दशकुमारचरितस्य मूलरचयिता दण्डी विद्यते । अस्य काव्यस्य कथावस्तु कविकल्पितं वर्तते । अस्य काव्यस्य वस्तु बहुविषयात्मकमस्ति । पात्रबाहुल्यं दृश्यते काव्येऽस्मिन् । बहुनायकं विद्यते काव्यमिदम् । यद्यपि दशकुमारचरितं चरित्रप्रधानमस्ति किन्तु काव्यसौन्दर्यदृशापि काव्यमिदमुल्लेख्यमस्ति ।
रमेश घिमिरे, विद्यावारिधि
सहप्राध्यापक:, साहित्यविभागे, नेपाल संस्कृतविश्वविद्यालयान्तर्गतत्य
पिण्डेश्वर विद्यापीठस्य
लेखसारः दशकुमारचरितस्य मूलरचयिता दण्डी विद्यते । अस्य काव्यस्य कथावस्तु कविकल्पितं वर्तते । अस्य काव्यस्य वस्तु बहुविषयात्मकमस्ति । पात्रबाहुल्यं दृश्यते काव्येऽस्मिन् । बहुनायकं विद्यते काव्यमिदम् । यद्यपि दशकुमारचरितं चरित्रप्रधानमस्ति किन्तु काव्यसौन्दर्यदृशापि काव्यमिदमुल्लेख्यमस्ति । वीररसस्य प्राधान्यं दृग्गोचरीभवति काव्येऽस्मिन् । अन्ये रसा अङ्गत्वेनात्र प्रतिष्ठामाप्नुवन्ति । अलङ्काररीतिगुणध्वनिवक्रोक्त्यौचित्याभिधेयानामपि काव्यसौन्दर्यतत्त्वानां विधानमस्मिन् काव्ये यथोचितं दृश्यते । प्रकृतिचमत्कृतिं प्रति कवेरीक्षणमतिस्वल्पं प्रतीयते । एतानेव मुख्यविषयानवलम्ब्य लेखेऽस्मिन् दशकुमारचरितस्य समीक्षणं विहितमस्ति ।
शब्दकुञ्जी : मङ्गलाचरणम्, उपजीव्यम्, काव्यसौन्दर्यम्, रसः, वक्रोक्तिः ।
विषयपरिचयः
संस्कृतसाहित्यजगति दशकुमारचरितं कथाकाव्यं प्रसिद्धमस्ति । एतत्काव्यं मूलतद् दण्डिना विरचितं मन्यते । साम्प्रतमुपलब्धस्य दशकुमारचरितस्य केचिदंशा अपरेणैव कविना रचिता वर्तन्त इति चाध्येतारः कथयन्ति । पूर्वपीठिकायाः पञ्चोच्छ्वासाः, उत्तरपीठिकाया उपसंहारश्चेति भागद्वयमपरकविवर्द्धितमिति तदन्वेषकानां मतं विद्यते । अस्मिन् विषये पृथगन्वेषणमावश्यकमस्ति । अस्मिन् लेखे समग्रतया काव्यविवेचनं विहितमस्ति । रचयितृभिन्नतां प्रति निरपेक्षभावो विद्यते लेखेऽस्मिन् । काव्यमिदं काव्यसौन्दर्येणोतप्रोतं दृश्यते, शिल्पसौष्वेन समञ्चितमस्ति, काल्पनिककथावस्तुन्याधृतं वर्तते तथैव दशसङ्ख्यकानां राजवाहनादीनां कुमाराणामद्भुतचरितजन्यविचित्रद्घटनावलिसमन्वितं च विद्यते । अस्यैव काव्यस्य सङ्क्षिप्तसमीक्षा लेखस्यास्यास्ति मुख्यो विषयः ।
अध्ययनस्यावश्यकतौचित्यञ्च
दशकुमारचरितं प्रसिद्धं काव्यमस्तीति तथ्येन काव्यस्यास्य संस्कृतकाव्यजगति महत्त्वावहता सिद्ध्यति । एतद्धेतोरेव विविधपाठ्यक्रमेषु चेदं काव्यं निर्धारितं दृश्यते । एकतः काव्यस्यास्य गरिमा, अपरतोऽस्य वस्तुजटिलता दृग्गोचरीभवति । एकस्यां स्वल्पाकृतौ समीक्षायां काव्यस्यास्य समग्रपरिचयः प्रायशो नोपलभ्यते । जिज्ञासावतामध्येतॄणां सौकर्याय लेखोऽयं विरचितो विद्यते । लेखस्यास्यौचित्यञ्चानेनैव स्पष्टीभवति ।
सैद्धान्तिक आधारः, शोधविधिः सामग्री च
अस्य समीक्षात्मकस्य लेखस्य निर्माणे प्राच्यकाव्यशास्त्रीयः सिद्धान्तोऽनुसृतो विद्यते । समीक्षणावसरे प्राथमिकसामग्रीरूपेण विश्लेष्यग्रन्थो दण्डिविरचितं दशकुमारचरितकाव्यं गृहीतमस्ति तथैव द्वितीयकसामग्रीरूपेण तत्सम्बद्धाः समालोचनाः समीक्षाष्टिप्पण्यश्च प्रयुक्ताः सन्ति । प्राथमिकसामग्रीरूपं विवच्यकाव्यं दशकुमारचरितस्य रचयितृसापेक्षतया न गृहीतमस्ति । कतिपयेंऽशाः कविनापरेण स्वयं संरच्य दण्डिविरचिते मूलकाव्ये संयोजिता इत्यपि दृष्टिरस्ति किन्त्वत्र रचयितृभेदविषयमुपेक्ष्य काव्यसमग्रतायाः समीक्षायै ध्यानं केन्द्रितं विद्यते । लेखेऽस्मिनागमनात्मकनिगमनात्मकविध्योर्द्वयोरेव यथोचितं प्रयोगं विधाय विषयविश्लेषणं विहितं वर्तते । नास्त्यत्र दत्ता पादटिप्पणी । साम्प्रतं प्रयोगपरम्परायां स्वीकृता लेखगर्भस्थटिप्पण्याः पद्धतिरत्रावलम्बिता विद्यते । सरलतायै स्रोतस उल्लेखने सङ्क्षेपीकरणसरणिश्चात्रोरीकृता वर्तते । उदाहरणार्थं ‘दशकु., २/६/४’ इत्यनेन दशकुमारचरितस्योत्तरपीठिकाया षष्ठोच्छ्वासस्य चतुर्थो गद्यांशो बोद्धव्यो भवति ।
विषयविमर्शः
रचयिता
दशकुमारचरितस्य रचना दण्डिना विहिता विद्यते । यद्यपि साम्प्रतं दशकुमारचरितनाम्ना यो पूर्वपीठिकोत्तरपीठिका चेति मूलभागद्वयाञ्चितो ग्रन्थः प्राप्यते, तस्य कतिपये भागा अपरेण कविना सान्दर्भिकं कथावस्तु संयोज्य रचिता इति च मतमभिव्यक्तमस्ति समालोचकैः । दण्डी तद्रचितग्रन्थस्थवस्तुभाषादिसाक्ष्येण दाक्षिणात्यः प्रतीयते । कवेरस्य जन्म कौशिकब्राह्मणकुले पल्लवनरेशराजधान्यां काञ्चीनगर्यां गौरीवीरदत्तयोः पुत्ररत्नत्वेनाभूत् । अस्य जन्मनगरी काञ्ची काञ्चीवरमिति नाम्नाधुना प्रसिद्धमस्ति । बालककाल एव मातृपितृवियोगहेतोर्निराश्रितोऽसौ काञ्च्यामुत्पन्नाद् दुःसाध्यविप्लवहेतोररण्याश्रयमनुसर्तुं बाध्योऽभूत् । विप्लवे शान्ते पुनश्च काञ्चीं प्रत्यावर्त्य पल्लवनरेशाश्रयमलब्ध । अस्य समयः सामान्यतया ख्रिष्टाब्दानुसारं सप्तमशताब्द्या उत्तरार्धादष्टमशताब्द्याः पूर्वार्धं यावन्मन्यते । दण्डी वैदिकवैष्णवमतानुयायी प्रतिभाति । दण्डिना काव्यादर्शो द्विसन्धानं दशकुमारचरितञ्चेति त्रयो ग्रन्था विरचिताः सन्ति । एतन्मध्ये काव्यादर्शः काव्यशास्त्रीयो ग्रन्थः, द्विसन्धानं श्लेषचमत्कारमयं महकाव्यम्, दशकुमारचरितं गद्यात्मकं कथाकाव्यमस्ति । अवन्तिसुन्दरीकथानामकं तदतिरिक्तञ्चैकं काव्यं दण्डिरचितमिति प्रख्यातमस्ति (आचार्य, २०६०, पृ. ५८-६५) ।
विधानिर्धारणम्
