अस्मिन् जगति मानवजातीनां व्यवहारिकविकासेन सह सांस्कृतिक-मानविक-वैज्ञानिक-दार्शनिकाध्यात्मिक इत्यादिविचाराणां मूलाधाररूपं वेदं मन्यते। वेदेषु धर्म-संस्कार-ज्ञान-दर्शन-कलादयो विषयाः सूक्ष्मरूपेण अन्तर्निहिताः सन्ति। शास्त्रेषु वेदोऽपि पुरुषरूपेण परिचीयते तेन वेदः सावयवो विद्यते।
तनुजा दाहालः
उपप्राध्यापिका, ज्योतिषविभागे, नेपाल संस्कृतविश्वविद्यालयान्तर्गत्य वाल्मीकि विद्यापीठस्य
tanuja.dahal036@gmail.com
लेखसारः
अस्मिन् जगति मानवजातीनां व्यवहारिकविकासेन सह सांस्कृतिक-मानविक-वैज्ञानिक-दार्शनिकाध्यात्मिक इत्यादिविचाराणां मूलाधाररूपं वेदं मन्यते। वेदेषु धर्म-संस्कार-ज्ञान-दर्शन-कलादयो विषयाः सूक्ष्मरूपेण अन्तर्निहिताः सन्ति। शास्त्रेषु वेदोऽपि पुरुषरूपेण परिचीयते तेन वेदः सावयवो विद्यते। अतो वेदपुरुष इत्याख्या प्रसिद्धास्ति। अङ्गयन्ते प्रकाश्यन्ते वेदा अनेन इति वेदाङ्गः। वेदस्य शिक्षा कल्पः व्याकरणम् निरुक्त. छन्द. ज्योतिषश्चेति षडङ्गानि सन्ति। ज्योतिषशास्त्रं वेदस्य चक्षुरूपमङ्गं मन्यते। सिद्धान्तसंहिताहोराश्चेति स्कन्धत्रयात्मकं ज्योतिषशास्त्रं मन्यते। होरास्कन्धे जातकसम्बद्धा विषयाः प्रतिपादिताः सन्ति। तस्माद् होराशास्त्रं जातकशास्त्रमित्यपरनाम्नापि परिचीयते। जातकशास्त्रं प्राणिनां शुभाशुभफलबोधकशास्त्रं कथ्यते। शास्त्रमिदं मासपक्षादिकालानुसारं, मेषवृषादिराश्यानुसारं, मेषवृषादि लग्नानुसारं, नक्षत्रानुसारं च जातकस्य भूतभविष्यादिकं फलं निर्धारयति। जातकशास्त्रे सौभाग्यदुर्भाग्यादीनां योगानां, सुखदुःखादीनां विषयाणां, मृत्यु -आयारिष्टादीनां विषयाणां च वर्णनं प्राप्यते। जातकशास्त्रे भाग्योदयादिविषये विदेशयोगस्य चर्चा प्राप्यते। विदेशस्यार्थं देशान्तरं भवति। दीर्घकालपर्यन्तं अल्पकालपर्यन्तं वा स्वदेशं त्यक्त्वा अध्ययनाय, अर्थोपार्जनाय वा देशान्तरे गमनमेव विदेशयोगं मन्यते। अस्मिन् योगेषु जातो नरः प्रवासशीलः, परदेशगमनशीलः, भ्रमणशीलश्च भवति। शुभग्रहोत्पन्नो विदेशयोगात् विदेशस्थो नरः प्रसिद्धधीधनधर्मयशसुखसम्मानैश्च युतो भवति। पापग्रहोत्पन्नो विदेशयोगात् विदेशस्थः नरः पीडितः शोकनिमग्नः, धनरहितश्च भवति।
शब्दकुञ्जिका : नेत्रम्, स्कन्धः, बहुभाग्ययुक्तः, सन्तुष्टः, शास्त्रज्ञः, राजदूतः
विषयपरिचयः
शब्दशास्त्रं मुखं ज्योतिषं चक्षुषी श्रोतमुक्तं निरुक्तं च कल्पः करौ।
या तु शिक्षास्य वेदस्य सा नासिका पादपद्मद्वयं छन्द आद्यौ बुधैः।। (सिद्धान्तशिरोमणिः अध्याय १, श्लोकः १०)
शिक्षाशास्त्रं वेदस्य घ्राणरूपम्, कल्पशास्त्रं हस्तरूपम्। व्याकरणशास्त्रं मुखरूपम्। निरुक्तशास्त्रं कणर्रूपम्। छन्दशास्त्रं पादरूपम्। ज्योतिषशास्त्रं नेत्ररूपं विद्यते। (अधिकारी २०७६, पृ.३०)। नेत्र रहितो नरो हस्तपादकणर्नासादिभिर्युतोऽपि यथा किमपि कार्यं सम्यक् सम्पादयितुं न शक्नोति तथैव चक्षुषा रहितो वेदोऽपि लौकिकवैदिकादीनि कानिचन कर्माणि बोधयितुं नैव प्रभवति। अर्थात् सर्वशास्त्रसमर्थोऽपि ज्योतिषशास्त्रस्य ज्ञानरहितो नरः चक्षुषाभावानिव कर्मबोधनेऽसमर्थः प्रतिभाति।
भास्करेण प्रतिपादितमेव
वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यताचामध्येऽस्य तेनोच्यते।
संयुतोऽपितरैः कणर्नासादिभिश्चक्षुषाङ्गेन हीनो न किञ्चित्करः।। (भास्करः, २०४५, पृ.१५)।
आकाशे यानि तेजोमयानि बिम्बानि दृश्यन्ते तानि समष्टिगतरूपेण ज्योतिः शब्देन ज्ञायन्ते।
