संस्कृतमहाकाव्यपरम्परायां सरलायां प्रसादगुणगुम्फितायां वैदर्भीरीतिसंवलितायां काव्यसरण्यां बुद्धचरितमहाकाव्यं महतादरेण चर्च्यते । अस्य महाकाव्यस्य प्रणेता महाकविरश्वघोषो भिक्षुर्बाैद्धधर्मदर्शनयोर्व्याख्याता कुशलः साहित्यस्रष्टा चासीत् ।
रत्नावली शर्मा, विद्यावारिधि
उपप्राध्यापिका, साहित्यविभागे, नेपाल संस्कृतविश्वविद्यालयान्तर्गत्य वाल्मीकिविद्यापीठस्य
ratna.nsu@gmail.com
लेखसारः
संस्कृतमहाकाव्यपरम्परायां सरलायां प्रसादगुणगुम्फितायां वैदर्भीरीतिसंवलितायां काव्यसरण्यां बुद्धचरितमहाकाव्यं महतादरेण चर्च्यते । अस्य महाकाव्यस्य प्रणेता महाकविरश्वघोषो भिक्षुर्बाैद्धधर्मदर्शनयोर्व्याख्याता कुशलः साहित्यस्रष्टा चासीत् । कनिष्कस्य समये विक्रमस्य प्रथमायां शताब्द्यायां जातस्य कवेः माता सुवर्णाक्षी आसीत् । अस्य पितुर्नाम आर्य आसीदिति सम्भावयितुं शक्यते । अस्य कवेः कृतिषु बुद्धचरितमहाकाव्यं विविधैरलंकारैरलङ्कृतमस्ति । यत्रोपमालंकारस्य प्रयोगः सर्वाधिकतया सर्वातिशायितया च सञ्जातो दृश्यते ।
समीक्षार्थं संगृहीतेषु अश्वघोषेण मूलतया प्रणीतेषु बुद्धचरितमहाकाव्यस्य पञ्चत्रिंशदधिकसहस्रसंख्यातेषु पद्येषु ऊनत्रिंशदधिकद्विशतसंख्यातानि पद्यानि उपमालंकारयोजनया विभूषितानि सन्ति । प्रतिशतं द्वाविंशतिसंख्यायां विहित उपमायोगः संख्यादृशा अन्यूनो वर्तते । न केवलं संख्यादृशा प्रत्युत अर्थग्रन्थीभेदनेन भावसम्प्रेषणेन च सहैव काव्यसौन्दर्यनिर्माणे तेषां प्रयोगः चित्तावर्जको वर्तते । यथा महाकविः कालिदास उपमालङ्कारप्रयोगेऽग्रगण्यो मन्यते यथा वा महाकविर्माध उपमालङ्कारप्रयोगे विशेषां ख्यातिं लेभे तथैव महाकविरश्वघोषोऽपि उपमायाः प्राचुर्येण प्रागुण्येन च प्रयोगे विशिष्टं स्थानमर्हति ।
विषयप्रवेशः
विश्वस्य प्राचीनतमायां संस्कृतभाषायां निबद्धे वाङ्मये साहित्यवाङ्मयमत्यन्तं. मनोरमं यशोऽर्थलाभव्यवहारज्ञानशिवेतरक्षत्युपदेशपरनिर्वृतिरूपप्रयोजनैराकर्षकमत्यन्तं मधुरञ्च विद्यते । यस्य विविधासु विधासु महाकाव्यविधायाः परम्परा दीर्घतमाऽत्यन्तं विशाला कान्तासम्मिततया प्रवृत्तिनिवृत्युापदेशेन मानवजीवनं सार्थकं सुखमयञ्च सम्पादयति । महाकवेर्वाल्मीकेः प्रसृतायां संस्कृतमहाकाव्यसरण्यां महाककविनाऽश्वघोषेण निर्मितं बुद्धचरितं नाम महाकाव्यं महत्त्यपूर्णं स्थानं बिभर्ति । बौद्धसमाजे साहित्यापेक्षया बौद्धधर्मदर्शनयोर्भगवतो बुद्धस्य जीवनप्रकाशनदृशाऽधिकं सम्मान्यते ।
नानारसाभिव्यञ्जकमपि शान्तरसप्रधानं माधुर्यप्रसादगुणसंवलितं वैदर्भीरीत्यञ्चितं सरलसरलं भावतरलञ्च महाकाव्यमिदं नानाविधैः शब्दार्थालङ्कारैरलङ्कृतमस्ति । शब्दालङ्कारापेक्षयाप्यर्थालङ्काराः काव्यशोभासमेधने तदर्थप्रस्फोटनसन्दर्भे चाधिकामुपयोगितां बिभ्रतीति काव्येषु प्राचुर्येणेव प्रयुज्यन्ते । तत्राप्युपमायाः प्रयोग आधिक्येनैव दृश्त इत्यस्मिन् शोधलेखे बुद्धचरितमहाकाव्ये कविनाऽश्वघोषेण प्रस्तुतमुपमालङ्कारसौन्दर्यं मीमांस्यते ।
शब्दकुञ्जिका : विच्छित्तिः, महावाग्मी, बौद्धसङ्गीतिः, प्रव्रज्या, सङ्करः ।
समस्या
काव्यशोभासम्पादनविधौ भावसम्प्रेषणार्थं कविभिर्बहुधाऽऽदृताया उपमाविच्छित्तेरुपयोगो महाकविनाऽश्वघोषेण बुद्धचरितमहाकाव्ये कथङ्कारं विहितः ? इतीमां प्राज्ञिकीं समस्यां पुरस्कृत्य शोधलेखोऽयं प्रवृत्तो विद्यते ।
उद्देश्यम्
उपर्युक्तस्य शोधप्रश्नस्य समाधानवर्त्मनि बुद्धचरितमहाकाव्ये प्रयुक्ताया उपमालङ्कारविच्छित्तेर्विश्लेषणं शोधलेखस्यास्योद्देश्यमस्ति ।
पूर्वाध्ययनपर्यवेक्षणम्