गद्यकाव्यस्य मूलतो कथाख्यायिका चेति द्वौ भेदौ प्रसिद्धौ स्तः । अमरकोशानुसारमाख्यायिका तथ्यवस्तुमूलिका भवति किन्तु कथा कल्पितार्था भवति (अमरकोशः : १/६/६) । कोलाहलाचार्य परम्पराश्रयत्वेनाख्यायिकाम्, कल्पनाश्रितत्वेऽपि स्तोकसत्याधृतत्वेन कथां स्वीकरोति । काव्यशास्त्रीयपरम्परायाञ्च कथाख्यायिकयोर्विषये बह्वी चर्चा मिलति । भामहानन्दवर्द्धनविश्वनाथादयः काव्यशास्त्रिणः कथाख्यायिकयोर्भेदं प्रतिपादयन्ति किन्तु काव्यादर्शनामके शास्त्रीयग्रन्थे दण्डी कथाख्यायिकयोर्भेदं न स्वीकरोति । स कथयति –
तत् कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता ।
अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः । । (काव्यादर्शः, १/२७)
दण्डिना सिद्धान्तेऽस्मिन् प्रतिपादितेऽपि मूलतः कल्पनाप्राधान्यं कथायाः, इतिहासप्राधान्यन्त्वाख्यायिकाया अभिलक्षणं स्वीकृत्य काव्यशास्त्रीयपरम्परायां कथाख्यायिकयोर्भेदः सामन्यतया स्थापित एव । अनया दृष्ट्या दशकुमारचरितं कथाकाव्यं वर्तते । अत्रत्यं कथावस्तु कविकल्पितमस्ति ।
मङ्गलाचरणम्
प्राच्यवाङ्मयः कल्याणमूलको विद्यते । न केवलं वाङ्मयेऽपितु पौरस्त्यसंस्कृतेः प्रत्येकं पक्षेषु कल्याणपरम्पराया अपेक्षा भवति । वाङ्मयजातञ्च संस्कृतेरेवांशो वर्तते । ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषाणि च भवन्ति, अध्येतारश्च प्रवक्तारो भवन्ति’ इति शास्त्रीयभणितिश्च प्राच्यवाङ्मये प्रसिद्धा विद्यते । सर्वथा मङ्गलाचरणमपरिहार्यं मन्यते । दशकुमारचरिते ग्रन्थादौ मङ्गलाचरणस्य विधानं सञ्जामस्ति । अत्रत्ये मङ्गलाचरणे त्रैविक्रमी स्तुतिर्विराजते । नमस्कारात्मकं वस्तुनिर्देशात्मकमाशीर्वादात्मकञ्चेति मङ्गलाचरणभेदत्रयेऽत्रत्यं मङ्गलाचरणमाशीर्वादात्मकं प्रतीयते । ‘त्रैविक्रमोऽङ्घ्रिदण्डोऽध्येतृवर्गायाध्यापकवर्गाय श्रोतृवर्गाय वा श्रेयो ददातु’ इत्यात्मक आशीर्वादो ह्यादिमङ्गलाचरणरूपेण दशकुमारचरितनाम्नि कथाकाव्ये विराजते ।
नामाकरणम्
चरितप्रधानं काव्यं वर्तते दशकुमारचरितम् । पात्राणां चरितेषु घटनासङ्ग्रहोऽवश्यमायाति । अनया दृशा काव्यस्यास्य घटनाप्राधान्यं च दृष्टिविषयमारोहति । अत्र राजवाहनः सोमदत्तः पुष्पोद्भवोऽपहारवर्मोपहारवर्मार्थपालः प्रमतिर्मित्रगुप्तो मन्त्रगुप्तो विश्रुतश्चेति दशसङ्ख्यकानां कुमाराणां विविधविस्मयकारिघटनावलिसमन्वितं चरितं वर्णितमस्ति । एतेषां पराक्रममयेन चरितेन समञ्चितत्वादेवास्य काव्यस्य नाम दशकुमारचरितमिति प्रतिष्ठितं वर्तते । अन्वर्थतायुक्तञ्च प्रतीयते काव्याभिधानमिदम् ।
संरचना
दशकुमारचरितं कथाकाव्यं मूलतो भागद्वयात्मकं विद्यते । प्रथमो भागः पूर्वपीठिकानाम्ना, अन्तिमश्च भाग उत्तरपीठिकानाम्ना चिह्नितो वर्तते । द्वावेव भागौ विविधैरुच्छ्वासैरञ्चितौ स्तः । प्रथमभागरूपायां पूर्वपीठिकायां पञ्चसङ्ख्यका उच्छ्वासाः सन्ति किन्त्वन्तिमभागरूपायामुत्तरपीठिकायामष्टौ सन्त्युच्छ्वासाः । उत्तरपीठिकाया अष्टमोच्छ्वासोऽपि मूलभाग उपसंहारश्चेति भागद्वयात्मको दृश्यते । प्रत्येकमुच्छ्वासाः पृथक् पृथगाख्यानयुताः सन्ति । पूर्वपीठिकायाः पञ्चमोच्छ्वास उत्तरपीठिकायाः प्रथमोच्छ्वासश्चेत्युच्छ्वासद्वयमेकेनैवाख्यानेनानुस्यूतं विद्यते किन्त्वन्यत्र स्थितिरेषा न दृग्विषयीभवति, प्रत्येकमुच्छ्वासेष्वाख्यानपार्थक्यं स्पष्टतया लक्ष्यते । अनया रीत्याख्यानपार्थक्ये सत्यपि सर्वेषामाख्यानामनुस्यूतिरेकस्मिन्नेव सूत्रेऽन्ततः सञ्जातोऽस्ति ।
शिल्पसौष्ठवम्
दशकुमारचरितं गद्यकाव्यमस्ति । गद्यशैल्यैव मूलं काव्यशरीरं निर्मितमस्ति किन्तु कुत्रचित् पद्यानां च प्रयोगो विद्यते । अत्र स्रग्धराच्छन्दसा रचितं मङ्गलाचरणं पद्यात्मकस्ति । पूर्वपीठिकायाः पञ्चमोच्छ्वासे राजवाहनमुद्दिश्यावन्तिसुन्दर्या प्रेषितं प्रणयपत्रं पद्यात्मकमस्ति । उत्तरपीठिकाया द्वितीयोच्छ्वासेऽपहारवर्मणा शयानामम्बालिकामभिलक्ष्य रचितं प्रेमपत्रं पद्यात्मकं विद्यते । उत्तरपीठिकाया षष्ठोच्छ्वासे ब्रह्मराक्षसेन सह मित्रगुप्तस्य पारस्परिकः संवादोऽपि पद्येन सञ्जातो दृश्यते । यथा –
किं क्रूरं ? – स्त्रीहृदयं, किं गृहिणः प्रियहिताय ? – दारगुणाः ।
कः कामः ? – सङ्कल्पः, किं दुष्करसाधनं ? – प्रज्ञा ।। (दशकु., २/६/२० सम्बद्धपद्यम्)
गद्यात्मकेऽपि दशकुमारचरितेऽनया रीत्या चतुर्णां पद्यानाञ्च प्रयोगो दृश्यते । मङ्गलाचरणपद्यादतिरिक्तं सर्वमेव पद्यजातमार्यया निबद्धं दृश्यते ।
दशकुमारचरिते गद्यानां मुक्तकोत्कलिकाप्रायवृत्तगन्धिचूर्णकनामकेषु चतुर्षु गद्यप्रकारेषु सर्वेषामेव प्रयोगो विलोक्यते । तन्मध्ये मुक्तकं समासरहितम्, उत्कलिकाप्रायं समासबहुलम्, वृत्तगन्धि वृत्तभागयुतम्, चूर्णकञ्च स्वल्पसमासमयं भवति । बहुषु स्थलेषु समासबाहुलतामूलकमुत्कलिकाप्रायं स्वल्पसमासमूलकं चूर्णकञ्चेति द्वयोः प्राधान्यं काव्येऽस्मिन् वर्तते । तदतिरिक्तयोर्द्वयोः प्रयोगे न्यूनता प्रतीयते । एकेन गद्येनात्र चूर्णकमुदाह्रियते, यथा –
“तत्र काचिदुत्कलिकेव स्वलावण्येन रसातलान्धकारं निह्नुवाना, विग्रहिणीव देवी विश्वम्भरा, हरगृहिणीवासुरविजयायावतीर्णा, पातालमागता गृहिणीव कुसुमधन्वनः, राजलक्ष्मीरिवानेकदुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा, निकृष्टकनकपुत्रिकेवावदातकान्तिः कन्यका चन्दनलतेव मलयमारुतेन मद्दर्शनेनोदकम्पत ।” (दशकु., २/४/२४)
स्वकीयाया उत्कृष्टकलायाः प्रस्तुतौ कविलोभो निरोष्ठ्यवर्णप्रयोगेन रचित उत्तरपीठिकायाः सप्तमोच्छ्वासे स्पष्टतया व्यक्तीभवति (चैतन्य, १९९१, पृ. ४१६) । एष मन्त्रगुप्ताख्यानरूप उच्छ्वासः संस्कृतसाहित्यजगत्येव पृथक् प्रयोगं बिभर्ति । एतद्विधप्रयोगो न दृग्गोचरीभवत्यन्त्र । कष्टसाध्यापि निरोष्ठ्यवर्णप्रयोगसाधना कविना सतर्कतापूर्वकं विहितम् । तत्कारणमपि कविना चातुर्यपूर्वकं प्रस्तुतमस्ति, यथा –