द्युत् दीप्तौ इत्यस्माद् धातोः ‘द्युतेरिसिन्नादेश्च जः’ इति सूत्रेण इसिन् प्रत्यये आदेर्दकारस्य जकारादेशे गुणे षत्वे कृते सति ज्योतिषः शब्दः निष्पद्यते। ज्योतिर्पिण्डानां ग्रहनक्षत्रादीनि अधिकृत्य कृतं शास्त्रं ज्योतिषशास्त्रं कथ्यते। यदा मानवा अस्मिन् जगति प्रादुर्भूताः तस्मात् समयादेव ज्योतिर्पिण्डानां गतिस्थानादिविषये परिज्ञाने तेषामुत्सुकता जाता। ज्योतिषशास्त्रं स्कन्धत्रयात्मकं मन्यते। ते सिद्धान्त संहिता होराश्चेति सन्ति। केचन ज्योतिर्विदः कैरलिः, शकुनश्चेति द्वौ भेदौ संयोज्य ज्योतिषशास्त्रस्य पञ्चस्कन्धत्वं साधयन्ति। (दाहाल, सन् १९९०, पृ ६)। ज्योतिषशास्त्रे यद्यपि बहवो भेदाः सन्ति तथापि मूलतःस्त्रयो भेदा एव प्रसिद्धाः दृश्यन्ते। युगवर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्तनाडीविनाडीप्राणत्रुट्यादीनां तथा सौरचन्द्रादिमासानां ग्रहनक्षत्रादीनां गतिस्थितियन्त्रादिविषयसम्बद्धंः वर्णनशास्त्रं सिद्धान्तः कथ्यते। स्थलजलगगनादिविविधप्राकृतिकलक्षणादिविषयसम्बद्धं वर्णनशास्त्रं संहिता कथ्यते। अर्थात् यत्र हि कार्त्स्येन ज्योतिः शास्त्रवर्णनं सा संहिता। ग्रहाणां कालावस्थागत्यानुसारेण शुभाशुभफलबोधकं शास्त्रं होराशास्त्रम्। यत्र वैयक्तिकेन सम्बन्धेन फलादेशः विधीयते सा होरा निगद्यते। अर्थात् सामान्यतो यत्र ग्रहस्थितितिथिनक्षत्रादिद्वारा मनुष्यस्य सुखदुःखाद्यवाप्ति निर्णीयते तदेव होराशास्त्रं कथ्यते। मनुष्यस्य प्राग्जन्मोपार्जितसदसत्कर्मफलपाकक्रमेण अभिव्यनक्तीति शास्त्रस्याभिमतं विद्यते।
कर्मार्जितं पूर्वभवे सदादि यत् तस्य पङ्क्तिं समभिव्यनक्ति। (वराहमिहिरः बृहज्जातकं अ.१ श्लो.३)
मुख्यरुपेण होरास्कन्धस्तु जातकताजिकभेदेन द्विधा विभक्तोऽस्ति। प्रश्नरमलस्वप्नादिविषया अत्रैव गृह्यन्ते
अर्थात् होराशास्त्रे युद्धविषये यात्राविषये विवाहविषये उत्सवादिविषये च शुभाशुभकालं निर्धारयति। जन्मकालविमर्शः सन्तानविमर्शः अरिष्टविचारः आयुनिर्णयः राजयोगादि विचारः ग्रहगोचरविचारश्चेति विषयाः विवेच्यन्ते। शास्त्रस्यास्य साहाय्येन कर्मभाग्यसम्बद्धानि शुभाशुभफलानि जनानां प्रदिशन्ति।
जातकग्रन्थेषु स्वदेशे परदेशे वा कुत्र भाग्योदयो भवतीति विषये वर्णनं प्राप्यते। स्वदेशं त्यक्त्वाध्ययनाय, अर्थार्जनाय भवितव्यरूपेण वा दीर्घकालपर्यन्तमल्पकालपर्यन्तं वा देशान्तरगमनमेव विदेशयोगः कथ्यते । अस्मिन् योगेषु जातो नरः प्रवासशीलः, परदेशगमनशीलः, भ्रमणशीलश्च भवति। विदेशयोगः सुयोगदुर्योगौ द्वौ विधौ स्तः। सुयोगे विदेशे सुखं भवति चेत् दुर्योगे कष्टं भवति। जातकस्य जन्मकाले दशाकाले वा यस्य ग्रहस्य प्राबल्यं भवति। जीवनेऽपि तस्यैव ग्रहस्य प्राधान्यं जायते। शनिरविभौमाः क्षीणचन्द्रश्च पापाः बुधगुरुशुक्राः तथा पूणर्चन्द्रोऽपि शुभग्रहाः कथ्यन्ते। जन्मकुण्डल्यां केन्द्रत्रिकोणभावस्थाः ग्रहाः शुभाः भवन्ति। नीचास्तत्रिषष्ठाष्टमैकादशद्वादशभावस्था ग्रहा अशुभाः भवन्ति। स्वभवने, स्वोच्चे, स्वमूलत्रिकोणे केन्द्रे स्ववर्गे च ग्रहा भवन्ति तदा शुभफलदायका भवन्ति। तथैव ग्रहाः नीचभवने, शत्रुभवने , त्रिकस्थाने, अस्तराशिस्थिते च भवन्ति तदा अशुभफलदायका भवन्ति। जातकस्य जन्मकालमाधारीकृत्य निर्मितायां जन्मकुण्डल्यां द्वादशभावस्थितानां सूर्यादिग्रहाणां राशिस्थिति-दृष्टि-उच्च-नीच-उदय-अस्त-बाल्याद्यवस्था तथा च शत्रु-मित्राद्यवस्थाया आधारे विदेशयोगं निर्धारयितुं शक्यते। प्रथमद्वितीयतृतीयपञ्चमसप्तमनवमद्वादशभावाः विशेषेण विदेशयोगकारका भावा मन्यन्ते। तेषु प्रथमभावात् शरीरसम्बद्ध यात्रा, द्वितीयात् धनार्जनसम्बद्ध यात्रा, तृतीयात् व्यवसायसम्बद्ध यात्रा, पञ्चमात् विद्यासम्बद्ध, युद्धसम्बद्धयात्रा श्च, लघुयात्रा सप्तमात्, दीर्घकालस्य यात्रा नवमात्, राजकीययात्रा दशमात्, अत्यन्त दूरदेशस्य यात्रा द्वादशभावात् विचार्यन्ते। (कपिलअज्ञातः ज्योतिषसाहित्यःपृ ५९ )
अध्ययनस्य प्रमुखाः समस्याः
ज्योतिषशास्त्रं सर्वेषां लौकिकवैदिककर्मसम्बद्धानां जनानां कृते महदुपकारकं, व्यावहारिकञ्च विद्यते। एतदर्थं शास्त्रमिदं सर्वैरवगन्तव्यम्। अस्याध्यनस्य मुख्याः समस्या अत्र प्रस्तूयन्ते : –
क) ज्योतिषशास्त्रे विदेशगमनयोगस्य लक्षणं किम् ?
ख) विदेशगमनयोगस्य शुभाशुभफलं किम् ?
