निरजदाहालः[1] लेखसारः सर्वे बौद्धा बौद्धददर्शनसिद्धान्तजातानि स्वमतानि बुद्धस्य वचनरूपेण स्वीकुर्वन्ति। विज्ञानवादोऽपि अस्याः परम्पराया भिन्नो नास्ति। विज्ञानवादो योगाचारो नाम्नाऽपि प्रसिद्धोऽस्ति। बौद्धदर्शनस्य बुद्धवचनस्य वा सारतत्त्वं दुःखस्य नाशः, एवं निर्वाणस्य प्राप्तिरेवास्ति। भगवतो वचनानुसारेण दुःखस्य मूलकारणमविद्यास्ति। विज्ञानवादोऽविद्याया नाशः क्लेशावराणानां ज्ञेयावराणानाञ्च समूलं उन्मूलनेनैव भवतीति मान्यतामङ्गीकरोति। विज्ञानवादिभिराचार्यैश्चित्तस्य सर्वपक्षस्य साङ्गोपाङ्गमध्ययनं कृतमिति दृश्यते। बौद्धदर्शनक्षेत्रे विज्ञानवादोऽत्यन्तं प्रबलो लोकप्रियश्चास्ति। संसारसृष्टिचक्रादावस्य दर्शनस्य पृथक् दृष्टिरस्ति। न्यायशास्त्रस्य विकासाय विस्ताराय […]
निरजदाहालः[1]
लेखसारः
सर्वे बौद्धा बौद्धददर्शनसिद्धान्तजातानि स्वमतानि बुद्धस्य वचनरूपेण स्वीकुर्वन्ति। विज्ञानवादोऽपि अस्याः परम्पराया भिन्नो नास्ति। विज्ञानवादो योगाचारो नाम्नाऽपि प्रसिद्धोऽस्ति। बौद्धदर्शनस्य बुद्धवचनस्य वा सारतत्त्वं दुःखस्य नाशः, एवं निर्वाणस्य प्राप्तिरेवास्ति। भगवतो वचनानुसारेण दुःखस्य मूलकारणमविद्यास्ति। विज्ञानवादोऽविद्याया नाशः क्लेशावराणानां ज्ञेयावराणानाञ्च समूलं उन्मूलनेनैव भवतीति मान्यतामङ्गीकरोति। विज्ञानवादिभिराचार्यैश्चित्तस्य सर्वपक्षस्य साङ्गोपाङ्गमध्ययनं कृतमिति दृश्यते। बौद्धदर्शनक्षेत्रे विज्ञानवादोऽत्यन्तं प्रबलो लोकप्रियश्चास्ति। संसारसृष्टिचक्रादावस्य दर्शनस्य पृथक् दृष्टिरस्ति। न्यायशास्त्रस्य विकासाय विस्ताराय च विज्ञानवादस्य अतुलनीयं योगदानमस्ति। प्रायः सर्वाण्यपि पूर्वीयदर्शनानि अस्माद् विज्ञानवादतो न्यूनरूपेणाधिकरूपेण वा प्रभावितानि सन्ति। एतेषु सम्पूर्णेषु कार्येषु विज्ञानवादिनामाचार्याणां प्रत्यक्षाप्रत्यक्षरूपेण प्रभावो विद्यते। विज्ञानवादिन आचार्या बौद्धदर्शनस्य दोषानामुपचारं कर्तुं समर्था दृश्यन्ते। माध्यमिकनयस्य दोषोपचारं कृत्वा बौद्धदर्शनस्य क्लिष्टसमस्यानां समाधानं विधाय बौद्धदर्शनस्य उत्तरोत्तरविकासाय बहून् ग्रन्थान् रचयित्वा विज्ञानवादिभि आचार्यैः पूर्वीयदर्शनस्य तथा बौद्धदर्शनस्य विकासे महद्योगदानं विहितम्।
शब्दकुञ्जी : विज्ञानवादः, निर्वाणम्, आगमग्रन्थाः, विज्ञप्तिः, योगाचारः।
विषयपरिचयः
दर्शनरूपविशालवृक्षस्यैका शाखास्ति विज्ञानवादः। भगवतो बुद्धस्य सिद्धान्तानुसरणेन बौद्धदर्शनस्यैकवादत्वेन प्रसिद्धोऽस्ति अयं विज्ञानवादः। भगवता बुद्धेन स्वदीर्घोपदेशक्रमे भिन्नभिन्नजनानां कृते अनेकानेकप्रकारेण उपदेशः प्रदतः। भगवतो बुद्धस्य महापरिनिर्वाणपश्चादेव भगवतो मूलसिद्धान्तविषये मतभेदो जातः। भगवतो बुद्धस्य महापरिनिर्वाणस्य शतत्रयवर्षानन्तरं बौद्धदर्शनमष्टादशनिकायेषु विभक्तमासीत्।
बुद्धवचनानां व्याख्याक्रमे एतद्दर्शनं विभिन्नासु शाखासु विभक्तमस्ति। राज्ञोऽशोकस्य शासनकाल एवाष्टादशनिकायानामस्तित्वमासीत् परन्तु कालान्तरेऽधिकाः शाखा लुप्ता जाता अथवा मिश्रिताः। वर्तमानसमयेऽस्तित्वभूताश्चतस्रः शाखाः सन्ति। ताः — वैभाषिकः, सौत्रान्तिकः, माध्यमिकः (शून्यवादः), योगाचारश्च (विज्ञानवादः)। तत्रापि विद्वद्भिर्महायानो हीनयानश्चैतौ द्वौ वर्गौ विभक्तौ स्तः। विज्ञानवादो महायानस्यैव प्रमुखवादोऽस्ति।
परमकारुणिकस्य भगवतो बुद्धस्य मूलभूतसिद्धान्तस्तु कथं सांसारिकाणां दुःखस्य समूलमुन्मूलनं भवत्वित्यस्ति। भगवतो वचनाज्ज्ञायते यत् “अज्ञानमेव दुःखस्य मूलं कारणम्।” अज्ञानस्य पूर्णविनाशेन तथा सम्यग्ज्ञानार्जनेनैव निर्वाणं परमसुखं वा प्राप्यत इति मान्यता वर्तते। अज्ञाननाशाय ज्ञानमेव समर्थमस्ति। तज्ज्ञानं विज्ञानं वा सर्वोत्तमं वस्त्वस्ति। इत्थं सिद्धान्तभूतो दार्शनिकविचार एव विज्ञानवादोऽथवा योगाचारोऽस्ति। तज्ज्ञानस्य प्राप्तिर्याेगाचारणेनैव सम्भवति।
सर्वेषु प्राणिषु सर्वोकृष्टः प्राणी मानव एव। केन कारणेन मानवः सर्वोत्कृष्टो भवितुं समर्थोऽभूत् ? अस्य प्रश्नस्य उत्तरन्तु ज्ञानादेवेति भवति। वयम् ज्ञानार्जनायैव प्रयत्नशीलाः स्मः। अस्मिन् समये भूतानां सम्पूर्णानां वैज्ञानिकानां प्राविधिकानां विकासानाञ्च कारकत्वं मानवस्य ज्ञानमेव। ज्ञानमेव त्रिलोक एकमात्रं सत् वस्त्वस्ति, ज्ञातृज्ञेययोरस्तित्वं परमार्थे नास्तीति मतानुगमनवाद एव विज्ञानवादो योगाचारो वा। परमार्थे विज्ञानमेव सदस्ति अन्ये सम्पूर्णा बाह्यार्थाः असत् स्वरूपाः सन्ति। विज्ञानकारणेनैव तेषां सत्ता दृश्यते। विज्ञानवादे संसारस्य परमकारणन्तु विज्ञानमेव स्वीक्रियते। विज्ञानवादो न केवलं विज्ञानमेव परमार्थसद्रूपेण स्थापयति, अपित्वस्य मूलकार्यन्तु मनोविज्ञानस्य गहनाध्ययनमपि वर्तते। इदं दर्शनं केवलं विज्ञानं किमस्तिीति विषय एव न केन्द्रितमस्ति अपि तु मानवाः कथं ज्ञानं गृह्णन्तिीति विषयस्यापि विशदं ब्याख्यां करोति।
पाश्चात्त्यदर्शनक्षेत्र एतादृशमनोविज्ञानस्य गहनाध्ययनानुसन्धानकार्यन्तु सिग्मण्डफ्रायडमहोदयेन केवलमेकशताब्दिपूर्वमेव आरब्धम्। परन्तु वर्तमानसमयादष्टादशशताब्दिपूर्वमेव विज्ञानवादे मनोविज्ञानस्य साङ्गोपाङ्गमध्ययनं कृतं दृश्यते।
विज्ञानशब्दो विभिन्नैः पर्यायैज्र्ञायते। ते च चित्तम्, मनो विज्ञप्तिश्चेति। आचार्यो वसुबन्धुः स्वग्रन्थे विज्ञानवादविषये लिखितवान् यत् — “महायाने त्रैधातुकं विज्ञप्तिमात्रं व्यवस्थाप्यते। चित्तं मात्र भो जिनपुत्राः, यदुत त्रैधातुकमिति सूत्रात्। चित्तं मनोविज्ञानं विज्ञप्तिश्चेति पर्यायाः। चित्तमत्र ससम्प्रयोगमभिप्रेतम्। मात्रमित्यर्थं प्रतिषेधार्थम्।
“विज्ञप्तिमात्रमेवेदमसदर्थावभासनात्।
यद्वत् तैमिरिकस्यात्केशचन्द्रादि दर्शनम् ” ( तिवारी (सम्पा.), १९६७, पृ.सं.१)। इत्थं ज्ञायते यच्चित्तस्य दर्शनमेव विज्ञानवादः।
समस्याकथनम्
अस्य शोधलेखस्य विषयक्षेत्रन्तु बौद्धदर्शनस्य प्रमुखसम्प्रदायस्य विज्ञानवादस्य विकासक्रमस्य सम्यगनुसन्धानमेवास्ति। अस्मिन् कार्ये निम्नाङ्किताः शोधसमस्या निर्धारिताः सन्ति।
क) विज्ञानवादस्य उद्भवः कदा जातः ?
