प्रस्तुतोऽयमालेखो महाकवेः कालिदासस्य प्रकृतिसॏन्दर्यवर्णनेऽभिरुचिसूचनपरको वर्तते । अनेन महाकवेः प्रकृतिप्रियता ज्ञायते । अये मित्र यदि त्वं वासन्तीतारुण्या मनोहरपुष्पस्य ग्रीष्मतुल्यप्रौढावस्थाया: प्रचुरोत्तमोत्तमफलं प्राप्तुमीहसे, आत्मनः प्रभावशालिनीं सामग्रीमेकत्रैव प्राप्तुमिच्छसि तर्हि शाकुन्तलं सेव्यताम् इति शाकुन्तलसेवनेन स्वर्लोकभूलोकयोरात्मच्छान्तिः समृद्धिश्च प्राप्स्यसि ।
मुना घिमिरे
साहित्याचार्या,
ghimiremuna19@gmail.com
लेखसार : प्रस्तुतोऽयमालेखो महाकवेः कालिदासस्य प्रकृतिसॏन्दर्यवर्णनेऽभिरुचिसूचनपरको वर्तते । अनेन महाकवेः प्रकृतिप्रियता ज्ञायते । अये मित्र यदि त्वं वासन्तीतारुण्या मनोहरपुष्पस्य ग्रीष्मतुल्यप्रौढावस्थाया: प्रचुरोत्तमोत्तमफलं प्राप्तुमीहसे, आत्मनः प्रभावशालिनीं सामग्रीमेकत्रैव प्राप्तुमिच्छसि तर्हि शाकुन्तलं सेव्यताम् इति शाकुन्तलसेवनेन स्वर्लोकभूलोकयोरात्मच्छान्तिः समृद्धिश्च प्राप्स्यसि । वासुदेवविष्णुवर्येण गेटेमहाशयस्य भावः श्लोकरूपेण गुम्फितोऽस्ति । सत्यमिदं यद् वैदिक ग्रन्थेषु प्रकृतिचित्रणं पदे पदे दृश्यते । ऋग्वेदादिषु प्रकृतिर्मातृत्वेन परिगृहीतास्ति। अभिज्ञानशाकुन्तले कविकालिदास: शकुन्तलायाः सौन्दर्यवर्णनप्रसङ्गे शकुन्तलां प्रकृतिं च उपमेयोपमानत्वेन प्रस्तौति । तपोवनस्य स्वभावोक्त्यलङ्कारेण प्रकृत्या: सजीवं वर्णनं महाकवेः पर्यावरणस्नेहं प्रदर्शयति । एतेन संस्कृतवाङ्मयं न केवलमध्यात्मपरकमपितु लोककल्याणपरकं लॏकिकं प्रकृतिप्रियं समुत्कृष्टं मानवजीवनं चिन्तयति इत्येवं ज्ञायते । अनेनानुसन्धानेनात्मकालेखेन प्रकृतिसॏन्दर्याध्ययनार्थं प्रवृत्तानां विशेषतो संस्कृतसाहित्याध्येतृणां कृते परमलाभो भवेदिति अपेक्ष्यते ।
कुञ्जीशब्दा: – प्रकृति:, कालिदास:, चित्रणम्, , शकुन्तला ।
विषयप्रवेश: –
कवे: कर्म काव्यम् इत्युच्यते। ननु कविरिति किम् ? इत्यत्र यस्य कर्म काव्यं स्यात्, सः कविः भवति । कवते = सर्वं जानाति, सर्वं वर्णयति, सर्वं सर्वतो गच्छति वा इति कविः (शब्दकल्पद्रुम:) । कु शब्दे धातो: “अचः इ:” (पा.सू. ४-१३८) इति सूत्रेण इप्रत्यये कविरिति शब्दो निष्पद्यते । कवि: शब्द: बहुष्वर्थेषु प्रयुज्यते, यथा- ब्रह्म, ईश्वरः, मेधावी, पण्डितः, सूर्य:, ऋषिरित्यादयः । ब्रह्म इति, आदि कवि:, येन काव्यरूपात्मकं जगदिदं कल्पितम् । तथैवाजस्रं प्रवाहमानया परम्परया सर्जकत्वात् वाल्मीकिवेदव्यासकालिदासादिष्वपि कविरिति व्यवहारो भवति ।
ननु ! एवं सति कविना कृतं यत्किमपि काव्यत्वेनाभिधीयेत ? न हि । अथ किं तर्हि ? किं काव्यस्य लक्षणम् ? इत्यत्रोच्यते ! न कवेस्तथाविधं कर्म काव्यम् । काव्यलक्षणं पूर्वकृतसूरिभिस्तदत्र क्रमशः प्रस्तूयते –
सर्वादौ शुक्लयजुर्वेदस्य मध्यन्दिनीशाखायाः चत्वरिंशतमेऽध्याय ईशावास्योपनिषदि एवं ह्याह – कविर्मनीषी परिभू: स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्य: (यजुर्वेद ४०/८ ) । अष्टममन्त्रस्योत्तरार्धे कवेर्लक्षणं काव्यस्य च लक्षणं दृश्यते “कवि: क्रान्तदर्शी सर्वदृक्” इति शङ्करः । अत्र क्रान्त-शब्दस्यार्थ: अतीत:, अतीतशब्द: त्रिकालस्योपलक्षणम्, अथैव शङ्करः सर्वदृगिति अर्थं विदधाति कवि: मनीषी, काव्यं चाल्पयत्नेन बोध्यं याथातथ्यमर्थं शाश्वतार्थस्य प्रकाशकम्,