अध्ययनस्योद्देश्यम्
ज्योतिषशास्त्रसम्बद्धस्यास्याध्ययनस्य सारभूतमुद्देश्यमत्र प्रस्तूयते :-
क) ज्योतिषशास्त्रे विदेशगमनयोगस्य लक्षणं विवेचनम्।
ख) विदेशयोगस्य शुभाशुभफलं विश्लेषणम्।
अध्ययनविधिः
शोधविषयपूरणाय सङ्कलितानां सामग्रीणां सम्यक्तया सम्पादयितुं पुस्तकालयविधिः प्रयुज्यते। पुस्तकालयत एव सामग्रीणां सङ्कलनमत्र विधीयते। प्रतिवेदननिर्माणकर्मणि यथासम्भवं यथाऽऽवश्यकं विश्लेषणतुलनाव्याख्यानमुनाचयनविधीनां च प्रयोगो विधीयते। विषयवस्तुनः विश्लेषणे स्वोपज्ञताया प्रयोगः क्रियते चेत् प्राचीनप्रसिद्धग्रन्थानामुद्धरणे एवं परम्परानुसारेण विषयविश्लेषणे तु लेखनपृष्ठपद्धतिरनुसृतं वर्तते।
अध्ययनस्य क्षेत्रं सीमाङ्कनञ्च
प्रस्तुतं लेख मुख्यतया विदेशयोगस्यान्तर्वस्तूनां समीक्षणे गवेषणे च सीमितं वर्तते।
विदेशगमनयोगस्य लक्षणम्
चन्द्रशुक्रबुधग्रहाः चरग्रहा मन्यते। मेषकर्कटतुलामकरराशयः चरराशयः कथ्यते। चरग्रहेण संयुते दृष्टे वा चरराशिस्थिते लग्ने भवति चेत् प्रबल विदेशयोगो भवति। विदेशयोगे समुत्पन्नो नरो दीर्घकालपर्यन्तं अल्पकालपर्यन्तं परदेशे निवसति। सामान्यतया पापग्रहस्या-शुभस्थानस्थितस्य ग्रहस्य प्रभावात् निर्मितं विदेशयोगं अशुभविदेशयोगः कथ्यते। पापग्रहोत्पन्ने विदेशयोगे जातो नरः परदेशे पीडितः शोकनिमग्नो धनरहितश्च भवति। तस्य दशाकालं कष्टफलप्रदायकं मन्यते। शुभग्रहस्य, शुभस्थानस्थितस्य च ग्रहस्य प्रभावात् निर्मितं विदेशयोगं शुभविदेशयोगः कथ्यते। शुभग्रहोत्पन्ने विदेशयोगे जातो नरः परदेशे स्थितेऽपि प्रसिद्धः धीधनधर्मसम्मानैश्च युतो भवति। अर्थात् शुभग्रहस्य दशाकाले विदेशगमने सखदायकं भवति चेत् पापग्रहस्य दशाकाले विदेशगमने कष्टदायकं भवति। अशुभयोगाधारेण, ग्रहस्थित्याधारेण, भावस्थित्यानुसारेण, दशाफलाधारेण च विविधा विदेशगमनसम्बद्धयोगानां फलानाञ्च विश्लेषणं क्रियते।
शनिरविभौमाः पापयुतबुध,क्षीणचन्द्रश्च पापग्रहाः कथ्यन्ते। बुधगुरुशुक्राःपूणर्चन्द्रोऽपि शुभग्रहाः कथ्यन्ते। (वैद्यनाथ जातकपारिजात अ २ श्लो ९)। शुक्रचन्द्रबुधाश्च चरग्रहा मन्यते। सूर्यशनिगुरुभौमाश्च स्थिर ग्रहा मन्यते। मेषकर्कटतुलामकराश्च चरराशय मन्यते। वृषसिंहवृश्चिककुम्भाश्च स्थिरराशय मन्यते। मिथुनकन्याधनुमीनश्च द्विस्वभावा राशय मन्यते। केन्द्रत्रिकोणभावस्था चरग्रहाः स्वभवने, स्वोच्चे, स्वमूलत्रिकोणे, स्ववर्गे च भवन्ति तदा विनिर्मितं विदेशयोगंफलं शुभं मन्यते। नीचास्तत्रिषष्ठाष्टमैकादशद्वादशभावस्था, त्रिकस्थानेशाग्रहाश्च अशुभा भवन्ति। अशुभग्रहाणां विदेशगमनयोगं अशुभं मन्यते। तस्य विदेशयोगफलं अशुभप्रदायकं भवति। अर्थात् पापग्रहाणां,भावफलं, दशान्तर्दशाफलं, विदेशयोगफलञ्च कष्टप्रदायका भवन्ति। जन्मकुण्डल्यां प्रथमभावे मेषकर्कटतुलामकराश्च मध्ये एकराशिस्थते शुक्रः,चन्द्रो, बुधग्रहो वा भवति चेत् चरग्रहेण दृष्टे च भवति तदा विदेशे भाग्योदयो भवति। तथैव द्वादशभावे मेषकर्कटतुलामकराश्च मध्ये किमपि एकराशिस्थिते शुक्रे, चन्द्रे, बुधे वा भवति चेत् चरग्रहेण पश्यति तदा विदेशे भाग्योदयो भवति। षष्ठेश, अष्टमेश, शनि मध्ये एकोऽपि ग्रहो द्वादशभावे भवति, पश्यति वा तदा विदेशे भाग्योदयो भवति। अथवा तस्मिन् योगे समुत्पन्नः पुरुष स्वदेशं त्यक्त्वा परदेशे निवसति। (देवकीनन्दनः, ज्योतिषरत्नाकरः, पृ ४२९)।
विदेशयोगे ग्रहाणां भूमिका
गृहणाति गतिविशेषानिति यद्वा गृहणाति फलदातृत्वेन जीवानिति ग्रहः। सूर्य-चन्द-भौम-बुध-गुरु-शुक्र-शनिश्चेत्येते सप्तग्रहाः प्रसिद्धाः सन्ति। राहुःकेतश्चेति छायाग्रहौ स्तः। ग्रहाधिनं जगत्सर्वं अर्थात् आकाशे भ्रम्यमाणानां ग्रहाणां गतिस्थितियुत्यादिभिस्तात्कालिकबलाबलाधारेण च ते कदाचिच्छुभफलदा कदाचिदशुभफलदाश्च भवन्ति। तदाधारेण जगति प्राणिनः सुखमानन्दं क्लेशं दुःखञ्चेति शुभाशुभफलान्यनुभवन्ति। मेषादि राशि क्रमेण कुजशुक्रबुधचन्द्रसूर्यबुधसितभौम गुरुशनिशनिगुरवःभवनाधिपा भवन्ति।
दिवाकरादिग्रहाः क्रमेण मेषवृषमकरकन्याकर्कटमीनतुलाराशिषु उच्चा भवन्ति। स्वोच्चात् सप्तमस्थानेषु नीचा भवन्ति। सूर्यादि क्रमेण सिंहवृषमेषकन्याधनुतुलाकुम्भास्त्रिकोणभवनानि भवन्ति। तथैव सूर्यादि क्रमेण भौमचन्द्रगुरवः, रविबुधौ, सूर्यचन्द्रगुरवः, शुक्रसूर्यौ, भौमार्कचन्द्राः, शनिबुधौ, शुक्रबुधौ सुहृदः भवन्ति। बुधः, भौमगुरुशनिशुक्राः, शनिशुक्रौ, शनिः, गुरुभौमौ, सुरगुरुः समा भवन्ति। अवशिष्टा रिपव भवन्ति। ( जीवनाथः, भावकुतूहलम्, अ १ श्लो ५,६,७,८,९,१५ )
ग्रहराशिचक्रम्
ग्रहाः सूर्यः चन्द्रः भौमः बुधः गुरुः शुक्रः शनिः
राशयः ५ ४ १,८ ३,६ ९,१२ २,७ १०,११
ग्रहाणां उच्चनीचचक्रम्
ग्रहाः सूर्यः चन्द्रः भौमः बुधः गुरुः शुक्रः शनिः
उच्चराशिः १ २ १० ६ ४ १२ ७
नीचराशिः ७ ८ ४ १२ १० ६ १
अंशः १० ३ १८ १५ ५ २७ २०
ग्रहाणां शत्रुमित्रचक्रम्
ग्रहाः सूर्यः चन्द्रः भौमः बुधः गुरुः शुक्रः शनिः
मित्राणि च.भौ.बृ. सू.बु सू. चं. बृ. सू. शु. सू.चं.मं. बु. शं. बु. शु.
शत्रवः शं. शु. बु. चं. बु. शु. सू. चं. सू.चं.मं.
समः बु. भौ.बृ.शु.श. शु. श. मं. बृ. श. मं .बृ. बृ.