ख) विज्ञानवादस्य प्रमुखा आचार्याः के सन्ति ?
ग) विज्ञानवादे कति प्रकाराणि विज्ञानानि सन्ति ?
उद्देश्यकथनम्
बौद्धदर्शनान्तरगतेषु विविधेषु वादेषु प्रमुखवादस्य विज्ञानवादस्य ऐतिहासिकमध्ययनमस्य शोधस्य सामान्यमुद्देश्यमस्ति। विशिष्टमुद्देश्यन्तु शोधसमस्यायां प्रस्तुतानां प्रश्नानां निम्नाङ्कितरीत्या समाधानं विधीयते।
(क). ऐतिहासिकसामग्र्याधारेण विज्ञानवाददर्शनस्योद्भवस्य विषयस्य विश्लेषणं विधीयते।
(ख.) विज्ञानवाददर्शनस्य विकासे महत्त्वपूर्णभूमिकाभूतानामाचार्याणामवदानस्य तथ्यात्मकं विश्लेषणं विधीयते।
(ग) विज्ञानवादे वर्णितान्यष्टप्रकाराणां विज्ञानानां सम्यक्तया समीक्षणं विधीयते।
अध्ययनविधिः
अस्य शोधलेखस्य निर्माणे पुस्तकेभ्य एव सामग्रीसमाहरणं विधाय समष्टिरूपेणैव समीक्ष्य वस्तुसङ्कलनं विधाय निगमनविधिना विश्लेषणविधिना च विषयवस्तूनामालोचनं विहितमस्ति। पादटिप्पण्यां संस्कृतशोधानुगुणपारम्परिकविध्याधुनिकसामग्रीसूचनायै लेखकपृष्ठपद्धतिस्तथा सन्दर्भसामग्रीसूचीनिर्माणे च सैवपद्धतिरनुसृतास्ति। अध्ययनमिदं गुणात्मकं वर्तते। अत्र हि बौद्धदर्शनस्य प्रमुखो वादो विज्ञानवादो (योगाचारः) स्वमतानुसारेण अस्यचैतिहासिकमान्यतानां विश्लेषणं विधाय निष्कर्षः स्थापितो वर्तते। प्रस्तुतेऽस्मिन् शोधलेखे पुस्तकालयादेव सामग्रीसङ्कलनं विधाय तथ्यं स्थापितमस्ति। पुस्तकेभ्यः समाहृतानां तथ्यानां सविश्लेषणं विज्ञानवादसिद्धान्तानां स्वरूपञ्च सम्यक्तया पर्यालोच्य समीक्षणञ्च कृत्वा विज्ञानवादस्य योगाचारस्य वा सूक्ष्मदृष्ट्या व्याख्याञ्च विधाय निष्कर्षः समुपस्थापितो वर्तते।
सीमाङ्कनम्
बौद्धदर्शनस्य विभिन्नानां मतवादानां मध्ये विज्ञानवादसिद्धान्तमाश्रित्य विज्ञानवादस्य योगाचारस्य वा मतस्य विवेचनमस्य लेखस्य मुख्यं क्षेत्रमस्तीति समुल्लिखितमस्ति। मूलतोऽस्य विषयक्षेत्रं विज्ञानवाददर्शनं विद्यते। आवश्यकानि प्रासङ्गिकानि स्थलानि विहाय विज्ञानवादसिद्धान्तानां समीक्षणमेवास्य लेखस्य सीमास्ति।
पूर्वकार्यस्य समीक्षणम्
अस्मिन् समये बौद्धदर्शनं न केवलं भारतीयोपमहाद्वीपस्य अध्ययनविषयोऽस्त्द्यपि तु विश्वस्यैव सार्वजनिको विषयोऽस्ति। तस्मादाङ्ग्लभाषायां, हिन्दीभाषायां चास्मिन् विषये केचनविद्वांसः किञ्चिदध्ययनं कृतवन्तः। नेपालीभाषायामस्मिन् विषये अध्ययनस्याभावो दृश्यते। सारभूतरूपेण वस्तुगताध्ययनन्त्वस्मिन् विषयेऽद्यापि न दृश्यते।
विज्ञानवादस्य परिचयक्रम आचार्यनरेन्द्रदेवेनैतदद्वयवादिदर्शनमस्तीति कथितमस्ति (नरेन्द्रदेवः, १९७१, पृ.सं. ३८४)। तस्याध्ययनं मुख्यरूपेणाचार्यासंगवसुबन्ध्वोरेव केन्द्रितमस्ति।
बलदेवउपाध्यायमहोदयेनापि चैतदद्वयवादो विशुद्धप्रत्ययवादश्चेति कथितमस्ति – बलदेव उपाध्यायः, १९६८, पृ. सं. १९९)। परन्तु तेन भिन्नभिन्नमतानामध्ययनं न तावत् कृतमस्ति यावत् कर्तव्यम्।
डा. भरतसिंहमहोदयेनापि विज्ञानवादस्य सामान्येतिहास एव प्रस्तुतोऽस्ति (भरतसिंहः, १९९६, पृ. सं. ६५१)। परन्तु अस्य विज्ञानवादस्य दर्शनपक्षस्याध्ययने स्वरुचिर्न प्रदर्शिता अस्ति।
डा. राधाकृष्णन्महोदयेनापि विज्ञानवादमाध्यात्मिकरहस्यवादरूपेण उल्लेखं कृत्वा हिन्दुदर्शनस्य ब्रह्मतत्त्वे विज्ञानवादस्य विज्ञाने च सारभूतरूपेण साम्यं दर्शयित्वा विज्ञानवादो हिन्दुदर्शनात् प्रभावितोऽस्ति इति मतं स्थापितमस्ति (राधाकृष्णन्, १९७३, पृ.सं. ५७५)।
बाह्यार्थः परमार्थरूपेण मिथ्या अस्ति। एकं विज्ञानमेव सदस्ति। अयं विचार एव विज्ञानवादस्य परमतत्त्वमस्ति, इति कथनपूर्वकं प्रोफेशर रामशंकरत्रिपाठीमहोदयेन स्वाध्ययनं विस्तारपूर्वकं कृत्वा विज्ञानवादस्य भेदोपभेदानामपि अध्ययनं कृतमस्ति (त्रिपाठी, १९९३, पृ. सं. ११७)।
विज्ञानवादे आन्तरिको मतभेदोऽस्ति। तेषां मतानां सम्यगध्ययनं विना सारभूतमध्ययनं भवितुं न शक्नोति। तस्मात् कारणात् अस्मिन् शोधलेखे विज्ञानवादस्य साङ्गोपाङ्गमध्ययनस्य प्रयासो क्रियते।
सैद्धान्तिकपर्याधारः
बौद्धदर्शनस्य सम्प्रदायेषु विज्ञानवादस्य सिद्धान्तानां विश्लेषणार्थं विज्ञानवादस्य आगमग्रन्थाः समालोचनात्मका ग्रन्था एवाऽऽधारतया गृह्यन्ते। विज्ञानवादसिद्धान्तेषु विशेषतः स्पष्टतयास्यैतिहासिकविकासक्रमो मूल्यमान्यता चाधारग्रन्थाधारेण प्रामुख्येन पर्यालोचितास्ति।
विज्ञानविज्ञानवादयोः भेदः
“विज्ञानम्” इति शब्दे विज्ञानवादे च महती भिन्नता अस्ति। सामान्यतो विज्ञानशब्दः कमपि विषयं, शास्त्रं, सिद्धान्तं वा जनयति। यथा — राजनीतिविज्ञानम्, समाजविज्ञानम्, अर्थविज्ञानमादि।
तथैव विज्ञानशब्दो वैज्ञानिकानुसन्धानमन्वेषणपद्धतिञ्च जनयति। निरीक्षणैः परीक्षणैर्वा किमपि ज्ञानं यदि प्राप्यते चेत् तद् कार्यं विज्ञानमस्ति। अनेन प्रकारेण प्राप्तभूतं ज्ञानं वस्तुतथ्यं सत्यं वा भवतीति मान्यता वर्तते समाजे।
परन्तु विज्ञानवादः कोऽपि अनुसन्धानपद्धतिः नास्ति। अत्र विज्ञानशब्दश्चित्तस्य पर्यायरूपेण विद्यते। चित्तम्, मनो, विज्ञानम् विज्ञप्तिश्चेति पर्यायाः। अस्मात् कारणात् ज्ञायते यत् अयं कोऽपि वैज्ञानिकानुसन्धानपद्धतिर्नास्ति। अपि तु चित्तस्य गहनानुसन्धानान्वेषणस्य दर्शनमस्ति। अस्मिन् दर्शने सम्पूर्णानां वस्तूनामस्तित्वमस्वीकृत्य विज्ञानस्य एकस्यैव तत्त्वस्य परमार्थरूपेणास्तित्वं विद्यत इत्यादि वर्णनमस्ति। तस्मादयं विज्ञप्तिमात्रतावाद इति नाम्ना अपि प्रसिद्धोऽस्ति।
विज्ञानवादस्योद्भवः
विज्ञानवादस्य स्पष्टरूपेण ज्ञानन्तु आचार्य असङ्गस्य समयादेव दृश्यते। केचनविद्वांसः लामातारानाथप्रभृतयरस्योत्पत्तिरसङ्गस्य समयात् पूर्वमेवासीदीति मन्यन्ते। “असङ्गस्य समयस्तु आचार्यनागार्जुनस्य समयपश्चादेवेति निश्चितमस्ति। इशवीयप्रथमशताब्द्यां “बोधिचित्तवृत्तिः” इत्याख्ये स्वग्रन्थे नागार्जुनेन विज्ञानवादस्य संक्षिप्तरूपेण समीक्षा कृताऽसीत् ” (दोर्जे (सम्पा.), १९८३, पृ. सं. ष्ष्ष्)। अनेन एव कारणेन तस्मिन् समये विज्ञानवादस्यास्तित्वं केनचित् रूपेण आसीदिति कथयितुं शक्यते।
