वासस्थानं वास्तु भवति । जनाः स्वकीयं निवासस्थानं बाह्याभ्यन्तरप्रकारद्वयेन यथासम्भवं सुमनोहरं कुर्वन्ति कारयन्ति च । बाह्यसंरचनायां गृहस्य परिधिः समुच्चयो विस्तार इत्यादयो विषयाः समागच्छन्ति चेदाभ्यन्तरसंरचनायां गृहस्य कार्यानुसारेण शयनभोजनादयो विभागाः द्वारस्थापनादयो विषयाश्च समागच्छन्ति ।
माधवा शर्मा
सिद्धान्तज्योतिषाचार्या
madhavasharmagi@gmail.com
शोधसारः
वासस्थानं वास्तु भवति । जनाः स्वकीयं निवासस्थानं बाह्याभ्यन्तरप्रकारद्वयेन यथासम्भवं सुमनोहरं कुर्वन्ति कारयन्ति च । बाह्यसंरचनायां गृहस्य परिधिः समुच्चयो विस्तार इत्यादयो विषयाः समागच्छन्ति चेदाभ्यन्तरसंरचनायां गृहस्य कार्यानुसारेण शयनभोजनादयो विभागाः द्वारस्थापनादयो विषयाश्च समागच्छन्ति । समुचितरूपेण व्यवस्थितं गृहं भवनमेव गृहस्वामिनः कृते सुखशान्तिसमृद्ध्यादीन् प्रददाति । परं प्रतिकूलावस्थायां प्रतिकूलसमये च विधिवैपरीत्येन वा विनिर्मितं गृहं विपरीतफलं प्रददाति । प्राचीनकालत एव गृहादिनिर्माणार्थं शास्त्रचिन्तनं बहुधा प्राप्यते । केन विधिना, कया रीत्या वा निर्मितं गृहं सुस्थिरं सुरक्षितं सुखशान्तिप्रदञ्च भवतीति सम्यक् विचारितमस्ति । गृहस्य स्थैर्यार्थं रक्षार्थं तत्र कृतनिवासानां सुखसमृद्ध्रयर्थं वास्तुशिल्पज्ञानार्थं वास्तुविधाया धारा प्रवाहितास्ति । अत्र गृहादिनिर्माणे वास्तुशास्त्रस्य कथमुपयोगिता वर्तते ? तच्च शास्त्रं किदृशमस्ति ? तस्य प्रभावो लोके कीदृशो वर्तत इत्यादिप्रश्नाः समागच्छन्ति । अत एवत्सर्वं प्रदर्श्य गृहनिर्माणे वास्तुविधायाः प्रयोगः परमावश्यकोऽस्तीति सिद्धान्तप्रतिपादनमत्र विहितमस्ति । मन्येऽहं वास्तुशास्त्रस्य महत्त्वज्ञानाय, सर्वलोकोपयोगिकत्वज्ञानाय चानुसन्धानात्मक आलेखोऽयं समेषामुपयोगी भविष्यतीति।
शब्दकुञ्जी : वास्तु, वास्तुपुरुषः, वास्तुमहत्त्वम्, वास्तुशास्त्रस्य वैशिष्ट्यम्, विद्वांसः, परम्परा च ।
१. विषयपरिचयः
वेदाङ्गनेत्रभूतस्य ज्यौतिषशास्त्रस्यैकमङ्गमस्ति वास्तुशास्त्रम् । न तद्विना ज्यौतिषशास्त्रं परिपूर्णं भवितुमर्हति । वसन्ति प्राणिनो यस्मिन् तद् वास्तु, तदधिकृत्य कृतं शास्त्रम् वास्तुशास्त्रमित्युच्यते । वास्तुविषयकं शास्त्रं तदवान्तरविषयभेदेन नैकविधं भवति । तद्यथा– गृहवास्तु, देववास्तु, गोष्ठवास्तु इत्यादि । अस्माकं निवासहेतुभूतं गृहवास्तु कथं भवतीति चिन्तनीयम् । तेषां प्रकाराः कति भवन्ति ?, वाणिज्यव्यापारादिकर्मणां कृते कीदृशस्य वास्तोरावश्यकता वरीवर्ति ? इत्येतादृशाणां नानाविधप्रश्नानामुत्तरानुसारेणैव उद्योगव्यवसायादिकार्ये सभासम्मेलनादीनां कृते च विभिन्नवास्तुविधायाः प्रयोगो जायते । यथा जगति सर्वेषां शरीरिणां प्राणरक्षार्थं भोजनस्य नितरामावश्यकत्वं वरीवर्ति, तथैव देहस्याच्छादनाय वस्त्राणामावश्यकता भवति । सर्वेषां मानवानां जीवनरक्षार्थं ग्रास–वास–कपासादिप्रमुखपदार्थत्रयाणां सर्वतोभावेनावश्यकता भवति । निवसनार्थञ्च जना गृहं निर्मान्ति, तद् गृहञ्च केन माध्यमेन निर्मातव्यम् ? अस्य कृते कीदृशी शैली अवलम्बनीया ? भोजनशयनदेवादिस्थानानि कस्मिन् कस्मिन् स्थाने स्थापनीयानि ? इत्यादीनां सर्वेषां प्रश्नानामुत्तराणि सदा वास्तुशास्त्रस्याधीनानि भवन्ति । इदानीं न केवलं गृहनिर्माणार्थमपितु औद्योगिकव्यावसायिक–सामूहिकावासीयभवननिर्माणार्थं विद्यालयौषधालयदेवालयादीनां निर्माणार्थञ्च वास्तुशास्त्रस्य ज्ञानं तदनुरूपप्रयोगश्चात्यावश्यकं भवति । वास्तुशास्त्रानुसारेण निर्मिताः प्राचीनगृहदेवालया अधुनापर्यन्तं सुस्थिराणि दृश्यन्ते । यथा वास्तुशास्त्रमवलम्ब्य अनुमानिके पञ्चविंशत्युत्तरत्रिशततमे (३२५)मिते ईशवीयवर्षे निर्मितम्, तत्पुनरष्टोत्तरसप्तदशशततमे (१७०८) वर्षे जीर्णोद्धारीकृतं भक्तपुरजनपदस्थितं चाँगुनारायणमन्दिरम् । तथा