शनिरविभौमाः क्षीणचन्द्रश्च पापग्रहाः कथ्यन्ते। बुधगुरुशुक्राः तथा पूणर्चन्द्रोऽपि शुभग्रहाः कथ्यन्ते। जन्मकुण्डल्यां सूर्यादिग्रहाः केन्द्रत्रिकोणभावस्था, स्वभवने स्वोच्चे स्वमूलत्रिकोणे केन्द्रे स्ववर्गे च भवन्ति तदा शुभफलप्रदातारः भवन्ति। नीचास्तत्रिषष्ठाष्टमैकादशद्वादशभावस्था त्रिकस्थानेशाग्रहाश्चाशुभाः कथ्यन्ते तेऽशुभफलप्रदातारः भवन्ति। शुभग्रहस्य विदेशयोगः, फलञ्च शुभप्रदायकं भवति चेत् पापग्रहस्यं विदेशयोगः, फलञ्च कष्टप्रदायकं भवति।
विदेशगमने देशनिर्धारणम्
ग्रहाणां देश निर्धारणविषये सूर्यस्य देवभूमिः, कलिङ्गदेशः, सुमेरुपर्वतादि, चन्द्रस्य तोयभूमिः, समुद्रप्रदेशः, यवनादि देशः, भौमस्य उज्जयनीदेशः, लङ्कादिकृष्णासरिदन्तप्रदेशो वा, बुध्रस्य विन्ध्यपर्वतात् गङ्गानदीं यावत्, मगधदेशो वा, गुरो गौतमी नदितःविन्ध्यपर्वत पर्यन्तं, सिन्धप्रदेशो वा, शुक्रस्य समतटदेशः, कृष्णा नदितः गौतमी नदी पर्यन्तं अर्थात् पुण्यनदी, शनेः गङ्गामारभ्य हिमालय पर्यन्तं सौराष्ट्रः, म्लेच्छदेश वा यवनदेशः, राहुकेत्वो द्रविडदेशः यवनदेशं इति वर्णनं प्राप्यते। (वैद्यनाथ जातकपारिजातः अ २, श्लो २४, २५),( कल्याणवर्मा , सारावली अ ८ श्लो १४,१५)। वर्तमान समये देशनामानि संशोधिता सन्ति तेन सूर्यस्य वनप्रदेशस्य देश अष्ट्रेलिया, क्यानडा, कङ्गो इत्यादि देशः, चन्द्रस्य सामुद्रिकटापुयुक्तदेशःवेलायतमालदिप्सादि देशः, भौमस्य दक्षिणदिक्स्थदेशः जापान, कोरिया इत्यादि देशः, बुधस्य उत्तरदिक्स्थ देशःडेनमार्कः, फिनल्याण्डः इत्यादिदेशः, सौन्दर्यमयदेशःअथवा मगधदेशः, चीनः रसियादेशो वा गुरो आर्यावर्तदेश अथौत् भारतदेशः, शुक्रस्य कीकटदेशः अर्थात् युरोप, अमेरिकादि देशः,शनेः पश्चिमस्थ देश म्लेच्छदेशः, मुसलमानस्य देशःपाकिस्तान, इन्डोनेसिया, बंगलादेशःइत्यादि। (कपिल अज्ञात, ज्योतिष र साहित्य पृ ५७)।
विदेशगमनकारका योगाः
रज्जुयोगः
जातकस्य जन्मकुण्डल्यां सर्वे ग्रहाः चरराशौ स्थिताः भवन्ति चेत् रज्जुयोगो भवति। अस्मिन् योगे समुत्पन्नो मानवो विदेशवासी भवति।
ईर्ष्युविदेशनिरतोऽध्वरुचिश्च रज्वाम्। (वैद्यनाथः जातकपारिजातः अ.७, श्लो.१७४)।
भिक्षुकयोगः
यदा गुरुभौमशनिबुधा नीचस्थानगताः अस्तङ्गता स्यात् तदा भिक्षुकयोगो भवति।
यदा लग्ने स्थिरसंज्ञके राशिनामन्यतमे, सर्वे पापा केन्द्रोपगतासर्वे शुभग्रहा केन्द्राद् वहिस्थानगता भवेयु तदा एतस्मिन् योगे जातः भिक्षुकः भवति।
तथा सर्वे शुभग्रहाः केन्द्रा चेत् केन्द्रगते, लग्नगते चन्द्रे व्ययगते देवगुरौ भवति तदा भिक्षुकयोगो भवति। एतस्मिन् योगे जातेः शोकमग्नो भूत्वा विदेशं गच्छति। (वैद्यनाथः जातकपारिजातः अ.६, श्लो.३२,३३)।
दुरुधरायोगः
सूर्यं विहाय चन्द्रात् द्वितीये द्वादशस्थानगताः केचित् ग्रहाः भवन्ति चेत् दुरुधरायोगो भवति। अस्मिन् योगे जातः पुरुषः देशादेशं भ्रमति।
वासियोगः
सूर्यात् व्ययस्थाने ग्रहो भवति तथा द्वितीये च ग्रहो नभवति तदा वासियोगो भवति। अस्मिन् योगे समुत्पन्नोऽतिमूर्खः परदेशनिवासी च भवति। (वैद्यनाथः जातकपारिजातः अ.६, श्लो ५, अ.७, श्लो.८३ )।
प्रभञ्जनयोगः
स्वोच्चे शुक्रे द्वादशस्थानगते सति प्रभञ्जनयोगो भवति। अस्मिन् योगे जातो विदेशं गच्छति।
व्ययभाग्याधिनेतारौ परस्परौ दृष्टौ,युतौ वा प्रभञ्जनयोगो भवति। स विदेशगमनकारको भवति। (कपिलअज्ञात : ज्योतिष र साहित्यःपृ ५८ )।
वायुयोगः
सूर्येण दृष्ट द्वादशभवनाधिपं भवति तदा वायुयोगो भवति। सः शुभकार्यकर्तु विदेशमुपगच्छति। (कपिलअज्ञात : ज्योतिष र साहित्यःपृ ५८)।
मरुत्वेगयोगः
स्वोच्चः, स्वगृहस्थो वा ग्रहो द्वादशभावगते सति मरुत्वेगयोगो भवति। स वायुयानात् विदेशं गच्छति। (कपिलअज्ञातः ज्योतिष र साहित्यःपृ ५८)।
सूर्यकृत् विदेशयोगः
क) सौरपरिवारान्तर्गतानां ग्रहाणां मध्ये सूर्य राजासमानं,दीर्घकाययुक्तो पापग्रहोऽस्ति। पूर्व दिक्स्थितानां देशानां यात्राकारकम्, दूरयात्राकारकं च ग्रहं मन्यते। यात्रा जन्मकुण्डल्यां मिथुने कन्यायां वा राशिस्थिते सूर्ये चन्द्रेणावलोकिते सत्यस्मिन् योगे समुत्पन्नो जातकः शत्रुभिः बन्धुभिश्च पीडितः बहुविलापी च भूत्वा विदेशं गच्छति। बुधराशिस्थितः सूर्यः गुरुणावलोकितश्चेच्छास्त्रज्ञाता राजदूतः भूत्वा विदेशं गच्छति। (कल्याणवर्मा सारावली, अ.२२, श्लो.२०,२३,४४,४५ )।