असङ्गमहाभागस्य गुरुदेव आचार्यो मैत्रेयनाथ एव विज्ञानवादस्य प्रथम प्रवक्ता अस्ति। अस्मिन् समये मैत्रेयनाथस्य मध्यान्तविभागः, धर्म—धर्मता—विभङ्गः, एवं सूत्रालङ्कार इत्यादयः ग्रन्थाः प्राप्यन्ते। एतेषु ग्रन्थेषु मैत्रेयनाथेन विज्ञानवादस्य सुस्पष्टरूपेण व्याख्या कृता अस्ति। तस्य शिष्येण आचार्योऽसङ्गेन गुरोः विचारेषु प्राणप्रदानक्रमे बहून् ग्रन्थान् रचयित्वा विज्ञानवादस्य स्थापना कृता। “परन्तु आचार्योऽसङ्गात् पूर्वं मैत्रेयनाथस्य नाम्ना कोऽपि व्यक्तिस्तथा तस्य कोऽपि ग्रन्थो विद्वात्समाजे प्रचलितो नासीत्। तस्मात् कारणात् केचित् समालोचकाः मैत्रेयनाथ एव आचार्योऽसङ्ग अस्तीति मन्यन्ते” (दोर्जे, १९८३, पृ. सं. ष्ष्ष्)। परन्तु अस्मिन् समये इदं मतं मिथ्या एव प्रमाणितमस्ति। अभिसमयालङ्काराख्यस्य ग्रन्थस्य रचयिता ऐतिहासिकव्यक्तिः मैत्रेयनाथ एवास्ति। एतयोराचार्ययोः सहयोगादेव विज्ञानवादः स्थापितोऽस्ति। अतैव आचार्यः मैत्रेयनाथोऽस्य प्रतिष्ठापकः तथा आचार्योऽसङ्गः संस्थापक अस्तीति कथयितुं शक्यते। असङ्गस्य सत्प्रयासादेव मैत्रेयनाथस्य ग्रन्थानां ज्ञानमभूत्।
असङ्गस्य समयो नागार्जुनात् पश्चाद् विद्यते। अस्य जन्मसमयविषयेऽपि मतमतान्तराणि वर्तन्ते। तथापि ईशवीयतृतीयशताब्दी एव अस्य जन्मसमय अस्तीति मतं बहवो विद्वांसः स्वीकुर्वन्ति। असङ्गेनैव सम्पूर्णानां बौद्धवाङ्मयानां विज्ञानवादिदृष्टौ सुव्यवस्थिततां कृत्वा विज्ञानवादिचिन्तनानां दर्शनरूपेण प्रतिष्ठापना कृता। असङ्गेन विज्ञानवादस्याधारभूततत्त्वं “विज्ञप्तिमात्रतायाः” सविस्तृतरूपेण विवेचनं कृत्वा तद् चैतन्यतत्त्वं परमतत्त्वरूपेण स्थापितम्।
नामकरणम्
“विजानीति विज्ञानम्” वि उपसर्गपूर्वात् ज्ञा धातोः “ल्युट् च” इति सूत्रेण भावार्थे ल्युटि प्रत्यये विज्ञानशब्दो निष्पन्नो भवति। चित्तम्, मनो, विज्ञानम्, विज्ञप्तिश्चेति अस्य पर्यायाः सन्ति। अस्मिन् दर्शने चित्ततत्त्वस्याधार एव जीवः, जगदेवं त्रयलोकधातवः (कामधातुः, रूपधातुः, अरूपधातुश्चः) चित्तस्य एव प्रतीतिरूपेण सन्ति चित्तस्याभासमात्र अस्तीत्थं लिखितमस्ति उक्तं च आर्यदशभूमिकसूत्रे —
“चित्तमात्रम् भो जिनपुत्राः यदुत त्रैधातुकम्”(तिवारी, १९६७, पृ.सं.१)। तथैव सद्धर्मलङ्कावतारसूत्रे च —“चित्तमात्रमिदं सर्वं द्विधा चित्तं प्रवर्तते।
ग्राह्यग्राहकभावेन आत्मात्मीयं न विद्यते” (वज्राचार्यः (सम्पा.), १९९३, पृ. सं. २०५—२०६)। महायानसूत्रालंकारे च —
“यथा द्वयप्रतिभासादयो न द्वयलक्षणः।
इति चित्तं चित्राभासं चित्राकारं प्रवर्तते ” ( शास्त्री (सम्पा.), १९८५, पृ. सं. ६३)। विज्ञानवादे परमार्थरूपीतत्त्वं विज्ञानमेवास्ति इत्यस्य तथ्यस्य सिद्धये वसबन्धुमहाभागेन “विज्ञप्तिमात्रतासिद्धिः” इत्याख्य अतीव प्रसिद्धो ग्रन्थो रचितोऽस्ति। तस्य ग्रन्थस्य नाम्नापि अस्य नाम विज्ञप्तिमात्रतावाद अथवा विज्ञानवादिति जातम्।
अस्य दर्शनस्य अपरं नाम योगाचारोऽस्ति। असङ्गमहाभागस्य ग्रन्थे महायानसूत्रालङ्कारे परमार्थरूपीतत्त्वज्ञानप्राप्तये योगिभिः दशसु भूमिषु क्रमिकरूपेण आरोहणं कर्तव्यमिति वर्णनमस्ति। तस्मादस्याधार एवास्य नाम “योगाचारः” इति जातम् इति वक्तुं शक्यते। विपश्यनादियोगाचारणेन एव रूपादिबाह्यवस्तुनां मिथ्या प्रतीति अस्तीति ज्ञानं प्राप्तुं शक्यते। “दशभूमिकसूत्रे निर्दिष्टषष्ठअधिमुखीभूमौ स्थितेन बोधिसत्त्वेन विपश्यनायोगस्य माध्यमेन सर्वेषां ग्राह्यग्राहकाणां तथा त्रैधातुकानां चित्तमात्रता एव अस्तीति भावनां करोति। इत्थं प्रकारेण एतत् दर्शनं तत्त्वं प्रति योनिशोमनसिकारतः विचरति तस्मादपि अयं योगाचारणम् अथवा योगाचाररिति नाम्ना अभिधीयते ” (दोर्जे, १९८३, पृ. सं. ख)। आध्यात्मिक सिद्धान्तस्य कारणाद् विज्ञानवादः, एवं धार्मिकव्यवहारिकदृष्टौ तु योगाचाररिति नाम्ना प्रसिद्धोऽयमित्यपि कथयितुं शक्यते।
परिभाषा
प्राक्वर्णनादेव विज्ञानवादस्य संक्षेपरूपेण परिचयो ज्ञायते परन्तु अस्य सुनिश्चितस्वरूपस्य परिभाषा आचार्यः सेम्पादोर्जे इत्थं प्रकारेण करोति “ग्राह्यरूपादिबाह्यार्थानां सत्तां खपुष्पवत् मिथ्यां मत्वा रूपादिपदार्थानां विज्ञानाभासमात्रं मत्वा ग्राहकविज्ञानस्य स्वलक्षणसत्ताया अथवा पारमार्थिकसत्ताया अस्तित्वमेव स्वीकरोति यद्दर्शनं तदेव विज्ञानवादः” (दोर्जे, १९८३, पृ. सं. ख)। अस्मिन् विषये आचार्यो वसुबन्धुः कथयति यत् —
“विज्ञाप्तिमात्रमेवेदमसदर्थावभासनात्।
यथा तैमिरिकस्यासत्केशचन्द्रादिदर्शनम् ”(तिवारी, १९६३, पृ.सं.१)। तत्रैव —
“विज्ञानपरिणामोऽयं विकल्पो यद् विकल्प्यते।
तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम् ”(तिवारी, १९८३, पृ.सं.७९)। तत्रैव —
“यदालम्बनं विज्ञानं नैवोपलभ्यते तदा।
स्थितं विज्ञानमात्रत्वे गाह्याभावे तदग्रहात् (तिवारी, १९८३, पृ.सं.९८)। महायानसूत्रालङ्कारे च —
“नास्तीति चित्तात् परमेत्य बुद्धया चित्तस्य नास्तित्वमुपैति तस्मात्।
द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठतेऽतद्गतिधर्मधातौ।।”( शास्त्री, १९८५, पृ. सं. २४)। तत्रैव —
“मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितम्।
न धर्मता चित्तमृतेऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते” (शास्त्री, १९८५,पृ. सं. ८५)। लङ्कावतारसूत्रे च —
“दृश्यं न विद्यते बाह्यं चित्तं चित्रं हि दृश्यते।
देहभोगप्रतिष्ठानं चित्तमात्रं वदाम्यहम् ” ( वज्राचार्यः, १९९३, पृ. सं. १५१)। अतः ज्ञायते यत् चित्तस्य गहनाध्ययनमेव विज्ञानवादोऽस्ति।
विज्ञानभेदाः
