं काव्यमिदं कवेर्लक्ष्मणस्य।
अस्मिन् काव्ये भागद्वयं वर्तते पद्यभागः चम्पूभागश्च। पद्यभागे समङ्गलाचरणं कविना नेपालपुरी सुस्वादुतरं वर्णिता। पृथ्वीनारायणशाह इत्याख्यः कश्चन गोरक्षदेशाधिपो वर्तते। स च नेपालनाम्नीं पुरीं जिगीषुः। एष एव सन्दर्भः। आदौ समूलं पृथ्वीनारायणं वर्णयित्वा विजेतव्या पुरी च कीदृशी इति च वर्णयति। तदनु द्वितीये भागे तु जाते नेपालविजये काष्ठमण्डपे एका सभा आयोज्यते, तत्र बहुभ्यो देशेभ्यः कवयः समागच्छन्ति। ते च भगवतो नीलकण्ठस्य समीपे प्रतापसिंहनामकयुवराजसन्निधौ काव्यं पठन्ति। निर्णायकश्च लक्षमणकविस्तत्र। स तु कवीनां रचनासु दोषानुद्भाव्य परिहाराय निर्दिशति। तेन च स्वदेशस्थकवीनां स्फुटतरां वैदुषीं काव्यचातुरीं व्यनक्ति। इति च द्वितीयस्य भागस्य विषयः।
तत्र च कविना कविताक्षेत्रे सिद्धहस्तानामपि कवीनां प्रमादादनवधानाद्वा कथं दोषाः सञ्जायन्ते, कथञ्च परिहर्तुमर्हा इत्यादिकं कृत्स्नं निर्दिशति। स्वर्णादिरिव कविता अपि निकषोपलतुल्ये ग्रन्थेऽस्मिन् कथङ्कारं परीक्षिताः, तन्निदर्शनेन कथं वा वागर्थप्रतिपित्सूनां स्वकाव्यपरीक्षणं भवितुमर्हतीति ज्ञायते। अत एव कवितानिकषोपलत्वमस्य।
नरहरिः ग्रन्थारम्भे एवं स्तौति काव्यम् –
कविलक्ष्मणसङ्कलितः कवितानिकषोपलोऽतुलो लोके।
विलसति कविकुलमध्ये कवितासुवर्णपरीक्षार्थम्। (लक्ष्मणकवि:, २०१३, भूमिका)
यथा हि निकषोपलः सुवर्णं परीक्षते तथैव काव्यमेतत्काव्यं परीक्षत इति सारः।
योगिनरहरिनाथः ग्रन्थान्ते मङ्गलत्वेन कवितानिकषोपलमित्थं प्रस्तौति –
पृथ्वीनारायणस्य श्रुतपृथुयशसः सिद्धपुण्यप्रतापो।
मन्थाः साहित्यसिन्धोः कविकनककषः सज्जितो लक्ष्मणेन। इति। (लक्ष्मणकवि:, २०१३, पृ.४३)
अत्र च कवितानिकषोपलमन्यथाऽपि उपमितम्। साहित्यापरपर्यायं काव्यशास्त्रं सिन्धुः। मन्थाः मन्थनदण्डः। यथा हि मन्थनदण्ड: समुद्रे अपाम् इयत्तां निर्धारयति तथैव काव्यस्यापि दोषराहित्यं तत्साहित्यं वा काव्यमेतन्निर्धारयितुमर्हतीति सारः।
कवितानिकषोपले प्रथमभागे कवेर्वैयाकरणत्वं काव्यानुशीलनेन तत्प्रयुक्तया समाससन्धिबहुलया गिरा प्रतिपद्यते, द्वितीयभागे तु स्पष्टत एव व्याकरणविषयाः उच्यन्त एवेति प्रथमभागस्य केषाञ्चन स्थलानामेव निदर्शनमत्र विधाय पुनर्द्वितीयभागस्य विचारो विधास्यते। तत्रापि समग्रस्य काव्यभागस्य तु वैयाकरणदृष्ट्या समीक्षणे गौरवभयात् दिङ्निर्देशमात्रं करिष्यते।
मङ्गलश्लोकान् पठामः –
विलोललीलेन्दुमयूखमाला-
मुर:स्थलालम्बितमुण्डमालाम्
दयालवालोकितलोकपालां
वन्दे जगन्मातरमीशबालाम्। (लक्ष्मणकवि:, २०१३, १)
पद्यमिदम् उपजातिवृत्ते निबद्धं समासपदलालित्ययुतं सद्रसिकानां चेतो हरति। पद्ये वन्दे इति क्रियापदम्। तदितरत्सर्वं समासपदम्। विलोललीलेन्दुमयूखमालाम्, उर:स्थलालम्बितमुण्डमालाम्, दयालवालोकितलोकपालां जगन्मातरम् इति ईशबालाम् इत्यस्य विशेषणानि।
शशाङ्कलेखाङ्कितमौलिदेशं
विभूतिकालेपवलक्षवेषम्
नमामि नित्यं कपिशामकेशं
हतासुखं भक्तिमतां महेशम्। (लक्ष्मणकवि:, २०१३, २)
द्वितीयेऽस्मिन्मङ्गलपद्ये महेशस्य शम्भोर्नमस्क्रिया निरूप्यते। महेशं नित्यं नमामि इति वाक्यान्वयः। स च महेशः कीदृश इति जिज्ञासायामन्वीयन्ते विशेषणानि शशाङ्कलेखाङ्कितमौलिदेशं, विभूतिकालेपवलक्षवेषम्, कपिशामकेशं, भक्तिमतां हतासुखम् इति च। पद्ये शशाङ्कस्य लेखया अङ्कितो मौलिदेशो यस्य स इति अनेकपदगर्भबहुव्रीहौ सत्यपि तत्र विद्यमानो व्यञ्जनावृत्तिनिबन्धनः अनुप्रासस्तु शब्दप्रयोगचातुर्यं साधयत्येव।
भुजङ्गमाहारविहङ्गपत्रं
सरोजकिञ्जल्कपिशङ्गवस्त्रम्
अहं नवीनाम्बुदनीलगात्रं