ख) कार्तिकमासे अर्थात् नीचराशिस्थिते श्रीसूर्ये समुत्पन्नः जातकः दुष्टस्वभावयुतः निर्भिकः परकर्मरतः
परदाराशक्तस्तथा बहुविलापी च भूत्वा विदेशं गच्छति। (वैद्यनाथःजातकपारिजातः, अ.८,श्लो. ११४)।
चन्द्रकृत् विदेशयोगः
वायव्यकोणस्थितानां देशानां यात्राकारकम्, लघुयात्रादायकश्च ग्रहः चन्द्रं मन्यते ।
क) कन्याराशिस्थिते चन्द्रे अर्थात् कन्याराशियुक्तो नरो लज्जावान् आलस्यप्रियः गमनशीलः शिथिलः सुखी
सत्यभाषी कलासु निपुणः शास्त्रार्थविद् धार्मिकोऽल्पपुत्रान्वितो प्रवासी च भवति।
ख) बुधेन दृष्टेन मकरराशिस्थितेन चन्द्रेण च जातकः मूर्खः स्त्रीरहितः धनहीनोऽस्थिरमतिःप्रवासी भवति।
(बृहज्जातकम् अ.१७, श्लो.६)।
ग) पापान्वितस्य निशाकरस्य दशाकाले अग्निचौरन्धुहानिश्च जायते। विदेशगमनं अशुभं भवति। (वैकटेश, सवार्थ चिन्तामणिःअ १३ श्लो ८०)।
भौमकृत् विदेशयोगः
दक्षिणदिक्स्थितानां देशानां यात्राकारकम, वायुयात्राकारकम्, मध्यमदूरस्थ देशानां यात्रादायकञ्च भौमोऽस्ति।
क) मकरराशिस्थितस्य कुजस्य कारणेन जातकः तेजस्वी कुपुत्रवान् दुःसाहसी अभिमानी प्रवासी च भवति।
ख) गुरुणा अवलोकितस्य कन्याराशिस्थितस्य कुजस्य कारणेन जातकः सर्वकार्येषु कुशलो भवति। सः
राजदूतरूपेण विदेशं गच्छति। (कल्याणवर्मा, सारावली अ.४० श्लो.४०)।
ग) मीनराशिस्थितस्य कुजस्य कारणेन जातकः रोगार्तोऽल्पपुत्रान्वितः स्वबन्धुपरिभूतः प्रशंसाप्रियः विख्यातः प्रवासशीलश्च भवति। (कल्याणवर्मा , सारावली अ.२५श्लो.२३,२४)।
बुधकृत् विदेशयोगः
बुधग्रहोत्तरदिक्स्थितानां देशानां यात्राकारकम्, ज्ञानविज्ञानशिक्षाव्यापारादि विषयाणां, निकटस्थदेशानां च यात्रादायकं मन्यते ।
क) कर्कटराशिस्थितस्य कुजस्य कारणेन जातकः प्राज्ञोऽल्पपुत्रान्वितः स्त्रीरतिगेयादिसक्तः, चञ्चलः
बहूप्रलापी स्वबन्धुद्रोही कुकर्मी, बहुक्रियाशक्तः सुकविः स्ववंशे प्रसिद्धः प्रवासशीलश्च भवति।
(कल्याणवर्मा सारावली अ.२६श्लो.७, ८)।
ख) मीनराशिस्थितस्य कुजस्य कारणेन जातकः आचारशौचकर्मादिनिरतः पुत्रहीनः कुशलस्त्रीयुक्तः चञ्चलः विज्ञानश्रुतिकलावियुक्तः परधनसञ्चयदक्ष प्रवासशीलश्च भवति।
बृहस्पतिकृत् विदेशयोगः
गुरु ईशानकोण्स्थितानां देशानां यात्राकारकम् , धर्मज्ञानविज्ञानशिक्षापर्वतारोहणासम्मेलनादि विषयाणां यात्राकारकम्, दूरस्थितानां देशानां यात्रादायकञ्च मन्यते ।
क) गुरुः तुलाराशिस्थितः स्यात्तदा सः जातो बुद्धिमान्, बहुपुत्रवान् धनवान् भूषणप्रियः
विज्ञानश्रुतिकलावियुक्तः परधनसञ्चयदक्षः प्रवासशीलश्च भवति। (कल्याणवर्मा सारावली अ.२७ श्लो.१३,१४)।
ख) गुरुः मकरराशिस्थितः स्यात्तदा सः जातो अल्पवीर्यवान् बहुश्रमवान् क्लेशवान् मूर्खः
विज्ञानश्रुतिकलाविमुखः विषादयुतः प्रवासशीलश्च भवति। (कल्याणवर्मा सारावली अ.२७ श्लो.१९,२०)।
शुक्रकृत् विदेशयोगः
शुक्र आग्नेयकोण्स्थितानां देशानां यात्राकारकं शुभग्रहरूपेण मन्यते । विनोदमनोरञ्जनादि विषयाणां भ्रमणकारकम्, मध्यमदूरस्थ देशानां यात्रादायकञ्च मन्यते ।
क) शुक्रः तुलाराशिस्थितः स्यात्तदा सः जातो बुद्धिमान्, द्विजदेवार्चनविलब्धकीर्तिवान् धनवान् भूषणप्रियः
विज्ञानश्रुतिकलासुनिपुणः धनसञ्चयदक्षः सौभाग्ययुक्तःप्रवासशीलश्च भवति। (कल्याणवर्मा सारावली अ.२८ श्लो. १३,१४)।
ख) सूर्येण दृष्टः धनराशिस्थितो मीनराशिस्थितो वा शुक्रः भवति चेत् तदा जातो नरो पण्डितः शूरः
कीर्तिवान् धनवान् प्रवासशीलश्च भवति। (कल्याणवर्मा सारावली अ.२८ श्लो.५५)।
शनिकृत् विदेशयोगः
शनिः पश्चिमदिक्स्थदेशानां यात्राकारकम्, व्यापारव्यवसायकर्मनिर्माणादि विषयाणां भ्रमणकारकम्, दूरस्थ देशानां यात्रादायकञ्च मन्यते ।
शनिः तुलाराशिस्थितः स्यात्तदा स जातको धनसङ्ग्रहकुशलः वृद्धसभायां श्रेष्ठतमः मधुरभाषी गणिकाप्रियः भवति तथा परदेशे धनं मानं च प्राप्नोति। (कल्याणवर्मा सारावली अ.२९ श्लो.२०)।
शनिः मकरराशिस्थितः स्यात्तदा स जातकोऽलङ्कारप्रियः क्रियाकलाज्ञः व्यवहारकुशलः प्रवासशीलश्च भवति। (कल्याणवर्मा सारावली अ.२९श्लो.२०)।
लग्नेशकृत् विदेशयोगः
लग्नेशस्थितात् भावात् द्वादशेशः लग्नेशस्य शत्रुग्रहश्चेत् स नीचराशिस्थिते दुर्बले वा शुक्रेणदृष्टश्चेत् विदेशयोगो भवति। ( वैद्यनाथः जातकपारिजातः अ ११, श्लो २३)।
अधिकग्रहाणां संयोगात् विदेशगमनयोगः