च चतुःशततमं (४००) मितमीशवीयवर्षं परितो निर्मितम्, कालान्तरे पञ्चशत(१५००)तमे वर्षे जीर्णोद्धाररूपेण पुनर्निर्मितं पशुपतिनाथमन्दिरमधुनापर्यन्तं सुस्थिरं व्यवस्थितञ्चास्ति । एवमन्यान्यपि बहूनि प्राचीनानि मन्दिरभवनादीनि सन्ति । यानि प्रतिकालं भूकम्पादिप्राकृतिकप्रकोपसमागतेऽपि प्रायः सुरक्षितान्येव दृश्यन्ते । सामान्यजीर्णोद्धारेणैव सम्प्रति एतेषामस्तित्वं सुरक्षितमस्ति । एवञ्च ईशवीये पञ्चदशशतवर्षपूर्वमेव विनिर्मितानि पशुपतेः परितोऽवस्थितानि प्राचीनानि किराँतेश्वर–गुह्येश्वरी–श्रीराममन्दिरादीनि चाद्यपर्यन्तं द्रष्टुं प्राप्तुञ्च शक्यते । प्राचीनमल्लकालीनशासककाले सप्तविंशत्युत्तरचतुर्दशशत(१४२७)तमे ईशवीयवर्षे निर्मितं पञ्चपञ्चाशत्गवाक्षयुतः प्रासादोऽपि तथैव सुरक्षितो दृश्यते । ऐतिहासिकाध्ययनानुसारं पाटनपुरस्थितं प्रासादक्षेत्रमीशवीये षोडशतमे शतवर्षे विनिर्मितमस्तीति प्राप्यते । प्रासादक्षेत्रे निर्मितेषु पूर्वोक्तगृहेषु, पूर्वकथितेषु मन्दिरेषु च निर्माणे वास्त्वनुशासनस्य पालनं कृतमिति दृश्यते । अतः प्राकृतिकप्रकोपकालेऽपि एते सुरक्षिताः पुरातननिधयः स्वकीयं साँस्कृतिकगौरवं प्रकटयन्तः सन्ति । एतेषां कारणेन न कस्यचिन्मरणं क्षयं श्रुतमस्ति, परन्तु इदानीमाधुनिकप्रविध्यनुसारं श्लेषरेणुबालुकलोहदण्डनिर्मितं गृहमपि स्वल्पकाले एव विनष्टीभवति एवञ्च सामान्यप्राकृतिकप्रकोपेनापि क्षतिग्रस्तं दृश्यते । यथा – द्वाविंशत्युत्तरद्विसहस्र(२०७२) तमवैक्रमाब्दस्य वैशाखमासस्य द्वादशदिनाङ्के भूकम्पप्रकोपेण काष्ठमण्डपोपत्यकायां तथान्यान्यक्षेत्रेषु तादृशानि बहूनि गृहाणि विनष्टानि दृश्यन्ते श्रूयन्ते च सञ्चारमाध्यमेन । तत्र क्षतेः कारणं भूमिचयनं भित्तिप्रमाणम्, खण्डतलविषयञ्च वास्तुनियममुपेक्ष्य कृतत्वात् । एतावता गृहनिर्माणस्य प्रारम्भे वास्तुशास्त्रस्याध्ययनं नितरामावश्यकं भवति । वास्तुविदुषा सहात्यावश्यकविमर्शकरणप्रसङ्गे विमतिः कदापि न कर्तव्या, अपितु वास्तुशास्त्रज्ञानुकूलादेशः पालनीयः । आवश्यकस्थले वास्तुशास्त्रं सर्वैः ज्ञातव्यमस्माभिः । शास्त्रमनुसृत्य कृतं गृहं सामान्यगृहादिभ्यश्चिरस्थिरं, सुस्वास्थ्यकारकम्, आनन्दप्रदं, सुखसन्तोषकरं, भूकम्पादिदृष्ट्या सुरक्षितमपि भवति । तदेतत्सर्वमालोच्य अत्र गृहादिनिर्माणे वास्तुशास्त्रस्य कथमुपयोगिता वर्तते ? तच्च शास्त्रं किदृशमस्ति ? तस्य प्रभावः लोके कीदृशो वर्तत इत्येवमनेकविधानां प्रश्नानामुत्तराणि अपेक्षितानि सन्ति । अत एवत्सर्वं प्रदर्श्य गृहनिर्माणे वास्तुविधायाः प्रयोगः परमावश्यकोऽस्तीति सिद्धान्तप्रतिपादनमत्र विहितमस्ति । तस्माद्धेतोः सर्वेषां सामान्यमनुष्याणां कृते च वास्तुविद्यायाः व्यावहारिकज्ञानार्थं सरलतया संक्षेपेण चास्य लोकोपयोगित्वमनुशील्यते ।
२. पूर्वकार्यसमीक्षा
दैवज्ञैर्वास्तुविज्ञानसम्बन्धिविषयानधिकृृत्य केचन स्वतन्त्रा ग्रन्थाः, केचन अन्यविषयान्तर्वर्तिवास्तुप्रकरणान्विताश्च ग्रन्था विरचिताः सन्ति । पौरस्त्यज्यौतिषशास्त्रे दैवज्ञश्रीरामाचार्यविरचितोऽत्यन्तं सुप्रसिद्धः प्रकरणग्रन्थो वर्तते मुहूत्र्तचिन्तामणिः । तत्र बहवो विषयाः प्रतिपादिताः सन्ति । तन्मध्ये एकं प्रकरणमस्ति वास्तुविज्ञानसम्बन्धिविषयान्वितम् । अस्माकं ज्यौतिषशास्त्रे वास्तुविषयका ग्रन्था बहवो वर्तन्ते । किन्तु तेषामतिप्राचीनानां ग्रन्थानां सरलया भाषया सूक्ष्मतयानुसन्धानं कृतं नावलोक्यते । वास्तुविषये बहवो ग्रन्थाः संस्कृते हिन्द्याम् आङ्ग्ल्याञ्च बहवो ग्रन्था लभ्यन्ते, किन्तु न ते ग्रन्था अनुसन्धानात्मकाः, न वानुसन्धानरूपेण वास्तुवैशिष्ट्यावबोधकाः । अतोऽत्र वास्तुवैशिष्ट्यानुसन्धानपूर्वकं तत्परिशीलनं क्रियते ।
३. अनुसन्धानकार्यस्यौचित्यम्