बुद्धचरितमहाकाव्यं न केवलं साहित्यदृशा प्रत्युत बौद्धधर्मदर्शनदृशाप्यधिकं महत्त्वं विभर्तीति साहित्यतत्त्वविश्लेषणापेक्षया धर्मक्षेत्रे दर्शनक्षेत्रे चास्याध्ययनमधिकं दृश्यते । साहित्यक्षेत्रेऽपि महाकाव्यपरम्परायामश्वघोषप्रणीतस्य बुद्धचरितमहाकाव्यस्य महतादरेण समुल्लेखो दृश्यते । परं काव्यतात्विकं विश्लेषणं त्वधिकं न दृश्यते । ए.बी. किथो नैजे संस्कृतसाहित्येतिहासे बुद्धचरितगतायाः काव्यकलाया विश्लेषणं विदधान उपमालङ्कारचमत्कारसंवलितानि कानिचित्पद्यानि समुद्धृतवान् (एवी किथ पृ.७७) । आचार्यबलदेवोपाध्यायः स्वकीये संस्कृतसाहित्येतिहासनामके ग्रन्थे महाकवेरश्वघोषस्य बुद्धचरित– सौन्दरानन्दमहाकाव्ययोर्विद्यमानस्योपमाऽलङ्कारप्रयोगस्य सप्रसंशं चर्चामकरोत् (उपाध्याय बलदेव पृ.७५) । बुद्धचरितमहाकाव्यस्य भूमिकायां सम्पादकः श्रीकान्तपाण्डेयोऽपि बुद्धचरितमहाकाव्ये रसान्वितेरलंकारयोजनायाश्च सौष्ठवं वर्तत इति अत्यन्तं संक्षिप्तां सूचनामेव प्रादात् (अश्वघोषः, भूमिका, पृ.ष्ह) । एवं प्रायो विद्वभिः बुद्धचरितमहाकाव्ये प्रयुक्तस्यालङ्कारसौन्दर्यस्य विशेषत उपमाविच्छित्तेः संकेतं कृत्वा तद्विषयकमध्ययनं विधातुामौत्सुक्यमुत्पाद्य तदध्ययनार्थं प्रेरणामात्रं दत्तं दृश्यते परं बुद्धचरितमहाकाव्ये प्रयुक्तस्योपमाकौशलस्य सुस्पष्टतया विश्लेषणं न दृश्यत इति बुद्धचरितस्योपमासौन्दर्यमित्यस्मिन्् विषये शोधावकाशो विद्यते । अनेन च लेखेन क्षेत्रेऽस्मिन् कश्चन योगः कल्यते ।
क्षेत्रं सीमा च
महाकविनाश्वघोषेण मूलतया प्रणीतस्य बुद्धचरितमहाकाव्यस्य पौरस्त्यकाव्यशास्त्रानुसारेणोपमानां विश्लेषणमेवास्य शोधलेखस्य मुख्यं विषयक्षेत्रं वर्तते । तत्रापि प्रथमसर्गस्याष्टमपपद्यादारभ्य चतुर्दशसर्गस्य द्वात्रिंशत्पद्यपर्यन्तं विद्यमानः काव्यभाग एवाश्वघोषप्रणीतोऽस्तीति तावानेव भागोऽत्र मीमांस्यविषयत्वेन गृहीतो वत्र्तते । ततोऽवशिष्टभागस्त्वधुनावध्यिनुपलब्धः चीनतिव्बताङ्ग्लभाषासु विहितं तदीयमनुवादमाश्रित्य द्वारिकानाथशास्त्रिणा पुनः पद्यानुवादं विधाय पूर्णतां नीत इति पश्चादनूद्य स्थापिातो भागोऽत्र विवेच्यविषयतया गृहीतो नास्ति । अत्र हि प्रासङ्गिकतया महाकवेरश्वघोषस्य चात्यन्तं संक्षिप्ततया परिचयोऽप्युपस्थापितोऽस्ति ।
अध्ययनविधिः
अस्य किल शोधलेखस्य निर्माणे पुस्तकेभ्य एव सामग्रीसमाहरणं विधाय समटिरूपेणैव समीक्ष्यवस्त्वाकलय्य निगमनधिना.विश्लेषणविधिना च विषयवस्त्वालोचनं. विहितमस्ति । पादटिप्पण्यां संस्कृतशोधानुगुणः पारम्परीणो विधिराधुनिकसामग्रीसूचनायै लेखकपृष्ठपद्धतिः सन्दर्भसामग्रीसूचीनिर्माणे च सैवपद्धतिरनुसृतास्ति ।
अश्वघोषस्य परिचयः
महाकवेरश्वघोषस्य जीवनविषये ह््यधिका सूचना नोपलभ्यते । केवलं तस्य काव्यकृतीनां बुद्धचरितस्य सौन्दरनन्दस्य सारिपुत्रप्रकरणस्य चान्त्यपुष्पिकावाक्ये स्वल्पतरः सङ्केतःसमुपलभ्यते –
‘‘आर्यसुवर्णाक्षीपुत्रस्य साकेतवासिनः भिक्षोराचार्यभदन्ताश्वघोषस्य महाकवेर्महावाग्मिनः कृतिरियम्‘ (अश्वघोष भूमिका पृ.क्ष्ख )इत्यनेन हि अयोध्यावासिनः महाकवेरश्वघोषस्य मातुर्नाम सुवर्णाक्षी आसीत् । अयञ्च बौद्धधर्मगुरुत्वेन प्रतिष्ठितः प्रवक्ता आसीत् । यद्यपि ‘आर्यसुवर्णाक्षिपुत्रस्य’ इति वाक्यांशे आर्या चासौ सुवर्णाक्षी इति समासे तु आर्येति पदं सुवर्णाक्ष्या विशेषणत्वेन ग्रहीतुं शक्यते । आर्यश्चासौ सुवर्णाक्षिपुत्र इतिविग्रहे आर्येति पदमश्वघोषस्य विशेषणमपि सम्पद्यते । परन्तु आर्यश्च सुवर्णाक्षी च तयोः पुत्र इति विग्रहे आर्य इति अश्वघोषस्य पितुर्नामापि सम्भवति । तदानीन्तने समाजे प्रायः केवलस्य पितुर्नाम तु समुल्लिखितं दृश्याते न केवलं मातुरतस्तस्य जनकस्य आर्य इति नाम सम्भाव्यते ।
अयं सम्राजा कनिष्केन समायोजितायां चतुर्थ्यां बौद्धसङ्गीतावुपसभापतित्वेन प्रतिष्ठिातः सन् अस्या सङ्गीतेर्निर्णयानुसारेणैव त्रिपिटकस्य सम्पादकत्वेन भाष्यकारत्वेन च नियुक्तोऽभूदिति कनिष्कस्य समकालिको विक्रमस्य प्रथमशताद्याञ्जातो मन्यते (अश्वघोष भूमिकायाम् ष्ष्ष्) ।