सूर्यचन्द्रगुरव एकभावस्थिते सति जातकः क्रोधसंयुतो प्रेमनिपुणः सेवाकुशलो चञ्चलः बुद्धिमान् तथा विदेशनिवासस्थो भवति। सूर्यबुधशक्रा एकत्रभावस्थिते सति जातकः वाचालः भ्रमणशीलः आज्ञापालकः प्रेमनिपुणः सेवाकुशलो तथा विदेशनिवासस्थो भवति।
भौमशुक्रशनयः, सूर्यचन्द्रशनयः, भौमगुरुशनयः एते ग्रहा कुण्डल्यां एकत्रभावे भवन्ति चेत् मतिहीनः कुपुत्ररुपेण दुःखितभावेन च मनुष्यः विदेशे निवसति।
कुण्डल्यां सूर्यचन्द्रबुधशुक्रशनिगुरव एकभावस्थिते एते षड् ग्रहाः भवन्ति चेत् शिररोगेण युक्त सन् उन्मादभावेन जनरहिते स्थाने च विदेशे निवसति।
कुण्डल्यां सूर्यचन्द्रबुधभौमशनिगुरव एकभावस्थिताश्चेत् (षड् ग्रहाः) जातकः चौरस्वभावयुक्तो परस्त्रीरतः कुष्ठरोगेण ग्रसितः बान्धवदूषितः मूर्खस्वभावेनयुक्तः सन् विदेशे निवसति।
भावकृत् विदेशगमनयोगः
प्रथमभावः द्वितीयः पञ्चमः अष्टमः नवमः दशमः द्वादशभावा विदेशयोगप्रत्युत्पादकभावाः मन्यन्ते। तत्र स्थितानां राशीनां ग्रहाणामाधारे च देशान्तरगमने शुभाशुभफलस्य प्रभावस्य च विश्लेषणं कर्तुं शक्यते।
प्रथमभावः
भाग्योदयविषयकयात्रा प्रथमभावात् विचार्यते।
क) जन्मलग्ने स्थिते चरग्रहे चरराशि (१,४,७,१०) स्थिते चरग्रहेण दृष्टे च सति तदा विदेशे भाग्योदयो भवति।
विदेशभाग्यं चरभे विलग्ने चरे तदीशे चरखेटदृष्टे।
स्थिते स्वदेशे बहुभाग्ययुक्तः स्थिरग्रहैर्भुरिधनान्वितः स्यात्।। (वैद्यनाथः जातकपारिजातः अ.११, श्लो.२५)
ख) यदा प्रथमभावे सिंहराशिः भवति तदा नरः परदेशे निवसति।
जातः सिंहविलग्नकेऽल्पतनयः सन्तुष्टधीहिंसकः।
शूरो राजवशीकरो जितरिपुः कामी विदेशं गतः।। (वैद्यनाथः जातकपारिजातः अ.९, श्लो.१०७)।
द्वितीयभावः
धनार्जनविषयकयात्रा द्वितीयभावात् विचार्यते।
जातकस्य जन्मकुण्डल्यां द्वितीयभावस्थः शनि भवति चेत् विकृतमुखाकृतियुक्तो न्यायकर्ता स्वजनरहितः पश्चात् परदेशगतो धनवाहनादिभोक्ता भवति। (कल्याणवर्मा, सारावली, अ.३०, श्लो.७५)।
पञ्चमभावः
विद्याज्ञानविषयादि यात्रा द्वितीयभावात् विचार्यते।
यदा सूर्यग्रहः पञ्चमभावे भवति तदा जातकः राजप्रियः चञ्चलबुद्धियुक्तस्तथा परदेशगमनशीलो भवति। तथैव पञ्चमे भौमे भवति चेत् विधर्मी, भोगी, धनी, साहसिकः, चञ्चलो भ्रमणशीलश्च भवति। ( वैद्यनाथः जातकपारिजातः अ.८, श्लो.७१,७२)।
सप्तमभावः
युद्धविषयादि यात्रा तथा स्वल्पयात्रा सप्तमभावात् विचार्यते।
यदा सप्तमभावगते चन्द्रे भवति तदा दयालु, भोगवान्, स्त्रीवश्यको भ्रमणशीलश्च भवति। (वैद्यनाथः जातकपारिजातः अ.८, श्लो.७९)।
विवाहकालिककुण्डल्यायां सप्तमस्थाने चन्द्रे भवति चेत् प्रवासकारको भवति। (वराहमिहिर बृहत्संहिता अ १०३, श्लो ७ )।
अष्टमभावः
रोगविषयकयात्रा अष्टमभावात् विचार्यते।
क) व्ययभावस्थे चतुर्थेशे एवं अष्टमभावगतश्चतुर्थेशो च विदेशे गच्छति तथा विदेशे गृहनिर्माणं करोति। (वेङ्कटेशशर्मा, सवार्थचिन्तामणिः अ.४, श्लो.१६८)।
ख) अष्टमभावे चरराशिस्थिते सति परदेशे मृत्युं प्राप्नोति। (कल्याणवर्मा, सारावली अ.४६ श्लो.१)।
ग) अष्टमभावस्य स्वामीग्रहो भौम नवमभावे गते सति परदेशे मृत्युं प्राप्नोति।
(देवकीनन्दनः, ज्योतिषरत्नाकरः, पृ.४२९)।
नवमभावः
धर्मविषयकयात्रा नवमभावात् विचार्यते।
क) चन्द्रशनिभ्यां दृष्टे नवमभावस्थे गुरौ विदेशे भाग्योदयो भवति। स विवादशीलः, अनृतवचनयुतः स्थिरजीवी च भवति।
ख) भौमशुक्राभ्यां दृष्टे नवमभावस्थे गुरौ विदेशे भाग्योदयो भवति। स विद्वान् सात्विकः अतिचतुरः क्रूरश्च भवति।
ग) शनिभौमाभ्यां दृष्टे नवमभावस्थे गुरौ विदेशे भाग्योदयो भवति। स दुष्टः द्रोही चञ्चलश्च भवति।
घ) भाग्येशस्य दृष्टिः युतिश्च रहितोऽन्यग्रहेण सहितो दृष्टो वा भाग्यभावो भवति चेत् विदेशे भाग्योदयो भवति। (कल्याणवर्मा , सारावली अ ३२ श्लो १६,१८)।
ग) सूर्यबुधशनिग्रहाः नवमभावस्था चेत् विदेशे भाग्योदयो भवति। सः संग्रामप्रियः निष्ठुरोऽतिक्रुद्धश्च भवति।
घ) सूर्यभौमबुधग्रहा नवमभावस्था चेत् विदेशे भाग्योदयो भवति। सः परस्त्रीगामी पापान्वितो कार्यकुशलः मिथ्याभाषी च भवति।
ङ) सूर्यचन्द्रभौमबुधग्रहाः नवमभावस्थाश्चेत् विदेशे भाग्योदययुक्तो नित्यसंतुष्टोत्तमपुरुषो भवति।
च) भौमबुधशुक्रशनिग्रहाः नवमभावस्थाश्चेत् विदेशे भाग्योदययुक्तो सुशीलः धनी धार्मिकश्च भवति।
छ) गुरुबुधशुक्रशनिग्रहाः नवमभावस्थाश्चेत् परविवादरतो विदेशे धनार्जनयुक्तो भवति।
(कल्याणवर्मा, सारावली अ ३२, श्लो ८३, ११०, ११२)।
दशमभावः