अग्निपुराणे काव्यलक्षणम् –
संक्षेपात् वाक्यमिष्टार्थं व्यव्छिन्नापदावली ।
काव्यं स्फुरदलङ्कारं गुणवद्दोषवर्जितम् ।। (अ.पु.३३६/६–७४)
यत्र सङ्क्षेपेन वाक्येन इष्टार्थस्य व्यञ्जना भवेत्, पदावली विच्छिन्ना न स्यात्, गुणालङ्कारयुतं दोषवर्जितं काव्यमिति अग्निपुराणकारस्य मति: ।
नाट्यशास्त्रकारो भरत: प्राह-
मृदुललितपदाढ्यं गूढशब्दार्थहीनम्,
जनपदसुखबोध्यं युक्तिमदत्र योज्यम् ।
बहुकृतरसमार्गं सन्धिसन्धानयुक्तम्,
स भवति शुभकाव्यं नाटकप्रेक्षकाणाम् ।। ( भरतः, नाट्यशास्त्रम्- )
सुकुमारपदैर्ललितपदै: च युतं गूढशब्दार्थविरहितं जानपदीयै: ग्राह्यम्, अत्र नाट्येषु प्रयोज्यम्
विविधरसमार्गेषु गमनक्षमः अर्थात् अनेकरसानां प्रवाहः स्यात्, सन्धिसन्धानयुतं भवेत्, तादृक्षं काव्यं शुभ काव्यं भवति इति ।
सारतया काव्यलक्षणस्य समानत्वेऽपि विविधैरन्यैराचार्यैः स्वमतानुसारेण तल्लक्षणं शब्दतः भिन्नभिन्नतया प्रकटितम् । तद्यथा दिक्दशर्नं क्रियते-
अभिनवगुप्ताचार्य कथयति – कवनीयमिति काव्यम् । अयमाशयो यत् रचनाव्यापारौ च काव्यमिति ।
आचार्य भामहः- शब्दार्थौ सहितौ काव्यम्, गद्यं पद्यं च तद् द्विधा इति ।
आचार्य मम्मट: – तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि ।
कुन्तक: – शब्दार्थसहितौ वक्र कविव्यापारशालिनौ । बन्धे व्यवस्थितौ काव्यम् ।
आचार्य विश्वनाथ – वाक्यं रसात्मकं काव्यम् ।
जगन्नाथ: – रमणीयार्थप्रतिपादकः शब्द: काव्यम् ।
काव्यस्य यल्लक्षणं लक्षणकारै: विहितं ततो द्वित्राणामत्र मनाक् व्याख्या विधीयते येन काव्यस्वरूपस्य पाठकानां मनस्यालोकस्स्यात्-
आचार्य मम्मट: – काव्यस्य लक्षणं एवमकरोत् “तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि” ।
शब्दार्थौ दोषविरहितौ स्याताम्, दोष इत्युक्ते विधेयविमर्शादि । काव्यं पुनः माधुर्यादि गुणयुतं भवेत् । अलङ्कारस्तु काव्ये भवत्येव, परन्तु कदाचित् स्फुटालङ्कारविरहितमपि न काव्यत्वहानिरिति मम्मट: ।
आचार्य विश्वनाथस्य काव्यलक्षणमेवमस्ति – “वाक्यं रसात्मकं काव्यम्” । श्रृंगारादिरसेन युक्तं वाक्यं काव्यम् इति ।
जगन्नाथ: वक्ति — काव्यलक्षणविषये “रमणीयार्थप्रतिपादकः शब्द: काव्यम्” । पाठाकानामाह्लादकत्वं येन भवति, स असौ रमणीयार्थ:, अस्य प्रतिपादकशब्दसहिता रचना काव्यमिति जगन्नाथः ।
वामनमतानुसारं “काव्यं ग्राह्यमलङ्कारत् …. सौन्दर्यमलङ्कारः” । उपमोत्प्रेक्षाद्यलङ्कारयुतः प्रबन्ध: काव्यमित्यभिधीयते इति वामनः । अलङ्कार एव सौन्दर्यस्य परिचायकः ।
एवं साहित्यशास्त्रे विशदतया लक्षितं काव्यं द्विधा विभक्तं वर्तते श्रव्यदृश्यभेदेन । श्रव्यकाव्यस्य द्वौ भेदौ वर्तेते – प्रबन्धकाव्यं मुक्तककाव्यं चेति । दृश्यकाव्यस्यापि द्वावेव भेदौ विद्येते – रूपकम् उपरुपकञ्चेति । रुपकस्य दशभेदाः सन्ति, उपरुपकस्य चाष्टादश । रुपकस्य दशसु भेदेष्वन्यतमः प्रथमस्थानभाक् च नाटकं विद्यते । नाटकस्य लक्षणं विश्वनाथदिशा प्रस्तूयतेऽत्र –
नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम् ।
विलासर्द्ध्यादिगुणवत् युक्तं नानाविभूतिभिः ॥