“स किल करकमलेन किञ्चित् संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलाधरमणिर्निरोष्ठ्यवर्णमात्म- चरितमाचचक्ष ।” (दशकु., २/६/५३)
एकस्यां कथायामपरकथासंयोजनपरिपाटी चात्र काव्ये विलोक्यते । मूलकथायामेकस्यामवान्तरकथानां बह्वीनां संयोजनमत्र मनोहारितया सञ्जातमस्ति । एषा शैली दण्डिनश्चमत्कारमयी प्रतिभाति । एषा शैली बहुविषयप्रस्तुतौ सहायिका भवति ।
काव्येऽस्मिन् दशकुमारचरिते राजते लालित्यमयी शैली । प्रभावपूर्णया परिष्कृतया च भाषाशैल्या काव्यमिदमुच्चकोटिकतां वहति । ‘दण्डिनः पदलालित्यम्’ इति प्रसिद्धा भणितिर्हि दशकुमारचरितबीजा विद्यते । अत्र नास्ति कोऽपि शङ्कालेशः । ललितः पदविन्यासः, आलङ्कारिक्यभिव्यक्तिः, भावानुसृता संवादसरणिः, पत्ररचनासम्बलिता वाक्पद्धतिश्च काव्येऽस्मिन् शिल्पसौष्ठवसाक्ष्यभूताः प्रतीयन्ते । एतत्सन्दर्भे समालोचको रमेशचन्द्रशुक्लो कथयति – “दण्डिनो रचनाशैली वस्तुतोऽनुपमा प्रभावशालिनी ओजस्विनी च वर्तते नितराम् ।” (शुक्लः, १९८३, पृ. ३६५)
उपजीव्यम्
दशकुमारचरितस्य नास्ति प्रत्यक्षं वस्तूपजीव्यम् । काव्येऽस्मिन् विन्यस्तं मुख्यं वस्तु कविकल्पितमस्ति । राजवाहनादीनां दशसङ्ख्यकानां कुमाराणां चरितेन भरितेऽस्मिन् काव्ये तादृशा अपि कतिपये प्रसङ्गाः सन्ति, ये पूर्ववर्तिभ्यः कतिपयेभ्यो ग्रन्थेभ्यः प्रत्यक्षाप्रत्यक्षतया प्रभाविताः दृश्यन्ते । विषयोऽयं प्रसङ्गेऽस्मिन् स्मरणीयो विद्यते ।
रूपपरिवर्तनं विधाय गुप्तरीत्या निजाभीष्टसम्पादनं काव्यस्यास्य विशेषता विद्यते । एषा पद्धतिः पूर्ववर्तिषु ग्रन्थेष्वपि दृग्गोचरीभवति । बृहत्कथाया अनुवादरूपायां क्षेमेन्द्ररचितायां बृहत्कथामञ्जर्यां महाकालश्मशाने ब्रह्मरक्षसो रूपपरिवर्तनविद्यां प्राप्य यौगन्धरायणो रूपपरिवर्तनं कृत्वा बहूनि राजकार्याणि साधयामासेति प्रसङ्गो विद्यते । दशकुमारचरितेऽपि बहुत्र वेशपरिवर्तनेनाभीष्टसाधनं विविधैः पात्रैर्विहितं दृश्यते । ब्रह्मराक्षसप्रसङ्गः शापप्रसङ्गः स्वप्नप्रसङ्गो गगनवाणीसन्दर्भश्चेत्यादिका विषया हि दशकुमारचरिते ये दृश्यन्ते, ते पूर्ववर्तिभ्यो पुराणादिभ्यो बृहत्कथादिभ्योऽन्येभ्यश्च तत्तत्ग्रन्थेभ्यः प्रभावं गृहीत्वा दण्डिना काव्येऽस्मिन् स्वानुकूलतया संयोजिताः प्रतीयन्ते । तत्राप्यधिकाधिकं बृहत्कथातो दण्डी प्रभावित आसीदित्यनुमीयते । वस्तुतः संस्कृतसाहित्यजगतः स्वप्नवासवदत्तनाटकं कादम्बरीकथाकाव्यं रत्नावलीनाटिका नागान्दनाटकञ्चेत्यादीनि बहूनि काव्यानि बृहत्कथासम्बद्धानि सन्ति । दण्डी स्वयं च निम्नाङ्कितगद्यांशस्थेन कथाप्रसङ्गेन स्पष्टीभवति –
“अथासौ पितृवियुक्तवैरे प्रवर्तमाने विद्याधरचक्रवर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमोऽयममिति तपस्यता दर्पसारेण सह समसृज्यत ।” (दशकु., २/१/१६)
अस्मिन् गद्यांशे वत्सराजस्य नरवाहनदत्तस्य सन्दर्भो विद्यते । सोऽसौ नरवाहनदत्तो राज्ञ उदयनस्य पुत्रोऽस्ति । स एव बृहत्कथाया मुख्यो नायको विद्यते । अतो दशकुमारचरितकाव्ये विद्यमानानां बहूनामवान्तरकथावस्तूनां प्रभावस्रोतो बृहत्कथादिकं पूर्ववर्ति साहित्यमासीदित्यनुमातुं शक्यते ।
कथासारः
दशकुमारचरितं विशालकायं विद्यते काव्यम् । अस्य काव्यस्य निखिलायाः कथायाः सारप्रस्तुतिः लघुकायेऽस्मिन् लेखेऽसम्भवप्राया विभाति । अतो यथासम्भवं केवलमतिस्वल्पः कथासङ्केतोऽत्र प्रस्तूयते । पूर्वपीठिकायाः प्रथमोच्छ्वासे राजहंसमानसारयोर्युद्धं वर्णितमस्ति । युद्धे पराजितो राजा वामदेवमुनेर्परामर्शं स्वीकृत्यारण्यवासी सञ्जातः । तत्रैव राजहंसवसुमत्योः पुत्रस्य राजवाहनस्य जनिर्जाता । तत्र राजवाहनस्य मित्ररूपेणापहारवर्मोपहारवर्मा सोमदत्तः पुष्पोद्भवोऽर्थपालः प्रमतिर्मित्रगुप्तो मन्त्रगुप्तो विश्रुतश्चेति नवसङ्ख्यकाः कुमाराश्च सम्मिलिता अभूवन् । ते तत्तदाचार्येभ्यो तत्तद्विद्या जगृहुर्यौवनवन्तश्चाभूवन् ।
पूर्वपीठिकाया द्वितीयोच्छ्वासे वामदेवमुनिद्वारा प्रदत्तपरामर्शानुसारं राजा समित्रगणं राजवाहनं दिग्विजययात्रायै प्राहिणोत् । कानिचिद् स्थलानि समुत्तीर्य राजवाहनादयो विन्द्याटवीं प्रापुः । तत्र मातङ्गनाम्ना केनचित् विप्रेण सह तेषां मेलोऽभूत् । मातङ्गराजवाहनयोः रहोवार्ता च सञ्जाता । रात्रौ सर्वेषु मित्रेषु निद्रामग्नेषु सत्सु मातङ्गराजवाहनौ तान् सर्वानेव परित्यज्य शङ्करादिष्टताम्रपत्रसूचनामनुसरन्तौ रसातलमगच्छताम् । तत्र कालिन्द्या सह मातङ्गस्य विवाहः सम्पन्नोऽभूत् । क्षुत्तृन्निवारकं मणिं रसातलात् गृहीत्वा पुना राजवाहनः प्रत्यावर्तत । तदा राजवाहनस्य सहयोगिनः कुमारास्तमन्वेष्टुं विविधदेशान् प्रति गतवन्त आसन् । मित्रवर्गं प्रतीक्षमाणस्य राजवाहनस्य समक्षं सोमदत्तः सम्प्राप्तः । स्ववृत्तान्तं श्रावयितुं राजवाहनः सोमदत्तं निर्दिदेश ।
पूर्वपीठिकायास्तृतीयोच्छ्वासे सोमदत्तः स्ववृत्तान्तं राजवाहनसमक्षं कथयामास । वृत्तान्तकथनावसरे स युद्धे वीरकेतुमन्त्रिणो मानपालस्य पक्षे सहभागी भूत्वा लाटराजस्य मत्तकालस्य शिरश्च छित्वा कथं वीरकेतुपुत्रीं वामलोचनां वीरकेतोर्युवराजपदं च लब्धवानिति सविस्तरं वर्णयामास । सोमदत्तेन स्ववृत्तान्ते कथिते पुष्पोद्भवश्च तत्र समागतः । तं च स्वोदन्तं कथयितुं राजवाहनः प्रैरिरत् ।