कर्मव्यापारराजकर्मविषयकयात्रायाः दशमभावात् विचार्यते।
क) दशमभावस्थौ शनिसूर्यौ भवतौ चेत्तदा विदेशे दासनृपतिअश्वचौरादि संश्रयाद्वापि धनमार्जयित्वा निवसति। (कल्याणवर्मा, सारावली अ ३१, श्लो २५)।
ख) चन्द्रात शुक्रभौमौ दशमभावस्थौ चेत्तदा स्त्रीसंश्रयेन धनमार्जयति। स विदेशे सुवणर्मुक्तादिव्यवसाये संलग्नो भवति। (कल्याणवर्मा, सारावली अ.३३, श्लो.२१)।
ग) बुधगुरुशुक्रभौमाः दशमभावस्थाश्चेत्तदा विविधकार्याशक्तो विदेशवासी भवति। (कल्याणवर्मा, सारावली अ ३३, श्लो ५६)।
द्वादशभावः
अत्यन्तदूरदेशस्य यात्रातथा व्ययाधिकयात्रा द्वादशभावात् विचार्यते।
चतुर्थेश द्वादशभावस्थितश्चेत्तदा सः पितृस्थानं त्यक्त्वा विदेशं प्रतिगच्छति।
द्वादशभावस्थितश्चन्द्रश्चेत्तदा सः धनेन दारेण च रहितो विदेशे प्रतिगच्छति।
द्वादशभावस्थितः लग्नेशश्चेत्तदा, दशमभावे कूरग्रहेण युते सति चन्द्रभौमाभ्यां एकराशिस्थितश्चेत् सः अभिशप्तः मलिनंः भिक्षाशनी तथा परदेशनिवासी भवति।
होरेश्वरे रिष्फगते तु माने क्रूरान्विते भौमयुते शशाङ्के।
जातोऽभिशप्तः परदेशवासी भिक्षाशनी दुःखितदेहभाक् स्यात्।। (वेङ्कटेश,सवार्थचिन्तामणि अ.९, श्लो ५५)।
विदेशगमनदशाकालः
विदेशयोगस्य प्रभावकालं अथवा विदेशयोगस्य फलप्रदानकालं विदेशगमनदशाकालं कथ्यते। प्राचीनकाले विकासस्याभावे वाहनसाधनानामभावे यात्रा कष्टपूर्ण मन्यते। वायुयानस्याभावे जलयात्राया एवं पदयात्रायाः प्रयुज्यते तेन सामान्यतो विदेशगमनं अशुभं कष्टदायकं वा मन्यते परन्तु वर्तमान समये विज्ञानप्रविधीनां विकासानां विदेशगमनं सुखस्वरूपं भाग्योन्नतिदायकं च मन्यते। सामान्यतो अशुभग्रहस्य दशाकाले, नीचराशिस्थितग्रहस्य दशाकाले, अष्टमभावाधिपस्य दशाकाले, पापग्रहस्य दशाकाले, शत्रुराशिस्थ, त्रिकभावस्थितस्य च दशाकाले अशुभफलभोगार्थं नरः स्वदेशं परित्यक्त्वा विदेशं गच्छति। कदाचित् शुभग्रहस्य दशाकालेऽपि भ्रमणार्थं, मनोरञ्जनार्थ., आर्थिकोपार्जनार्थं, व्यवसायसञ्चालनार्थं, युद्धपश्चातं शान्तिकार्यस्थापर्नार्थं, राजकार्यार्थं, मानसम्मानार्थञ्च मनुष्य देशाटने परदेशं गच्छति।
सूर्यदशाकालः
अष्टमस्थानस्थितस्य तुलाराशिस्थितस्य वा बलरहितसूर्यस्य दशाकाले जातकः विनाशं रोगं कष्टञ्च प्राप्नोति। तस्मिन् काले विनाशस्य कारणेन विदेशाटनो भवति। (कल्याणवर्मा, सारावली अ.४०,श्लो ५९)।
चन्द्रदशाकालः
उच्चस्थानस्थितस्य वृषराशिस्थितस्य वा चन्द्रस्य दशाकाले पुत्र-स्त्री-धन-मिष्ठान्नभोजन-वस्त्राभूषण-प्राप्तिहेतुना विदेशाटनो भवति।
भौमदशाकालः
गोचरे यदा भौमस्य दशा आगच्छति तदा धननाशम् कलहम् क्रोधाधिक्यम् कष्टम् चौराग्निभयम् तथा विदेशे वासं भवति।
धरासुतस्याप्यवरोहकाले स्थानार्थनाशं कलिकोपदुःखम्।
विदेशवासं स्वजनैर्विरोधं चौराग्निभूपैर्भयमेति कष्टम्।। (वेङ्कटेशः, सर्वार्थचिन्तामणि अ.१३ श्लो.९२)।
बुधदशाकालः
नीचस्थानस्थितस्य बुधस्य दशाकाले पदच्यूतिं बन्धुविरोधं कष्टं तथा वनवासं वा विदेशगमनं भवति।
गुरोर्दशाकालः
कर्कटराशिस्थितस्य गुरोर्दशाकाले भाग्यवृद्धिर्हेतुना राजसम्मानार्थं वा विदेशं गच्छति। तथैव व्ययभावगतस्य गुरोर्दशाकालेऽपि विदेशं गच्छति।
शुक्रस्य दशाकालः
पापग्रहेण दृष्टस्य शुक्रस्य दशाकाले सप्तमभावस्थस्य शुक्रस्य दशाकाले व्ययभावस्थस्य शुक्रस्य दशाकाले च प्रवासमुपगच्छति।
शनैश्चरस्य दशाकालः
कुम्भराशिस्थितस्य शनेर्दशाकाले प्रथमः नवमः दशमः व्ययस्थाने च गतस्य मन्दस्य दशाकाले देशान्तरं प्राप्नोति। (वेङ्कटेशः, सर्वार्थचिन्तामणि अ.१५ श्लो.९७,१११,१२०)।
उपसंहारः
वेदस्य चक्षुरूपं विशिष्टमङ्गं ज्योतिषशास्त्रं सर्वशास्त्रप्रसिद्धञ्च विद्यते। नेत्रं विना यथा लोकोऽन्धकारमनुभवति तथैव वेदादिशास्त्राण्यापि ज्योतिषशास्त्राभावे विकलाङ्गानि प्रतीयन्ते। अतो ज्योतिषमन्तरा वेदोऽप्यन्धवत् प्रतीयते। वैदिककर्मशीलानामयनं वेदोऽस्ति। वेदस्यापि नयनं ज्योतिषशास्त्रं विद्यते। अस्मिन् शास्त्रे सिद्धान्त-संहिता-होरा त्रयः स्कन्धाः प्रसिद्धा विद्यन्ते। तत्र संहिताहोरास्कन्धौ फलादेशार्थं प्रयुज्येते चेत् सिद्धान्तस्कन्धो ग्रहनक्षत्रादिसाधने कालगणने चोपयुज्यते। अन्य स्कन्धापेक्षया होरास्कन्धः सर्वजनप्रसिद्धः सर्वसुलभश्च विद्यते। अस्मिन् स्कन्धे जन्मकुण्डल्यां द्वादशभावस्थितेषु राशिषु ग्रहाणां स्थितिवसाद् बलाबलज्ञानपूर्वकं पूर्वापरजन्मस्य