अस्य हि महाकवेर्निश्चप्रचतया कृतित्वेन सिद्धानि बुद्धचरितं सौन्दरनन्दञ्चेति द्वे महाकाव्ये, सारिपुत्रप्रकरणमिति रूपकञ्च समुपलब्धानि प्रकाशितानि च सन्ति । इतोऽतिरिक्तमज्ञातनामनी द्वे अन्ये नाटके च रचिते । तयोः पूर्णं रूपं नोपलभ्यते । अतएव अनयोः नाटकयोः किं नाम इत्यपि स्पष्टं नास्ति । अनेन गण्डीस्तोत्रनामकस्य स्तात्रग्रन्थस्यापि प्रणयनं विहितमासीदित्यपि कथ्यते (अश्वघोषः भूमिकायाम् खष्) । एतदतिरिक्तं कल्पनामण्डितिका यद्वा कल्पनालङ्कृतिका इति नाम्नापि स्मृतस्य सूत्रालंकारनामकस्य ग्रन्थस्य तथा महायानश्रद्धोत्पादशास्त्रस्यापि प्रणेता अश्वघोष एवासीदित्यपि केचन मन्यन्ते (उपाध्यायः पृ.१७०) ।
बुद्धचरितमहाकाव्यस्य स्वरूपम्
बुद्धचरितमहाकाव्यं हि महाकवेरश्वघोषस्य प्रथमा काव्यकृतिर्वर्तते । भामहानुसारेण यत्र महतां नायकादीनां महच्चरितं सर्गेषु प्रस्तूयते तद् ग्राम्यदोषहीनं सालङ्कारं सदाश्रयं नायकाभ्युदययुक्तं पञ्चसन्ध्यादिर्वस्तुसंघटनातत्त्वैर्युक्तं निखिलरसयुक्तं महाकाव्यं भवति (भामहः१।१९–२१) । एतच्च महाकाव्यलक्षणं बुद्धचरिते सर्वथाऽन्वितं दृश्यते । बुद्धचरितमहाकाव्यस्य कथावस्तु इतिहासपुराणादिषु ख्यातं वर्तत इति रुद्रटानुसारेण महाकाव्यमिदं अनुत्पाद्यं वर्तते । यत्र महाप्रबन्धत्वेन धर्मार्थकाममोक्षाणां चतुर्णां पुरुषार्थानां सर्वेषां रसानां निखिलानाञ्च काव्यस्थानानां वर्णनमपेक्ष्यते ( रुद्रट १६।४,५) । यच्च बुद्धचरिते न्यूनाधिक्येनानुस्यूतमस्ति । भामहरुदटतापेक्षया विश्वनाथकृतं महाकाव्यलक्षणमधिकं सुस्पष्टं वर्तते –
सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्वंशः क्षत्रियो वापि धीरोदात्तगुणन्वितः । … कवेर्वृत्तस्य नाम्ना वा नायकस्येतरस्य वा । नामास्य सर्गोपादेयकथया सर्गनाम तु (विश्वनाथः ६।१५–२५) ।
विश्वनाथस्य महाकाव्यलक्षणमिदं वस्तुनेतृरससन्धिससन्ध्य–सर्गबन्धताऽऽकारसुखदुःखाद्यनुभूतिनामसर्गनाम–पुरुषार्थच्छन्दोऽलङ्कारप्रमुखैस्तत्त्वःै बुद्धचरिते सर्वथा सङ्गच्छत इत्यस्य महाकाव्यत्वमप्रतिहतमस्ति ।
यद्यपि अष्टाविंशतिसर्गेषु विभक्तस्य समग्रस्याप्यस्य महाकाव्यस्य रचना महाकविना अश्वघोषेण विहिता परं कालान्तरे संस्कृतभाषायां निबद्धो मूलभागः प्रथमसर्गस्याष्टमपद्यादारभ्यचतुर्दशसर्गस्य एकत्रिंशत्पद्यान्तं यावदेव लब्धः । अवशिष्टभागस्य चीनतिब्बतभाषयोः विहितस्य अनुवादस्य सहायतया आंगलभाषायां विहितमनुवादमाधृत्य द्वारिकादासशास्त्रिणः पुनः पद्यानुवादो विहितः (उपाध्यायः पृ. १७२) । अत आद्यानां सप्तपद्यानां चतुर्दशसर्गस्य द्वात्रिंशत्पद्यादारभ्य काव्यान्तं यावत् कथावस्त्वादीनाअमश्वघोषप्रणीतत्वेपि तत्रत्यानि पद्यानि मूलतो कवेर्न विद्यन्ते । अतः सम्प्रति प्रकाशिते बुद्धचरिते प्रथमसर्गस्याष्टमपद्यादारभ्य चतुर्दशसर्गस्यैकत्रिंशत्पद्यपर्यन्तं विद्यमानो भाग एव महाकविना अश्वघोषेण मूलरूपेण प्रणीतः ।
काव्येऽलङ्काराणां स्थानम्
अलङ्क्रियते अनेनेति व्युत्पत्त्याा अलङ्कारशब्दः अलम् इत्यव्ययपूवकातर्् कृधातोः करणार्थे घञ्प्रत्यये सति निष्पद्यते ( अष्टाध्यायी ३।३।१९) । संस्कृतभाषायां ‘अलम्’इत्यव्ययं भूषणं पर्याप्तं सामथ्र्यं निषेधो व्यर्थञ्च ( अमरकोषः ३।३।२५२।) इत्येतेषु पञ्चस्वर्थेषु प्र्रयुक्तो दृश्यते । अत्र ह्यलङ्कारशब्दे अलम् इत्यव्ययं भूषणार्थे प्रयुक्तमस्ति । तेन चालङ्कारशब्दस्य शोभाकर इत्यर्थो भवति । सामान्यतया लोकव्यवहारे आभरणविभूषणलङ्कारशब्दाः पर्यायत्वेन प्रयुक्ता दृश्यन्ते ( अमरकोषः २।६।१०१।) । संस्कृतकाव्यशास्त्रे ह्यलङ्कारशब्दो द्विधा परिभाषिततोऽति – प्रथमं हि स्त्रीणां हावभावहेलद्यङ्गजायत्नजस्वभावजेषु विंशतितत्त्वेषु पुरुषाणां हावभावादिशोभाधायकदशचेष्टासु ( विश्वनाथः ३।८९–९३ ) ।
द्वितीयञ्चानुप्रासोपमादिषु काव्यिशोभाधायकेषु तत्त्वेषु । (काव्यप्रकाशः ८।६७। ।)
अनुप्रासोपमादीनां काव्यतत्त्नां स्थानविषयेऽपि काव्यतत्त्वविदां द्विधा विभागो दृश्यते – एके भामहदण्डिरुद्रट— जयदेवप्रभृतय आचार्या काव्यतायैअलङ्काराणामपरिहार्यत्वमाचक्षते । एषैव परम्परा अलङ्कारसम्प्रदायत्वेन ख्यातास्ति । अस्य सम्प्रदायस्य प्रखरस्य आचार्यस्य जयदेवस्यानुसारेण यथोष्णतां विना वह्नेः सत्ता न सम्भवति तथैवालङ्कारान् विना काव्यस्यापि सत्ता न सम्भवति –