पूर्वपीठिकायाश्चतुर्थोच्छ्वासे पुष्पोद्भवः स्ववृत्तान्तं कथयामास । तदनुसारं स राजवाहनान्वेषणक्रमेण षोडशहायनेभ्यः पूर्वं वियुक्तौ पितरौ काकतालीयन्यायेन प्राप्तवान् । धनान्वेषणसन्दर्भेणोज्जयिनीं गत्वा स दारुवर्माणं मारयित्वा मालवराजस्य मानसारस्य पुत्र्याः सखीं बालचन्द्रिकां व्युवाह । एनं पुष्पोद्भववृत्तान्तं श्रुत्वा राजवाहनः स्वस्य सोमदत्तस्य च वृत्तान्तं पुष्पोद्भवसमक्षं प्रास्तौत् । सोमदत्तं निजपत्नी गृहे प्रापय्य प्रत्यावर्तितुं कथयित्वा राजवाहनः पुष्पोद्भवेन सहावन्तिकापुरीं प्राविशत्, तत्रैव तस्य दैनिकः क्रियाव्यापारश्च प्राचलत् ।
पूर्वपीठिकायाः पञ्चमोच्छ्वास उपवनं गतवत्यावन्तिसुन्दर्या सह राजवाहनस्य मेलो बालचन्द्रिकायोजनया भवति । तत्रैव तयोः पूर्वजन्मस्मृतिश्च जायते । पूर्वजन्मनि राजवाहनः शाम्बनामा राजा, अवन्तिसुन्दरी च यज्ञवतीनाम्नी तद्राज्ञ्यासीदिति स्पष्टं भवति तयोर्मनसि । तयोरनुरागस्य बीजाधानं च तत्रैवाजायत । अवन्तिसुन्दर्या मातुरागमनेन तयोर्वार्तालापश्च व्यवहितो बभूव । मात्रा सह प्रत्यावर्तनसमये मरालमिव राजवाहनमभिलक्ष्यावन्तिसुन्दरी वक्रोक्त्या स्वानुरागं प्राकटयत् । तदनन्तरं तयोर्द्वयोरेव मनस्यनुरागो वृद्धिं जगाम । पश्चादैन्द्रजालिकचमत्कारमाध्यमेन मानसारदम्पतीं छलयित्वा राजवाहनावन्तिसुन्दर्योर्विवाहः सम्पन्नोऽभूत् । तदनु राजवाहनोऽवन्तिसुन्दर्या सह तदीयान्तःपुरे स्थातुं प्रारभत ।
उत्तरपीठिकायाः प्रथमोच्छ्वासेऽकस्मात् राजवाहनो रजतशृङ्खलया निगडितपादोऽभूत् । सा रजतशृङ्खला मार्कण्डेयशापेन रजतशृङ्खलात्वमाप्ता सुरतमञ्जरीनाम्न्यप्सरा आसीत् । राजवाहने निगडिते सति कोलाहलोऽजनि । राजवाहनस्य गुप्तरीत्यान्तःपुरवासं ज्ञात्वा चण्डवर्मा क्रुद्धोऽभूत् । चण्डवर्मा मानसारपुत्रस्य दर्पसारस्य पैतृष्वसेय आसीत् । मालवराज्यशासनाधिकारित्वेन चण्डवर्माणं संस्थाप्य दर्पसारो राजराजगिरिं तपस्तप्तुं गतवानासीत् । तथाविधो चण्डवर्मा क्रुद्धः सन् राजवाहनं काष्ठपिञ्जरे तन्मित्रं पुष्पोद्भवञ्च कारागारेऽस्थापयत् किन्तु पश्चात् राजराजगिरितो दर्पसारस्तं राजवाहनमारणायाभिप्रैरिरत् । तदानीमेव चम्पेश्वरो दूतद्वारा प्रतिवेशिदेशेष्वपि साहाय्याय सन्देशप्रेषणं विधाय सहयोगिनां समागमनात् पूर्वमेव चण्डवर्माणं रोद्धुं तद्विरुद्धं योद्धुं च तत्परोऽभूत् । युद्धमभूत् । सिंहवर्मा निगृहीतः । चण्डवर्मा सिंहवर्मणो पुत्रीमम्बालिकां प्रति कामुक आसीत् । एतस्यामवस्थायां तस्यामेव रात्रावम्बालिकया सह विवाहं सम्पादयितुं योजनां निर्मितवान् । विवाहानन्तरं राजद्वारे स्वयमुपस्थाय चण्डपोतनामकेन हस्तिना राजवाहनमारणे तदीया योजना निर्मिता । अस्मिनेव क्षणे सुरतमञ्जर्याः शापमुक्तिहेतोः राजवाहनो रजतशृङ्खलातोऽमुच्यत । तदनु राजवाहनो राजद्वारं गतवान् । अपहारवर्मद्वारा तदानीं यावच्चण्डवर्मा ससैन्यो मारित आसीत् । अस्यां वेलायां सिंहवर्मणः सहयोगार्थमुपहारवर्मार्थपालः प्रमतिर्मित्रगुप्तो विश्रुतः प्रहारवर्मा कामपालश्च समागता अभूवन् । सिंहवर्मापि मुक्तः सन् तत्रैवाजगाम । ते परस्परं सम्मिल्य निजनिजवृत्तान्तं श्रावयितुं प्रारभन्त ।
उत्तरपीठिकाया द्वितीयोच्छ्वासेऽपहारवर्मा निजोदन्तं श्रावयति । अपहारवर्मा विदेहराजस्य प्रहारवर्मणः पुत्रो विद्यते । तत्कथनानुसारमपहारवर्माङ्गभूमौ मरीचिनामकस्य त्रिकालदर्शिनो मुनेराश्रममगात् । मुनिस्तदानीं काममञ्जरीनामिकया कुलटया छलेन भ्रष्टीकृतः सन् त्रिकालदर्शित्वशून्य आसीत् । तदनु तस्य वसुपालितेन सह मेलोऽभूत् । वसुपालितश्च काममञ्जर्या हृतसर्वस्व आसीत् । एतादृशीं वस्तुस्थितिं ज्ञात्वा स चौर्यवृत्त्या तन्नगरस्थान् लोभिनः प्रकृतिस्थान् विधातुं मनसा योजनां व्यधात् । तदनु स द्यूतसभामगच्छत् । तेन द्यूतकला च शिक्षिता । चौर्यवृत्तिं द्यूतकलां वञ्चनसामर्थ्यं च प्रयुज्य स बहून् वञ्चितवान् । तच्चातुर्येणैव वसुपालितः काममञ्जर्या हृतं निखिलं धनं लब्धवान् । स बहून् धनिनो निर्धानान्, निर्धनांश्च धनिनश्चकार । स्वकीयधूर्ततायाः प्रयोगेण स काममञ्जर्या भगिनीं गुणशुल्कां रागमञ्जरीमुद्व्युवाह । तस्य चातुर्यं निर्बाधमासीत् । कदाचिदङ्गराजस्य कारागारे निपतितोऽपि कारागारनिवासावसरमुपयुज्य राजकुमारीमम्बालिकां प्रेमपाशेन बद्ध्वा स्वकीयाञ्चकार, व्युवाह च । स चण्डवर्माणं मारयित्वा सिंहवर्माणं मोचयामास ।
उत्तरपीठिकायास्तृतीयोच्छ्वास उपहारवर्मा निजवृत्तान्तं प्रस्तौति । तत्वृत्तान्तानुसारं स राजवाहनमन्वेष्टुं विदेहपुरीं जगाम । तत्र स कस्मिंश्चिन्मठे काञ्चन वृद्धां प्राप्तवान् । वार्तालापक्रमे सा तदीया धात्री वर्तत इति ज्ञातवान् । स निजपिता प्रहारवर्मा पत्न्या प्रियंवदया सहितो भ्रातृजेन विकटवर्मणा कारागारे निक्षिप्तोऽस्तीति च वृद्धामुखादबोधीत् । तदनु स तस्या एव वृद्धायाः पुत्रीं विकटवर्मणः पट्टमहिष्याः कल्पसुन्दर्याः सेविकां पुष्करिकां प्रयुज्य विकटवर्मणो निखिलं रहस्यं निजज्ञानविषयीचकार । तन्माध्यमेनैव स कल्पसुन्दरीं वशीकृत्य विकटवर्मणो हत्यां छलपूर्वकं व्यधात्, निजपितरौ च मोचितवान् । तत्पश्चात् कल्पसुन्दर्या सह रममाणो राज्यशासनं चकार । तत्पश्चात् सिंहवर्मणः सहायतार्थं समागतः सन् राजवाहनादिभिर्मिलितः ।