फलं समस्तव्यवहारोपयोगिनां विविधपक्षाणां शुभाशुभफलादेशः क्रियते। ग्रहयोगानां दशान्तर्दशानां च पर्यालोचनेन सुखदुःखेष्टानिष्टोन्नत्यवनति-भाग्योदयादिविषयाणां सूक्ष्मरूपेण फलादेशो विधीयते। सर्वे प्राणिनः कर्माधीनाः सन्ति। पूर्वजन्मार्जितपुण्यकर्मफलरूपेणैव मनुष्ययोनिः प्राप्यते । स्वकर्मणामनुरूपं मनुष्ये गुणो जायते। शुभाशुभकर्मानुसारं उत्तमादिकुलधर्मगुणानां प्राप्तिर्भवति। निजकर्मफलानुसारेण जातकाः सुखदुःखलाभालाभजयाजयभाग्यदुर्भाग्यादिविषयस्य भागिनो भवन्ति। भाग्योदयादिविषये सर्वेजनाः ज्ञातुमिच्छन्ति। स्वदेशं परित्यक्त्वा देशान्तरगमनं विदेशं कथ्यते। कुत्रस्थाने भाग्योदयः भवतीति विषये जातकग्रन्थेषु विविधानां विदेशयोगानां दशाकालानां च वर्णनं प्राप्यते। जन्मकुण्डल्यां केन्द्रत्रिकोणभावस्था ग्रहाः शुभाः भवन्ति। त्रिषष्ठाष्टमैकादशद्वादशभावस्थाः ग्रहा अशुभाः भवन्ति। यदास्वभवने स्वोच्चे स्वमूलत्रिकोणे केन्द्रे स्ववर्गे च भवन्ति तदा शुभफलं प्राप्यते। तथैव शनिरविभौमाः क्षीणचन्द्रश्च पापाः बुधगुरुशुक्राः पूणर्चन्द्रोऽपि शुभग्रहा कथ्यन्ते। पापग्रहस्य विदेशयोगफलं भावफलं दशान्तर्दशाफलञ्च कष्टफलप्रदायकं भवति। पापग्रहोत्पन्ने विदेशयोगे विदेशस्थितोऽपि जातकस्य जीवने प्रशस्तं कष्टं च भवति। शुभग्रहोत्पन्नः विदेशयोगो भवति तदा दशाकाले राजदूतरूपेण सम्मानप्राप्तिर्हेतुना परदेशं गच्छति।
सन्दर्भग्रन्थसूची
अज्ञातः कपिल( वि.सं. २०६६ ), ज्योतिष र साहित्य, चितवन : चितवन अध्ययन केन्द्र ।
आचार्यः, भास्करः (वि.सं. २०४५), सिद्धान्तशिरोमणि, वाराणसी : चौखम्बासंस्कृतसंस्थानम् ।
आचार्यः, वराहमिहिरः(सन् १९९८), लघुजातकम्, (व्या.दैवज्ञवाचस्पतिःश्रीवासुदेव), वाराणसी : सावित्री ठाकुर प्रकाशनम् ।
आचार्यः, वराहमिहिरः (सन् १९९७), बृहज्जातकम्, (व्या.डा.सुरेशचन्द्रः मिश्रः) नयाँदिल्ली : रञ्जनप्रकाशनम् ।
आचार्यः, वराहमिहिरः (२०६९), बृहत्संहिता, (द्वि.सं), (सम्पा. डा.सुरकान्तःझा) वाराणसी : चौखम्बासंस्कृतसंस्थानम् ।
ओझा, गोपेशकुमारः (सन् २०१५), फलदीपिका, १२ सं, वाराणसी : मोतिलालः वाराणसीदास ।
कविकालिदासः, (सन् २००९), उत्तरकालामृतम्, नयाँदिल्ली : रञ्जनप्रकाशनम् ।
कल्याणः,ज्योतिषतत्वाङ्कः, गीतापे्रस, गोरखपुरम्, वर्ष ८८, जनवरी (सन् २०१४)
जोशी, देवीदत्तः (सन् १९२२), सुगमज्योतिषः, प्र.सं., दिल्ली : मोतिलाल वाराणसीदास ।
झा, रूपनारायण (सन् १९९९), मानसागरी, (सम्पा.) वाराणसी : ज्योतिषप्रकाशनम् ।
झा, श्रीचन्द्रशेखरः (सन् १९०७), मेरुतन्त्रम्, (सम्पा.) लखनऊ : मुन्सी नवलकिशोर छापाखाना ।
तिवारी, मणिप्रसादः ( ? ), त्रिकाल जन्म कुण्डली, वाराणसी : दत्तात्रयप्रकाशनम् ।
दैवज्ञः, गणेशः (सन् २०१३), जातकालङ्कार:, व्याख्या. डा.सत्येन्द्र मिश्रः, वाराणसी : चौखम्बासूरभारती प्रकाशनम् ।
दैवज्ञः, पराशरः (सन् २००३), लघुपाराशरी, व्याख्या. डा.सूरकान्तः झा, वाराणसी : चौखम्बासूरभारती प्रकाशनम् ।
दैवज्ञ, पराशरः (१९६८), बृहत्पराशरहोराशास्त्रम्, सम्पा. पं.श्री सीताराम झा, (?) : मेससे खेलाडीलाल संकटाप्रसादः बृहस्पतिः । ……, (सन् २०१२), बृहस्पतिसंहिता, संम्पा. डा.गिरिजाशंकर शास्त्री मन्त्रेश्वरः, वाराणसी : चौखम्बासंस्कृतभवनम् ।
वैद्यनाथः (वि.सं २००६), जातकपारिजातः, सम्पा. सत्येन्द्रः मिश्रः, वाराणसी : चौखम्बासंस्कृतसीरीजभवनम् ।
वर्मा, कल्याणः (सन् १९७७), सारावली, प्र.सं., वाराणसी : मोतिलाल वनारसीदास ।
मिश्रः, सत्येन्द्रः (सम्वत् २००५), भावप्रकाशः, वाराणसी : चौखम्बासुरभारती प्रकाशनम् ।
शर्मा, पं.देवराजः (सम्वत् १९५९), ज्योतिषसार, (? ) : श्री सत्य नारायणयन्त्रालयः ।
शर्मा, गोपालराजः (वि.सं.२०६७), ग्रहयोगिनी स्तोत्र र सोमोत्पतिपाठ, ललितपुर : घुम्तीरुद्री टोली ।
श्रीजीवनाथः (वि.सं.२०४९), भावकुतूहलम्, वाराणसी : श्री ठाकुरप्रसाद पुस्तकभण्डार ।
श्री दीनानाथः (सन् ११९९), सर्वसंग्रहः, बम्बई : खेमराज श्रीकृष्णदास प्रकाशनम् ।
श्री वेङ्कटेशः (सन् २०१८), सर्वार्थचिन्तामणिः, वाराणसी : चौखम्बासुरभारती प्रकाशनम् ।
श्रीभट्टनारायणः (सन् १९७५), चमत्कारचिन्तामणिः, प्र.सं., वाराणसी : मोतिलाल वनारसीदास ।
श्रीमन्मिश्रः, बलभद्र (सन् १९८१), होरारत्नम्, द्वितीयभाग, सम्पा.नरेन्द्रप्रकाश जैन, दिल्ली : मोतिलाल वनारसीदास ।