अङ्गीकरोति यः काव्यं शव्दार्थावनलङ्कृती ।
असौ न मन्यते कस्मादनुष्णमनलं कृती ।। (जयदेव १।८।) ।
अलङ्कारवादिभिरिव रीतिवक्रौक्त्यॏचित्यसम्प्रदायवादिभिरप्यलङ्काराणामात्मस्थानीयतयैव महत्वमङ्गीकृतं दृश्यते । परं ध्वनिवादिभिराचार्यै रसस्याङ्गित्वेनालङ्कार्यत्वं संसाध्यालङ्कारास्तदुपस्कारकतया स्वीकृताः ।। आनन्दवर्धनमम्मटविश्वनाथजगन्नाथादिभिः मूर्धन्यैराचार्यैः शव्दार्थरूपकाव्यशरीरस्योपस्कारकतया कट–कुण्डलादि– विभूषणस्थानीयतय। तेषां महत्त्वमङ्गीकृतम् । आनन्दवर्धनेन हि शरीरे कटकुण्डलादीनामिव शब्दार्थशोभाधायकतया तेषां स्थानं निर्दिष्टम् । ( ध्वन्यालोक २।७।)। मम्मटेनानन्दवर्धनमनुसरता शब्दार्थमाध्यमेनैव काव्यशोभोत्कर्षकतयालङ्काराणां महत्त्वं स्वीकृतम् ( काव्यप्रकाश ८।२।) । तदनुसारेण् रसहीनवाक्येष्वप्यलङ्कारस्थितिः केवलं वाग्वैचित्र्यमात्रतया सम्भवति (काव्यप्रकाशः वृत्ति) । पण्डितराजेन जगन्नाथेन हि रमणीयताप्रयोजकतयाऽलङ्काराणां महत्त्वं निरूपितम्– “अथास्य प्रागभिहितलक्षणस्य काव्यात्मनो व्यङ्ग्यस्य रमणीयता प्रयोजका अलङ्कारा निरूप्यन्ते”(रसगङ्गाधरः द्वितीय आनन) पृ. २१० ।
ध्वनिवादिभिी काव्यशास्त्रिभी रसानुगुणतयैव सहजतयाऽऽगतस्यैवालङ्कारस्य स्थितिध्र्वनिकाव्येऽनुमता –
रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वत्र्यः सोऽलङ्कारो ध्वनौ मतः ।।( ध्वन्यालोकः २।१४,१६। )
अर्थालङ्कारा हि काव्यसौन्दर्यसंवर्धनेन सहैवाभिप्रेतार्थप्रकाशने भावसम्प्रेषणे च साहाय्यं विदधतीति शब्दालङ्कारापेक्षयाऽर्थालङ्काराणामधिकं महत्त्वं स्वीक्रियते ।
उपमाया वैशिष्ट्यं स्वरूपञ्च
काव्यार्थालङ्घरणेन सहैव प्रतिपिपादयिषितार्थबोधने भावसम्प्रेषणेऽप्यर्थालङ्काराणां तत्राप्युपमालङ्कृतेर्विशिष्टं स्थानं दृश्यते । अत एव न केवलं साहित्ये प्रत्युत विश्वस्य प्राचीनतमाद् वाङ्मयाद् ऋग्वेदादारभ्य वैदिकसंहितासूपनिषत्सु दार्शनिकग्रन्थेषु पुराणेषु साहित्ये लोकव्यवहारे च सर्वत्रैवोपमाया व्यापकतया उपयोगो विद्यते ।
न केवलं प्रथमं लक्षेष्वेव प्रयोगः प्रत्युतास्या उपमाया अलङ्काररूपेण शास्त्रीयं विवेचनमपि प्राचीनतमं विद्यते । यद्धि प्रथमतः यास्कस्य निरुक्ते दृयते । तेन हि ततोऽपि पूर्वं शास्त्रीयं विवेचनमुपमायाः समपद्यतेति सङ्केतमुपस्थापयता गाग्र्यस्य उपमायाः स्वरूपविषयकं मतमपि समुद्धृतम् । तदनुसारेण भिन्नेन न्यूनेनाधिकेन वा पदार्थेन वर्णनीयस्य तुलनमुपमा भवति– ‘यद् अतत् तत्सदृशमिति गाग्र्यः । तदासा कर्म । ज्यायसा वा गुणेन प्रख्याततमेन वा कनीयांसं वा प्रख्यातं वोपमीयते । अथापि कनीयसा ज्यायांसम् ( निरुक्तम्, ३।१४।) । संस्कृतकाव्यशास्त्रे उपमायाः प्राथम्येनोल्लेखो भरतस्य नाट्यशास्त्रे दृश्यते ।( नाट्यशास्त्रम्, ३।१७।४३) भरतादारभ्याधुनावधि सर्वैरपि संस्कृतकाव्यशास्त्रिभिरर्थालङ्कारेषूपमा प्राथम्येन निरूपिता ।
उपमाया अनेकालङ्कारमूलत्वमङ्गीकुर्वताप्पयदीक्षितेन रङ्गमञ्चे नृत्यन्त्या नट्या इव उपमायाः सहृदयहृदयरञ्जकत्वमङ्गीकृतम्–
उपमैका शैलूषी संप्राप्ता चित्रभूमिकाभेदान् ।
रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ।( चित्रमीमांसा, पृ. ६) ।
पाणिनीयव्याकरणानुसारेण उपमीते इति व्युत्पत्त्या सामीप्यार्थद्योतकाद् उपोपपसर्गाद् मानार्थकाद् माधातोः ‘आतश्चोपसर्गे’ (अष्टाध्यायी ३।३।१०६ । ) इत्यङ्प्रत्यये सत्युपमाशब्दः सम्पद्यते । यस्य तत्वविशेषैर्वर्णनीयस्य वस्तुनो वस्त्वन्तरेण सह कस्यचनांशस्य समीपस्थं मानमिति सामान्यार्थो भवतीत्यमुमेवार्थमाधृत्य पौरस्त्ये काव्यशास्त्रेऽलङ्कारविशेषरूपेपेऽर्थे परिभाषितो दृश्यते ।