विज्ञानवादे सम्पूर्णाः धर्माः विज्ञप्तिस्वरूपा एव सन्तीति धारणा वर्तते। विज्ञानस्य स्वरूपं एकमभिन्नञ्च विद्यते परन्त्ववस्थाभेदादयमष्टप्रकारकमस्तीत्थं मान्यता वर्तते आगमानुयायिनां तथापि युक्त्यान्यायिन इदं मतं अस्वीकृत्य षष्ठ संख्यायुतं विज्ञानमेव स्वीकुर्वन्ति। युक्त्यान्यायिनो विद्वांसः सप्तमस्य अष्टमस्य च युक्तिपूर्वकं खण्डनं कृत्वा तयोः कार्यमपि षष्ठमनोविज्ञानमेव कर्तंु समर्थमस्तीति प्रतिपादयन्ति। अष्टौ विज्ञानानि यथा — चक्षुर्विज्ञानम्, श्रोत्रविज्ञानम्, घ्राणविज्ञानम्, जिह्वाविज्ञानम्, कायविज्ञानम्, मनोविज्ञानम्, क्लिष्टमनोविज्ञानम्, आलयविज्ञानञ्च।
चक्षुर्विज्ञानम्
चक्षुषः सहाय्येन रूपादिविज्ञानानां प्राप्तिर्भवति तदेव चक्षुर्विज्ञानमस्ति। चक्षुर्विज्ञानस्य आश्रयः चक्षुः मनश्चास्ति, आगमानुयायिमते तु आलयविज्ञानञ्च। चक्षुर्विज्ञानस्य आलम्बनविषयाः त्रयः सन्ति वर्णः, संस्थानम्, विज्ञप्तिक्रिया च। अस्य आलम्बनर्णाः नील—पीत—रक्तादयः सन्ति। संस्थानम् आकृतिर्वा ह्रस्व—दीर्घ—वृत्त—परिमण्डलादयः तथैव विज्ञप्तिक्रिया अवस्थितिगमनात्मिकी अस्ति। एतादयः क्रियाणां लक्षं कृत्य उत्पन्नं भवति चक्षुर्विज्ञानम्। चक्षुर्विज्ञानस्य षट्प्रकाराणि कार्याणि सन्ति। तानि च — स्वविषयालम्बिता, स्वलक्षणा, वर्तमानकालज्ञानम्, एकं क्षणिकत्वम्, इष्टानिष्टफलम्, शुद्धाशुद्धमनसोर्विज्ञानं, कर्मण उत्थानम् चेति। प्रकारेणानेन अन्येषां चतुर्णां विज्ञानानामपि व्यवस्थाः सन्ति।
मनोविज्ञानम्
इदं षष्ठं विज्ञानमस्ति। मनोविज्ञानस्य आश्रयः स्वयं मनोऽस्ति। इदं चतुर्भिः क्लेशैर्युक्तं भवति। ते च क्लेशाः — अविद्याः, अभिमानं, स्वयं कर्तारूपेण स्वीकरणं, विषयाणां तृष्णादि। अस्य विषयाः तु पञ्चेन्द्रियाणां पञ्चविज्ञानानि एव। ते धर्मनाम्नाऽपि प्रसिद्धाः सन्ति। मनसः सहायकाः मनस्कार—वेदना—संज्ञा—प्रज्ञा—श्रद्धा—रागद्वेषादिचैतसिकधर्माः सन्ति। “अस्य विशेष कर्म तु विषयस्य कल्पना विषयाणां चिन्तनम्, उन्मादः, निद्रा, व्यत्थितम्, मूर्छितम्, कायिकं वाचिकञ्च कर्म, च्यूतिः, उत्पत्यादयः सन्ति ”(बलदेव उपाध्यायः, १९६८, पृ.सं. २१३)। युक्त्यानुयायिविज्ञानवादिनो मते विज्ञप्ति इत्यस्य अर्थ एवं रूपं तु मनोविज्ञानमेवास्ति। विज्ञप्ति इत्यस्य सत्ता सिद्धये मनोविज्ञानमेव समर्थमस्ति। तस्मात् क्लिष्टविज्ञानस्य आलयविज्ञानस्य च आवश्यकता नैव वर्तत इति मतं युक्त्यानुयायिनामस्ति।
क्लिष्टमनोविज्ञानम्
आलयविज्ञानमालम्बनं कृत्वा तं आत्मनः रूपे ग्रहणकारिनिवृताव्याकृतविज्ञानमेव क्लिष्टमनोविज्ञानमस्ति। एतत् क्लेशैर्युतं भवति तस्मात् ‘निवृत्तम्’ इत्यनेन अभिधीयते। एतत् राग—मान—दृष्टिः मोहादिचतुर्भिः क्लेशैः मलीनं भवति। आर्याणां समाहितावस्थायां क्लिष्टमनोविज्ञानं विनष्टं भवति। आलयविज्ञानं तु अविनष्टमेव तिष्ठति। अतः समाहितज्ञानस्यावरणभूतत्वेनैतत् निवृत्तमस्ति। क्लिष्टमनोविज्ञानं क्लेशैः संक्लिष्टत्वात् कुशल न भवति तथैव कुशलचित्तैः सह एकस्मिन्नेवकाले एकस्मिन्नेवसन्ताने च प्रवृत्तत्वात अकुशलमपि न। तस्मादेतत् कुशलाकुशलं न अपि तु अव्याकृतमेव। सर्वत्रगचैतसिकाः स्पर्श—मनस्कार—वेदना—संज्ञा—चेतनाश्च अस्मिन् मनोविज्ञानेऽपि भवन्ति एवमेव रागः, अविद्या (मोह), मानः, आत्मदृष्टिश्चेति चत्वारः चैतसिका अपि अस्मिन् विज्ञाने सम्प्रयुक्ताः भवन्ति। सुखदुःखोपेक्षावेदनानां मध्ये उपेक्षा वेदना एव सम्प्रयक्तो भवति क्लिष्टमनोविज्ञाने। अस्य निवत्तिद्र्विप्रकारेण भवति। तात्कालिकी आत्यन्तिकी च। आर्याणां समाहितावस्थायां निरोधसमापत्यवस्थायाञ्च तात्कालिकी निवृत्तिर्भवति। एवञ्च अष्टम्यां भूमौ यावत् बुद्धावस्थासु अस्य समुदाचारो न भवति तत्रैव आत्यन्तिकी निवृत्तिर्भवति। मनः द्विप्रकारकमस्ति अहंबोधकं समनन्तरञ्च। अहंबोधकं वास्तविकं समनन्तरञ्च व्यवहारिकं कथ्यते। अहंबोधकमाध्यात्मिकं गुप्तरूपेण निरन्तरं प्रवाहरतं भवति। एतदेव क्लिष्टमनोविज्ञानमस्ति। तथैव पञ्चेन्द्रियाणा समनन्तरप्रत्ययवत् प्रवर्तमानं विविधकल्पनानां जनको विज्ञानन्तु षष्ठविज्ञानमस्ति।
आगमानुयायिविज्ञानवादे क्लिष्टमनोविज्ञानस्य सत्तासिद्धये षड्प्रकारकाः युक्तय उल्लेखिता सन्ति। ते च “क्लिष्ट मनोविज्ञानस्याभावे — (अ) आणेविक अविद्याया अभावो भवति। (आ) पञ्चेन्द्रियैः सह मनोविज्ञानस्य सदृशताया अभावो भवति। (इ) द्वयोः समापत्योः भेदस्याभावो भवति। (ई) व्युत्पत्तेरभावो भवति। (उ) असंज्ञिसत्त्वानां सन्ताने अहं दृष्टेरभावो भवति। (ऊ) सर्वदा अहंबोधस्याभावो भवति” (त्रिपाठी, १९९३, पृ.सं. १६५)। युक्त्यानुयायिमते क्लिष्टविज्ञानस्य आवश्यकता नास्ति। ते अस्याः सत्तायाः निरासं कुर्वन्ति। एतदालयविज्ञानमात्मत्वेन मन्यते तस्मादालयविज्ञानस्य खण्डनेन एतदपि स्वत एव खण्डितं भवति।
आलयविज्ञानम्
चक्षुरादीन्द्रियाणि रूपशब्दादय अर्थाः वासना चेति पक्षत्रयस्यैव यथायोग्यमालम्बनं कृत्वा अपरिच्छिन्नालम्बनरूपेण, अपरिच्छिन्नाकाररूपेण अनिवृताव्याकृतरूपेण वा उत्पन्नं भवति यद् मनोविज्ञानम् तदेव आगमानुयायीविज्ञानवादिमते आलयविज्ञानमस्ति। इन्द्रियशब्देन पञ्चेन्द्रियाणि, तैः युक्ताः सत्वानामेव ग्रहणमावश्यकं भवति। अर्थशब्देन रूपम्ं, शब्दः, गन्धः, रसः, स्पर्शश्चेति पञ्चविषयाः बोध्यन्ते। वासना शब्देन आत्मा एवं धर्माणां बाह्यार्थ इति रूपे कल्पयित्वा तदारोपितबाह्यार्थेऽभिनिविष्टविकल्पैः प्रक्षिप्तं वासनानां ग्रहणमावश्यकम् (त्रिपाठी, १९९३, पृ.सं. १२५)। आलयविज्ञानस्य आलय इति नामकरणस्य कारणत्रयं विज्ञप्तिमात्रतासिद्धौ अस्ति। यथा — “तत्र सर्वसांक्लेशिकधर्मबीजस्थानत्वाद् आलयः। आलयः स्थानमिति पर्यायौ। अथवा आलीयन्ते उपनिबध्यन्तेऽस्मिन् सर्वधर्माः कायभावेन। यद्वाऽऽलीयते उपनिबध्यते कारणभावेन सर्वधर्मेषु इत्यालयः” (तिवारी, १९६७, पृ.सं.३६)। उक्तं च अभिधर्मसूत्रे —
“सर्वधर्मा हि आलीना विज्ञाने तेषु तत्तथा।
अन्योन्यफलभावेन हेतुभावेन सर्वदा।।” (उपाध्यायः, १९६८, पृ. सं. ३६)। अस्य स्वरूपस्य ज्ञानं समुद्रस्य दृष्टान्तेन भवति। यथा —