……………………………………………….।।
चत्वारः पञ्च वा मुख्याः कार्यव्यापृतपूरुषाः ।
गोपुच्छाग्रसमग्रं तु बन्धनं तस्य कीर्त्तितम् ॥” इति (सा.द.ष.प.७–११ श्लोकाः)
एतत् सर्वमपि लक्षणयुतमभिज्ञानशाकुन्तलनाटकं वर्तते ।
काव्येषु नाटकस्यान्यतमं स्थानमस्तीति सर्वेऽपि काव्यशास्त्रिणः स्वीकुर्वन्ति । अभिज्ञानशाकुन्तलन्तु नाटकं प्राच्य-पाश्चात्यनाटकाकाशे चन्द्रायत इति च सकलैः साहित्यिकैरनुमोदितो विषयः । काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला इत्याभणकं प्राचीनकालतः अद्यावधि प्रसिद्धिमावहति । न केवलं प्राच्यैरपितु पाश्चात्यैरपि विद्वद्भिर्नाटकमिदमत्यन्तं प्रशंसितं प्राप्यते । शाकुन्तलविषये पाश्चात्य-विदुषा गेटेमहोदयेन आमुक्तकण्ठेनेत्थमुक्तम्-
वासन्तं कुसुमं फलं च युगपद् ग्रीष्मं च सर्वं च यत्
यच्चान्यन्मनसो रमायनमतः सन्दर्पणं मोहनम् ।
एकीभूतमभूतपूर्वमथवा स्वर्लोकभूलोकयोः
ऐश्वर्यं यदि वाञ्छसि प्रियसखे शाकुन्तमं सेव्यताम् ॥ इति ।
प्रकृतेर्मानवीकरणे सिद्धस्य महाकवेः कालिदासस्यान्यतमकृतॏ शाकुन्तलनाटके प्रकृतेर्वैचित्र्यत्वेन मनस आह्लादजनकत्वेन च यद्वर्णनं कृतमस्ति कविना, तदस्मिन्नालेखे सङ्क्षिप्ततया प्रस्तूयते ।
समस्याकथनम्
महाकविना कालिदासेनाभिज्ञानशाकुन्तलाख्ये नाटके प्रकृतेर्चित्रणं मनोहारितया कृतमिति सुप्रसिद्धमेव। प्रकृतिचित्रणपरकेऽस्मिन्नालेखेऽत्र निम्नानुसारेण समस्या उपस्थापिता विद्यते-
महाकविकालिदासस्य प्रकृतिं प्रति कीदृशी दृष्टिर्वर्तते ?
अभिज्ञानशाकुन्तलनाटके प्रकेतेर्चित्रणं कथमस्ति ?
उद्देश्यनिर्धारणम्
सामस्याकथनक्रमे उत्थापितानां समस्यानां समाधानमेवात्र मुख्योद्देश्यं वर्तते । अत उद्देश्यनिर्धारणं यथा वर्तते-
कविकुलगुरोर्कालिदासस्य प्रकृतिविषयकदृष्टेर्वर्णनम्,
अभिज्ञानशाकुन्तलनाटकस्य प्रकृतिचित्रणविषयकवर्णनम् ।
शोधविधि:
शोधप्रविधिं विना कमपि शोधप्रबन्धं चारुतया सम्पादयितुं न शक्यते । अतः अभिज्ञानशाकुन्तले प्रकृतेश्चित्रणं महाकविना यथा विहितं तथैवात्र ग्रन्थकारस्य मनोगतभावं बुध्वा, कवि: किमत्र वक्तुं वाञ्छतीति गम्यार्थमवबुध्य विवरणं लेखे उपस्थापितमस्ति । कतिपय सन्दर्भे शब्दः पृथगर्थं प्रस्तौति, परं गम्यार्थम् अन्यदेव भवति, तस्यैवात्र विवेचनात्मिकां शैलीमनुसृत्य शोधपत्रमिदं प्रकाश्यते ।
शोधसीमाङ्कनम् –
लौकिकसाहित्यस्य देदीप्यमानतारकस्य दीपशिखाकविकुलगुर्वाद्युपाधिना अलङ्कुर्वाणस्य महाकवि-कालिदासस्य महार्हवैदुष्यमावहतः अभिज्ञानशाकुन्तलस्य प्रकृतिचित्रणमनुसृत्य शोध-कर्त्तेदं शोधपत्रं लिलिखिषुरस्ति । अतः किं काव्यम् ? इति काव्यलक्षणपुरस्सरम् अभिज्ञानशाकुन्तले वर्णितं प्रकृतिनिरुपणं विधास्यते । प्रकृतिचित्रणे वेदेषूपलब्धं प्रकृतिवर्णनमपि प्रासङ्गिकत्वेन यथावसरं चर्च्यते । काव्यलक्षणं पुरोनिधाय प्रकृतिचित्रणं कुर्वाणः अन्य: कश्चिदपि विषयः प्रकृतशोधपत्रस्य परिधौ नायास्यन्ति ।
विषयविवेचनम्
प्रकृति:
प्र उपसर्गपूर्वकात् डुकृञ् करणे इति धातो: भावे “स्त्रियां क्तिन्” इति सूत्रेण क्तिन् प्रत्यये कृते प्रकृति शब्दो निष्पद्यते । अस्यार्थ: कस्यापि वस्तुनः स्वस्मिन् स्थिति: प्रकृति: भवति । प्रकृष्टा कृति: प्रकृति:, अनेन व्युत्पत्ति-लभ्येनार्थेन प्रकृतिपदात्र जगदिति गृह्यते । जगत्यस्मिन् स्थावरजङ्गमादयो सकलजीवात्मानस्सन्ति, अतः प्रकृतिपदात् सर्वेऽप्येते बुद्ध्यन्ते । ईश्वरस्येदं प्रकृष्टा कृतिरेव । यदि प्रकृतौ विसंगति: मनुष्यै: क्रियते, तर्हि दैवीयापत्ति: समजायते । स्वस्मिन् स्थितिरेव साम्यावस्थास्ति- “सत्वरजस्तमसां साम्यावस्था प्रकृति:” इति । वातपित्तादयो यदा प्रकृतौ भवन्ति, तदैव जन: स्वस्थो वर्तते, अन्यथा रुग्णः । लेखेऽस्मिन् मुख्यतया अभिज्ञानशाकुन्तलीया प्रकृतिः वर्ण्यते । किन्तु प्रासङ्गिकतया सर्वस्यापि संस्कृतवाङ्मयस्य मूलभूतेषु वेदेषु प्रकृतेः कीदृशं स्थानं वर्णितमस्ति इत्यतः अतिसङ्क्षिप्ततया दिग्दर्शनमेवात्र प्रस्तूयते ।
वेदेषु प्रकृतिचित्रणम्
संस्कृतवाङ्मये किं वा वैदिकवाङ्मये सर्वत्रैव प्रकृति: सजीवतया चित्रिता परिदृश्यते । वेदेषु बहुधा प्रकृतिं देवीं मत्वा तस्याः स्तुति: क्रियते । यजुर्वेदे सर्वाधारतया, सर्वसम्पत्तया, सर्वातिशयतया च प्रकृतिः सम्यक्तया सम्मानिता, नमस्कृता वर्तते । यथा- नमो वृक्षेभ्यः (यजुर्वेद १६/१७), वनानां पतये नमः (यजुर्वेद १६ /१८), ओषधीनां पतये नमः (यजुर्वेद १६/१९), वृक्षाणां पतये नमः (यजुर्वेद १६/१८), अरण्यानां पतये नमः (यजुर्वेद १६/२०) ।
ऋग्वेदस्य अरण्यानी-सूक्ते वनानां स्तुतिं कुर्वाण: ऋषिः वक्ति- अरण्यानी कमपि न तुदति । वेदेषु प्रकृतिमाता जनकल्याणाय अन्नवृक्षादियुक्ता भवेदिति विशालभावनया चिन्तनं विहितमस्ति । तत्राद्ये वेदे अनेन प्रकारेण प्रकृतिवर्णनं दृश्यते – शं न उरूची भवतु स्वधाभिः (ऋग्वेद 7 / 35 / 3), शमन्तरिक्षं दृश्ये नो अस्तु (तत्त्रैव 10 / 35 / 05), शं नः सिन्धवः शमु सन्त्वापः (तत्त्रैव 7 / 35 / 08), यजुर्वेदस्तु गर्वेण पृथिवीं धरित्रीं वदति – ध्रुवासि धरित्री (यजुर्वेद 14 । 22) । अथर्ववेदेऽपि ” विश्वम्भरा ” इत्यादि नाम्ना अस्या: स्तुतिर्दृश्यते – विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी । (अथर्ववेद 12/ 16)
वेदेषु अनेकधा पृथिवी मातृरुपेण स्तुतास्ति । पृथ्वी जैवविविधतायाः पोषिका संरक्षिका च वर्तते । अथर्ववेदीयेन ऋषिणा भूमिमातुः रक्षाया: भावमनेन मन्त्रेण प्रकटितमस्ति – माता भूमिः पुत्रो अहं पृथिव्या: । (तत्त्रैव 12 / 1 / 12 )
अथर्ववेदस्य पृथ्वीसूक्ते च प्रतिपदं प्रकृति मातुः पर्यावरणस्य च संरक्षणाय उपदेशो विहितो दृश्यते । यथा- भूमिर्माता, भ्रातान्तरिक्षं , द्यौर्नः पिता (तत्रैव 6 / 120 / 2) । पृथिवी माता द्यौष्पिता (यजुर्वेद 2 / 10/ 11) । द्यावा पृथिवी पिता माता । (ऋग्वेद 5/43/2 । एवम् उपनिषद्यपि प्रकृत्या: वर्णनं समुपलभ्यते । एवमेव पुराणेतिहासेष्वपि बहुत्र एतादृशी भावना वर्णिता दृश्यते । लौकिक-कवयोऽपि निजकाव्यग्रन्थे प्रकृतिं वर्णयन् निजकल्पनावैदूष्येन पाठकानां मनसि स्वस्थानं कुर्वन्तः दृश्यन्ते । अस्यामेव परम्परायां कविकालिदासस्य अभिज्ञानशाकुन्तले प्रकृतिनिरुपणमिति प्रकृतशोधस्य विषयः ।
अभिज्ञानशाकुन्तलम्