उत्तरपीठिकायाश्चतुर्थोच्छ्वासेऽर्थपालः स्वोदन्तं श्रावयति । तदुदन्तानुसारं स राजवाहनस्यान्वेषणं कुर्वन् काशीं प्राप । तत्रार्थपालस्य निजपितुः कामपालस्य मित्रेण पूर्णभद्रेण सह मेलोऽभूत् । तन्मुखात् स पितुः कामपालस्य मातुः कान्तिमत्या विमातुस्तारावल्याश्च विषये निखिलं ज्ञातवान् । काशीराजस्य सिंहघोषस्य कोपभाजनीभूतं निजपितरं कामपालं मोचयित्वा स चण्डसिंहपौत्रीं चण्डघोषपुत्रीं मणिकर्णिकां व्युवाह । तदनु ह्यङ्गराजस्य सिंहवर्मणः सहायतार्थं समागतः सन् तत्र राजवाहनादीन् प्राप ।
उत्तरपीठिकायाः पञ्चमोच्छ्वासे प्रमतिः स्ववृत्तान्तं कथयति । तदनुसारं प्रमती राजवाहनान्वेषणार्थं गच्छन् विन्ध्यपर्वतस्य निकटे कस्यचित् वनष्पतेर्मूलमाप्य तत्रैव सुष्वाप । कञ्चित् कालानन्तरं सोऽकस्मात् स्वं कस्यचित् प्रासादस्य सुखदायिनि पर्यङ्केऽपश्यत् । स प्रासाद आसीत् श्रावस्तीनगर्याः राज्ञो धर्मवर्धनस्य । धर्मवर्धनपुत्री नवमालिका च तन्निकटस्थे शयने सुप्तासीत् । तां दृष्ट्वा तदीयमनस्यनुरागेण जन्म गृहीतम् । पुनश्चाकस्मात् स वनष्पतिमूल एव निजं प्राप । तदनु स पाञ्चालशर्मनामकस्य कस्यचिद् धूर्तस्य सहायतया छलपूर्वकं धर्मवर्धनपुत्रीं नवमालिकां राज्यसहितां स्वकीयाञ्चकार । तत्पश्चात् सिंहवर्मसहायतायै समागतः सन् राजवाहनादीन् प्राप ।
उत्तरपीठिकायाः षष्ठोच्छ्वासे मित्रगुप्तो निजोदन्तं प्रस्तौति । तदनुसारं स सुह्मप्रान्तस्य दामलिप्तनगर्या बहिर्गतवान् राजवाहनान्वेषणक्रमेण । तत्र कोशदासद्वारा स सुह्मराजस्य पुत्र्याः कन्दुकावत्याः, पुत्रस्य भीमधन्वनश्च विषयेऽबोधीत् । देवीविधानानुसारं कुन्दुकनृत्यं कुर्वन्तीं कन्दुकावतीञ्च स दृष्टवान् । कन्दुकावती च तं व्यलोकयत् । परस्परदर्शनेन तदीयमनसि प्रेमबीजारोपणमभूत् । कोशदासचन्द्रसेनाभ्यां सह वार्तां विधाय स कन्दुरकावतीविवाहाय योजनां निर्मितवान् किन्तु भीमधन्वा रहस्यं ज्ञात्वा तं बद्ध्वा समुद्रेऽक्षिपत् । शौर्येण चातुर्येण विविधान् सङ्कटाननुभवन् स सङ्कटापन्नं भीमधन्वानं राक्षसापहृतां कन्दुकावतीं च सङ्कटान्मोचयित्वा पुत्रपुत्रीविनाशशङ्कया वैराग्यापन्नाय समर्पयामास । तदनु स तुङ्गधन्वनो राज्यं सुह्मप्रान्तं पुत्रीं कन्दुकावतीञ्चालभत । तत्पश्चात् सिंहवर्मणः साहाय्याय समागतः सन् राजवाहनादीन् प्राप ।
उत्तरपीठिकायाः सप्तमोच्छ्वासे मन्त्रगुप्तः स्वोदन्तं कथयति । तदनुसारं स राजवाहनान्वेषणार्थं कलिङ्गदेशं जगाम । तत्र कुत्रचित् श्मशानक्षेत्रे वनष्पतिमूले गृहीतवासः स किङ्करद्वारा समानाय्य कलिङ्गराजदुहितुः कनकलेखायाः शिरश्छेत्तुं तत्परं दुष्टतपस्विनमपश्यत् । स तस्यैव दुष्टतपस्विनः शिरश्छित्त्वा कनकलेखां रक्षितवान् । तदनु कनकलेखाया एवाग्रहेण स तदीयान्तःपुरं गत्वा न्यवसत् । यथासमयमान्ध्रनरेशो जयसिंहः समुद्रतटात् सपरिवारं कर्दनमपहृतवान् । मन्त्रगुप्तः कस्यचित् सिद्धमुनेर्वेशं गृहीत्वान्ध्रराजधान्यां तडागनिकटं प्राप्य न्यवसत् । विविधभ्रमं सृष्ट्वा छलपूर्वकं स जयसिंहं मारयित्वा राज्यं कनकलेखां च प्राप्तवान् । तदनु सिंहवर्मणः सहयोगार्थं समागतः सन् राजवाहनादिभिः सह मिलितवान् ।
उत्तरपीठिकाया अष्टमोच्छ्वासे विश्रुतः स्ववृत्तान्तं श्रावयति । तदनुसारं स राजवाहनान्वेषणक्रमे गच्छन् विन्ध्यवने कुत्रचित् विदर्भराजस्य पुत्रं भाष्करवर्माणं तद्रक्षकत्वेन वर्तमानं नालीजङ्घं च ददर्श । स नालीजङ्घमुखात् विदर्भराज्यस्य विषये दुर्दशापूर्णं विवरणं ज्ञातवान् । विदर्भराजस्यानन्तवर्मणो दुर्नीतिवशात् राज्यस्य भ्रष्टीकरणभूत् । तस्य मृत्युश्चाभवत् । तत्पश्चादनन्तवर्मणो राज्ञी वसुन्धरा वसुरक्षितद्वारा रक्षिता सती माहिष्मतीपतेर्मित्रवर्मणः शरणं प्राप । मित्रवर्मा वसुन्धरायाः सापत्न्य आसीत् । मित्रवर्मा हि निजां विमातरं वसुन्धरां प्रति सद्व्यवहारं न दर्शयामास । तद्व्यवहारेण भाष्करवर्माप्यसुरक्षितोऽभूत् । अतो वसुन्धरा भाष्करवर्मणः सुरक्षायै नालीजङ्घं निर्दिदेश । सर्वमेवैनं वृत्तान्तं विश्रुतो नालीजङ्घमुखात् श्रुत्वा विदर्भराज्ये पुनश्च निजपितृस्थाने भाष्करवर्माणं स्थापयितु मनसा समकल्पयत् । अनेकैश्छलाद्युपायैः सोऽनन्तवर्मणो राज्यच्युतौ मृत्यौ च मूलतो निर्व्यूढभूमिकमश्मकेन्द्रं भानुवर्माणं मारयित्वान्यांश्च राजानः पराजित्य भाष्करवर्माणं राज्यासने स्थापयामास । अनया रीत्या स निजं सङ्कल्पं पूर्णीचकार ।
अष्टमोच्छ्वास्योपसंहारभागे प्रथमतो विश्रुत एवावशिष्टं स्ववृत्तान्तं श्रावयति । अनया सरण्या निखिलैः कुमारैः परस्परं सम्मिल्य स्वस्ववृत्तान्तेषु कथितेषु सत्सु तत्र राजहंसप्रहितः पत्रवाहकस्तदीयं पत्रमेकं समादाय समागच्छत् । शीघ्रातिशीघ्रमन्यान् कुमारान् सहैव समानीय प्रत्यावर्तितुं राजवाहनः पित्रा निर्दिष्ट आसीत् पत्रे । पत्रमनुसृत्य राजवाहनादयः कुमारा मालवराजधानीं गत्वा मालवेशं मानसारं पराजित्य तद्राज्यं च वशीकृत्य मगधं प्रत्यावर्तन्त । तदनु वामदेवमुनेः राजहंसस्य च निर्देशानुसारं राजवाहनं सर्वोपरि संस्थाप्य निखिला एव कुमारा निजनिजराज्यभोगं यथासुखं चक्रुः । राजहंसवसुमत्यौ वामदेवाज्ञया वानप्रस्थाश्रममुरीकृत्य तदाश्रम एव न्यवसताम् ।
पात्रविधानम्