वास्तुविज्ञानं जनानां कृते अत्यावश्यकं वर्तते । अद्यदिनपर्यन्तं वास्तुविद्यायाः विमर्शात्मको ग्रन्थो न प्राप्तः । तत्रापि समस्याकथनक्रमे समुत्पन्नानां प्र्रश्नानां समाधानमेकस्मिन् ग्रन्थे प्राप्तुं न शक्यते । सत्स्वपि वास्तुविषयकग्रन्थेषु तेषामर्थावबोधः सरलतया कर्तुं न शक्यते । अतः कोमलमतीनां जिज्ञासूनां कृते व्यावहारिकोपयोगिफलप्रदायकस्य ग्रन्थस्याभावः दृग्गोचरीभवति । उपर्युक्तानां विविधानां समस्यानां समाधनार्थमेवास्य शोधपत्ररचनाया औचित्यमस्ति । तथैव आचार्यपदवीप्राप्तजनशक्तिः भविष्यत्काले सूक्ष्मानुुसन्धानसम्पादनार्थम् उपयुक्तजनशक्तिरूपेण भवेत्, तत्र शोधकत्र्रा शोधनिर्देशकत्वेन च कार्यसम्पादनयोग्यत्वेन च भाव्यम्, तेन च शोधप्रबन्धलेखनमौचित्यपूर्णमस्ति ।
४. अनुसन्धानविधिः
शोधकार्येऽस्मिन् मुहूर्तचिन्तामणिग्रन्थस्थवास्तुविषयाणां विश्लेषणम्, प्रसङ्गानुसारमन्यग्रन्थसम्बन्धिवास्तुविषयाणाञ्च समीक्षा च क्रियते इत्येवमत्र शोधकार्ये विश्लेषणविधेः यथाऽवसरं समीक्षात्मकविधेश्च प्रयोगः कृतो विद्यते ।
५. सामग्रीसङ्कलनविधिः
शोधकार्येऽस्मिन् सामग्रीसङ्कलनं मधुकरपद्धत्या कृतम् । तत्र मुख्यतया पुस्तकालयविधेरनुसरणं कृतमस्ति । तथैव आधुनिकेन्टर्नेटाख्यस्य इमेलस्याऽपि यथावसरं प्रयोगो विहितो विद्यते ।
६. अनुसन्धानकार्यस्य सीमाङ्कनम्
क) लघ्वनुसन्धानकार्यमिदं वास्तुवैशिष्ट्यप्रदर्शनपूर्वकं तस्य लोकोपयोगित्वपरिशीलने मुख्यतया सीमितं भवति । वास्तुविषयाणां परिशीलनेन तस्य लोकोपयोगिकत्वप्रदर्शनमेवास्य क्षेत्रमस्ति ।
७. वास्तुशब्दार्थः
वसन्ति प्राणिनो यस्मिन् इति व्युत्पत्त्या भ्वादिगणस्थनिवासार्थकात् वस्धातोः उणादिके तुन्प्रत्यये च विहिते वास्तुशब्दस्य सिद्धिर्भवति । अस्यार्थस्तु निवासस्थानं गृहं वेति । तयैव रीत्या निवासः सर्वदेवानां वास्तुरित्यभिधीयते । अतो वास्तुशब्दस्यार्थो गृहमेव वास्तुदेवतानां निवासस्थानञ्चेत्यर्थद्वयं सञ्जायते । बृहत्संहितायां ज्यौतिर्विदा वराहमिहिरेण आवासार्थे एव वास्तुशब्दस्य प्रयोगो विहितः । अमरकोशेऽपि वेश्मभूर्वास्तुरस्त्रियाम् इति गृहभूमेरपरनामरूपेण वास्तुशब्दः स्वीकृतोऽस्ति । शास्त्रे गृहस्यैव पर्यायवाचित्वेन वास्तुशब्दस्य प्रयोगो बहुधा प्राप्यते । गृहं मनुजानां निवासस्थानम्, सकला पृथ्वी च सर्वेषां प्राणिनां निवासस्थानं तथा च सकलदेवादीनामपि निवासस्थानम् । अतः सम्पूर्णोऽयं संसारः खलु वास्तुशब्दवाच्यार्थो भवति । उक्तञ्च –
अमत्र्याश्चैव मत्र्याश्च यत्र यत्र वसन्ति हि ।
तद्वास्त्विति मते तज्ज्ञैस्तद्भेदं च वदाम्यहम् ।।
भूमिप्रासादयानानि शयनञ्च चतुर्विधम् ।
भूरेव मुख्यवास्तु स्यात्तत्र जातानि यानि हि ।।
८. वास्तुशास्त्रस्य महत्त्वम्
वासस्थानं वास्तु इत्युक्तमेव । जनाः स्वकीयं निवासस्थानं बाह्याभ्यन्तरप्रकारद्वयेन यथासम्भवं सुमनोहरं कुर्वन्ति कारयन्ति च । बाह्यसंरचनायां गृहस्य परिधिः समुच्चयो विस्तार इत्यादयो विषयाः समागच्छन्ति चेदाभ्यन्तरसंरचनायां गृहस्य कार्यानुसारेण शयनभोजनादयो विभागाः द्वारस्थापनादयो विषयाश्च समागच्छन्ति । समुचितरूपेण व्यवस्थितं गृहं भवनमेव गृहस्वामिनः कृते सुखशान्तिसमृद्ध्यादीन् प्रददाति । परं प्रतिकूलावस्थायां प्रतिकूलसमये च विधिवैपरीत्येन वा विनिर्मितं गृहं विपरीतफलं प्रददाति । प्राचीनकालत एव गृहादिनिर्माणार्थं शास्त्रचिन्तनं बहुधा प्राप्यते । केन विधिना, कया रीत्या वा निर्मितं गृहं सुस्थिरं सुरक्षितं सुखशान्तिप्रदञ्च भवतीति सम्यक् विचार्य पौरस्त्यशिल्पचिन्तनपरम्परायां वेदमूलकत्वेन शास्त्रस्यैव विकासः सञ्जातः । एतदेव खलु शास्त्रमिदानीं वास्तुविधया प्रचलितमस्ति । यथा – अन्तःस्थरोगेण पीडितो मनसैव विक्षिप्तो जनः कटककुण्डलादिभिर्विभूषिते नवीनशोभनवस्त्रधारितेऽपि सुखं नानुभवति । अपितु प्रतिदिनं ह्रसते । तथैव वास्तुविधानमन्तरा रचितं गृहं रङ्गलेपनादिभिरलङ्कृतमपि सुखप्रदं न भवति । अतो गृहस्य स्थैर्यार्थं रक्षार्थं तत्र कृतनिवासानां सुखसमृद्ध्यर्थं वास्तुशिल्पज्ञानार्थं वास्तुविधाया धारा प्रवाहितास्ति । गृहनिर्माणे वास्तुविधायाः प्रयोगः परमावश्यकोऽस्तीति सिद्धान्तप्रतिपादनमत्र विधीयते । वास्तुसम्बद्धविषयाणां सरलतया प्रतिपादनमत्र किल क्रियते । वास्तुशास्त्रस्य प्रयोगे समागतानां समस्यानां समाधानमप्यत्र यथामति यथाशक्ति चान्विष्यते ।