शरण्यमिच्छामि रमेशमात्रम्। (लक्ष्मणकवि:, २०१३, ३)
अहं शरण्यं रमेशमात्रम् इच्छामि इति वाक्ययोजना । तत्र समस्तानि पदानि भुजङ्गमाहारविहङ्गपत्रं, सरोजकिञ्जल्कपिशङ्गवस्त्रं, नवीनाम्बुदनीलगात्रम् इति त्रीणि अन्वीयन्ते। अत्रापि पद्ये विद्यमानो व्यञ्जनावृत्तिनिबन्धनः अनुप्रासश्चेतो रमयति शब्दशास्त्रधुरन्धराणामपि।
केवलं समीक्ष्यमाणेषु मङ्गलपद्येषु लक्ष्मणस्य समासबहुलपदरचनासामर्थ्यं तस्य व्याकरणवैदुषीं स्पष्टी कुरुते। नवीनानां कान्तकोमलपदानां सङ्घट्टेन संवृत्ते पद्ये कविः स्वशब्दक्रीडनसामर्थीं समभिव्यनक्ति।
द्वितीयभागे व्याकरणदृष्टिः
अत्र भागे कविसभा वर्णिता वर्तते। तत्र च कविसमवाये लक्ष्मणः कविः विचारकृद् वर्तते। स तत्र श्रावितानां कवितानां निर्णयाय समुपस्थितः। कश्चन द्रविडात् कश्चन नेपालात्, कश्चन मिथिलायाः, कश्चन गुर्जरात्, कश्चन वाराणसीनगरात् अन्ये च बहवो बहुतः देशात् समायाताः सन्ति। तेषां काव्यानि श्रुत्वा तत्र विद्यमानानि पदानि समीचीनानि न वा ? परिष्कारार्हाः न वा ? तत्रत्याः शब्दा इति लक्ष्मणः कविरेव तत्र प्रमाणम्। तत्र केचन काव्यदोषाः, केचन व्याकरणदोषाश्च लक्ष्यन्ते उच्यन्ते च। काव्ये दोषदर्शनं तत्परिष्करणं चेति लक्ष्मणस्य वैशिष्ट्यं भाति। तत्र च व्याकरणसम्बद्धदोषप्रदर्शनं निराकरणं च कथङ्कारमिति दर्शनीयो विषयः। ते च सङ्क्षेपेण निर्दिश्यन्ते।
सन्ध्यभावनिदर्शनम्
तत्र सर्वादौ मिथिलादेशस्थो हेरम्बशर्मा कवितां श्रावयित्वा लक्ष्मणकवेः प्रशंसामाप्य प्रयाति। द्रविडदेशवासी श्रीकण्ठशर्मा ततः पृथ्वीवृत्तेन रचितां कवितां श्रावयति। तत्र तृतीयस्यां पङ्क्तौ वक्ति –
तुषारगिरिकन्यका सुधि उपास्यमाना सती। (लक्ष्मणकवि:, २०१३, ४७)
अत्र च लक्ष्मणस्तस्य आचार्यं पठनदेशं च पृष्ट्वा व्याकरणं पृच्छति – सुधि उपास्यमाना इत्यत्र कथं न सन्धिः ?
कविः उत्तरयति – इकोऽसवर्णे इति ह्रस्वविधानात्।
लक्ष्मण:- ह्रस्वे कृतेऽपि कुतो न सन्धिः ?
कविः – ह्रस्वविधानसामर्थ्यात्
लक्ष्मणः – असमीचीनम्। न समासे इति ह्रस्वनिषेधात् सन्धिर्भवति।
अत्रायं सारः
इको यणचि(पाणिनि, २०१५, ६-१-७७) इत्यनेन अच्युपश्लिष्टस्य इको यण् विधीयते। तस्य च बाधकं सूत्रम् – इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च इति।
पदस्य अन्ते विद्यमानस्य इक्-वर्णस्य असवर्णे अच्-वर्णे परे इको यणचि (पाणिनि, २०१५, ६-१-७७) इत्यनेन यणादेशे प्राप्ते; तद्बाधित्वा शाकल्यस्य मतेन विकल्पेन ह्रस्वादेशः भवति। अन्यमते तु न भवतीति विकल्पः ह्रस्वविधेः फलति। यथा हि – “किशोरी अत्र” इत्यत्र सूत्रेण ह्रस्वे “ किशोरि अत्र” इति सिद्ध्यति। पक्षान्तरे तु किशोर्यत्र इति सिद्ध्यति। ह्रस्वपक्षे यदि पुनः सन्धिर्विधीयते तर्हि सूत्रेण ह्रस्वविधानं व्यर्थं स्यात्। अत्र सूत्रे ह्रस्वविधानसामर्थ्यात् प्रकृतिभावोऽपि भवतीति ज्ञाप्यते। अतः किशोरि अत्र इति सिद्धं भवति। अस्य सूत्रस्य “न समासे” इति बाधकं वार्तिकं वर्तते येन समासस्थले प्रकृतिभावस्य निषेधो भवति।
प्रकृते तु सुधीभिः उपास्यमाना इत्यर्थे तृतीयासमासेन सुब्लुकि सुधी+उपास्यमाना इति स्थितौ सूत्रेणानेन प्रकृतिभावः ह्रस्वश्च प्राप्तः। कविः श्रीकण्ठः अमुमेव प्रकृतिभावं मत्वा “सुधि उपास्यमाना” इति समस्तं प्रयुनक्ति। समासत्वात् “न समासे” इति विधीयमानः प्रकृतिभावनिषेधस्तु कविना न स्मर्यते इति स एव व्याकरणदोषः इति लक्ष्मणः स्मारयति।
पुनश्च तस्मादेव देशात् अन्यः कविः कवितां श्रावयति ।
स च तत्र स्वकल्पिते पद्ये “ दिशाममीशा दश” इति पदावलीं प्रयुनक्ति। तत्र लक्ष्मणकविः पृच्छति – अमीशा इत्यत्र कथं सन्धिः ?