बहुपात्रात्मकं काव्यं विद्यते दशकुमारचरितम् । न केवलं पात्रबाहुल्यमपितु नायकबाहुल्यं च दृग्गोचरीभवति काव्येऽस्मिन् । प्रायः प्रत्युच्छ्वासं पृथक् पृथक् नायकनायिकयोः सत्ता वर्ततेऽस्मिन् काव्ये । पूर्वपीठिकाया प्रथमोच्छ्वासस्य राजहंसो नायकः, वसुमती च नायका वर्तते । पूर्वपीठिकाया द्वितीयोच्छ्वासस्योच्छ्वासनायको मातङ्गः, उच्छ्वासनायिका कालिन्दी विद्यते । पूर्वपीठिकायास्तृतीयोच्छ्वासस्य नायकनायिके सोमदत्तवामलोचने स्तः । पूर्वपीठिकायाश्चतुर्थोच्छ्वासस्य पुष्पोद्भवबालचन्द्रिके नायकनायिके स्तः । पूर्वपीठिकायाः पञ्चमोच्छ्वास उत्तरपीठिकायाः प्रमथोच्छ्वासश्चेति द्वयोरुच्छ्वासयोर्नायकनायिके राजवाहनावन्तिसुन्दर्यौ स्तः । अनयैव रीत्योत्तरपीठिकाया द्वितीयोच्छ्वासस्य नायकोऽपहारवर्मा, नायिकाम्बालिका वर्तते । उत्तरपीठिकायास्तृतीयोच्छ्वासस्य नायकनायिके ह्युपहारवर्मा, नायिका कल्पसुन्दरी विद्यते । उत्तरपीठिकायाश्चतुर्थोच्छ्वासस्य नायको विद्यतेऽर्थपालो नायिका च मणिकर्णिका । उत्तरपीठिकायाः पञ्चमोच्छ्वासस्य नायको प्रमतिः, नायिका नवमालिका विद्यते । उत्तरपीठिकायाः षष्ठोच्छ्वासस्य नायकनायिके मित्रगुप्तकन्दुकावत्यौ वर्तेते । उत्तरपीठिकायाः सप्तमोच्छ्वासस्य नायकनायिके मन्त्रगुप्तकनकलेखे स्तः । उत्तरपीठिकाया अष्टमोच्छ्वासस्य नायकनायिके विश्रुतमञ्जुवादिन्यौ विद्येते ।
उच्छ्वासदृशैतादृश्यां स्थितौ सत्यामपि काव्यसमग्रतायां दृष्टिविलोडने कृते मूलनायकत्वेन राजवाहनः, मूलनायिकात्वेन चावन्तिसुन्दरी दृग्गोचरतां यातः । राजवाहनो नायकानामपि नायको विद्यते । सर्व एव नायकास्तद्वशवर्तिनस्तदधीना वा सन्ति । अतोऽन्येषामुच्छ्वासनायकानां निजनिर्व्यूढभूमिकया नायकत्वमेव स्थिरीभवति किन्तु राजवाहनावन्तिसुन्दर्योर्महानायकत्वं महानायिकात्वञ्च प्रतिष्ठितं जायते ।
अस्य काव्यस्य पात्रालोचनं मुख्यसहायकदृशा च विधातुं शक्यते । अनया दृशा महानायको महानायिकास्तदतिरिक्ताः सर्व एवोच्छ्वासनायका उच्छ्वासनायिकाश्च साकल्येन चतुर्विंशतिसङ्ख्यकानि मुख्यपात्राणि काव्येऽस्मिन् दृश्यन्ते । तदतिरिक्तो वामदेवमुनिश्च मुख्यपात्रशृङ्खलायां गणनायै योग्यतां भजते, यतो हि तद्बुद्धिजन्या योजनैव निखिलकाव्यमर्म नियोजयति । तथा च काव्यस्यास्य सहायकपात्रत्वेन मरीचिमुनिः, नायकानां नायिकानां पितरो मातरश्च, शृगालिका, रागमञ्जरी, पाञ्चालशर्मा, पूर्णभद्रः, नालीजङ्घः, वसुरक्षितः, आर्यकेतुः, ब्रह्मराक्षसश्चेत्यादयोऽनेके सन्ति गणनीयाः ।
अत्र काव्ये नायकानां प्रतिपक्षित्वं निर्वहन्तो दर्पसारश्चण्डवर्मा दारुवर्मा विकटवर्मा सिंहघोषो भीमधन्वा गगनचारी राक्षसो जयसिंहो मित्रवर्मा भानुवर्मा चेत्यादयः प्रतिनायकत्वेन ग्रहीतुं शक्यन्ते । एते व्यवधानमूलका नायकप्रतिद्वन्द्विनः सन्ति । एतैर्हि नायकानां राज्यप्राप्तौ नायिकाप्राप्तौ च व्यवधानं विहितं विद्यते ।
अन्यानि च बहूनि पात्राणि काव्येऽस्मिन् प्रयुक्तानि सन्ति । अस्मिन् काव्ये विद्यमानानि पात्राणि सकारात्मकनकारात्मकमूल्यदृशा च विवेच्यानि सन्ति । अत्रत्यानि सकारात्मकपात्राणि मूलतः साहसभरितानि धैर्यमयानि सङ्घर्षरतानि चातुर्याञ्चितानि समाधानमूलकान्याशुनिर्णयकुशलानि विवेकवन्ति कार्यनिपुणानि च सन्ति, यन्माध्यमेनैव कविना काव्यसम्प्रेषणीयः सन्देशोऽभिव्यक्तिविषयीकृतो वर्तते ।
सौन्दर्यविधानम्
प्राच्यकाव्यपरम्परायां रसालङ्कारगुणरीतिध्वनिवक्रोक्त्यौचित्यतत्त्वानि काव्यसौन्दर्यत्वेन ज्ञायन्ते । एतद्दृशा दशकुमारचरितनामकमिदं गद्यकाव्यं विवेचनीयं विद्यते । अपेक्षितस्य परिपाकस्याभावेऽपि पराक्रमप्रधानेऽस्मिन् काव्ये वीररसस्यैवाङ्गित्वं स्वीकर्तव्यम् । अङ्गरसेष्वपि यदि बलाबलनिरूपणं विधीयते तर्हि शृङ्गारो बलवान् दृश्यते । शृङ्गारपरिपाको कतिपयस्थलेषु ह्युल्लेख्यतया सञ्जातो दृश्यते । यथा –
“विरहानलसन्तप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मलयानिलः । नवपल्लवकल्पितं तल्पमिदमनङ्गाग्निशिखापटलमिव सन्तापं तनोस्तनोति । हरिचन्दनमपि पुरा निजयष्टिसंश्लेषवदुरगरदनलिप्तोल्वणगरलसङ्कलितमिव तापयति शरीरम् । तस्मादलमलमायासेन शीतलोपचारे । लावण्यजितमारो राजकुमार एवागङ्कारो मन्मथज्वरापहरणे । सोऽपि लब्धुमशक्यो मया । किं करोमि ।” (दशकु., १/५/१८)
राजवाहनं विषयीकृत्यावन्तिसुन्दर्या हृन्निष्ठरतेः परिपाकोऽवन्तिसुन्दर्या एवोक्तावस्यां गभीरतयानुभूतिविषयीभवति ।
दशकुमारचरिते परिपाकङ्गगतो महत्त्ववाहो रसो विद्यते विस्मयस्थायिभावोऽद्भुतः । विस्मयजनकघटनानां बाहुल्यादद्भुतरस्य प्रभूतसञ्चारोऽस्मिन् काव्येऽस्ति (उपाध्यायः, २०१२, पृ. २१०) । सर्वेषां कुमाराणां चरितं विस्मयकारि दृश्यते । कुमाराणां तेषां निखिलानां क्रियाकलापा ह्यद्भुतचरितान्विताः सन्ति । सम्पूर्णं काव्यमभिव्याप्यास्य रसस्यास्वाद्यता वरीवर्तीति नास्ति कापि विप्रतिपत्तिः । तथैवान्ये च रसा यथास्थानमङ्गरसभूमिकां वहन्तोऽनुभूयन्ते ।
काव्येऽस्मिन् गुणगाम्भीर्यं रीतिचमत्कृतिर्ध्वन्यात्मकता वक्रोक्तिमयतौचित्यान्वितता चानुभूयते । वक्रोक्तिविलासस्य चारुता निम्नाङ्कितगद्यांशे साधुतया दृग्विषयीभवति, यथा –
“राजहंसकुलतिलक ! विहारवाञ्छया केलिवने मदन्तिकमागतं भवन्तमकाण्ड एव विसृज्य मया समुचितमिति जनन्यनुगमनं क्रियते, तदनेन भवन्मनोरागोऽन्यथा मा भूत् ।”(दशकु., १/५/१५)
वचनमिदं वर्ततेऽवन्तिसुन्दर्याः । अत्रावन्तिसुन्दरी वक्रोक्तिमयेन श्लिष्टवचोभङ्गिम्ना राजहंसं राजवाहनं च द्वावेव लक्ष्यीकृत्य स्ववक्तव्यं प्रस्तौति, निजाभीष्टं च साधयति । वस्तुतो वचसानेन निजहृदयस्थो राजहंस आश्वस्तीकृतो विद्यतेऽवन्तिसुन्दर्या । अत्रत्या वक्रोक्तिमयी चमत्कृतिः सहृदयमनश्चुम्बति निर्बाधम् ।
लालित्यमयपदविन्यासे प्राप्तख्यातेर्दण्डनोऽस्मिन् काव्ये शब्दालङ्कारस्यार्थालङ्कारस्य च महिममय्युपस्थितिर्हि काव्यचारुतावर्द्धने महतीं भूमिकां निर्वहतीति स्पष्टं दृश्यते । उदाहरणार्थं गद्यांशो ह्येक उपस्थाप्यते, यथा –