९. वास्तुशास्त्रस्य परम्परा
वास्तुशास्त्रस्य मूल वेद एवेति तु पूर्वोक्तमेव । तत्रेदं शास्त्रमथर्ववेदात् समुत्पन्नमिति केचन वास्तुविदो वदन्ति । ऋग्यजुसामार्थर्वाणां चतुर्णा वेदानामुपवेदाः क्रमेण आयुर्वेद–धनुर्वेद–गान्धर्ववेद–स्थापत्यावेदाः सन्ति । एतेषां मध्ये अथर्ववेदस्योपवेदत्वेन प्रसिद्धस्य स्थापत्यवेदस्यङ्गीभूता वास्तुविद्येति तेषामस्ति किञ्चन मतम् । एवञ्च स्कन्दाग्निगरुडनारदवायुमत्स्यब्रह्मलिङ्गादिष्वपि पुराणेषु वास्तुविद्याया वर्णनं विस्तृतया प्राप्यते । ज्यौतिषशास्त्रकाले तस्यैवाङ्गरूपेण वास्तुविद्या प्रचलिता अवर्तत । तस्मिन् काले गर्गसंहिता, नारदसंहिता, काश्यपसंहिता, बृहत्संहिता चेत्यादिसंहिताग्रन्थेषु वास्तुविद्या समाविष्टा दृश्यते । देवताना+ शिल्पीकारो विश्वकर्मा आसीत् । विश्वकर्मणाप्येका वास्तुविद्याचिन्तनधारा प्रवाहिता प्राप्यते । अपरा दानवराजमयतः प्रवाहिता वास्तुचिन्तनधारापि दृश्यते । विश्वकर्मणो विश्वकर्मप्रकाशः, मयाचार्यस्य मयमतमिति द्वौ ग्रन्थौ प्राप्येते । तथैव ज्यौतिर्निबन्धरत्नमाला, मानसारः, राजमार्तण्डः, समराङ्गणसूत्रधारः, वास्तुराजवल्लभः, वास्तुरत्नावली, बृहद्वास्तुमाला, वास्तुरत्नाकरः, मुहूर्तचिन्तामणिः, मुहूर्तमार्तण्डः, मुहूर्तगणयत्यादिग्रन्थेषु वास्तुविषयकचर्चापरिचर्चा अतिविस्तृततया प्राप्यते । एते ग्रन्थाः वास्तुशास्त्रस्याधिकारिका ऋषिमहर्षिभिः प्रणीता अतिप्राचीना ग्रन्था वर्तन्ते । किन्त्विदानीं वास्तुविषये आत्मपरकसिद्धान्तानुसारं लिखिता बहवो ग्रन्थास्समुपलभ्यन्ते ।
१०. वास्तुशास्त्रचिन्तका विद्वांसः
वास्तुशास्त्रस्य वेदमूलकत्वादपौरुषेयत्वं ज्ञायते तथापि ज्यौतिषस्य संहिताशाखापरम्परायां खलु बहुभिर्मुनिभिर्वास्तुशास्त्रस्य विशालो विकासो विहितः । मत्स्यपुराणे वास्तुविद्याप्रतिपादकत्वेन अष्टादश महर्षयः गृहीताः वर्तन्ते । यथा भृगुः, अत्रिः, वशिष्ठः, विश्वकर्मा, मयः, नारदः, नग्नजित्, विशालाक्षः, पुरन्दरः, ब्रह्मा, कुमारः, नन्दीशः, शौनकः, गर्गः, वासुदेवः, अनिरूद्धः, शुक्रः, बृहस्पतिरिति । उक्तञ्च –
भृगुरत्रिर्वशिष्ठश्च विश्वकर्मा मयस्तथा ।
नारदो नग्नजिच्चैव विशालाक्षः पुरन्दरः ।।
ब्रह्माकुमारो नन्दीशः शौनको गर्ग एव च । वासुदेवोऽनिरूद्धश्च तथा शुक्रो बृहस्पतिः ।
अष्टादशैते विख्याताः शिल्पशास्त्रोपदेशकाः ।।
एते प्रवर्तकाः पुराणे विभिन्नप्रसङ्गेषु उल्लिखिताः प्राप्यन्ते । इदानीं लोकेऽपि आचार्यो वराहमिहिरः, जीवनाथः, श्रीरामाचार्यः, श्रीरामनिहोरद्विवेदी, विन्ध्येश्वरीप्रसादद्विवेदीतिप्रभृतयो विद्वांसो वास्तुचिन्तकरूपेण जगति सर्वदा विराजन्ते । तत्राचार्यवराहमिहिरस्य संहिताग्रन्थस्य बृहत्संहिता रामनिहोरद्विवेदिमहोदयस्य बृहद्वास्तुमाला, विन्ध्येश्वरीप्रसादद्विवेदीमहोदयस्य वास्तुरत्नाकरः, जीवनाथदैवज्ञस्य वास्तुरत्नावली, श्रीरामाचार्यस्य मुहूर्तचिन्तामणि इत्यादयो ग्रन्थाः सुप्रसिद्धाः सन्ति । ग्रन्थेष्वेतेषु तेषां वास्तुविद्याचिन्तनं प्रस्तुतमस्ति । साम्प्रतमपि विविधेषु विश्वविद्यालयेषु तदन्तर्गतेषु नैकविधेषु महाविद्यालयेषु च पठनपाठनाभ्यां प्रमुखविषयकत्वेन ज्यौतिषशास्त्रमपि स्वीकृतमस्ति । पाश्चात्त्यदेशेऽपि वास्तुशास्त्रानुसारं समुचितमतं स्वीकृत्य गृहनिर्माणादिकं कार्यं विहितं दृश्यते । तत्रत्याः विद्वांसोऽपि वास्तुशास्त्रस्य चिन्तने दत्तचित्ताः सन्तः स्वाध्ययनेऽध्यापने च संलग्नाः सन्तीति सञ्चारमाध्यमतोऽपि ज्ञायते । एतावता वैदिककालत इदानीं यावद् वास्तुचिन्तनस्य धारा प्रवाहिता वर्तते । काले काले एकाधिका विद्वांसो वास्तुशास्त्रविषये दोषारोपणं कुर्वन्तः स्वस्य दुराचारित्वञ्च प्रकटयन्तो विराजन्ते ।