तत्र काव्यतत्त्वविदाऽऽचार्येण मम्मटेन हि ‘साधर्म्यमुपमा भेदे ’ ( काव्यप्रकाशः १०।१) इत्यनेन उपमेयेत्वेनोपमानत्वेन च भिन्नयोः पदार्थयोः केनापि समानधर्मेण सम्बन्धप्रतिपादनमुपमा भवतीत्यभाणि । एतदेवाधिक्येन स्पष्टयताकविराजेन विश्वनाथेन कथितं यदेकस्मिन् वाक्ये द्वयोर्भिन्नयोः पदार्थयोर्वैधम्र्यभिन्नस्य सादृश्यवर्णनमुपमा थभवतीत्युक्तम् –‘साम्यं वाच्यमवैधर्म्यं वाक्यैक्य उपमा द्वयोः’ ( साहित्यदर्पणः, १०।१४। ) । पण्डितराजेन जगन्नाथेन हि—
‘सादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालङ्कृतिः’ (रसगङ्गाधरः, द्वितीयाननस्योत्प्रेक्षानिरूपणान्तो भागः, पृ. २११) इति लक्षणेन वाक्यार्थोपस्कारकत्वेनार्थाद् रसभावादिरूपस्य काव्यवाक्यार्थस्य शोभोपस्थापकतया प्रस्तुतं सहृदयहृदयाह्लादकं.सादृश्यमुपमालङ्गङ्कारत्वेन निरूपितम् । एतावता निखिलानामप्याचार्याणां प्रतिपादनशैल्या न्नित्वेऽपि लक्षणगते तात्पर्ये किमपि तात्त्विकमन्तरं न दृश्यते । एवं किल वर्णनीयस्य पदार्थस्य केनाप्यन्येनन वस्तुना चमत्कारपूर्णया शैल्या सादृश्यवर्णनानमुपमेतिसारतया समुपलभ्यते ।अस्याः किल उपमेयम्, उपमानम्, साधारणधर्म, उपमावाचकशब्दश्चैतिेषां चतुर्णामेवोपादाने पूर्णोपमा, तेषु कस्यचनैकस्य द्वयोस्त्रयाणां वानुपादाने लुप्तोपमेति मुख्यतया द्वौ भेदौ भवतः । सत्स्वप्प्यस्याः परःशतेषु भेदेष्वत्र न प्रतन्यते । गौरवभयाद् आभ्यां मुख्यभेदाभ्यामत्र विश्लेषणाच्च ।
बुद्धचरित उपमायोगाः
यथा हि महाकवेः कालिदासस्योपमा मनोहारिण्यो विद्यन्ते यथा वा महाकवेर्माघस्य उपमालंकारविषये महत्कौशलम् दृष्टिगतं भवति तथैव महाकवेरश्वघोषस्य बुद्धचरितमहाकाव्येप्युपमालंकारो अत्यन्तं मनोहारितया प्रचुरतया च प्रयुक्तो दृश्यते । प्रसादगुणविशिष्टायां वैदर्भीरीतौ ग्रथिते बुद्धचरितमहाकाव्ये काव्यार्थोपस्कारकत्वेनोपमालंकारः कालिदासस्य माघस्य चोपमाप्रयोगादन्यूनो विद्यते ।
महाकविरश्वघोषस्य मूलकृतित्वेन संग्रहीते भागे प्रथमसगस्य अष्टमपद्यादारभ्यान्त्यं यावद् चतुरशीति पद्यान्युपमालंकृतानि सन्ति । षट्पञ्चाशत् पद्यात्मके द्वितीये सर्गे त्रयोदश पद्येषूपमाऽलंकारप्रयोगोऽस्ति । पञ्चषष्टिपद्यात्मके तृतीये सर्गे द्वादशसु, त्र्युत्तरशतपद्ययुते चतुर्थे सर्गे सप्तसु, सप्ताशीतिपद्ययुते पञ्चमे सर्गे सप्तविंशतौ, अष्टषष्टिपद्यात्मके षष्ठे सर्गे पञ्चदशसु पद्येषूपमाऽलंकृतिः काव्यशोभां पुष्णाति । अष्टपञ्चाशतसंख्यकैः पद्यैर्निमिते सप्तमे सर्गे द्वादश, सप्ताशीति पद्यात्मके अष्टमे सर्गे त्रयोदश, द्वाशीतिपद्ययुते नवमे सर्गे द्वाविंशति, एकचत्वारिंशत्पद्यात्मके दशमे सर्गे च द्वादश पद्यानि उपमाविच्छित्त्यासमलंकृतानि सन्ति ।
त्रिसप्ततिपद्यात्मके एकादशे सर्गे विंशतिः, त्रयोविंशत्यधिकशतपद्यसंयुते द्वादशे सर्गे विंशतिः, त्रिसप्ततिपद्यात्मके त्रयोदशे सर्गे षड्विंशतिः, चतुदर्शसर्गस्यैकत्रिंशत्पद्यं यावद् नव उपमायोगा दृग्गोचरी भवन्ति ।
एवं मीमांसायै संगृहीतेषु पञ्चत्रिंशदधिकैकसहस्रसंख्यातेषु पद्येसु उनत्रिंशदुत्तरद्विशतसंख्यातानि पद्यानि उपमालंकारसौन्दर्येण विभूषितानि सन्ति । आनुपातिकदृशा प्रतिशतं द्वाविंशत्यधिका उपमाप्रयोगा दृश्यन्ते । संख्यादृशा अलंकारान्तरापेक्षया संख्येयं महती वर्तते । न केवलं संख्यादृशा प्रत्युत सौन्दर्यदृशापि बुद्धचरितगता उपमाप्रयोगा हृदयमावर्जयन्ति ।
बुद्धचरितगतमुपमासौन्दर्यम्
बुद्धचरितमहाकाव्य उपमालङ्कारचमत्कारो बोद्ध्यमर्थं स्फुटतया प्रस्तूय सहजतया भावसम्प्रेषणेन सहैव हृदयावर्जकतया काव्यार्थोपष्कारेण च महत् कामनीयकं पुष्णाति । अत्र हि समुत्कृष्टाः केचन प्रयोगा उपमासौन्दर्यदृशा विश्लेष्यन्ते ।
सिद्धार्थस्यौजस्त्विरूपं वाक्यार्थमुपष्कर्तुं सूर्यप्रकाशेन सह विहिता तुलना कामपि कमनीयतां समेधयन्ती प्रकृतार्थं सहजतया स्फोटयति–
राज्यं यदीच्छेद्धि समस्तपृथ्व्या न्यायेन जित्वा पृथिवीं समग्राम् ।
भूतेषु राजेत यथा प्रकाशो ग्रहेषु सर्वेषु रवेर्विभाति ।।( बुद्धचरितम्, १। ३५)