कविकुलगुरूः कालिदासश्च न केवलं प्राच्यकाव्यक्षेत्रे, अपितु सकल-काव्यजगति सुप्रसिद्धो वर्तते । तस्य इदं नाटकमभिज्ञानशाकुन्तलाख्यं विश्वप्रसिद्धम् अस्ति । अस्य नाटकस्य अभिज्ञानशाकुन्तलाख्यस्य उपजीव्यं महाभारतस्यादिपर्वो वर्तते । महाभारतस्य आदिपर्वण: ६९ अध्यायतः ७४ अध्यायपर्यन्तं शाकुन्तलोपाख्यानं विद्यते । तत्र राजा दुष्यन्तस्य कण्वदुहितुः शकुन्तलायाश्च प्रणयकथा वर्णितास्ति । महाभारते यथा वृत्तान्तः प्राप्यते तस्य कविना कालिदासेन समयानुसारं परिवर्तनं विधाय नाट्यरूपेण स्वकल्पनाशक्त्या प्रस्तुतमस्त्यत्र ।
अभिज्ञानशाकुन्तलनाटके सप्ताङ्का: सन्ति – दुष्यन्तः कदाचित् मृगया कर्तुं वनं याति, तत्रैव तपोवने महर्षिकण्वाश्रमे सुकुमारीं शकुन्तलां वीक्ष्य तस्य प्रेम्णि आसक्तः सम्भूय उभयो: सम्मत्या गन्धर्वविवाहं करोति । एवमेव दुष्यन्तः शकुन्तलाम् अभिज्ञानाय स्वमुद्रां समर्प्य शीघ्रागमनवचोभि: स्वराजधानीं प्रत्यागच्छति । महर्षेः दुर्वाससः शापेन विस्मृता शकुन्तला स्वतातस्य आज्ञया हस्तिनापुरं प्रति गच्छति । तत्र दुष्यन्तः शकुन्तलां नाभिजानाति । एवं संयोगवियोगात्मिका इयं कथा सप्तमेङ्के सुखेन परिसमाप्यते । अत्रैव कालिदासस्य प्रकृतिस्नेहं पदे पदे दृश्यते । प्रायः नाटके सुरम्यप्रकृतियुतस्य वनप्रदेशस्य वर्णनं करोति महाकविः ।
शाकुन्तले प्राकृतिकं चित्रणम्
कविकुलगुरुकालिदासस्य समास्वपि कृतिषु प्रकृत्या: सजीवं मनोरमं प्रभावशालि च चित्रणमुपलभ्यते । कविष्वग्रगण्यकालिदासस्य प्रकृति: सर्वत्रैव सजीवमिवाभासते । प्रकृत्या सह मनुजामात्मीयता कालिदासस्य कृतिषु अनेकसन्दर्भेषु च दरीदृश्यते । इतः पूर्वं कालिदासेन कुमारसम्भव-महाकाव्ये पार्वतीदेवीप्रमुखपात्रत्वेन स्वीकृता, रघुवंशमहाकाव्ये च भगवती सीता नायिकात्वेनाभिमता, परन्त्वस्मिन्नाटकेऽभिज्ञानशाकुन्तलाख्ये सामान्या प्राकृतिका शकुन्तला एव नायिकात्वेन समभिमता । परन्तु तत्र तत्र प्राकृतिक-वर्णनेनासन्तुष्टः कविः शाकुन्तले प्राकृतिकसौन्दर्यस्य यथेष्ट-वर्णनेन सन्तुष्टो जात इति वक्तुं शक्यते । अस्य सर्वातिशायिन्या विलक्षणया सरसया प्रतिभासम्पन्नया प्रकृतिप्रस्तुतशैल्या न केवलं संस्कृत-साहित्यमपितु विश्वमेव आश्चर्यान्वितं जातमिति श्रूयते ।
कालिदासस्य कृतिषु सर्वत्रैव सरलता, प्रसादगुणप्राचुर्यम्, उपदेशात्मकता, धार्मिकभावना, भारतीयोपमहाद्वीपीय-संस्कृति-व्यवहारादीनां बहुलतया दिग्दर्शनं प्राप्यते । अतः संस्कृतसाहित्ये कालिदास सर्वप्रतिष्ठितो वर्तते । एनं सम्बोध्य कस्यचिद् वचनमस्ति –
स विश्ववन्द्यो महतां कवीनां गुरुर्मनीषी कविकालिदासः ।
यत्काव्यपीयूषरसप्रवाह-स्वादामितानन्दमयो हि लोकः ।। इति …….? ।
कालिदासस्य काव्यकलायाः विकास प्रकृति-वर्णनेनैव प्रारभ्यते । तस्य काव्येषु कथानकं गौणरूपेण वर्तते, परं प्रकृतिः सर्वस्वरूपेण विराजते । उत्तरकालीन-रचनासु कालिदासस्य जडचेतनेषु समदृष्टिः जाता इति कथयन्ति विद्वांसः । यथा शाकुन्तले आद्योपान्तरूपेण सरसं सुललितञ्च प्राकृतिकं वर्णनं विलसति । अभिज्ञानशाकुन्तलं नाटकन्तु अष्टानां प्रकृतीनां वर्णनेनैव प्रारब्धम् । यथा-
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ (अभि. १/१)