११. वास्तुशास्त्रस्य वैशिष्ट्यम्
जगदिदमखिलं पाञ्चभौतिकमयं वर्तते । पृथिवीजलतेजोवाय्वाकाशानां पारस्परिकान्योऽन्याश्रितत्वसम्बन्धेन जगदिदं प्रचलितमस्ति । एतेष्वेव पञ्चसु प्रकृतिः, प्राणिनश्च आश्रिता वर्तन्ते । पञ्चभिर्महाभूतैः सह मानवस्याप्यन्योऽन्याश्रितसम्बन्धोऽस्ति । यतो हि मानवशरीरमपि पञ्चतत्त्वान्तर्भूतं वर्तते । अत एव शरीरमिदं पाञ्चभौतिकमिति नाम्ना व्यवह्रियते । यत्र तेषां समुचितगत्या मेलनं न भवति, तत्र देहे गेहेऽपि प्रायोऽस्वस्थता–अशान्ति–अमङ्गलादयो दोषाः समुद्भवन्ति । अतो यथा शरीरे पञ्चतत्त्वानां मात्रात्मकं सन्तुलनमावश्यकं तथैव गृहेऽपि यथास्थाने तेषामुचितप्रयोगेण निर्मितं गृहं मानवानां दीर्घकालिकं सुखसमृद्धिशान्तिरैश्वर्यञ्च भवति । सन्दर्भेऽस्मिन् कया रीत्या गृहे पञ्चतत्त्वानां संयोजनं कर्तव्यम् ? समुचिताया ऊर्जाया गृहे प्रवेशनं संरक्षणञ्च कथं भवति ? गृहनिर्माणे कीदृशी भूमिरुपयुक्ता स्यात् ? शिलान्यासः कथं कर्तव्यः ? गृहे देवस्थानं, मनोरञ्जनस्थानमध्ययनस्थानञ्च कुत्र कुत्र विधातव्यम् ?, जलाशयः, शौचालयमुपवनं, गौष्ठादिकञ्च कुत्र विधेयमिति सर्वमपि वास्तुशास्त्राधीनं वर्तते किल । एवञ्च यस्य कस्यापि वस्तुनोऽपरवस्तुनाशः प्रत्यक्षपरोक्षसम्बन्धस्य तस्य प्रभावस्य च अध्ययनं शास्त्र एव भवति । एतावता लोके वास्तुशास्त्रस्य अतीव महत्त्वं वरीवर्ति ।
१२. वास्तुशास्त्रस्य लोकोपयोगिकत्वम्
यथा प्राचीनकाले वास्तुशास्त्रस्यावश्यकता आसीत्, तथैव साम्प्रतिकवैज्ञानिककालेऽपि वास्तुशास्त्रस्यावश्यकता नितरामनुभूयते । सम्प्रति वैज्ञानिकयन्त्रादीनां साहाय्येन जना अत्युन्नतानि गृहाणि, भवनानि कारयन्ति परन्तु तत्र यदि वास्तुनियमानां परिपालनं नास्ति चेत्तत्र निवासो मानसिकसुखाय नैव भवति । वास्तुशास्त्रे निहितान् नियमानमस्वीकृत्य कृतेषु विशालहम्र्येष्वपि नानाविधा अकल्पनीया दुर्घटनादयो जायन्ते । जापानदेशे तु जना अन्यराष्ट्रापेक्षयाधिकमात्महत्यां प्रकुर्वन्ति । कारणन्तु वास्तुशास्त्रस्य नियमविपरीतं कृतं गृहमेव भवितुं शक्नोति । यदि वास्तुशास्त्रोक्तरीत्या परीक्षणं विधाय सम्यक्तया गृहं निर्मीयते चेत्तत्र निवास आत्मनः परिवाराणां कृते सुखाय, आरोग्याय, सर्वविधभौगैश्वर्याय च भवति । प्राचीनकाले वास्तुशास्त्रानुसारं निर्मितानां मन्दिराणां स्थितिर्बहुषु कालेषु यावदपि भवति । तेषां देवालयानामायुः शतद्वयादप्यधिकं वर्षाणि यावत् जातं दृश्यते, परन्तु साम्प्रतिकाधुनिकगृहाणामायुः प्रायः पञ्चाशद्वर्षाणि यावत् गच्छति । वास्तुशास्त्रानुसारेण गृहं निर्मीयते चेद् भूकम्पादिगता क्षतिरपि अत्यन्तं न्यूना भवति । वास्तुशास्त्रे सर्वप्रथमं भूमिपरीक्षणं विधीयते । तत्पश्चात् तत्र कीदृशं गृहं केन प्रकारेण कर्तव्यमिति विचार्यते । वास्तुशास्त्रानुसारेण गृहस्य परितो वाटिका नैव स्थापनीया, माङ्गल्यानि वृक्षाणि वपनीयानि । पुनश्च गृहस्य सन्निकटेऽपरञ्च गृहं च भवितव्यम् । एतादृशं गृहं भूकम्पारोग्यादिदृष्ट्या शुभकरं भवति । अतो गृहनिर्माणस्वीकृतिप्रदानकार्ये प्रथमं तावद् वास्तुविज्ञानस्य परामर्शोऽवश्यमपेक्षते । प्राचीनकाले प्रायशो गृहाणि, मन्दिराणि, भवनानि च वास्तुशास्त्रानुरूपाणि कृतानि प्राप्यन्ते, तस्मात् तेषामायुश्च दीर्घकालं यावद् भवति । आधुनिकनेपालस्य निर्माणप्रसङ्गेऽपि वास्तुविद्यायाः प्रयोगोऽनिर्वायरूपेण कर्तव्योऽस्माभिः।
१३. वास्तुपुरुषोत्पत्तिः