कविरुत्तरति – अकः सवर्णे दीर्घः इति।
लक्ष्मणकविश्च तन्न शुद्धमिति तं निराकृत्य समानदेशयोः कव्योस्समाना मतिरिति उपहसति।
“अदसो मात्” इति पाणिनिसूत्रं प्रगृह्यसंज्ञाविधायकम्। तत्फलं च प्रकृतिभावादिः। अमी ईशा इत्यत्र अदसो मात् इति सूत्रेण प्रगृह्यसंज्ञा भवति। ततश्च प्रकृतिभावः कल्प्यः, स तु न विहितः कविना इति लक्ष्मणकवेरुपहसनीयतां प्राप्नोति।
मिथिलादेशवासी यज्ञेश्वरशर्मा द्वाःस्थेन प्रवेशितः स्वस्तीत्युक्त्वा स्वकल्पितमाह –
सन्तोषितेन हरिणा भवदीयभक्त्या
सर्वस्वदेन भजतो जगदीश्वरेण।
दत्तं त्वमक्षतमदो महतामभीष्टं
श्रेयो जुषस्व युवराजमणेह लोके। (लक्ष्मणकवि:, २०१३, ४९)
ततश्च लक्ष्मणकविः राजमणेह इत्यस्य सिद्धिं पृच्छति। यज्ञेश्वरश्च वक्ति- “ राजमणे इह “ इत्यत्र अयादेशे यलोपे च “राजमण इह” इत्यत्र गुणे राजमणेह इति।
लक्ष्मणस्तु पूर्वत्रासिद्धं स्मारयन्नसन्धिं भावयति । तथा च राजमणेऽत्र इति प्रतिष्ठापयितुं शक्यमिति निर्दिशति।
अत्रायं सारः – आद्गुणः इति सपादसप्ताध्यायीम् अध्यास्ते। लोपः शाकल्यस्य इति तु त्रिपादीम् अधिवसति। राजमणय् इह इत्यत्र “लोपः शाकल्यस्य” इति यलोपं विदधाति। पूर्वत्रासिद्धम् इति सूत्रानुसारं सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा भवति। आद्गुण इति सूत्रदृष्टौ तु शाकल्यमतेन विहितो यलोपः असिद्ध एव। तेन गुणो न सिद्ध्यति। अत एव राजमणेह इति तु नार्हति भवितुम्।
आगमविधानम्
मिथिलातः समागतः लक्ष्मीपतिशर्मा श्रावयति स्वकल्पितम् –
भीमारावं वहति जयतोऽतीव सङ्ग्राममूर्ध्नि।
स्फीता कीर्तिर्विलसतु सतामन्तरा नन्दयन्ती।
यावन्तस्ते भटकरलसत्सायकच्छिन्नशेषा
हित्वा सर्वं त्वरितमहिता वार्धिपारं गछन्तु। (लक्ष्मणकवि:, २०१३, ५०)
मन्दाक्रान्तावृत्ते रचिते श्लोकेऽस्मिन् चरमपङ्क्तेश्चरमः शब्दः गछन्तु इति। तं दृष्ट्वा लक्ष्मणकविः छन्दोभङ्गं सूचयति। लक्ष्मीपतिस्तु नाङ्गी कुरुते। लघ्वक्षरयोग्यस्थाने गुर्वक्षरं जातमिति दोषः।
पृच्छति – कथं किं गुरु जातम् ?
लक्ष्णमः स्पष्टी कुरुते – गछति इत्यत्र तुगागमः “ छे च” इत्यनेन भवति। ततश्च “स्तोः श्चुना श्चुः” इति चकारे गच्छन्तु इति साधु। गछन्तु इति प्रयोगे व्याकरणदोषः। गच्छन्तु इति प्रयोगे च छन्दोभङ्गः। अतो दोषः। तत्स्थाने व्रजन्तु इति प्रयोगः निर्दिश्यते।
अत्रायं सारः।
वार्धिपारं गछन्तु इति कविना प्रयुक्तः। व्याकरणदृष्ट्या एतत् अशुद्धम्। गम् धातोः “इषुगमियमां छः” इति मकारस्य छकारे गछति इति जायते। ततश्च तुगागमः तत्र श्चुत्वं च भवति। “ तेन छन्दोभङ्गः जायते। मन्दाक्रान्तावृत्ते हि प्रतिपदं मगणः, भगणः, नगणः तगणद्वयम्, गुरुवर्णद्वयम्” भवति। अत्र च गच्छन्तु इति कथने तगणद्वयं न सम्पद्येत। अतः छन्दोभङ्गाद् व्याकरणभङ्गाद्वा निस्ताराय “व्रजन्तु” इति प्रयोक्तव्यम्। व्रजतिर्हि गत्यर्थवाची इति धातुपाठे निरूपितत्वात्। तस्य गच्छतेः समानार्थत्वात् व्रजन्तु इति प्रयोगः साधीयान्।
ततो यज्ञदत्तस्य कविता श्रूयते –
दीनदैन्यहृदनन्यशरण्या चन्द्रबिम्बधवलाम्बुधिकन्या।
पातु वोऽच्युतमनो रमयन्ती हृद्गतं श्रितजनस्य ददन्ती। (लक्ष्मणकवि:, २०१३, ५८)
लक्ष्मणः पृच्छति – ददन्ती इति पदं कथं सिद्धम् ?