कालिदासस्य प्रकृति: न केवलं जडवत् मूकत्वेन न तिष्ठति, अपितु मनुष्यान्नतिरिच्यते । अत्र मानवसौन्दर्यादतिशायी वर्तते प्राकृतिकं सौन्दर्यम् । कालिदासस्य मतिरस्ति यदुभावपि इतरेतरस्य संवर्धकौ इति । कालिदासः मनुष्येषु प्रकृत्या: प्रकृतौ च मनुष्यस्य स्वरूपं पश्यति । प्रस्तावनायां नटीसूत्रधारयो: संवादे सूत्रधारः नटीं ब्रूते –
“आर्ये ! नन्विममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसयमधिकृत्य गीयताम्” इति । तदा सूत्रधारवचसा कालिदासः ग्रीष्मर्तुं वर्णयति –
सुभगसलिलावगाहा: पाटलसंसर्गसुरभिवनावाता: ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीया: । (अभि. १/ ३) ।
नाटकस्यास्य नायिका शकुन्तला प्रकृति-शरीररूपा वर्तते । सा उन्मुक्त-प्राकृतिक-वातावरणे एव उत्पन्ना, वर्धिता च, प्रकृत्या एव च सा पालिता । तस्याः सकलाङ्गेषु प्राकृतिकं सौन्दर्यं प्रस्फुटितम् अस्ति । ग्रीष्मर्तौ घर्मतप्ते सुभगसलिलावगाहनं कर्तुं वाञ्छन्ति सर्वे । पाटलपुष्प: सर्वत्र स्वसुगन्धिं प्रसारयति । सघनवृक्षच्छयायां निद्रा सुलभा भवति । प्रदोषकालश्च अतिरमणीय: भवति ।
कविकालिदासः ग्रीष्मर्तुं स्वभावोक्तिरलङ्कारस्य प्रयोगेण प्रकृतिस्नेहमभिव्यनक्ति ।
तदाज्ञां “ग्रीष्मसयमधिकृत्य गीयताम्” इति परिपालयन् नटी प्रकृत्या: सुन्दरं मनोहारिणी च ग्रीष्मसमयस्य चित्रमुपन्यसति – ईषदीषच्चुम्बितानि भ्रमरै: पश्य सुकुमारकेशरशिखानि ।
अवतंसयन्ति दयमाना: प्रमदाः शिरीषकुसुमानि ।। (अभि. १/४)
कालिदासस्य कुमार्यः लतापादपान् सस्नेहं सिञ्चन्ति । अभिज्ञानशाकुन्तलस्य प्रथमेऽङ्के अनुसूया शकुन्तलां कथयति “हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रम वृक्षका: प्रियतरा: इति तर्कयामि, यदनेन नवमालिका कुसुमपेलवा त्वमप्येतेषामालवालपूरणे नियुक्ता” । अस्योत्तरं ददन्ती शकुन्तला भणति “न केवलं तात नियोगः अस्ति मे सोदरस्नेह एतेषु” । शकुन्तलायाः लतावृक्षवनस्पतिषु सोदरस्नेहस्य भावः कालिदासस्य प्रकृतिप्रेम्ण: पराकाष्ठा वर्तते इति सूचयति । मृगयायै गतः राजा दुष्यन्तः तपोवनं प्राप्य सूतं कथयति “नोदयाश्वान्, पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे” इति । अयमाश्रम भूभाग इति कथम् अवबुद्धवान् इति प्रश्ने कृते दुष्यन्तः उत्तरति “किं न पश्यति भवान् इह हि”-
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामध:
प्रस्निग्धा: क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपला: ।
विश्वासोपगमादभिन्नगतय: शब्दं सहन्ते मृगा
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किता: ।। (अभि., प्र.अं. १४)
आश्रमपरिचयात्मकानि वस्तूनि दर्शयन् राजा कथयति – लोकय, वृक्षाणामधः तरुकोटरस्थशुकशावकचञ्च्वा प्रकीर्णा: नीवाराः दृश्यन्ते । इङ्गुदीतैलयुतः सुचिक्कणप्रस्तरा: अयमाश्रमेति सूचयति । प्रत्ययोगमात् स्यंदनगतध्वनयः सहजं सहन्ते, न भीताः सन् इतस्ततः न कूर्दन्ति भवन्ति इत्यर्थः । धौतवल्कलवस्त्रात् च्युततोयरेखाभि: मार्गः व्याप्त इति दृष्ट्वा आश्रमेति निश्चितः । तपोवनस्य स्वाभाविकं चित्रणमेव प्रकृतिस्वरूपमिति बोद्ध्यम् ।
अन्यदपि-
कुल्याम्भोभि: पवनचपलै: शाखिनो धौतमूला
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
एते चार्वागुपवनभुविच्छिन्नदर्भाङ्कुरायां
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ।। (अभि., प्र.अं.१५ )