“दिष्ट्या चानुच्छिष्टयौवना, यतः सौकुमार्यमागताः सन्तोऽपि संहता इवावयवाः, प्रस्निग्धतमापि पाण्डुतानुविद्धेव देहच्छविः, स्मरपीडानभिज्ञतया नातिविशदरागो मुखे, विद्रुमद्युतिरधरमणिरनत्यापूर्णमारक्तमूलं चम्पककुड्मलदलमिव कठोरं कपोलतलम्, अनङ्गबाणपातमुक्ताशङ्कं च विश्रब्धमधुरं सुप्यते, न चैतद्वक्षःस्थलं निर्दयविमर्दं विस्तारितमुखस्तनयुगलम्, अस्ति चानतिक्रान्तशिष्टमर्यादचेतसो ममास्यामासक्तिः । आसक्त्यनुरूपं पुनराश्लिष्टं यदि, स्पष्टमार्तरवणैव सह निद्रां मोक्ष्यति ।” (दशकु., २/५/६)
अनेन स्वल्पमात्रसमीक्षणेनापि काव्यसौन्दर्यविधानं दशकुमारचरितस्य श्लाघ्यतापदमधिरोहतीति सिद्ध्यति ।
संस्कृतिसन्धानम्
अस्मत्पूर्वजा मानवजीवनं संस्कर्तुं व्यधुर्महान्तं प्रयासम् । मानवजीवनस्य संस्करणाय पूर्वजैर्यान् यानाचारान् विचारान् व्यवहारांश्चासृजन्, तन्निखिलमेव संस्कृतिर्वर्तते । एतद्दृशा प्रकृतिव्यतिरिक्तं निखिलं संस्कृतिरूपेण प्रतिष्ठां लभते । स्वतो निर्मितिः प्रकृतिः, जीवनसंस्कारमूला मानवनिर्मितिः संस्कृतिरिति प्रकृतिसंस्कृत्योः परिचयसारः । अनया दृशा भाषा व्यवहारो गृहं भोजनं वस्त्रं यातायातसाधनं विद्यालयो धार्मिककृत्यं पठनं पाठनं राजनीतिर्मैत्री कृषिः पशुपालनं विवाहरीतिरूत्सवश्चेत्यादिकं सर्वमेव मानवसर्जनं संस्कृत्यन्तर्गतं वर्तते ।
दशकुमारचरिते बहुविधा संस्कृतिर्दृग्गोचरीभवति । काव्यस्यास्य मूलविषय एव राजनीतिसम्बद्धा संस्कृतिर्वर्तते । प्रायशः प्रत्येकमुच्छ्वासा राजनीतिभरिताः सन्ति । प्रत्येकं नायका राज्यप्राप्तये संलग्नाः सन्ति । तेषां वीरता राज्याधिगमने केन्द्रिता विद्यते । राजनीतिः काव्येऽत्र व्यवहारेण सिद्धान्तेन च परिपुष्टा प्रतिभाति । काव्यस्यास्य राजनीतिकनिष्कर्षो निम्नाङ्किते सिद्धान्तमूलके विश्रुतवचसि द्रष्टुं शक्यते, यथा –
“राज्यं नाम शक्तित्रयात्तम्, शक्तयश्च मन्त्रप्रभावोत्साहाः परस्परानुगृहीताः कृत्येषु क्रमन्ते । मन्त्रेण हि विनिश्चयोऽर्थानाम्, प्रभावेण प्रारम्भः, उत्साहनेन निर्वहणम् । अतः पञ्चाङ्गमन्त्रमूलः, द्विरूपप्रभावस्कन्धः, चतुर्गुणोत्साहविटपः, द्विसप्ततिप्रकृतिपत्रः, षड्गुणकिसलयः, शक्तिसिद्धिपुष्पफलश्च नयवनस्पतिर्नेतुरुपकरोति । स चायमनेकाधिकरणत्वादसहायेन दुरुपजीव्यः ।” (दशकु., २/८/३६)
मानवता काव्यस्यास्य महनीयः सांस्कृतिको विषयः । पूर्वपीठिकायाः प्रथमोच्छ्वासे विविधक्षेत्रेभ्यः प्राप्तानां पुष्पोद्भावादीनां कुमाराणां संरक्षणाय मुनिशिष्यादयो जना यथा यतन्ते, सा मानवतामूलिका व्यावहारिकी संस्कृतिः । प्रहारवर्मणो पुत्रयोर्धातृरूपयो महिलयोः स्वास्थ्योपचारं क्रूरजातिना वनवास्येनापि विधीयते । चौर्यकर्मणे रात्रौ बहिर्निःसृतोऽप्यपहारवर्मा निराश्रितां कुबेरदत्तपुत्रीं तद्गन्तवये सुरक्षं प्रापयति । समग्रतया काव्येऽस्मिन् मानवतामुखिन्याः संस्कृतेः स्थापनायाः प्रयत्नो गभीरतया विहितो दृश्यते । कतिपयानि क्रूराणि कर्माण्यपि मानवतामूलानि दृश्यन्ते । उत्तरपीठिकायाः सप्तमोच्छ्वासे मन्त्रगुप्तेन भयविह्वलायाः कनकलेखायाः सुरक्षायै कृता दुष्टतपस्विहत्या तदुदाहरणमस्ति । अपहारवर्मणश्चौर्यकर्माणि लोभिनामनैतिककर्मणार्जितधनानां शोषकानां धनमाहृत्यापहृतधनानां पीडितानामुद्धरणे केन्द्रतानि सन्ति ।
दशकुमारचरिते लोकसंस्कृतिर्हि प्रतिबिम्बिता दृश्यते । नास्त्यत्रादर्शवादस्य स्थापना परन्तु समाजस्य यथार्थता चित्रिता विद्यते । लोकानां धार्मिकानुष्ठानं प्रति विश्वासोऽस्ति । मन्दिरेषु पूजाराधना भवति । चूडाकर्मोपनयनादिकाः षोडशसंस्काराश्च चित्रिताः सन्ति काव्येऽस्मिन् । समाजोऽन्धविश्वासग्रस्तश्च दृश्यते । अत एव धूर्ता विविधान् दैविकान् लौकिकान् वा भ्रमान् संसृज्य जनान् सरलतयैव वञ्चयन्ति । अपहारवर्मणा चर्मरत्नभस्त्रिकामाध्यमेन काममञ्जरी वञ्चिता । उपहारवर्मा यज्ञोपासनाशक्त्या भ्रमं तन्मनस्युत्पाद्य विकटवर्माणं मारयामास । मन्त्रगुप्त आत्मनः सिद्धपुरुषत्वं प्रदर्श्यान्ध्रनरेशं जयसिंहं मारितवान् । विश्रुतोऽश्मकेन्द्रस्य पुरतः स्वस्मिन् दैव्याः शक्त्याः सत्तां छलपूर्वकमुपस्थाप्य तं पराजितवान् । अतोऽत्रत्यं संस्कृतिचित्रणं लोकाधृतं विद्यते ।
कतिपये प्रसङ्गा दशकुमारचरितेऽलौकिकाश्च दृश्यन्ते । राजवाहनेन सह मातङ्गो रसातलं याति । तत्र कालिन्द्या सह तस्य विवाहश्च जायते । अलौकिकी विद्यते घटनेयम् । कालिन्द्या मातङ्गाय, मातङ्गेन च राजवाहनाय दत्तो मणिः क्षुत्तृड्वारको वर्तते । सुरतमञ्जरी मार्कण्डेयमुनेः शापेन रजतशृङ्खलारूपं गृह्णाति, जडावस्थायाञ्च तस्या स्मृतिशक्तिर्यथावत् तिष्ठति । तारावल्या गतिविधयः प्रायशोऽलौकिका एव सन्ति । राक्षसब्रह्मराक्षसयोर्युद्धं गगनाङ्गणे भवति । अनया रीत्यालौकिकघटनावलीं प्रति तात्कालिकसमाजस्य विश्वासोऽत्र सांस्कृतिकपरम्परारूपेण चित्रितो वर्तते ।
अत्र काव्ये हि बहवः सांस्कृतिका विषयाः दृग्विषयतां यान्ति । अत्र वाणिज्यसन्दर्भो विद्यते । समुद्रयात्रयापि वाणिज्यव्यवहारो जायते । विद्यापरम्परा च काव्येऽस्मिन् प्रतिबिम्बितोऽपरः सांस्कृतिको विषयः । राजवाहनादयः कुमारास्तत्तद्विषयविज्ञेभ्यो गुरुभ्यस्तत्तद्विषयशिक्षामगृह्णन् । निष्कर्षतो दशकुमारचितकाव्यं तात्कालिकसंस्कृतेरध्ययनार्थं बहूपयोगि काव्यमस्तीति सिद्ध्यति ।
संस्कृत्या सहैव समाजस्य बह्वायामा विकृतयश्चात्र दृग्गोचरीभवन्ति । अत्र नरबलिप्रथा दृश्यते । वनवासिनः शबराः शिशुमुपहारवर्माणं चण्डिकामन्दरे नरबलिरूपेणार्पयितुं तत्परा आसन् । लुण्ठनं हत्या द्यूतपरम्परा चौर्यपरम्परा कुलटोत्पातो यौनविसङ्गतयश्चास्मिन् काव्ये प्रतिबिम्बिता सामाजिक्यो विकृतयः सन्ति ।