अत्र हि नवजातः शिशु सिद्धार्थ उपमेयं रविप्रकाश उपमानं यथेत्युपमावाचकशब्दः राजेत विभातीति च क्रियाद्वयेन प्रस्तुतः बिम्बप्रतिबिम्बभावापन्नः समानो धर्मोऽस्ति । तेन च प्रस्तुता पूर्णोपमालंकृतिरत्र वर्तते । यथा निखिलेषु ग्रहेषु सूर्यः ओजस्वितायामद्वितीयो वर्तते, तथैव ते पुत्रः सिद्धार्थोपि सर्वेषु नृपेषु ओजस्वितायामद्वितीयो भविष्यतित्यर्थो विशदो भवति । किञ्च सिद्धार्थस्य जन्मनि प्रजानां हर्षं प्रस्तोतुं कवि नलकूबरोत्पत्तौ अलकावत्या मुदा तुलयति ।
इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तत् ।
धनदपुरमिवाप्सरोऽवकीर्णं मुदितमभून्नलकूबरप्रसूतौ ।। (तत्रैव ८।९)
अत्र हि कपिलवस्तुनगरमुपमेयं धनदपुरमुपमानं इवेत्युपमावाचकशब्दः मोदः समानो धर्मोऽस्ति । यतः पूर्णोपमालंकृतिः सम्पद्यते ।
आजन्मनो जन्मजरान्तकस्य तस्यात्मजस्यात्मजितः स राजा ।
अहन्यहन्यर्थगजाश्वमित्रैर्वृद्धिं ययौ सिन्धुरिवाम्बुवेगैः ।। तत्रैव २।१ ।।
अत्र हि राजा शुद्धोदन उपमेयं सिन्धुरुपमानमिवेत्युपमावाचकशब्दः वृद्धिश्च समानो धर्मो विद्यत इति पूर्णोपमालंकारो वर्तते ।
प्रवज्यार्थं राजकुमारे सिद्धार्थे निष्क्रान्ते तस्य अश्वस्य कन्थकस्य सहचरस्य छन्दकस्य च राजकुमारं विना आगमनं विलोक्य क्रन्दन्त्या धात्र्या गौतम्या विलापः कविना मृतपुत्राया कुरर्या सह तुलनां विदधता मार्मिकतया चित्रितः –
विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता ।
विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च ।। (तत्रैव ८)
अत्र हि पुत्रस्य निष्क्रमणानन्तरं क्रन्दन्ती गौतमी उपमेयं नष्टशावका कुररी उपमेयं इवेत्युपमावाचकशब्दः दुःखञ्च समानो धर्म इति पूर्णोपमालंकारः चित्तावर्जकतया प्रस्तुतो दृश्यते । एवमेव युवराज्ञी यशोधरा चक्रवाकवियुक्ताया चक्रवाक्या सहोपमिता –
ततो धरायामपतद् यशोधरा विचक्रवाकेव रथाङ्गसाह्वया
शनैश्च तत्तद्विललाप विक्लवा मुहुर्मुहुर्गद्गदरुद्धया गिरा ।। ( तत्रैव ८।६०)
अत्र हि निष्क्रान्तपतिका यशोधरा उपमेयं पतिवियुक्ता चक्रवाकी उपमानं इवेति वाचकशब्दः गद्गदया गिरा विलापः साधारणधर्म इति पूर्णोपमाविच्छित्तिः चित्तावर्जकतया करुणरसं पुष्णाति ।
पुत्रस्य निष्क्रमणस्य वृत्तान्तं श्रुत्वा कम्पितस्य राज्ञोऽवस्था वज्रनिर्घोषश्रवणकम्पितेन गजेन विहिता –
समाप्तजाप्यः कृतहोममङ्गलो नृपस्तु देवायतानाद्विनिर्ययौ ।
जनस्य तेनार्तरवेण चाहतश्चचाल वज्रध्वनिनेव वारणः ।। ( तत्रैव ८।७२)
अत्र हि राजा शुद्धोदन उपमेयं वारण उपमानं इवेत्युपमाद्योतकशब्द आहतत्त्वञ्च समानो धर्मश्च पूर्णोपमाविच्छित्तिं सम्पादयन्तः पुत्रनिष्क्रमणव्यक्तेन शोकेन सञ्जातं करुणरसमुपस्कुर्वन्ति ।
अश्वघोषस्योपमालङ्कृतिर्न केवलं काव्यसौन्दर्यमेव पोषयति प्रत्युत कवेरभिलषितमर्थमपि पाठकमनःसु सहजतया प्रापयति –
जाम्बूनदं हर्म्यमिव प्रदीप्तं विषेण संयुक्तमिवोत्तमान्नम्
ग्राहाकुलं चाम्बिव सारविन्दं राज्यं हि रम्यं व्यसनाश्रयं च ।।( तत्रैव, ९ । ४१ )
अत्र हि कविना व्यसनाश्रितस्य राज्यस्य तुलना वह्निना दह्यमानेन स्वर्णनिर्मितप्रासादेन विषयुक्तेन मिष्टान्नेन ग्राहायुक्तेन फुल्लारविन्देन जलाशयेन च विहिता ।
ततः शुचौ वारणकर्णनीले शिलातले संन्निषसाद राजा ।
उपोपविश्यानुमतश्च तस्य भावं विजिज्ञासुरिदं बभाषे ।। ( तत्रैव, १०।२१)
अत्र हि शिलातलमुपमेयं वारणकर्ण उपमानं नीलत्वं समानो धर्म उपमावाचकशब्दस्तु समासे लुप्त इति लुप्तोपमालङ्कारो वर्तते ।
अश्वघोषस्य बुद्धचरिते क्वचित् पद्ये तु उपमानां संघातएव दृग्गोचरी भवति –
स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवष्र्मा ।
मौलीधरः सिंहगतिर्नृसिंहश्चलत्सटः सिंह इवारुगेह ।। ( तत्रैव,१०।।१७)