कविरुत्तरति – दाधातोः श्लौ द्वित्वम्, उगितश्चेति ङीप्, शतुर्नद्यां नुम्। यथा “भवन्ती” तथैव ददन्ती इत्यपि।
लक्ष्मणकविश्च “नाभ्यस्ताच्छतुः” इति स्मारयन् दोषपरिष्काराय “ददन्ती” इत्यस्य स्थाने “ददाना” इति प्रयोगं निर्दिशति।
दाधातोः ददत्शब्दनिष्पत्तौ नास्ति समस्या द्वयोरपि। नुम् यद्यपि प्राप्तः तथापि अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति इति (पाणिनि, २०१५, ७-१-७८) पाणिन्युक्तत्वात्।
विभक्तिरूपादिविमर्शः
सुपः तिङश्च विभक्तयः। सुप्तिङन्तानां पदसञ्ज्ञा पाणिन्यभिप्रेता। अपदं तु न प्रयुज्यते सुधीभिः प्राणैः कण्ठगतैरपि। विभक्तियोजनेन प्रातिपदिकानां किं किं रूपं सेत्स्यतीति सुविचारवानेव कविः स्वकाव्यं निर्दोषं विधातुं पारयति। तदर्थं लक्ष्मणः उदाहरणै: तादृग्दोषं तन्निवारणं च निर्दिशति। दिगिह निर्दिश्यते।
काशीपुरादागतस्य जगन्निवासस्य शर्मणः कविता इह निदर्शनम्-
विधुशकलविभूषितोत्तमाङ्गा, विषधरकङ्कणभृत्कपालहस्तः।
भृशमिह जगतां पतिः समानां, वितरतु मङ्गलमन्धकद्विषन् वः। (लक्ष्मणकवि:, २०१३, ५२)
अत्र पदलालित्यमर्थचमत्कृतिञ्च विभावयन् लक्ष्मणकविः पृच्छति – समानामिति कुतः ? तुल्यानां सर्वेषां वा ? कोऽर्थः?
जगन्निवासः – सर्वेषाम्
लक्ष्मणः – सर्वनामत्वाभावः कथम् ?
जगन्निवासः – यथासङ्ख्यसूत्रे समानामिति तदभावदर्शनात्।
लक्ष्मणः – तुल्यार्थे सर्वनामत्वाभावदर्शनात् समानामिति शुद्धम्। समेषामिति कर्तुं युक्तम्।
अत्रायं सारः
समशब्दो हि द्विविधः। समानार्थः, सर्वार्थश्च। “सर्वादीनि सर्वनामानि” इति सूत्रं समशब्दस्य सर्वनामसंज्ञां करोति। ततश्च सुटि सर्वेषामिति रूपं भवति। सर्वनामत्वाभावे तु समानामिति रूपम्। परन्तु पाणिनिना सूत्रं प्रणीतम् – “यथासङ्ख्यमनुदेशः समानाम्” इति। समशब्दस्य सर्वनामत्वप्राप्तौ कथं समानामिति ? इति जिज्ञासायां तत्र समाधानं भवति- तुल्यापरपर्यायः समशब्दः अस्मिन् सूत्रे गृहीतः। सर्वार्थकस्य समशब्दस्यैव सर्वनामसंज्ञा भवतीति तत्र निश्चयः। अत्र तु कविना सत्यपि सर्वार्थे समानामिति प्रयुक्तमिति दोषः।
काशीपुरादागतस्य चक्रपाणेः पद्यमीक्षीमहि-
सद्गुणाकरतेजस्विकृपासागरसन्मते।
स्वस्ति स्तात्तेऽतिसर्वस्मै युवराज यशोधर। (लक्ष्मणकवि:, २०१३, ५३)
अत्र लक्ष्मणः पृच्छति –
अतिपूर्वस्य शब्दस्य कुतः सर्वनामत्वम् ?
कविः – तस्य च तदन्तस्य च इति परिभाषाबलात्।
लक्ष्मणः – भ्रान्तोऽसि। संज्ञोपसर्जनीभूतास्तु न सर्वादयः इति तत्रैव प्रयुक्तत्वात्।
सर्वादिगणे सर्वशब्दः सर्वादौ पठ्यते। तस्य सर्वनामता “सर्वादीनि सर्वनामानि” इति सूत्रेण विधीयते। सर्वनामसञ्ज्ञा च न केवलं सर्वादिगणपठितस्य अपि तु सर्वाद्यन्तस्यापि। तत्र च प्रमाणम् “द्वन्द्वे च” इति सूत्रम्। सर्वादिगणस्य शब्दानां विषये तदन्तविधिः उपयुज्यते। अस्य साक्षात् निर्देशः सूत्रपाठे नास्ति, परन्तु प्रकृतसूत्रमेव अस्य ज्ञापकरूपेण स्वीक्रियते। यदि सर्वनामसंज्ञकशब्दानां विषये तदन्तविधिः नानुमन्यते, तर्हि प्रकृतसूत्रेण द्वन्द्वसमासेन निर्मितानां शब्दानाम् सर्वनामसंज्ञानिषेधस्य किमपि प्रयोजनम् नास्ति। अतः प्रकृतसूत्रमेव सर्वनामशब्दानां तदन्तविधेः ज्ञापकम्। यदि सर्वान्तानां सर्वनामसञ्ज्ञा, तर्हि अतिसर्वशब्दस्य सर्वनामता स्यादिति धिया कविश्चक्रपाणिः अतिसर्वस्मै इति प्रयुनक्ति। परन्तु तन्न समीचीनम् इति लक्ष्मणः। तत्र हि हेतुः “संज्ञोपसर्जनीभूतास्तु न सर्वादयः” इति प्रतिज्ञा। यदि कस्यचित् सर्व इति नाम तदा न सर्वनामता। यदि च सर्वशब्दः उपसर्जनीभूतः तदाऽपि न सर्वनामता । अत्र अतिसर्वशब्दः। सर्वान् अतिक्रान्तः इत्यर्थे अतिसर्वशब्दः सिद्ध्यति। अस्मिन् शब्दे सर्वशब्दो न मुख्यः, अपि तु उपसर्जनीभूतः। अतो न सर्वनामतोपयोगः। अतः अतिसर्वाय इत्येव रूपम्।