प्रकृतिचित्रणम्
प्रकृतिर्नाम स्वतःसृष्टिः । हिमालयो नदी वनं निर्झरी गह्वरं गगनं धरणिः पक्षी चेत्यादिकं निखिलमेव स्वतःसृष्टं वस्तु प्रकृतिनाम्ना व्यवह्रियते । प्रकृतेर्हि मानवजीवनेन सह विद्यतेऽन्तःसम्बन्धः । प्रकृतित एव निजसृष्टिं लब्धवान् नरो न जीवति प्रकृतिं विना । प्रकृतिरेव मानवमनोभावानां जन्मभूः । एतद्धेतोः काव्यपरम्परायां सर्वत्रैव प्रकृतेर्महत्त्वं प्रतिष्ठितमस्ति । संस्कृतकाव्यपरम्परायां च प्रकृतिः समुल्लेख्यतया स्वप्रतिष्ठां लब्धवती वर्तते । अतः काव्यसमीक्षावसरे प्रकृतिचित्रणस्य विषयोऽपि स्थानं लभते ।
दशकुमारचिते नास्ति प्रकृतिचित्रणे ध्यानं केन्द्रितं कवेः । तथापि मानवगतिविधयो यत्र वर्णनाविषयीभवन्ति, स्वत एव प्रकृतिस्तत्र सन्दर्भिता भवति । दशकुमारचरितेऽप्येतद्विधैव स्थितिर्दृश्यते । प्रसङ्गात् प्रकृतेर्विषये प्राप्तेऽपि तद्वर्णनायां न रुचिं प्रकटयति कविः । युद्धे मानसारेण विजिते सति राजहंसो वन एव निवासं व्यधात् । सोमदत्तादयः कुमारा वन एवोपलब्धाः । कालयवनद्वीपात् प्रत्यावर्तनसमये रत्नोद्भवसुवृत्तयोर्नौका भयावहे समुद्रे न्यमज्जत् । वामदेवशिष्येन सोमदत्तो वनभूमावेव प्राप्तः । मातङ्गो वन्यभूमौ किरातमित्रैः सह लुण्ठनकर्मणि संलग्न आसीत् । मत्तकालमानपालाभ्यां निजसैन्यशिबिरस्थापना वनभूमौ विहितासीत् । बन्धुपालो वनं गत्वा पक्षिलक्षणात् राजवाहनसूचनामासाद्य पुष्पोद्भाय सहयोगं व्यधात् । राजवाहनावन्तिसुन्दर्योः प्रथममेलो वसन्तर्तोर्माधुर्यमयवेलायामुद्यानभूमौ सञ्जात आसीत् । नवमालिकाया दर्शनात् पूर्वं प्रमतिररण्यभूमावेव निद्रामाप्तवानासीत् । भयावहे समुद्रे भीमधन्वना क्षिप्तो मित्रगुप्तस्तत्रैव समुद्रयुद्धं व्यधात् । प्रतिकूलवायुना प्रेरिता मित्रगुप्तस्य नौका कस्मिंश्चिदपरिचिते द्वीपे प्राप्ताभूत् । मन्त्रगुप्तेन काननक्षेत्र एव दुष्टतपस्विनो हत्यां व्यधात् । विश्रुतेन सनालीजङ्घो भाष्करवर्मा विन्ध्याटव्यां प्राप्तवान् । अनया रीत्या प्रकृतिसन्दर्भः कथाप्रसङ्गात् सम्प्राप्तो बहुत्र दृश्यते ।
दशकुमारचरितेऽधिकतया प्रकृतेर्भयावहरूपमेव दृष्टिपथमायाति । सामुद्रिक्यां यात्रायां प्रायशो विपत्तिर्दृश्यते । रत्नोद्भवस्य नौकामज्जनम्, अटव्यां प्रहारवर्मणो लुण्ठनम्, पुष्पोद्भवस्य जन्मावसरे गजव्याघ्रवानारादीनां वन्यपशूनां प्रकोपः, भीमधन्वना ह्युत्तालतरङ्गमये भयावहे समुद्रे मित्रगुप्तस्य क्षेपणञ्चेत्यादिकेषु प्रसङ्गेषु प्रकृतिर्भयङ्कररूपा प्रतीयते । काव्येऽस्मिन् प्रकृतेर्माधुर्यमयी समुपस्थितिरपि दृग्गोचरीभवति । यथा –
“अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुहनिरन्तरावासिभुजङ्गमभुक्तावशिष्टेनेव सूक्ष्मतरेण धृतहरिचन्दनपरिमलभरेणेव मन्दगतिना दक्षिणानिलेन वियोगिहृदयस्थं मन्मथानलमुज्ज्वलयन् सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां मधुकरकलकण्ठानां काकलीकलकलेन दिक्चक्रं वाचालयन् मानिनीमानसोत्कलिकामुपनयन् माकन्दसिन्दुवाररक्ताशोककिंशुकतिलकेषु कलिकामुत्पादयन् मदनमहोत्सवाय रसिकमनांसि समुल्लासयन् वसन्तसमयः समाजगाम ।” (दशकु., १/५/१)
अत्र शृङ्गाररसस्योद्दीपनतया वसन्तसमयस्य प्रकृतिर्वर्णिता विद्यते । मानवमनोभावेन सहान्तःसम्बन्धं स्थापयन्ती गद्यांशेऽस्मिन् चित्रिता प्रकृतिर्हृदयहारिणी प्रतीयते । एतद्विधं सौन्दर्यमयं प्रकृतिचित्रणं काव्येऽस्मिन्नतिन्यूनेष्वेव स्थलेषु दृग्विषयीभवति ।
निष्कर्षणम्
दशकुमारचरितं मनोरमं काव्यमस्ति । कथाकाव्यमिदं काव्यसौन्दर्यदृशा च महत्त्वावहं प्रतीयते । काल्पनिकं किन्तु बहुविषयात्मकं कथावस्तु गृहीत्वा रचितमिदं काव्यं पूर्ववर्तिसाहित्यपरम्परया प्रभावितं दृश्यते । काव्येऽस्मिन् तात्कालिकसमाजस्य सभ्यता संस्कृतिर्वैचारिकी स्थितिश्च प्रतिबिम्बिता दृश्यन्ते । अत्र यथार्थवादो विजृम्भते । प्रकृतेः सूक्ष्मचित्रणे कविरुल्लेख्यतया रुचिमान् न दृश्यते । अङ्गितया वीररसमङ्गतया चान्यान् शृङ्गारादिकान् रसानात्मसात्कुर्वति तथैव यथोचितमलङ्कारादिकाव्यसौन्दर्यतत्त्वाञ्चिते दशकुमारचरितनामकेऽस्मिन् काव्ये पराक्रमश्चातुर्यमुत्साहो निर्भयता शौर्यात्मकता सशक्तताभीष्टसाधनतत्परता कार्यनिपुणता चेत्यादिकानि मानवजीवनस्य साफल्याधारभूतानि तत्त्वानि समहत्त्वमभिव्यञ्जितानि सन्ति । काव्यमिदनयैव दृशा महनीयतामाधत्ते ।
सन्दर्भसामग्रीविवरणम्
अमरसिंहः (ई. २००८). अमरकोशः, चौखम्बा विद्याभवन.
आचार्य, पद्मभूषण तथा अन्य (प्रधानसम्पा., वि.सं. २०६०). संस्कृत वाङ्मयका बृहद् इतिहास (पञ्चखण्ड). उत्तरप्रदेश संस्कृत संस्थान.
उपाध्याय, बलदेव (वि.सं. २०१२). काव्यानुशीलन. रमेश बुक डिपो.
उपाध्याय, बलदेव (ई. १९८२). संस्कृत-साहित्य का सङ्क्षिप्त इतिहास (द्वि.सं.). शारदा निकेतन.
गैरोला, वाचस्पति (वि.सं. २०३२). संस्कृत साहित्यका इतिहास (द्वि.सं.). चौखम्बा विद्याभवन.
दण्डी (ई. १९३८). काव्यादर्शः. भण्डारकर ओरिएन्टल रिसर्च इन्स्टिच्युट.
– – – (ई. १९७८). दशकुमारचरितम्. चौखम्बा संस्कृत सीरीज.
चैतन्य, कृष्ण (ई. १९९१). संस्कृत साहित्य का नवीन इतिहास (अनु. विनयकुमारराय, द्वि.सं.). चौखम्बा प्रकाशन.
शुक्ल, रमेशचन्द्र (ई. १९८३). प्रबन्धरत्नाकरः (तृ.सं.). चौखम्बा विद्याभवन.
सहाय, राजवंश (वि.सं. २००२). संस्कृत साहित्यकोश (च.सं.). चौखम्बा विद्याभवन.