“तरङ्गा उदधेर्यद्वत् पवनप्रत्ययेरिताः।
नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते।।
आलयौघस्तथा नित्यं विषयपवनेरितः।
चित्रस्तरङ्ग विज्ञानैर्नत्यमानः प्रवर्तते।।” (वज्राचार्यः, १९९३, पृ. सं. ४६)। विज्ञप्तिमात्रतासिद्धौ च — “तच्च वर्तते स्रोतसौघवत् ”(तिवारी, १९६७, पृ.सं.४३)। यावत् संसारसत्तां तावत् आलयविज्ञानस्यापि अस्तित्वं भवतीति नयो विद्यते। एतत् न विश्राम्यति, एतत् जलप्रवाहवदस्ति तत् स्थातुं न जानाति। आलयविज्ञानं सर्वबीजमस्ति उक्तं च — “तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम्” (तिवारी, १९६७, पृ.सं.३६)। रामशंकर त्रिपाठी महोदय आलयविज्ञानविषये कथयति यत् “यद्यपि आलयविज्ञाने भाजनस्य सत्त्वानाञ्च प्रतिभासस्तु भवति एव परन्तु तेषमालम्बनानां तेषामाकारणाञ्चालयविज्ञानं स्पष्टरूपेण अबबोद्धुं न शक्नोति। एवमेव प्रतिभासस्यालयविज्ञानं किमपि निश्चायकं ज्ञानं स्वबलेन आनेतुमपि समर्थं न भवति। अतएव तत् अपरिच्छिन्नालम्बनं अपरिच्छिन्नाकारञ्च अस्ति ”(त्रिपाठी, १९९३, पृ.सं. १४८)। तत्पुस्तक एव तेन अपरस्थल अपि कथितं
आलयविज्ञानमेतद् स्वरूपतः क्लेशावणैरावृत्तं न भवति। एतदानन्तर्यं समाहितावश्थायामपि विद्यमानं भवति। तस्मादेतत् अनिवृत्तमस्ति। आलयविज्ञानं कुशलमकुशलमुभयमपि न भवति। अवश्थाद्वयमेवैतत् संभवति। द्वयाभ्यामेव स्थापितां वासनां धारयति। द्वयोरनुकूलमपि भवति। एतत् कुशलमकुशलानां विपाकमस्ति। कुशलाकुशलयोः वासनाभ्यां व्याकर्तुं अशक्यतया एतदव्याकृतमपि अस्ति। चक्षुरादीन्द्रियैरुत्पन्नं ज्ञानं न, तस्मात् एतत् मनोऽस्ति। चित्तचैतसिकान्तर्गतं एक चित्तमस्ति तस्मादेतत् विज्ञानमस्ति। (त्रिपाठी, १९९३, पृ.सं. १२५)
अस्मिन् विज्ञाने पञ्च चैतसिका एव सम्प्रयुक्ता भवन्ति। स्पर्शः, मनस्कारः, वेदना, संज्ञा चेतना चेति। सुखदुःखोपेक्षावेदनासु उपेक्षा वेदना एव अत्र सम्प्रयुक्तो भवतः। “आलयविज्ञानस्यालम्बनभूतायां वासनायां आलयविज्ञानमेवाभासितं भवति। सा वासना आलयविज्ञानात् द्रव्यतः भिन्ना न भवति न चाभिन्ना। वस्तुतः सा वासना आलयविज्ञानात् भिन्ना— भिन्नत्वेनानिर्वचनीयमस्ति” (त्रिपाठी, १९९३, पृ.सं. १२६)। एतत् पूर्वजन्मनः कुशलाकुशलकर्मभिः सुगतौ दुर्गतौ च प्रक्षिप्तं सत् पदगलस्य जन्मनः मृत्युपर्यन्तं क्षणमपि विश्राममकृत्वा प्रक्षेपककर्मणां वशेन सन्ततिरूपे निरन्तरं प्रवाहितं भवति। अष्टविज्ञानमध्येषु आलयविज्ञानं वासनानामाधारोऽस्ति। तस्मादेतत् “वास्य” इति नाम्नाऽपि ज्ञायते। आलयविज्ञानस्य सिद्धये अष्टानां युक्तीनामुल्लेखो वसुबन्धुना अभिधर्मसमुच्चयटीकायाम् कृतः। ते च यथा —“आलयविज्ञानस्यसत्तायां अविद्यमानायां सत्याम् (अ) उपादानस्यायोगो भवति –आ) आदित्वस्यायोगो भवति (इ) स्पष्टत्वस्यायोगो भवति (ई) बीजस्यासम्भवता भवति (उ) कर्मण असम्भवता भवति (ऊ) कायवेदनाया असम्भावता भवति (ए) समापत्तेः अनुपपत्तिः (ऐ) च्यूतेश्चानुपपत्तिर्भवति” (त्रिपाठी, १९९३, पृ.सं. १२६)। मनोविज्ञानं सम्पूर्णे शरिरे व्याप्तं न भवति तथैव एतत् सर्वदापि न भवति। शरिरस्योष्णताया अभावो कदापि न भवति। सम्पूर्णे शरीरे व्याप्तं विज्ञानमेव आलयविज्ञानमस्ति।
आलयविज्ञानविषये युक्त्यानुयायिनां मतं
युक्त्यानुयायिनां मते आलयविज्ञाने तीर्थिकशास्त्रेषु वर्णिते आत्मनि च भिन्नता नास्ति। द्वौ एकरूपौ दृश्येते। तेषां मते पञ्चस्कन्धेभ्योः भिन्नं संसारस्य मोक्षस्य चाधाररूपमालयविज्ञानमात्मा च भिन्नो नास्ति। विज्ञानं भवितुं तस्य कोऽपि स्पष्टाकारोऽऽलम्बनं च भवितुमत्यावश्यकं भवति परन्तु आलयविज्ञानस्य न कोऽपि आकारोऽस्ति नैव आलम्बनश्च। तथैव एतत् कमपि विषयं निश्चेतुं अक्षमं चास्ति। अत एतत् विज्ञानरूपेण स्वीकर्तुं न शक्यते। अनादिकालात् विद्यमानेऽस्मिन् आलयविज्ञाने किमपि स्वरूपं परिवर्तनञ्च न भवति तस्मादेतत् नित्यमस्ति परन्तु ज्ञानं नित्यं न भवति। ज्ञानं यदि नित्यं चेत् तस्य बहवो दोषा आपतन्ति। युक्त्यानुयायिभिः विज्ञानवादिभि आचार्यै आलयविज्ञानस्य इत्थं खण्डनं कृतं लभ्यते।
विज्ञानवादस्य भेदोपभेदाः
दर्शनं सर्वस्वीकार्यं भवितुं न शक्नोति। प्रत्येकः विद्वान् कस्यापि दर्शनस्य भिन्नभिन्नरूपेण व्याख्यां करोति। विकासक्रमे विज्ञानवादोऽपि तत्त्वविचारात् भेदोपभेदेषु विभाजितो जातः। विज्ञानवादस्य आचार्यान् प्रमुखरूपेण द्विप्रकारेण विभक्तुं शक्यते आगमानुयायिनः, युक्त्यानुयायिनश्च। विज्ञानवादस्य प्रस्थापकाचायो मैत्रेयनाथोऽस्ति तथा संस्थापकन्तु आचार्य असङ्गः। “विज्ञानवादस्य आगमग्रन्थास्तु आर्यदशभूमिकसूत्रम्, लङ्कावतारसूत्रम्, गण्डव्यूहसूत्रम्, ज्ञानालोकालङ्कारसूत्रम् इत्यादयः वर्तन्ते। परन्तु मूलागमस्तु “आर्यसन्धिनिर्माेचनसूत्रम्” इति नामको ग्रन्थ एवास्ति। महायानपरम्परायां अस्य सूत्रस्य देशना भगवता बुद्धेन तृतीयधर्मचक्रप्रवर्तनकाले वैशाल्यां दत्ता। इत्यादयः मान्यताः प्रचलिताः सन्ति” (दोर्जे, १९८३, पृ. सं. खष्ष्)। आर्यसन्धिनिर्मोचनसूत्रग्रन्थस्य सप्तमः परिवर्तः विज्ञानवादस्याधारभूत आगमोऽस्ति। विज्ञानवादोऽपि भेदोपभेदेषु विभाजितोऽस्ति। आगमानां मूलाधाररूपेण मताधारिण आचार्या आगमानुयायिनः वर्तन्ते। प्रमाणाना तर्काणां वा मूलाधाररूपेणमन्यमाना आचार्याः युक्त्यानयायिवर्गे वर्तन्ते।
आगमानुयायिनः
आगमानुयायिन आचार्या आचार्यमैत्रेयनाथस्य एवं आचार्यरसङ्गस्य जातकभूमिशास्त्रम्, प्रत्येकबुद्धभूमिशास्त्रादिग्रन्थान् आधारीकृत्य पदार्थानां व्याख्यां कुर्वन्ति। तथैव आलयविज्ञानस्य क्लिष्टमनोविज्ञानस्य च सत्तां स्वीकुर्वन्ति। बाह्यसत्तानां मिथ्या सिद्धये एवं विज्ञानस्य चित्तस्य वा परमार्थसत्तासिद्धये आलयादिअष्टविज्ञानानामस्तित्वं स्वीकुर्वन्ति आगमानुयायिनः विज्ञानवादिआचार्याः। ते आगमा एव प्रमाणरूपेण मन्यन्ते। अस्यानुयायिन आचार्याः मैत्रेयनाथः, असङ्गः, वसुबन्धुः, स्थिरमतिः, आर्यः विमुक्तिसेनः, भदन्तः विमुक्तिसेनः, हरिभद्रादयः सन्ति।