अत्र हि राजा विम्बसारः उपमेयं पाण्डवः उपमानं तुल्यः समानवाचकशब्दः वीर्यश्च साधारणो धर्म , एवमेव विम्बसारशरीरमुपमेयं शैल उपमानं समानेत्युपमावाचकशब्दः विशालत्वञ्च लुप्तः साधारणधर्मः ना सिंह इवेति ना उपमेयं सिंह उपमानं समानधर्मवाचकशब्दौ लुप्ताविति द्विलुप्तोपमा सिंहगतिरित्यत्रापि सिंहस्य गतिरिव गतिः इति विग्रहे राजगतिरुपमेयं सिंहगतिरुपमानं वाचकशब्दधर्मौ तु लुप्तौ । पुनश्च राजा उपमेयं सिंहोपमानं इव वाचकशब्दः पर्वतारोहणञ्च समानधर्म इति पञ्चानामुपमानां संघातोऽत्र वर्तते ।
समुद्रवस्त्रामपि गामवाप्य पारं जिगीषन्ति महार्णवस्य ।
लोकस्य कामैर्न वितृप्तिरस्ति पतद्भिरम्भोभिरिवाणर््वस्य ।। ( तत्रैव, ११।१२)
अत्र लुब्धो नरः उपमेयं समुद्र उपमानमिवेत्युपमावाचकशब्दः, तृप्तिराहित्यञ्च साधारणो धर्मोऽस्ति अत्यधिकैर्भाेगैरपि मनुष्यस्य तृप्तिर्नभवति इत्यमुमर्थं बोधयितुं कविना महत्त्यापि वृष्ट्या समुद्रस्य तृप्तेरभावेन तस्य तुलना विहिता ।
तपश्चरणेन दुर्बलस्यापि सिद्धार्थस्य कान्तेराधिक्यं प्रस्तोतुमुपात्तं शरच्चन्द्रोपमानं तमवलोक्य प्रसन्नस्य नरस्य श्वेतकमलोपमानं कस्य हृदयं नावर्जयति –
कृशोऽप्यकृशकीर्तिश्रीह्र्लादं चक्रेऽन्यचक्षुषाम् ।
कुमुदानामिव शरच्छुक्लपक्षादिचन्द्रमाः । ( तत्रैव, १२।९८)
अत्र तपसा कान्तिमान् बोधिसत्वः उपमेयं शरदृतोः शुक्लपक्षस्य प्रतिपदश्चन्द्रमा उपमानमिव वाचकशब्दः ह्लादश्च समानोधर्मः । किञ्च सिद्धार्थदर्शनपरा जनाः उपमेयं कुमुदान्युपमानम् इवेति वाचकशब्द आह्लादः समानो धर्मः वर्तते । ततश्च जातेन पूर्णोपमालंकारेण बोधिसत्त्वस्य कान्तिमत्वरूपोऽर्थ उपस्कृतोे भवति ।
किञ्च सभयं प्रहरतां कामसैन्यानां मध्ये निर्भयतया गभीरतया च स्थितस्य बोधिसत्वस्य तुलना गोभिः परिवृतेन सिंहेन सह विधाय काव्यस्य महनीयया कमनीयतया विहितया प्रस्तुत्या सहैव पाठकहृदि कामसैन्यानां बोधिसत्त्वस्य च मनस्थितेः सम्प्रेषणं सहजतया चित्तावर्जकया च विहितमस्ति–
उपप्लवं धर्मविधेस्तु तस्य दृष्ट्वा स्थितं मारबल महर्षिः ।
न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः ।। ( तत्रैव, १३।३३)
अत्र बाधिसत्वमुपमेयं सिंह उपमानम् इवेति वाचकशब्दः विकाराभावः क्षोभाभावश्च समानो धमोर्ऽस्ति । एवमेव –
इमेऽन्ये नरकप्रख्ये गर्भसंज्ञेऽशुचिह्रदे ।
उपपन्ना मनुष्येषु दुःखमच्र्छन्ति जन्तवः ।। ( तत्रैव, १४।३१)
अत्र हि गर्भ उपमेयं नरकमुपमानं प्रख्येति वाचकशब्दः दुःखञ्च साधारणो धर्मश्च पूर्णोपमालंकारत्वेन गर्भे लभ्यमानस्य कष्टरूपस्य काव्यार्थस्य शोभां पुष्णन्ति ।
अस्यायामर्थो नास्ति । यदश्वघोषेण बुद्धचरिते उपमाया एव प्रयोगो विहितः । प्रत्युत काव्येऽत्र रूपकोत्प्रक्षाऽप्रस्तुतप्रशंसादीपकापह्नुतिकाव्यलिंगविभावनापरिकरनिदर्शनाप्रभृतयो बहवोऽङ्कारा बुद्धचरिते चमत्कारपूर्णया रीत्या प्रयुक्ता दृश्यन्ते । दिङ्मात्रन्तु अत्रोदाह्रियते –
वाल्मीकिरादौ च ससर्ज पद्यं जग्रन्थ यन्न च्यवनो महर्षिः ।
चिकित्सितं यच्च चकार नात्रिः पश्चात्तदात्रेय ऋषिर्जगाद । ( तत्रैव, १।४३ )
अत्र हि पूर्वजेन च्यवनेन यत्पद्यनिर्माणकार्यं न कृतं तत्् परवर्तिना वाल्मीकिना कृतम्, यच्च चिकित्साशास्त्रं मुनिना अत्रिण न कृतं तच्च तत्परवर्तिना आत्रेयेण कृतम् इत्यप्रस्तुतेन समानेनार्थेन यत्पूर्वजैः न कृतं तदयं नवजातः शिशुः सिद्धार्थः करिष्यतीति समानः प्रस्तुतोऽर्थो बोध्यत इति अप्रस्तुतप्रशंसाऽलंकारो( साहित्यदर्पणः, १०। ५८–५९) जायते । किञ्चालंकाराणां बहूनामेकत्र सन्निवेशोऽपि बुद्धचरिते दृग्गोचरीभवति । अलंकारान्तरेणोपमाया सन्निवेशोऽप्यत्र बुद्धचरिते मनोहारितया जातो दृश्यते–
दीप्त्या च धैर्येण च यो रराज बालो रविर्भूमिमिवावतीर्णः ।
तथातिदीप्तोऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ।। (बुद्धचरितम् १।१२)