वास्तोः पुरुषः योऽसौ वास्तुपुरुष इति षष्ठीतत्पुरुषसमासेन वास्तुपुरुषशब्दो निष्पद्यते । वास्तुशब्दस्य क्लीबत्वाच्च वास्तुनः पुरुषः इत्यपि विग्रहो वक्तुं शक्यते । वास्तुपुरुषशब्देन पुरुषाकाररूपेण स्थित एव ज्ञायते । अत्र वास्तुपुरुषस्योत्पत्तिविषये मत्स्यपुराणे चर्चा परिचर्चा च श्रूयते, तद्विषयञ्चाग्रे वक्ष्यते । वास्तुपुरुषोत्पत्तिप्रसङ्गे परिचर्चा श्रूयते यत् – पुरा शङ्करान्धकासुरयोर्युद्धे शङ्करस्य शरीरात् श्वेतबिन्दुः पतितः । तस्मादेव खलु श्वेतबिन्दोरेको भयङ्करो भीमकायो महाभूतोऽसुरः समुत्पन्नः । तस्यासुरस्याद्भुतस्वरूपं संदश्र्य सर्वे देवा दानवाश्च भयेन यत्रतत्र पलायिताः । अन्ततः पुनरेकत्रीभूय ब्रह्मणः समीपं गत्वा प्रार्थयामासुः । ब्रह्मण आज्ञया सर्वैर्देवैः सार्धं असुरः पृथिव्यामधोमुखं विनिक्षिप्य तत्रैव स्थितः । अत एव निवासः सर्वदेवानां वास्तुरित्यभिधीयत इत्युक्तं वर्तते । तत्र महाभूतोऽसुरो ब्रह्माणं कथयति – भवदीयसृष्टिस्वरूप एवाहं निरपराधोऽस्मि । किमर्थमयं दण्डो दीयत इति । असुरवचनेन द्रवीभूतो ब्रह्मा तस्य वास्तुपुरूषेति संज्ञां विधाय पृथिवीवासिनो गृहादिनिर्माणकार्येषु सर्वप्रथमं त्वां पूजयन्तीत्याशीर्वादरूपं वरमपि प्रदत्तवान् । तत एव गृहादिनिर्माणप्रसङ्गे गृहप्रवेशादिकार्ये च वास्त्वर्चनपरम्परा स्थापिता बभूव । ये जना नवीनगृहे तव पूजां न कुर्वन्ति, ते तवाहारं भविष्यन्ति । कथनस्याशयोऽयं वर्तते यत् – ते भवत इच्छया रोगशोकदारिद्र्यादिभिः पीड्यन्ते, कदापि सुखमायुरारोग्यमैश्वर्यञ्च न लभन्ते । परन्तु ते यद्गृहे प्रथमं वास्तुपूजां विधास्यन्ति, तेषां गृहे धनधान्यादीनां समुच्चयो भवति । तत्र खलु वास आयुरारोग्याय च भवति । अद्यापि तत्प्रसङ्गे वास्त्वर्चनेन धनधान्यं सुखैश्वर्यादिकञ्च लभ्यत इति विश्वासो जनेषु विद्यते । बृहत्संहितायामप्युक्तं वर्तते –
किमपि किल भूतमभवद्रुन्धानं रोदसी शरीरेण । तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम् ।। यत्र चयेन गृहीतं विबुधेनापिधिष्ठितः स तत्रैव । तदमरमयं विधाता वास्तुनरं कल्पयामास ।।
अर्थात् भूम्याकाशव्याप्तेऽज्ञानपुरुषे समुत्पन्ने देवैरधोमुखं भूमौ संस्थापितः । तत्पश्चात् सर्वे देवास्तत्र तत्रैव स्थिता बभूवुर्यत्र यत्र तत्पुरूषस्याङ्गं गृहीतमासीत् । ब्रह्मा च देवमयं तं वास्तुपुरुषमिति कल्पयामास । बृहद्वास्तुमालायामपि एतादृशमेव कथनं प्राप्यते –
पुरा कृतयुगे ह्यासीन्महद्भूतं समुत्थितम् । व्याप्यमानं शरीरेण सकलं भुवनं ततः ।। तद् दृष्ट्वा विस्मयं देवा गता सेन्द्रा भयावृताः ।
ततस्तैः क्रोधसन्तप्तैर्गृहीत्वा तमथासुरम् ।।
विनिक्षिप्तमधोवक्त्रं स्थितास्तत्रैव ते सुराः ।
तमेव वास्तुपुरूषं ब्रह्मा कल्पितवान् स्वयम् ।।
तथा च मत्स्यपुराणेऽपि वास्तुपुरुषोत्पत्तिविषयिका एतादृश्येव कथा प्राप्यते ।
१४. वास्तुपुरुषस्य स्वरूपम्
धरण्यां निपातनकाले देवादिभिर्यदङ्गं गृहीतं तदङ्गं तैः स्वस्थानत्वेन स्वीकृतं वर्तते । अतः वास्तुपुरुषस्य शरीरे अनेके देवा निवसन्ति । तत्र शिरसि मुखे च आपः, स्तने अर्यमा, उरसि आपवत्सः, नेत्रे पर्जन्यः, कर्णे जयन्तः, वक्षस्थले इन्द्रः, स्कन्धे सूर्यः, भुजे सत्यादयः पञ्चदेवाः (सत्यः, भृशः, अनरिक्षः, अनिलः, पूषा), हस्ते सविता सावित्रश्च, पाश्र्वे वितथः, बृहत्क्षतश्च, जठरे विवश्वान्, ऊरुप्रदेशे यमः, जानुनी गन्धर्वः, जपायां भृङ्गराजः, स्फिजि मृगदेवता च सन्ति । एवञ्च वामस्तने पृथिवीधरः, वामनेत्रे दितिः, वामकर्णे अदितिः, वामोरूस्थले भुजगः, सोमोंऽशे, भल्लाटमुख्याहिरोगपापयक्ष्माणो वामभुजे, रुद्रराजयक्ष्माणौ वामहस्ते, शोषासुरौ वामपाश्र्वे, वामोरूप्रदेशेऽम्बुपतिः, वामजानुनी कुसुमदन्तः, वामजङ्घायां सुग्रीवः, वामस्फिजि च दौवारिक एते देवाः सन्ति । एवञ्च लिङ्गे शुक्रजयन्तौ,हृदये ब्रह्मा, पादे च पितरो निवसन्ति । उक्तञ्च –