आत्मनेपदपरस्मैपदविमर्शः
कविरयं परस्मैपदम् आत्मनेपदम् उभयपदं वा व्यत्यस्य न प्रयोक्तव्यमिति सर्वथा सावधानतां धत्ते। पारयामश्च द्रष्टुं बहुत्र। निदर्शनमत्र विधीयते।
द्रविडदेशस्थस्य पद्मापतिशर्मणः पद्यं पश्यामः –
जितो यद्यपि नेपालः किं चित्रमिति सर्वदा।
जुगुप्सन्तोऽपि राजानः स्वयमेव जुगुप्सिताः।
तत्र लक्ष्मणो ब्रूते – जुगुप्सन्त इति कथम् ? निन्दायां तस्य अनुदात्तत्वप्रतिज्ञातत्वेन शानजन्तस्यैव प्रयोज्यत्वात्। अथवा अन्तर्भावितण्यर्थमादायापि शक्यं समाधातुम्।
अत्र सारः
सामान्यतः सन्प्रत्ययः इषिकर्मण इषिणैककर्तृकाद्धातोर्भवति। गुप्धातुस्तु विशिष्यते। गुप्तिज्किद्भ्यः सन्निति सूत्रं सन्प्रत्ययं विधत्ते। ततश्च वार्तिकम् “निन्दाक्षमाव्याधिप्रतीकारेषु सनिष्यते”इति। निन्दायां सनि जुगुप्सधातुर्भवति। काशिकाकारश्च प्रतिजानीते –
गुपादिष्वनुबन्धकरणमात्मनेपदार्थम् इति। भावश्च विव्रियते न्यासकारेण यथा –
अथ जुगुप्सत इत्यादौ कथमात्मनेपदं सन्नन्ताद्विधीयते, न च गुपादिभ्य प्राक् सन आत्मनेपदं पश्यामः? इत्याह – ‘गुपादिष्वनुबन्धकरणम्’ इत्यादि। आत्मनेपदं यथा स्यादिति। गुपादिष्वनुबन्धोऽनुदात्तार्थः कृतः तस्मात् ‘अनुदात्तङितः’ (पाणिनि, २०१५, १.३.१२) इत्यात्मनेपदं भवतीति भावः। ननु च कृतेऽप्यनुबन्धे न भवितव्यमेव तेभ्य आत्मनेपदेन; सना व्यवहितत्वात्? नैतदस्ति; अनुबन्धकरणसामर्थ्याद्भविष्यति। अथ वा – ‘अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति’ इति जुगुप्सादय एव समुदाया अनुदात्तेतः, तेनाव्यवधानेनैव तेभ्य आत्मनेपदं भविष्यति। एवं स्थिते यदत्र द्वेष्यमापद्यते तत् ‘पूर्ववत्सनः (पाणिनि, २०१५, १.३.६२) इत्यत्रोपन्यस्तमपास्तञ्च। अण्यन्तेऽपि ण्यन्तार्थारोपे तु न काचित् समस्या।
अथ भानुदत्तशर्मणः पद्ये निपातयामो दृष्टिम् –
विजित्य त्रयमेतासां पुरां नृपतिसत्तम।
अलकायामिव श्रीदस्तत्र सङ्क्रीडतु क्रमात्। (लक्ष्मणकवि:, २०१३, ६५)
एतच्छ्रुत्वाह लक्ष्मणः – क्रीडधातोः परस्मैपदित्वं कुतः।
भानुः – अनुदात्तेत्त्वाभावात्।
लक्ष्मणः – व्याकरणं विस्मृतप्रायम्।
भानुः – कुतः ?
लक्ष्मणः – क्रीडोऽनुसम्परिभ्यश्च इति सूत्रात्।
अत्र सारः
धातुरयं क्रीडतिः परस्मैपदी वर्तते। तेन क्रीडति क्रीडतः क्रीडन्ति इत्यादीनि रूपाणि भवन्ति। परन्तु सम्पूर्वकत्वात् न तत्। “क्रीडोऽनुसम्परिभ्यश्च” इति पाणिनेः सूत्रं तत्र मानम्। आङ् / अनु / सम् / परि – एतेभ्यः उपसर्गेभ्यः परस्य क्रीडतेरात्मनेपदित्वम्। यथा – आक्रीडते, अनुक्रीडते, संक्रीडते, परिक्रीडते। प्रकृते च सङ्क्रीडतु इत्यत्र सङ्क्रीडताम् इति रूपं साधु भविष्यति।
जनकपुरादागतस्य वेणीदत्तस्य कवितायाः चरम-पङ्क्तिद्वयं पश्यामः –
शङ्के शतं शतमहर्दिवमाहवस्था-
माजङ्घनीषि नृपसत्तम यद्विपक्षान्। (लक्ष्मणकवि:, २०१३, ७३)
लक्ष्मणः पृच्छति – आजङ्घनीषि इति कुतः ?