युक्त्यानुयायिनः
केचिद् विद्वांसः कमपि ग्रन्थमागमरूपेण अगृहीत्वा मानवज्ञानं, युक्तिं, तर्कमेव परमसत्यरूपेण मत्वा प्रमाणशास्त्राधारेण पदार्थानां मीमांसां कृत्वा बाह्यार्थानां असत्रूपं साधयन्ति। तथैव एकविज्ञानतत्त्वमेव सत्रूपेण स्थापयन्ति त एव युक्त्यान्यायिविज्ञानवादिन आचार्याः। युक्त्यानुयायिनो विद्वांस आलयविज्ञानस्येवं क्लिष्टमनोविज्ञानस्यास्तित्वं अस्वीकृत्य षष्ठविज्ञानानामेवास्तित्वं स्वीकुर्वन्ति। अस्या परम्पराया अनुयायिन आचार्याः दिङ्नागः, शंकरस्वामी, धर्मपालः, धर्मकीर्तिः, ईश्वरसेनः, धर्माेत्तरः, शंकरानन्दः, प्रज्ञाकरगुप्तः, जिनः, रविगुप्तः, ज्ञानश्रीमिश्र आदयो बहवः सन्ति। अपरप्रकारेणापि आकाराधारेण विज्ञानवादिनामाचार्याणां विभाजनं कर्तुं शक्यते। ते च मुख्यौ द्वौ स्तः सत्याकारवादिनः, मिथ्याकारवादिनश्च।
सत्याकारवादिनः साकारवादिनो वा
एते विज्ञानवादिन आचार्याः विज्ञानसत्तां सत्यं मन्यन्ते। “ज्ञानगतं नीलाकारपीताकारदिज्ञानस्वरूपं स्वीकृत्य तेषां सत्यतः सत्ता स्वीकुर्वन्ति अथवा तेषां सत्तां अकल्पितां मन्यन्ते सत्याकारवादिनः साकारवादिनो वा आचार्याः” (त्रिपाठी, १९९३, पृ.सं. ११७)। बाह्यत्वेन प्रतिभासिताः विषयाः यद्यपि खपुष्पवत् मिथ्या सन्ति तथापि वासनाजन्यविज्ञानगतरूपदीनामाकारः सत्यतः वस्तुसदस्ति तेषां अर्थक्रियाकारित्वमुपलभ्यते। तथैव अनास्रवज्ञाने भ्रान्तसंस्काराः खपुष्परूपेऽपि विद्यमानाः न भवन्ति। परन्तु तज्ज्ञानेऽपि रूपादीनां प्रतीतिर्भवति एवेति धारणामङ्गीकुर्वन्तो विज्ञानवादिन आचार्या आकाराणां सम्पूर्णरूपे मिथ्यात्वं अस्वीकृत्य तेषां वस्तुसत् सत्तां स्वीकुर्वन्ति त एव साकारवादिनः सत्याकारवादिनो वा। प्रो. रामशंकरत्रिपाठीमहोदयेन अस्यापि भेदत्रयं प्रतिपादितम्। ते च यथा — ग्राह्यग्राहकसमसंख्यावादिनः, अर्धाण्डाकारवादिनः, नानाऽद्वयवादिनश्च (त्रिपाठी, १९९३, पृ.सं. ११८)।
ग्राह्यग्राहकसमसंख्यावादिनः
यथा कश्मिश्चिदपि चित्रपटे विद्यमानाः सम्पूर्णाः वर्णाः द्रव्यतः पृथक् पृथक् एव सन्ति तथैव तेषां ग्राहकं ज्ञानमपि नीलाकारपीताकारादिभेदेन द्रव्यतः पृथक् पृथक् पञ्चप्रकारकाः भवन्तीत्थं विचारो वर्तते ग्राह्यग्राहकसमसंख्यावादिनां साकारविज्ञानवादिनां वा।
अर्धाण्डाकारवादिनः
नीलपीतादिनानाः वर्णाः भूते चित्रपटे विद्यमानाः सर्वाः वर्णाः पृथक् पृथक् भवन्ति परन्तु तस्य चित्रपटस्य ग्राहकचक्षुर्विज्ञानं पृथक् न भवति अपि तु एक एव भवति इत्थं विचारो वर्तते अर्धाण्डाकारवादिनः साकारविज्ञानवादीनाम्।
नानाऽद्वयवादिनः
यथा चित्रपटे भिन्नभिन्नाः वर्णाः सन्ति अपि तु तस्य चित्रपटस्य ज्ञातुः चक्षुर्विज्ञानस्य वर्णानुसारेण द्रव्यतः पृथक् भावो न भवति। स एक एव भवति तथैव चित्रपटे विद्यमानाः भिन्नाः वर्णा अपि द्रव्यतः पथक् न भवन्ति अपि तु तादात्म्यरूपेण त एकी भवन्ति। नानाऽद्वयवादिसाकारविज्ञानवादिनो पूर्वाेक्तो विचारो वर्तते।
मिथ्याकारवादिनः निराकारवादिनो वा
“ज्ञाने उत्पन्नानि नीलाकारपीताकारादिज्ञानानि ज्ञानस्वरूपाणि न सन्ति, अतः तेषां वस्तुतः सत्ता न विद्यते, अपि तु ते वासनाजन्या नितान्तं कल्पिता एव सन्ति। इयं मान्यता वर्तते मिथ्याकारवादीनाम्” (त्रिपाठी, १९९३, पृ.सं.११८)। ज्ञानगतरूपादीनां आकारस्तु मिथ्यास्ति यथा तैमिरिकाणां केशचन्द्रादि ज्ञानम् भवति। तत् रूपादि आकारोऽपि नामशब्दादिसंज्ञया संस्कारभूतवासनाभिरुत्पद्यते तस्मात् तेषां सत्ता प्रतिभासिता एव वास्तविकी न। पूर्वाेक्तो विचारो वर्तते मिथ्याकारवादीनाम्। अस्यापि द्वौ उपभेदौ स्तः।
(क) समलविज्ञानवादिनः
बुद्धोऽवस्थायामपि द्वैतप्रतिभासं स्वीकुर्वन्ति समलविज्ञानवादिनः। तेषां मतानुसारं यथा पृथग्जनस्य अवस्थायां अविद्यायाः कारणात् ग्राह्यग्राहकयोश्च पृथकसत्तायाः द्वैतप्रतिभासो भवति तथैव अविद्याहीन बुद्धावस्थायामपि ग्राह्यग्राहकयोः द्वैतप्रतिभासो भवति एव। मलेन अविद्यया वा युत अवस्था एव समलावस्था। पृष्ठलब्धसमाहितयोद्र्वयोरवस्थयोः मध्ये समाहितामवस्थायां तु स द्वैतप्रतिभासो न भवतीति कथयन्ति समलविज्ञानवादिनः। अस्या मान्यताया अनुसरणवादी आचार्यः धर्मकीर्तिरस्ति।
(ख) विमलविज्ञानवादिनः
बुद्धोऽवस्थायां द्वैतप्रतिभासः कदापि न भवति। बुद्धस्य चित्तसन्ततिषु मलस्य स्वल्पांशोऽपि न भवति। बुद्धावस्था विकल्पवासनारहिताऽवश्थाऽस्ति तस्मात् पृथग्जनवत् ग्राह्यग्राहकाकाररूपीद्वैतप्रतिभासो द्वयोर्बुद्धावस्थयोर्न विद्यते, बुद्धावस्था मलरहिताऽवश्थाऽस्ति। इत्थं पूर्वाेक्तं मतं वर्तते विमलविज्ञानवादीनाम्। आगमानुयायिनौ युक्त्यानुयायिनश्च द्विविधा आचार्याः सन्ति। एते आचार्याः सत्याकारवादिनो मिथ्याकारवादिनो वा भवितुं प्रभवन्ति। मयात्र संक्षिप्तरूपेण एव विज्ञानवादस्य भेदानां व्याख्या विहिताऽस्ति। विज्ञानवादः स्वयमेव बृहत्तरं गहनं च दर्शनमस्ति।
विज्ञानवादस्य विकासे गुरुशिष्यपरम्परा
संस्कृतसाहित्यस्य विशिष्टा परम्परा अस्ति सा च गुरुशिष्यपरम्परा। विज्ञानवादस्य विकासेऽपि अस्या महत्त्वपूर्णभूमिका विद्यते।
मैत्रेयनाथः
अयमेव विज्ञानवादस्य प्रवक्ता प्रतिष्ठापकश्च। लङ्कावतारादिग्रन्थानामाधारीकृत्य अनेन विज्ञानवादस्य स्थापना कृता। अस्य समयात् पूर्वं विज्ञानवादो भिन्नदर्शनरूपेण विद्यमानो नासीत। अनेन विज्ञानवादस्य विकासाय बहवो ग्रन्थाः रचिताः परन्तु केचिद् ग्रन्था एव अस्मिन् समये प्राप्यन्ते। ते च महायानसूत्रालङ्कारः, धर्मधर्मताविभङ्गः, महायानउत्तरतन्त्रम्, मध्यान्तविभङ्गः, अभिसमयालङ्कारश्च।
तेषां मध्येऽपि महायानसूत्रालङ्कार एवमभिसमयालङ्कारकारिका एतौ द्वौ ग्रन्थौ योगाचाररहस्यज्ञानाय अतीव महत्वपूर्णौ स्तः।