पूर्वोत्तरदिङ्मूर्धा पुरुषोऽयमवाङ्मुखोऽस्य शिरसि शिखी ।
आपो मुखे स्तनेऽस्यार्यमा ह्युरस्यापवत्सश्च ।।
पर्जन्याद्या बाह्या दृक् श्रवणोरःस्थलांसगा देवा ।
सत्याद्याः पञ्च भुजे हस्ते सविता सावित्रः ।।
वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश्च ।
ऊरु जानु च जङ्घे स्फिगिति यमादेः परिगृहीता ।
एते दक्षिणपार्श्वे स्थानेष्वेवञ्च वामपार्श्वस्थाः ।
मेढ्रे शुक्रजयन्तो हृदये ब्रह्मा पिताऽङ्घ्रिगता ।।
एभिर्देवैः सह वास्तुपुरुषोऽपि देवमयो भूत्वा गृहसुखमवश्यं प्रयच्छतीति लोके देवस्यास्य महनीयता वर्तते ।
१५. नूतनगृहे वास्तुपूजाया महत्त्वम्
अस्माकं समाजे वास्तुपूजाया महत्त्वमधिकं विद्यते । मनुष्या नवीनगृहे वास्तुदेवानां पूजनं कृत्वैव भोजनादिकं कुर्वन्ति । इयं भूमिः न कस्याप्यस्ति । तथापि जनाः स्वकीयमिति मन्यन्ते । भूमौ सर्र्वत्र देवतानां निवासोऽस्ति, तदुपरि तेषां देवानामपचारश्च भवति । वास्तुदेवानामपचारात् किल तत्र निवसतां जनानां रोगव्याधयो दुर्भिक्षादयश्च समुत्पद्यन्ते । नूतनगृहे वास्तुदेवानां सविधिना पूजनात् प्रसन्ना सती वास्तुदेवताऽऽयुरारोग्यमैश्वर्यं प्रयच्छति । वंशपरम्परायाश्च नैरन्तर्यं दृश्यते । पुत्रपौत्रकलत्रादीनां सुखञ्च प्रयच्छन्ति । तस्मात् कारणतः स्थापनप्रकारमुल्लिखितमस्ति । तत्र गृहस्य जीर्णोद्धारप्रसङ्गे एकपञ्चाशत्पदे नूतनगृहप्रवेशे चतुष्षष्टिपदे सर्वप्रकारके गृहे एकाशीतिपदे प्रासादे मण्डपे च शतपदे कुपादौ च पञ्चनवत्युत्तरशतपदे वास्तुदेवतायाः पूजनमवश्यं करणीयम् ।
१६. वास्तुशास्त्रानुसारिणो गृहादिनिर्माणस्यावश्यकता
गृहपतिमाकर्षयतीति गृहमिति अथवा गृह्णातीति गृहमिति व्युत्पत्त्या निष्पन्नस्य गृहशब्दस्य आकर्षणस्थलमाश्रयस्थलं निवासस्थानमित्यादयोऽर्थाः सम्भवन्ति । सर्वेषां जनानामाश्रयस्थलं खलु गृहमस्ति । न केवलं मानवास्तत्र निवसन्ति, अपितु पशुपक्षिणश्च निवासार्थं गृहं निर्मान्ति । यथा– पक्षिणः कोटरे निवसन्ति चेद् व्याघ्रसिंहादयो गुहायां निवसन्ति । तेनैव प्रकारेण कीटपतङ्गादयश्च स्वस्ववासस्थानानि परिकल्पयन्ति । कार्यावसरे यत्र तत्र परिभ्रमन्तो जना गृहं प्रत्यावत्र्य भृशं विश्रान्तिमनुभवन्ति । अतः किल सर्वेषां सुरक्षितस्थानं गृहमेव वर्तते । तत्रैव स्थित्वा जना विविधानि योगादिकार्याणि, पुरुषार्थचतुष्टयसाधनानि च कुर्वन्ति । परकीयगृहे कृतं कार्यं सर्वं निष्फलं भवतीति शास्त्रेष्वेवोक्तम् –
परगेहे कृताः सर्वाः श्रौतस्मार्तक्रियाः शुभाः । निष्फलाः स्युर्यतस्तासां भूमीशः फलमश्नुते ।।
महामुनिश्चाणक्योऽपि भणति – परसदननिविष्टः को लघुत्वं न याति इति । स्वगृहनिवासे यावत् सौख्यमनुभूयते, न तावत् परकीयगृहे । विधिपूर्वकं निर्मिते सति गृहनिर्माणादेव वाणीदेवगृहनिर्माणतुल्यः पुण्यो जायते । अतः सर्वेऽपि विद्वांसो गृहं प्रशंसन्ति । यथोक्तं बृहद्वास्तुमालायाम् –
स्त्रीपुत्रादिकभोगसौख्यजननं धर्मार्थकामप्रदं जन्तूनामयनं सुखास्पदमिदं शीताम्बुघर्मापहम् । वापीदेवगृहादिपुण्यमखिलं गेहात् समुत्पद्यते गेहं पूर्वमुशन्ति तेन विबुधाः श्रीविश्वकर्मादयः।।
अतोऽस्माभिर्मानवैर्यथोचितकाले समुचितभूमौ सुमुहूर्ते विधिपूर्वकं गृहनिर्माणकार्यमवश्यं कर्तव्यम् । एवमेव जनानामुपयोगिनिवासवस्तूनाञ्च वास्तुविध्यनुसारेणैव कर्तव्यं भवति ।
१७. धर्मार्थकामप्राप्यर्थं वास्तोरावश्यकता