वेणीदत्तः रूपसाधनप्रकारं वक्ति। लक्ष्मणः पुनः पृच्छति – मया तु परस्मैपदित्वं कुत इत्युच्यते। अनुत्तीर्णाय कवये प्रोच्यते लक्ष्मणेन – आङो यमहन इत्यात्मनेपदम्। तर्हि कः समाधानोपायः ? लक्ष्मणः समाधत्ते – आजङ्घसे नृपतिसत्तम इति वक्तव्यम् इति।
अत्रायं सारः। यद्यपि यमतिरुपरमार्थकः, हिंसागत्यर्थकश्च हन्धातुरिति उभौ परस्मैपदिनौ तथापि, आङ् इत्युपसर्गबलात् सिद्ध्यति आत्मनेपदित्वम्। अत्र कविना परस्मैपदं प्रयुक्तमिति व्याकरणदोषः लक्ष्मणेन उदभावि।
समासविचारः
लक्ष्मणः बहुभ्यो देशेभ्यः समागतान् सन्ध्यादिविषयकदोषं प्रदर्शयन् समासप्रयोज्यदुष्टिं च निर्दिशति। बहुत्र कवेरेवंविधा रीतिः। दिङ्मात्रमिह पश्यामः।
पूर्वदेशादागतः कश्चित् सर्वज्ञशर्मा श्रावयति कविताम् –
दूरागतोऽहं क्षितिपाल! वेगादाख्यातुमाकर्णय कस्य वा सा।
गता खमार्गेण दिगन्तमेका रुद्धापि लोकैर्धवलद्यतिर्गौः। (लक्ष्मणकवि:, २०१३, ९५)
कविर्लक्ष्मणः सर्वज्ञशर्माणं सर्वज्ञनाम्नः अनन्वर्थत्वं सङ्केतयन् उपहसति। स च पृच्छति – दूरागतः इति कथम् ?दूरादागतो वा दूरमागतो वा ? दूरादागत इति ज्ञाते पुनर्वक्ति – पञ्चम्याः स्तोकादिभ्यः इति अलुक्त्वाद् दूरादागत एव भवति। छन्दोभङ्गभिया तु दूरादुपेत इति वक्तव्यमिति समाहितम्।
अत्रायं सारः। समासे सति “सुपो धातुप्रातिपदिकयोः” इति सुब्लुक् भवतीति व्यवस्था। तत्र च विशेषः समासे सत्यपि क्वचन सुब्लुक् न भवति। तेषां च पृथग्व्यवस्था पाणिनिना समाचरिता।
तेष्वन्यतमत्सूत्रम् – पञ्चम्याः स्तोकादिभ्यः(पाणिनि, २०१५, ६.३.१)। तच्च सूत्रम् उत्तरपदे परे स्तोकाद्युत्तरविभक्तेः अलुग् विदधाति। अत्र च तस्य प्रवृत्तेः नास्ति सुब्लुगवसरः इति।
प्रभाकरशर्मा च पुनर्वदति –
सुलभा सुकृतिजनानामिन्द्रसभेवेप्सितप्रदं कृतिनाम्।
विबुधैरिव नियतस्थै राजसभं राजते कविभिः। (लक्ष्मणकवि:, २०१३, ९२)
लक्ष्मणोऽपृच्छत् – राजसभो भवति राजसभं वा ?
स आह – राजसभम् इति।
कुत इति पृष्टे सभा राजामनुष्यपूर्वा इति उत्तरति।
लक्ष्मणो वक्ति – अहो किमुच्यते? राजपर्यायपूर्वस्य सभान्तस्य क्लीबत्वं न तु राजपूर्वपदस्येति। कविर्लज्जमानः पलायते।
अत्रायं सारः।
राज्ञः सभा इति समासे राजसभा इति रूपं भवति। अष्टाध्याय्यां द्वितीयाध्याये सूत्रं पठ्यते – सभा राजामनुष्यपूर्वा-(पाणिनि, २०१५, २.४.२३) सामान्यतः सूत्रार्थः भवति – सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत् सभा राजपूर्वा, अमनुष्यपूर्वा च भवति। तेन राजसभम् इति सिद्धं तु न भवति। तत्रैकं वार्तिकं पठ्यते – पर्यायस्यैवेष्यते इति। राजशब्दो यदि पूर्वभागे तदा न भवति, राजशब्दपर्यायस्य ग्रहणे सत्येव सूत्रं प्रवर्तते। तेन राजसभा इत्येव सिद्ध्यति।
अथ रघुपतिशर्मा पठति –
खगवृषभगतौ रमाम्बिकेशौ पृथुतरशार्ङ्गपिनाकपाणिपद्मौ।
मधुरिपुगिरिशौ हिताय वः स्तां त्रिभुवनपावसितावदातगात्रौ। (लक्ष्मणकवि:, २०१३, ९३)
लक्ष्मणोऽवोचत् – मधुरिपुगिरिशाविति व्यत्ययः किमर्थः ?
कविर्ब्रूते – “द्वन्द्वे घि” इति।
लक्ष्मणश्च – “अल्पाच्तरम्” इति सूत्रं विस्मृतम् ?