अयं मैत्रेयनाथ आचार्योऽसङ्गस्य गुरुदेव आसीत्। तस्मात् ईशवीयस्य तृतीय शताब्द्यां विद्यमानोऽऽसीत् अयमिति कथयितुं शक्यते। अनेन स्वदर्शनस्य विकासाय स्वस्य शिष्याय आचार्योऽसङ्गाय शिक्षा दत्ता।
आचार्योऽसङ्गः
ईशवीयस्य तृतीयशताब्द्या उत्तरार्धे तथा चतुर्थशताब्द्याः पूर्वार्धे वर्तमानोऽयं आचार्यो विज्ञानवादस्य संस्थापक आसीत्। अनेन न केवलं स्वगुरोः कार्याणां रक्षणं कतम् अपि तु तस्य विकासाय विस्ताराय च यावत्जीवनपर्यन्तं परिश्रमः कृतः। अस्य समयपूर्वं मैत्रेयनाथविषये केऽपि न जानन्ति स्म। अनेन एव मैत्रेयनाथस्य ग्रन्थानां परिचयः तस्मिन् समाजे दत्तः। अनेन स्वस्य गुरुदेवस्य ग्रन्थानां वृत्तिः एवं भाष्यं रचितम्। तथैव तान् एव ग्रन्थानाधारीकृत्य अन्ये बहवो ग्रन्थाश्च रचिताः। अस्य प्रमुखाः ग्रन्थाः महायानसूत्रालङ्कारटीका, योगाचारभूमिशास्त्रम्, महायानसम्परिग्रहः, प्रकरणआर्यवाचा इत्यादयः सन्ति। तेषाम् मध्येऽपि योगाचारभूमिशास्त्रम् विज्ञानवादस्य महत्त्वपूर्णो विशालकायो च ग्रन्थोऽस्ति।
अनेनापि विज्ञानवादस्य विकासाय अभिवर्धनाय च स्वस्य अन्तिमसमये स्वभ्रात्रे एवं विद्वदाचार्याय वसुबन्धवे महायाने दीक्षां दत्वा विज्ञानवादस्य शिक्षाऽपि दत्ता।
आचार्यो वसुबन्धुः
ईशवीयतृतीयचतुर्थशताब्द्यां विद्यमानोऽयं न केवलं विज्ञानवादस्य अपि तु बौद्धदर्शनस्येव उद्भटो विद्वान् आसीत्। अनेन स्वस्य सम्पूर्णं जीवनं लेखनकार्य एव समर्पितम्। अनेन विज्ञानवादस्य दार्शनिकपक्षस्य परिपुष्टये बहूनि ग्रन्थरत्नानि विनिर्मितानि। विज्ञानवादस्य प्रसिद्धो ग्रन्थो विज्ञप्तिमात्रतासिद्धि, अस्य एव रचना अस्ति। अस्य प्रमुखाः ग्रन्थास्तु सद्धर्मपुण्डरीकटीका, महापरिनिर्वाणसूत्रटीका, वज्रच्छेदिकाप्रज्ञापारमिताटीका, विज्ञप्तिमात्रतासिद्धिः, प्रतीत्यसमुत्पादटीका, महायानसंग्रहभाष्यम्, महायानसूत्रालङ्कारभाष्यम् इत्यादयः सन्ति।
अनेन पूर्वाचार्याणां बहूनां ग्रन्थानां टीकां भाष्यं च निर्माय एवं आगमरूपाणां पुण्डरीकादिग्रन्थानाञ्च टीकां निर्माय विज्ञानवादस्य अतुलनीयसेवा विहिता। गुरुशिष्यपरम्पराया अपरिच्छिन्नरूपेण स्थापनाय अनेन दिङ्नागादिप्रकाण्डशिष्याणामुत्पादनमपि कृतम्।
आचार्यः स्थिरमतिः
आचार्यो वसुबन्धोः शिष्येषु उत्कृष्टोऽयं। वसुबन्धोः गूढाभिप्रायाणां ज्ञानाय अनेन स्वगुरुदेवस्य ग्रन्थानां व्याख्या रचिता। अयमीशवीयस्य चतुर्थशताब्द्यां उत्तरार्धे पञ्चमशताब्द्याः पूर्वार्धे विद्यमान आसीत्। विज्ञानवादस्य विकासाय अस्य महत्वपूर्णं योगदानमस्ति।
अस्य प्रमुखाः ग्रन्थास्तु मध्यान्तविभङ्गसूत्रभाष्यटीका, त्रिंशिकाभाष्यम्, सूत्रालङ्कारवृत्तिभाष्यम्, पञ्चस्कन्धप्रकरणादयः सन्ति। तेषु मध्ये प्रमुखः ग्रन्थस्तु मध्यान्तविभङ्गसूत्रभाष्यटीकास्ति। अस्य ग्रन्थस्य सम्यग्प्रकारेण परिशीलनेन विज्ञानवादस्य गूढरहस्याणां सहजरूपेण ज्ञानं भवति।
आचार्यो दिङ्नागः
अयमपि आचार्यः स्थिरमते समकालीनस्तथा वसुबन्धो अपर उत्कृष्टः शिष्य अस्ति। विज्ञानवादस्य स्थापनाय प्रमाणानां प्रयोगस्य श्रेयः गच्छति दिङ्नागे। अस्य समयात् विज्ञानवादं विकासस्य दृष्टे द्वयोः चरणयोः विभक्तुं शक्यते। प्रथमचरणे मैत्रेयनाथः, असङ्गः, वसुबन्धुः, स्थिरमत्यादय आगमानुयायिनस्तथा द्वितीयचरणे दिङ्नागः, धर्मपालः, धर्मकीत्र्यादयः युक्त्यानुयायिनः सन्ति।
अयमेव बौद्धन्यायस्य जन्मदाता। प्रमाणानां सहयोगेन अनेन बाह्यसत्तानां मिथ्यात्वमेवं विज्ञानस्य परमार्थसत्यत्वसिद्धिः विहिता। अस्य प्रमुखाः ग्रन्थास्तु प्रमाणसमुच्चयः, प्रमाणसमुच्चयवृत्तिः, न्यायप्रवेशः, आलम्बनपरीक्षा इत्यादयः सन्ति। प्रमाणसमुच्चयेवास्य महत्वपूर्णः ग्रन्थोऽस्ति।
शंकरस्वामी
अयं दिङ्नागस्य शिष्य आसीत्। अस्य समयः पञ्चमशताब्दी अस्ति। अनेन विज्ञानवादस्य विकासाय बौद्धन्याये न्यायप्रवेशतर्कशास्त्रनामाख्या कृतिः रचिता परन्तु अद्यापि इयं संस्कृते उपलब्धा नास्ति। अनेन गुरूशिष्यपरम्परामक्षुण्णरूपेण स्थापयित्वा विज्ञानवादस्य विकासे महत्त्वपूर्णं योगदानं दत्तम्।
ईश्वरसेनः
अयमपि दिङ्नागस्य शिष्य आसीत्। बौद्धदर्शनस्य सम्बर्धनाय अनेनापिग्रन्थानां रचना विहितासीत्। परन्त वर्तमानसमये त उपलब्धाः न सन्ति। धर्मकीर्तिना स्वग्रन्थ अस्य विचारस्य खण्डनं कृतमासीत्।
धर्मपालः
पञ्चमशताब्द्यां विद्यमानोऽयं वसुबन्धोः शिष्य एवं धर्मकीर्तेः गुरु आसीत्। गहनाध्ययनादयं नालन्दामहाविहारस्य कुलपतिपदे विराजमान आसीत्। अनेनापि विज्ञानवादस्य विकासाय केचित् ग्रन्थाः लिखिता। ते च विज्ञप्तिमात्रतासिद्धिव्याख्या, आलम्बनप्रत्ययाध्यानशास्त्रव्याख्या इत्यादयः सन्ति। अस्य शिष्यः धर्मकीर्तिः प्रकाण्डो विद्वानासीत्।
धर्मकीर्तिः
धर्मकीर्तिः न्यायदर्शनस्य उद्भटोऽऽचार्यो विद्यते। “धर्मकीर्तिः न केवलं बौद्धदर्शनस्य प्रकाण्डः विद्वान् अस्ति अपि तु पूर्वीयदर्शनस्यैव उत्कृष्टः नक्षत्रम् ”(उपाध्यायः, १९७८,पृ.सं. २०६)। अयं ईशवीयपञ्चमशताब्द्या उत्तरार्धे वर्तमान आसीत्। अनेन अन्येषां दर्शनानां युक्तिपूर्वकं खण्डनं कृत्वा अत्यन्तं प्रबलरूपेण विद्वत्समाजे बौद्धन्यायस्य स्थापना कृता। विज्ञानवादस्य मुख्यतः बौद्धन्यायस्य विकासे अस्य अतुलनीययोगदानमस्ति। अस्य प्रमुखाः ग्रन्थाः प्रमाणवार्तिकम्, प्रमाणविनिश्चयः, न्यायविन्दुः, सम्बन्धपरीक्षा, हेतुविन्दु आदयः सन्ति।
तेषामपि न्यायविन्दुः तथा प्रमाणवार्तिकम् मुख्यौ स्तः। अस्य शिष्यपरम्परा अत्यन्तं दीर्घा अस्ति। तैः शिष्यै बौद्धदर्शनस्य विकासाय, विस्ताराय च महत्वपूर्णं कार्यं कृतम्। ते अपि विभिन्नेषु वर्गेषु विभाजिताः सन्ति। देबेन्द्रबुद्धिः शब्दप्रधानवर्गे, धर्मोत्तरः तत्त्वप्रधानव्याख्यावर्गे, धर्मप्रधानव्याख्यावर्गस्य मुख्यानुयायिन प्रज्ञाकरगुप्तेन प्रमाणवार्तिकालङ्कारभाष्यस्य रचना कृता आसीत्। रविगुप्तः प्रज्ञाकरस्य साक्षात् शिष्य आसीत्। ज्ञानश्रीमिश्रोऽपि अपरः व्याख्याकारः। ज्ञानश्रीमिश्रस्य शिष्यः यमारि इत्यनेनापि टीका लिखिता आसीत्। अस्यां परम्परायां कर्मगोमी, मनोरथनन्द्यादीनां बहूनां शिष्याणां उपस्थिति द्रष्टुं शक्यते। तिब्बतदेशे तु अद्यापि धर्मकीत्र्तेः शिष्यापरम्परा जीविता अस्ति। अनेन प्रकारेण धर्मकीर्तेः विज्ञानवादस्य विकासस्य सत्प्रयास अद्यापि जीवितोऽस्ति।