अत्र हि पूर्वार्धे बालस्य सिद्धार्थस्य रवित्वृन भूमावतरणस्य सम्भावनया उत्प्रेक्षालंकारो वर्तते । (साहित्यदर्पणः १०।४०) उत्तरार्धे च स एव बालः चन्द्र इव चक्षूंषि हरतीति बाल उपमेयं शशाङ्क उपमानं यथेति वाचकशब्दः चक्षुषामाहरणं समानो धर्मो वर्तत इत्युपमालंकारो वर्तते । परं भूमावतीर्णो दीप्तः सूर्यः चन्द्रवत् चक्षूंषि कथमाक्रष्टुं शक्नोतीति पूर्वाद्र्धोत्तराद्र्धगतयोरर्थयोरपि शब्देन विरोधः प्रस्तूयते । स च नवजातस्य शिशोः सिद्धार्थस्य लोकातिशायिना प्रभावेण सम्भ्वतीति विरोधः परिह्रियत इति विरोधालङ्कारो भवति(तत्रैव १०।६८) । उत्प्रेक्षाया उपमायाश्च परस्परनिरपेक्षतया विद्यमानत्वे संसृष्टिरलंकारो जायते ( का.प्र. १०।१३९) । समग्रपद्यार्थनिरूपणे उत्प्रेक्षाविरोधयोरङ्गाङ्गिभावसंकरत्वेन विरोधोपमयोश्चाङ्गाङ्गित्वेनावस्थानात् पुनः संकरालंकारो जायत (तत्रैव १०।१४०) इति षण्णामलङ्काराणां स्थितिरत्र दृश्यते ।
निष्कर्षः
उपमादय अर्थालंकारा अर्थग्रन्थिभेदनेन भावसम्प्रेषणे विशेषं महत्त्वं विभ्रतीति वेदादारभ्यः समस्तेपि वाङ्गमये प्रयुक्ता दृश्यन्ते । तत्रापि काव्यवाङ्गमये सौन्दर्यसम्पादनेपि तेषां योगो भवतीति विशेषेण समादृता दृश्यन्ते । तत्रापि उपमालंकृतेः प्रयोगे कवीनां विशेषाग्रहो दृश्यते । कालिदासमाघादयो महाकवय उपमाप्रयोगेणैव विशिष्टां ख्यातिं लब्धवन्तः । अश्वघोषप्रणीते बुद्धचरितमहाकाव्येपि अलंकाराः स्वाभिष्टार्थबोधनाय काव्यशोभासम्पादनाय च प्राचुर्येण प्रायुज्यन्त । तत्रापि उपमालंकारस्य योगो बुद्धचरिते अलंकारान्तरापेक्षया आधिक्येन जातो दृश्यते । अत्र प्रतिशतं द्वाविंशतिसंख्याधिका उपमालंकारप्रयोगाः सन्ति । एषा च गणना केवलं पद्यगता वर्तते । परं बहुषु स्थलेषु एकस्मिन्नेव पद्ये द्वित्रा त्रिचत्वारो वा उपमाप्रयोगा अपि दृश्यन्त इति तेषां सर्वेषां गणने संख्येयं ततोऽप्यधिका जायते ।
बुद्धचरितमहाकाव्ये न केवलं संख्यादृशा प्रत्युत गुणदृशापि उपमालंकारप्रयोगस्योत्कर्षो दृश्यते । अत्र हि विविधेभ्यः शास्त्रेभ्यः प्रकृतिरूपेभ्यः मानवानां हृद्गतेभ्यः भावेभ्यश्च उपमानानि समाहृत्य नानाविधाभिरुपमाविच्छित्तिभिः काव्यसौन्दर्यं प्रस्तुतमस्ति । बुद्धचरितगता उपमाप्रयोगा गुणदृशा चित्तावर्जका अर्थबोधका भावसम्प्रेषका सन्तीति उपमालंकारप्रयोगे बुद्धचरितमहाकाव्यमुत्कृष्टं वर्तते ।
कृतज्ञता
अस्य शोधलेखस्य निर्माणे येषां विदुषां ग्रन्थाः प्रयुक्ताः, येषाञ्च परामर्शेन पे्ररणया दत्तेन ज्ञानेन च शोधलेखस्यास्य निर्माणसामथ्र्यं लब्धम्, यैः परीक्ष्य प्रकाशनानुमतिर्दत्ता, यैश्च प्रकाशितोऽयं लेखस्ते सर्वे नामग्राहं विनैव सकृतज्ञतोपहारं वन्द्यन्ते ।
सन्दर्भसामग्रीसूची
अश्वघोषः (ई.२००४), बुद्धचरितमहाकाव्यम्, प्रथम भाग, सं. श्रीकान्त पाण्डेय, वाराणसी : चौखम्बा संस्कृत सीरीज अफिस ।
अमरसिंह (१९७० ई), अमरकोषः, वाराणसी : चौखम्बा संस्कृत सीरीज आफिस ।
आनन्दवर्धन (२००३ ई.), ध्वन्यालोकः, वाराणसी : चौखम्बा विद्याभवन ।
उपाध्याय,बलदेव (ई. २००१), संस्कृत साहित्य का इतिहास, दशम सं, वाराणसी : शारदा निकेतन ।
एबी, किथ (ई. १९६७), संस्कृत साहित्य का इतिहास, द्वि. सं, अनु. मंगलदेव शास्त्री, दिल्ली : मोतिलाल बनारसीदास ।
जयदेव (वि.सं. २०३२), चन्द्रालोक, वाराणसी : चौखम्बा संस्कृत सीरीज आफिस ।
जगन्नाथः (२००३ ई.), रसगङ्गाधरः, वाराणसी : चौखम्बा विद्याभवन ।
द्विवेदी,पारसनाथ (२०४८ वि.सं.)(सं), नाट्यशास्त्रम्, वाराणसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालय ।
दीक्षितः, (अप्पयः १९६५ ई.), चित्रमीमांसा, वाराणसी : वाणी विलास।
पाणिनी (१९५० ई.), अष्टाध्यायी, वाराणसी : चौखम्बा संस्कृत सीरीज आफिस ।
भामहः (२००२ई.), काव्यालंकारः, तृ.सं., वाराणसी : चौखम्बा सुरभारती प्रकाशन ।
मम्मट (२००४ ई.), काव्यप्रकाशः, वाराणसी : ज्ञानमण्डल लिमिटेड ।
यास्काचार्य (१९८९ ई.), निरुक्तम्, दिल्ली : चौखम्बा संस्कृत प्रतिष्ठान ।
रुद्रटः (१९८३ई.), काव्यालंकारः, दिल्ली : मोतीलाल वनारसीदास ।
विश्वनाथः (२००० ई.), साहित्यदर्पणः, दिल्ली, मुम्बई कलकत्ता वंगलोर पुणे पटना : मोतीलाल वनारसीदास