चतुर्विधपुरूषार्थेषु धर्मस्य, अर्थस्य कामस्य च स्थानं महत्त्वपूर्णं वर्तते । यद्यपि धर्मादीनामनेके अर्था भवितुं शक्नुवन्ति । अत्र सामान्यार्थं गृहीत्वा तेषां प्राप्त्यर्थं वास्त्वनुसारिनिर्मितस्य गृहस्य महत्त्वोपरि किञ्चित् चच्र्यते । स्वर्गकामार्थं, सुखैश्वर्यप्राप्यर्थं, पुण्यार्जनार्थं वा जना यत्किमपि कार्यं कुर्वन्ति, स एव धर्मोऽस्ति । शास्त्रानुसारं धर्मसाधनार्थं तीर्थस्थलादिपुण्यक्षेत्रं, स्वकीयं गृहं वा प्रशस्तमस्ति । गृहस्थिनां कृते सर्वदा तीर्थगमनं तु सम्भवं न भवति, परकीयगृहे कृतं कार्यं निष्फलं भवतीति धर्मप्राप्यर्थं गृहमत्यावश्यकं जातं खलु । गृहमन्तरेण अर्थार्जनमर्थसंरक्षणञ्च काठिन्यं भवति । यस्य वासार्थं वासस्थानं नास्ति, स कथं धनार्जने प्रवृत्तो भवेत् ? सत्यपि प्रवृत्ते व्ययाधिक्याद् वास्तविकतयार्थसिद्धिं कर्तुं नैव शक्नोति । एवञ्च स्वेच्छापूरणस्य आनन्दस्य वापरं नाम एव कामोऽस्ति । अस्य सम्बन्धो भौतिकसुखेऽपि संयोजितो भवति । यस्य जनस्य गृहं नास्ति, तद्गृहाभावाद् धर्मार्थौ आर्जयितुमसमर्थः स कथमानन्दमनुभवतीति भोगविलासार्थं, कामसिद्ध्यर्थमपि गृहन्तु नितरामावश्यकमस्ति । अत एवोक्तं भविष्यपुराणेऽपि –
गृहस्थस्य क्रियाः सर्वा न सिद्ध्यन्ति गृहं विना । यतस्तस्मात् गृहारम्भप्रवेशसमयौ बु्रवे ।।
तच्च गृहं यदि वास्त्वनुसारेण निर्मीयते चेदेव धर्मार्थकामाख्याः त्रिपुरुषार्थाः सम्भवन्ति ।
१८. निष्कर्षः
अनेन च परिशीलनेन वास्तुविद्यायाः महत्त्वं लोकोपयोगित्वञ्च स्वतः सिद्धं भवति । यतोहि वास्तुविद्या पौरस्त्यशास्त्रपरम्परायामन्यतमा प्राप्तिरस्ति । वैदिककालत एवेदानीं यावत् अस्याः वास्तुविद्यायाः चिन्तनं प्रचलदस्ति । कुत्र, केन च विधिना निर्मिते गृहे मानवः सुखी भवतीति मुख्यं कृत्वा आरब्धं शास्त्रमिदं मानवकल्याणाय एवास्ति । अत गृहादीनां वास्तूनां समारम्भकाले प्रथमतो वास्तुविचार आवश्यको भवति । वास्तुशास्त्रे भूमिचयनम्, भूमिपरीक्षणम्, भूमिसंसोधनम्, स्वरूपस्थितिप्रकृतिप्लवत्वानुरूपं भूमेः शुभाशुभत्वम्, भूमौ मनसः प्रसन्नताञ्च विचार्यते । तथैव गृहनिर्माणविधौ मुहूर्तविचारः, शिलान्यासः, दैघ्र्यविस्तृतिरूपं गृहप्रमाणम्, भित्तिप्रमाणम्, द्वारप्रमाणम्, काष्ठेष्टिकादीनां प्रयोगमपि विचार्यते । एवञ्च गृहाभ्यन्तरे भोजनशयनादिकोष्ठानां विभाजनम्, बाह्ये च जलाशयोपवनादीनां भृत्यवाहनगोष्ठवास्तूनां च व्यवस्थापनमपि तत्रैव चिन्तितं प्राप्यते । वस्तुतो भूमिम्, मुहूर्तम्, दैघ्र्यम्, विस्तृतिम्, कोष्ठानि, जलाशयम्, गोष्ठादिविषयकं वास्तुशास्त्रं सर्वमपि विचार्य सम्यक्तया निर्मितं गृहमेव सुखशान्तिकारकम्, आयुरारोग्यप्रदम्, भोगैश्वर्यप्रदायकञ्च भवति । अतो गृहादिनिर्माणारम्भे वास्तुविद्याविचारः परमावश्यकोऽस्तीति निष्कर्षः ।
सन्दर्भग्रन्थसूचिः
आचार्य, वराहमिहिर (२०६९), बृहत्संहिता, वाराणसी : चौखम्बासंस्कृतसिरीज ।
आचार्यः, रामनाथसहायः (सन् १८८६), अर्वाचीनं ज्यौतिर्विज्ञानम् (द्वितीयसंस्करणम्), वाराणसी : सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः ।
आचार्यः, हरिप्रसाद एवं स्थानेश्वरगौतमः (२०४२), अनुसन्धान–प्रकाशः, दाङ : महेन्द्रसंस्कृतविश्वविद्यालयः ।
ढकालः, शिवदत्तः, (२०३८), गृहवास्तौ ज्यौतिषपरिशीलनम् (अप्रकाशित शोधप्रबन्धः) नेपालसंस्कृतविश्वविद्यालयः ।
दाहालः, लोकमणिः (२०४७), भारतीयज्यौतिषस्येतिहासः (द्वितीयसंस्करणम्), वाराणसी : चौखम्बा-सुरभारती-प्रकाशनम् ।
दीक्षितः, बालकृष्णः (अनु.)(२०३२), भारतीयज्यौतिषम्, तृ. सं., लखनऊ : हिन्दीसमितिः उत्तरप्रदेशशासनम् ।
दैवज्ञ, जीवनाथ (ई.सं.२००६) वास्तुरत्नावली, वाराणसी : चौखम्बा संस्कृत सीरीज आफीस ।
दैवज्ञः, श्रीरामः (ई.सं.२००५), मुहूर्तचिन्तामणिः, वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
द्विवेदी, श्रीरामनिहोरः (ई.सं.२०१०), बृहद्वास्तुमाला, वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
शर्मा, माधवा (२०७६), वास्तुवैशिष्ट्यप्रदर्शनपूर्वकं मुहूर्तचिन्तामणिगतवास्तुविषयकं परिशीलनम्, अप्रकाशितं शोधपत्रम्, नेपालसंस्कृतविश्वविद्यायः, बेलझुण्डी, दाङः ।