ततश्च सः “हरिमदनहरौ” इति संशोधनाय निर्दिदेश।
अत्रायं सारः
द्वन्द्वसमासे घटकानां पदानां मध्ये कस्य पूर्वप्रयोगः कस्य च परप्रयोगः इति विषये पाणिनिना व्यवस्था विहिता वर्तते। तत्र च अन्यतमे सूत्रे “द्वन्द्वे घि”(पाणिनि, २०१५, २.२.३०) अल्पाच्तरम् (पाणिनि, २०१५, २.२.३४) इत्येते। द्वन्द्वघटकपदेषु घिसंज्ञकं पूर्वं प्रयोक्तव्यमिति एकस्य, अल्पाच्तरं शब्दरूपं द्वन्द्वे पूर्वं प्रयोक्तव्यमिति अपरस्यार्थः। हरिहरौ, प्लक्षन्यग्रोधौ इति तयोरुदाहरणे। अत्र मधुरिपिुरिति घिः। गिरिशः इति अल्पाच्तरः। अनयोर्मध्ये अल्पाच्तरमिति बलवत्। तेन गिरिशशब्दस्य पूर्वप्रयोगः अपेक्ष्यते। तदा तु छन्दोभङ्गः। यदि तु हरिशब्दः प्रयुज्यते तदा अल्पाच्त्वान्मदनहरात्पूर्वमेतस्य स्थितिरिति सम्यक्।
लक्ष्मणकवेर्व्याकरणत्रुटयः
कविना काव्यगताः व्याकरणदोषाः निराकरणीयाः इति सूचितम्, दोषपरिष्काराय च उपायाः प्रदत्ताः तत्र तत्र स्थलेषु।
परन्तु कदाचित् स्वयमेव कविना व्याकरणगतास्त्रुटयो विहिता वा ? इत्यपि समीक्षणीयो विषयः। दिङ्मात्रमिह चिन्तयामः।
रामकृष्णशर्मणः पद्यमनुसरामः
ससिद्धविद्याधरगीयमाना, मुदाप्सरोभिः परिरभ्यमानाः।
दिशाममीशा दश वो दशानामव्यासुरव्याजवृषोपगम्याः। (लक्ष्मणकवि:, २०१३, ४८)
अत्र परिरभ्यमानाः इति पदं दृश्यते। परि उपसर्गः। रभ् धातुः। कर्मणि प्रयोगः। लट्। यक्। लटः शानच्। ईशानां विशेषणत्वात् बहुवचनम्। अत्र च निमितस्य रेफस्य सत्त्वात् णत्वप्राप्तिः। तच्च नेह पद्ये दृश्यते। परिरभ्यमाणा इत्येव साधु।
अन्यच्च-
लक्ष्मीपतिशर्मणः कवितायां दोषोद्भावनप्रसङ्गे लक्ष्णणकविर्वक्ति – लघ्वक्षरयोग्यस्थाने गुर्वक्षरं न देयम्।
लक्ष्मीपतिः पृच्छति – कतमं गुरु जातम् ?
अत्रेदं वक्तव्यम्,
कतमशब्दात् परयोः स्वमोरद्ड् आदेशो विधीयते “अद्ड्डतरादिभ्यः पञ्चभ्यः” इति सूत्रेण। तत्र नपुंसकत्वमनुवृत्तम्। अत्र च वाक्ये अक्षरस्य विशेषणीभूय समागतत्वात् कतमशब्दोऽपि क्लीबे। प्रथमान्तञ्चेदम्। कतमम् इति रूपं कतमशब्दस्य पुंसि द्वितीयैकवचने भवति। नात्र तदवसरः। अतः
“कतमद्गुरु जातम्?” इति प्रश्नः साधीयान्।
शक्यन्त एव उद्भावयितुमन्यत्रापि दोषास्तथापि दिङ्मात्रमिह दर्शितम्।
अत्र विचारणीयमेतत् –
लक्ष्मणकवे रचना सम्पादकैः क्वचित्कुतश्चित्प्राप्य महता परिश्रमेण सम्पादिता। तत्रापि बहुषु पाठो भ्रष्ट आसीत्तत्र आनुकूल्यं स्वकल्पितैः शब्दैर्वा सम्पादितं स्यात्। तत्र च सम्पादकदोषः, टङ्कणदोषो वा भवितुमर्हति। यदि च न स्यात्तदा तु कवेरेवानवधानता इति मन्तव्यमेव सुधीभिः।
निष्कर्षः
पृथ्वीनारायणशाहस्य राजसभास्थेषु पण्डितेषु अन्यतमस्य लक्ष्मणस्य कवेः प्रतिभावैलक्षण्यं विदितचरं विपश्चिदपश्चिमानाम्। तस्य बह्वीषु रचनासु सतीष्वपि अद्यत्वे समुपलभ्यमानः कवितानिकषोपलः विशेषेण कविजगति शोभां धत्ते। यथा सुवर्णस्य परीक्षार्थं प्रस्तरस्य उपयोगः क्रियते, तेन च तत्रत्यो दोषो ज्ञायते, गुणो वेति तथैव कविकर्मभूतायाः कवितायाः गुणदोषपरीक्षणाय च एष ग्रन्थः सर्वोपयोगी भवति। तत्रापि कविनानेन स्वरचिताः कविताः प्रस्तूयन्ते, स्वयमेव दोषाः कल्प्यन्ते, ते च दर्श्यन्ते। न केवलं दर्श्यन्ते, अपि तु परिष्काराय निर्दिश्यन्ते कथङ्कारश्च परिष्कार एतस्य स्यादिति। प्रथमभागे मङ्गलपद्येषु वृत्तिदातू राज्ञो वृत्तान्तवर्णने, नेपालपुरीवर्णने च यथा काव्यचातुरी प्रदर्शिता तथैव वैयाकरणता च सम्यक् प्रतिपादिता। द्वितीयभागे तु बहुभ्यो देशेभ्यः समागतेषु कविषु कवितां प्रस्तुवत्सु तत्र तत्र काव्येषु गुणदोषप्रदर्शनं कवेरेतस्य वैशिष्ट्यातिरेकं प्रतिपादयति, समभिव्यनक्ति च सर्जनकौशलं, शब्दशास्त्रनिष्णातत्वम्।