कुल्यवारिभि: यद् चपलवायुना इतस्ततः प्रसृतेन तटवर्तिशाखिन: धौतमूला इव प्रतिभान्ति ।
आज्यधूमोद्गमेन नवकिसलयस्य भाभिन्ना जाता इति । एते दृश्यमाना मृगवत्सा: स्वच्छन्दं दर्भाङ्कुरां चर्वन् विचरन्ति । अत आश्रमतपोवनमिति निश्चिनोमि ।
आश्रमप्रदेशस्य एवं सजीवं मनोहरं वर्णनं नान्यत्र लभ्येत ।
राजा दुष्यन्तः प्रकृत्या सह शकुन्तलामुपमिनोति –
इदमुपहितसूक्ष्मग्रन्थिना स्कन्ध देशे , स्तनयुगपरिणाहाच्छादिना वल्कलेन ।
वपुरभिनवमस्या: पुष्यति स्वां न शोभां, कुसुममिव पिनद्धं पाण्डुपत्रोदरेण । (अभि., प्र.अं.१९)
इदं नवं शकुन्तलावपु: स्कन्धे सूक्ष्मबन्धनेन पयोधरद्वयस्य पीनतच्छादकेन वल्कलवस्त्रेण पाण्डुपत्रोदरेण पुष्पमिव स्वकीयां शोभां न बिभर्ति ।
कविकालिदासः व्रततिव्याजेन शकुन्तलाया: लावण्यं वर्णयति –
महाकविः कालिदासः स्वनायिकां शकुन्तलां लक्षीकृत्य ब्रवीति यत् – शकुन्तला प्रकृतितः पृथक्स्वरूपा नास्ति । शकुन्तलायाः पालनं पोषणं च प्रकृत्या कृतमिति वक्तव्ये नातिशयोक्ति: भवति । यतोहि मेनकया परित्यक्ता शकुन्तला महर्षिकण्वाश्रमे भवति । तत्रत्या: वृक्षवनस्पतयः शकुन्तलां स्वपुत्रीवत् परिपालयन्ति । तस्मादेव शाकुन्तलायाः सम्बन्ध: प्रकृत्या सह अधिकं दृश्यते । प्रकृत्या सह शकुन्तलायाः स्वाभाविक: सम्बन्धोऽस्ति । अत एव शकुन्तला अधिकमनोज्ञा दृश्यते —
अधरकिसलय रागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ।। (अभि., प्र.अं.२२)
अस्या: अधरोष्ठ: रागेण अतिपेलवनवपल्लव इव प्रतिभाति भुजौ कोमलविटपानुकारिणौ तथा शरीरावयवेषु कुसुममिव मनोहारकं यौवनं सञ्जातमिति ।
दीपशिखाकालिदासः प्रकृति: मानवीकरणेन प्रस्तौति । अनुसूया वक्ति – “हला शकुन्तले ! इयं स्वयं वरवधू सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमल्लिका एनां विस्मृतासि” । सहकारेण वनज्योत्स्ना ऊढा इति मानवीकरणमत्र मानववत् प्रकृत्या सह व्यवहारः कालिदासस्य प्रकृतिस्नेहं पुष्टीयति ।
शाकुन्तलस्य द्वितीयेऽङ्के राजा दुष्यन्तः “इदं च मे मनसि वर्तते” इति कथयन् सुकुमारीशकुन्तलामनाघ्रातत्त्वं निरुपयन् वसन्तकाले प्रकृत्या: नवत्वं प्रकटयति –
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै
रनामुक्तं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधि: ।।(अभि., द्वि.अं. ११)
अस्मिन् पद्ये कवि: निसर्गसुन्दरीशकुन्तलायाः मनोहरं चित्रणं कुर्वन्ननाघ्रातपुष्पेण सह औपम्यं प्रदर्शयति । यथा प्रकृति: तथैवेयं शकुन्तला नास्पृष्टा ।
शकुन्तलायाः आश्रमात् प्रस्थानसमयस्य चित्रणमतीव कारूणिकं दृश्यते । तदा न केवलं ससखः कण्वः, अपितु सकलं तपोवनमेव शकुन्तलायाः वियोग-पीडया अश्रूणि मुञ्चन्तीति प्रतिभाति । विषयेऽस्मिन् कालिदासः प्रियम्बदामुखेन कथयति – उदगलितदर्भकवला मृग्यः, परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव तलाः ।। ( अभि. ४/११) ।
अभिज्ञानशाकुन्तलस्य प्राणभूतांशे श्लोकचतुष्टये महर्षिकण्वेन कथित: तृतीयश्लोकः शकुन्तलाया: प्रकृतिप्रेम्ण: परिचायकः वर्तते –
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या,
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या: भवत्युत्सवः,