ह्वेन साङ्
अयं बौद्धदर्शनस्य मुमुक्षकः चिनी यात्री अस्ति। नेपालभारतयो इतिहास अध्ययनाय अस्य दिनचर्यालेखनी ९मष्बचथ० अतीव महत्वपूर्णा प्रामाणिकी सामग्री अस्ति। येन ईशवीय ६३० तमे वर्षात् ६४४ तमे वर्षं यावत् नेपालस्य तथा भारतस्य भ्रमणं कृतम्। अयं विज्ञानवादस्य आचार्यः धर्मपालस्यैवं तस्य शिष्यः शिलभद्रस्य शिष्य आसीत्। अनेन नालन्दामहाविहारे अध्ययनं कृतम्। अनेन बहवो ग्रन्थाः चिनीभाषायां अनूदिता आसन्। अस्य प्रमुखो ग्रन्थस्तु विज्ञप्तिमात्रतासिद्धिशास्त्रम् अस्ति। अस्मिन् ग्रन्थे अनेन विभिन्नानां विज्ञानवादिनामाचार्याणां धर्मपालः, नन्दः, स्थिरमतिः, बन्धुश्री, चन्द्रपालः, सङ्घभद्रादीनां मतमतान्तराणां सम्यक् प्रकारेण समालोचना विहितासीत्। अयं ग्रन्थं विज्ञानवादस्य तत्त्वाध्ययने अतीव महत्त्वपूर्णोऽस्ति।
अनेन प्रकारेण विज्ञानवादस्य महत्वं प्रसिद्धिश्च गुरूशिष्यपरम्परायाः सुकरेण ज्ञायते।
निष्कर्षः
अनेन प्रकारेण ज्ञायते यत् विज्ञानस्यैव परमार्थरूपेण सत्ता स्वीकरोति विज्ञानवादः। अस्मिन् समये विद्यमानचामात्कारिकस्य विकासस्य मूलकारणं मानवस्य बुद्धिरेवास्ति। मानवकल्पनानां साकारकरणे चित्तस्यैव सामथ्र्यं दृश्यते। शान्तं अशान्तम्, विप्लवात्मकं, सृजनात्मकं च सर्वप्रकाराणां विचाराणां मूलं चित्तविज्ञानमेवास्ति। विज्ञानवादीनां प्रयासेन तत्त्वचिन्तनैः मानवस्य मूलसमस्यानां समाधानं सरलरूपेणैव प्राप्यते। तस्मात् विज्ञानवादः सैद्धान्तिकदर्शनमेव न, अपि तु अस्य व्यवहारिकपक्षस्य सम्यगनुसरणेन मानवानां हितं भवतीति निश्चितमेवास्ति।
चित्तं वशीकर्तुं यः समर्थोऽस्ति स एव सफलो भवति। यस्य चित्तं निर्मलमस्ति स सर्वं सुन्दरं पश्यति तथैव यस्य चित्तं मलावृतमस्ति स सर्वं भ्रष्टं पश्यति तस्मादेव ज्ञायते चित्तस्य महत्त्वन्तु। विज्ञानवादिभि आचार्यैः चित्तस्य सर्वपक्षस्य साङ्गोपाङ्गमध्ययनं कृतं दृश्यते। विज्ञानवादिन आचार्याः बौद्धदर्शनस्य दोषनामुपचारं कर्तुं समर्थाः दृश्यन्ते। माध्यमिकनयस्य दोषोपचारं कृत्वा बौद्धदर्शनस्य क्लिष्टसमस्यानां समाधानं विधाय बौद्धदर्शनस्य उत्तरोत्तरविकासाय बहून् ग्रन्थान् रचयित्वा विज्ञानवादिभि आचार्यैः पूर्वीयदर्शनस्यैवं बौद्धदर्शनस्य विकासे च महत् योगदानं विहितम्।
विभिन्नेषु दर्शनेषु विज्ञानवादस्य प्रभावः स्पष्टरूपेण द्रष्टुं शक्यते। आचार्यशंकरानुसारेण यदि सत्यज्ञानस्य उदयो भवति तदैवास्माभिः ब्रह्मज्ञानं प्राप्तुं शक्यते। अनया रीत्या आचार्यशंकरेणापि ज्ञानस्यैव महत्त्वं प्रतिपाद्य बाह्यार्थानामसत्यत्वं मिथ्यात्वञ्च स्वीकृतं दृश्यते। वेदान्तस्य बाह्यार्थानां मिथ्यात्वं वेदान्तस्य ब्रह्मज्ञानन्तु विज्ञानवादस्य आलयविज्ञानवदस्तीति कथयितुं शक्यते। पाश्चात्यदार्शनिको बर्कलेमहोदयोऽपि विज्ञानवादात् प्रभावितो दृश्यते। तेनापि बाह्यार्थानां सत्ता नास्तीति कथयित्वा तेषां सत्ता ज्ञानाधारेणैव विद्यते इति स्वीकृता दृश्यते। आधुनिकमनोविज्ञानस्य जनकेन फ्रायडमहोदयेन त्रिणी (चेतन, अतिचेतन अवचेतनश्च) एव चित्तानि वर्णितानि सन्ति। विशेषरूपेण विज्ञानवादे शतसंख्यकाः चित्तचैतसिकाः व्याख्येय विषयाः सन्ति। आधुनिकमनोविज्ञानस्य अवचेतनं मनः ९क्गदअयलकअष्यगक :ष्लम० विज्ञानवादस्य आलयविज्ञानमेव। अतः फ्रायडमहोदयोऽपि विज्ञानवादात् प्रभावितो दृश्यते। विशेषरूपेण विज्ञानवादे वर्णिताः शतसंख्यकाः चित्तचैतसिकाः अन्यन्तं ध्यानपूर्वकमध्ययनं विधीयते तदा मनोविज्ञानस्य विकासाय महत्त्वपूर्णं योगदानमवश्यमेव भवति।
विज्ञानवादस्य शिष्यपरम्परा अद्यापि विद्यमानास्ति। परन्तु केषाञ्चित् बौद्धदर्शनस्य प्रस्थानानां परम्परा तु प्रायो लुप्ता एव। एतद् वैज्ञानिकदर्शनमस्ति। समग्रप्राच्यदर्शनेषु पाश्चात्यदर्शनेषु विज्ञानवादस्य प्रभावो दृश्यते अतो विज्ञानवादस्य स्थानं प्राच्यदर्शने उत्कृष्टदर्शनरूपेण निर्धारयितुं शक्यते। इति।
सन्दर्भसूची
आचार्यः, धर्मकीर्तिः. (१९६८). प्रमाणवार्तिकम्. द्वारिकादासः शास्त्री (सं.), बौद्धभारती ।
आचार्यः, नरेन्द्रदेवः. (१९७१). बौद्ध धर्मदर्शन. विहार राष्ट्रभाषा परिषद्।
आचार्यः, माधवः. (१९८४). सर्वदर्शनसंग्रहः. (उमाशंकरशर्मा, सम्पा.) चौखम्बा विद्याभवन।
आचार्यः, मैत्रेयनाथः. (१९८५). महायानसूत्रालंकारः. द्वारिकादासः शास्त्री (सं.), बौद्धभारती,।
आचार्यः, वरदराजः. (२०५७). लघुसिद्धान्तकौमुदी. (दुर्गादत्तशर्मा उपाध्यायः, टीका.), महेन्द्र संस्कृत विश्वविद्यालयः,।
आचार्यः. वसुबन्धुः. (१९९८). अभिधर्मकोशम्. द्वारिकादासः शास्त्री (सं.), बौद्धभारती।
आचार्यः, वसुबन्धुः. (१९६३). विज्ञप्तिमात्रसिद्धिः. महेशः तिवारी (सं)., चौखम्बा विद्याभवन,।
उपाध्यायः, बलदेवः. (१९६८). बौद्धर्शन मीमांसा. चौखम्बा विद्याभवन।
उपाध्यायः, भरतसिंहः. (१९९६). बौद्धदर्शन तथा अन्य भारतीय दर्शन. प्रथम भाग, मोतीलाल बनारसीदास।
गोभिलः, नन्दकिशोरः. (१९७३). भारतीय दर्शन (अनु.), न्युमदन हाफटोन कम्पनि।
त्रिपाठी, रामशंकरः. (१९९३). बौद्धदर्शन प्रस्थान. केन्द्रीय उच्च तिब्बती शिक्षा संस्थान।
दोर्जे, सेम्पा. (१९८३). बौद्ध विज्ञानवादः चिन्तन एवं योगदान. समदोङ् रिन्पोछे (प्र. सं.), केन्द्रिय उच्च तिब्बति शिक्षा संस्थान।
वज्राचार्यः, दिव्यवज्रः. (सं.) (१९९३). सद्धर्मलङ्कावतारसूत्रम्. लोटस रिसर्च सेन्टर ।
[1]. उपप्राध्यापकः बौद्धदर्शनस्य, वाल्मीकि विद्यापीठस्थः, इमेल: nirajdahaldrn@gmail.com