ध्यातव्योऽयं विषयः – यथा हि सर्वेश्वरः स्वयमेव निमित्तकारणभूतः समवायिकारणभूतः सन् स्वयमेव जगतः स्रष्टा भवति स्वयमेव जगद्रूपेण विपरिणत इव स्वं विस्तरति, प्रविशति सृष्टेषु सर्वेषु सर्वान्तर्यामित्वेन तथैव काव्येऽस्मिन् कविः स्वयं नवरसरुचिरां निर्मितिमादधानः स्वयमेव लेखको भवति, स्वयमेव लक्ष्मणकवेः परिचयदाता भवति, स्वयमेव सभायोजकः, स्वयमेव सभापतिर्भवति निरूपकत्वेन। कश्चिदपि विपश्चिद् दूरदेशादागतः किन्न स्यात्,काशिकेयो द्रविडदेशवास्तव्यो वा किन्न स्यात् सर्वोऽपि कविसमवायः नामदेशादिर्वा कविकल्पनाप्रसूत एव। तत्र प्रस्तुतानि सदोषाणि पद्यान्यपि तस्यैव, तत्र प्रदर्शिता दोषा अपि तेन ज्ञातपूर्वाः, तथापि अध्येतृणां धीमत्त्वसमेधनायैव। ततश्च कथङ्कारं समाचरणीया परिष्कृतिरित्यपि तस्यैव निर्देश इति रोचको विषयः। लक्ष्मणः काव्यदोषादिभिः सहैव व्याकरणादिदोषान् निर्दिशति। प्रामुख्येण सन्धिस्थलेषु कविभिर्निरवधानतया यत्र यत्र सन्ध्यभावो नानुष्ठीयते तत् तत् स्थलंं लक्ष्मणो दर्शयति। सन्धिस्थलेषु च यत्र यत्र आगमविधानम् अनिवार्यं तत्रापि तद्रहिताचरणं कविभिराचर्यमाणं नाटकपूर्वकं दर्शयता तत्परिष्काराय पन्थाश्च प्रदर्शितः। प्रातिपदिकानां तत्तद्विभक्तिसमभिव्याहारे जायमानानि रूपाण्यपि कदाचिद् भ्रमवशात् अन्यथा प्रयुक्तानां पदानां निदर्शनं तत्रत्यदोषाविष्कारः तन्निराकरणोपायश्च दर्शितः। न केवलं सुबन्तानाम् अपि तु तिङन्तानां प्रयोगे आत्मनेपदप्रयोगविषये परस्मैपदविषये च जायमानान् दोषान् स निर्दिशति। आत्मनेपदादिप्रकरणे विशेषेण पृथगुद्दिष्टानां धात्वादीनां रूपनिष्पत्तौ भ्रमश्च स्थलेषु निवारितः। समासेषु च क्वचित् विभक्तेरलुक्, क्वचित्पूर्वनिपातः, क्वचिच्च समासान्तप्रत्ययविषये विचारसरणिः प्रसारिता। एतेन कवेरस्य महावैयाकरणत्वं सिद्ध्यति। एतादृशस्य महावैयाकरणस्यापि कवे रचनायामपि व्याकरणत्रुटयो विभावयितुं शक्यन्ते, तेषाञ्च दोषभाक् कविरेव इति तु न निश्चेतुं पारयामः, कवेः बहुप्राचीनत्वात्, सम्पादकप्रकाशकादिदोषाणां सम्भावितत्वाच्चेति दिक्।
कृतज्ञताज्ञापनम्
नैतत्कार्यं मत्परिश्रममात्राधीनम्। बहूनामत्र महत्साहाय्यं विद्यते। विशेषतः येषां विदुषां ग्रन्थेभ्यो विषयवस्तु समुद्धृतम्, यैश्च पुस्तकादिसामग्र्युपलम्भाय टङ्कणादिदोषापकरणाय च सहयोगो विहितः, एवञ्च यैर्विज्ञैर्लेखस्यास्य समीक्षणं विधाय प्रकाशनार्हता सम्पादिता, ते सर्वेपि कार्तज्ञ्यविनिवेदनेन स्मर्यन्ते।
सन्दर्भग्रन्थसूची :
अमरसिंह: (२०६९), अमरकोष:, भानुदीक्षित: (टीका.), वासुदेवपणशीकर:(सम्पा), चौखम्भा कृष्णदास अकादमी।
कालिदासः (२०७४), मेघदूतम्, डा.बलवान् सिंह(सम्पा. अनु.), चौखम्भा संस्कृत भवन।
दीक्षित, पुष्पा(सं) (२०१०), पाणिनीयधातुपाठः, संस्कृतभारती।
पतञ्जलिः (२०१२), व्याकरणमहाभाष्यम्, हरिनारायणतिवारी (टीका.),चौखम्बा विद्याभवन।
पाणिनिः (२०१५), अष्टाध्यायी, मिश्र, डा. रमाशङ्कर(सं), मोतीलाल बनारसीदास।
पिङ्गलः (२००२), छन्दःशास्त्रम्, पण्डित, केदारनाथ एवम् शास्त्री वासुदेवलक्ष्मणपणशीकर(सं), चौखम्भा पब्लिसर्स।
भट्टोजिदीक्षितः (२०१५), वैयाकरणसिद्धान्तकौमुदी, चतुर्वेदः गिरिधरशर्मा एवं शर्मा परमेश्वरानन्द(सं.), मोतीलाल बनारसीदास।
मम्मट: (२०१९), काव्यप्रकाशः, झलकीकर, वामनभट्ट (टीका.), परिमल पब्लिकेसन।
रेग्मी, शेषराजशर्मा (२०४९ ), पृथ्वीनारायणशाहकालीन संस्कृत साहित्य, नेपालराजकीयप्रज्ञाप्रतिष्ठानम्।
लक्ष्मणकविः (२०१३), कवितानिकषोपलः, योगी नरहरिनाथः(सम्पा), काशीगोरक्षटिल्ला योगप्रचारिणी।
वामनः,जयादित्यश्च (२०४३), काशिका (न्यास-पदमञ्जरी-भावबोधिनीसहिता), त्रिपाठी, जयशङ्करलाल एवम् अन्ये(सं.टीका.), तारा प्रिन्टिङ्ग वर्क्स।
विश्वनाथः (१९५८), साहित्यदर्पणः, सिंहः, सत्यव्रतः(सम्पा), चौखम्भा विद्याभवनम्।
[1] मनोज भण्डारी, अनुसन्धाता, भारतीय-प्रोद्योगिकी-संस्थानम्, काशीहिन्दूविश्वविद्यालय:।