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायाताम् ।।(अभि., च. अं.८ )
शकुन्तलां पतिगृहं प्रेषणसमये महर्षि-कण्वः प्रकृतिं मानवरूपेण सम्बोधयन् गमनेऽनुमतिप्रदानाय निवेदयति – सेयं याति शकुन्तलेति । एतादृशं वर्णनमनेकत्र दृश्यते । अत्र प्रकृतिं मानवीकरणे प्रवीणता कालिदासस्य दरीदृश्यते ।
कालिदासस्य प्रकृतेः न केवलं सौन्दर्यमेवास्ति, अपितु अस्य प्रकृति पीडां सोढुं सामर्थ्यं प्रददाति । शाकुन्तले चक्रवाक-विरहेण दुःखितां चक्रवाकीं दृष्ट्वा तथैवाहमपि पीडितास्मीति स्वात्मानं भावयति शकुन्तला । इत्थं दृष्ट्वा सख्या अनसूया-मुखेन दुःखसहनपरकं वचनमिदम्-
एषापि प्रियेण विना गमयति रात्रिं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ।। ( अभि. ४/१५) ।
एवं कविकुलगुरू-कालिदासः शाकुन्तले सर्वत्रैव सरसशैल्या प्रकृतिं वर्णयित्वा निरसजनानपि मोहयति । नाटकान्ते भरतवाक्यरूपेणापि प्रकृतिं नोपेक्ष्यतेऽयम् । यथा-
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहतां महीयताम् ।
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ।। (अभि. ७/३५) ।
एवं अभिज्ञानशाकुन्तले सर्वत्र प्रकृत्या: मनोहरं चित्रणं समीचीनं परिदृश्यते ।
उपसंहृति: –
कविकालिदासः नैजप्रकृतिवर्णननैपुण्यमभिज्ञानशाकुन्तले चारुतया प्रकटितं परिदृश्यते । प्रकृत्या समभावेन युक्ता शकुन्तलाधिकमनोज्ञा प्रतीयते । एवं स्पष्टं भवति यत् महाकवेः कालिदासस्य दृष्टि: पारदर्शिनी वर्तते, प्रकृतिं यथायथं द्रष्टुं शक्नोति, दर्शयति च । अत एव शकुन्तला विटपानुकारिणी वर्तते । कालिदासस्य बुद्धौ प्रकृत्या: सर्वोपि पक्षः स्पष्टो वर्तते । सौन्दर्यचित्रणे प्रायशः प्रकृतिमुपमानत्वेन प्रयुङ्क्ते । कालिदासस्य मतमस्ति यत् प्रकृति: मनुष्यस्य सहचरी वर्तते, अन्योन्यं विना पङ्ग्वन्धवत् स्थितिः समजायेत ।
एवमभिज्ञानशाकुन्तल-नाटके प्रकृति-मुग्धेन कविना कविकुलगुरुणा कालिदसेन दुष्यन्त-शकुन्तला-कण्वादीनां चरित्रचित्रण-माध्यमेनापि सर्वत्रैव प्रकृतिचित्रणं विहितम् । तत्रापि शकुन्तलामाध्यमेन प्रकृतेः सर्वस्वं प्रकटितम् । राज्ञां प्रकृतिः, स्वभावः, कर्तव्यम्, तपस्विनां प्रकृतिः, आश्रमवासिनां सदाचारिणामाचारः व्यवहारश्च मर्यादापूर्वकं प्रस्तुतम् । तत्र नारीणां तत्रापि तापसकन्यानां स्वभाव-आचरण-संस्कारादीनां, मानवानां संयोगेन वृक्ष-तरु-गुल्म-लतापतादीनां चेतनोचितस्य व्यवहारस्य पूर्णतया सुललिततया सर्वांशेनानेन कविना नाटकेऽस्मिन् अभिज्ञानशाकुन्ते समुद्घाटितम् ।
कृतज्ञताज्ञापनम् –
येषां विदुषां कृतिभ्यः प्रमाणमङ्गीकृत्य लेखोऽयं पूर्तिमागात्, तेषां समेषामपि ऋणी लेखकः भविष्यति । येषां च साहाय्येन लेखोऽयं प्रकाशनक्षमोऽभवत्, ते समेऽपि साभिवन्दनं कृतज्ञतावचोभि: सम्मान्यन्ते ।
सन्दर्भ–ग्रन्थ–सूची
कालिदास: (२०१९), अभिज्ञानशाकुन्तलम्, व्या.-वेदप्रकाश शास्त्री, चौखम्बा सुरभारती प्रकाशन ।
कालिदास:(२०१५), अभिज्ञानशाकुन्तलम्, व्या.श्रीकृष्णमणि त्रिपाठी, चौखम्बा संस्कृत प्रतिष्ठान ।
कुन्तक: (२०११), वक्रोक्तिजीवितम्, चौखम्बा अमरभारती प्रकाशन ।
जगन्नाथ: (२०१०), रसगङ्गाधर:, व्या.पण्डित मदनमोहन झा, चौखम्बा विद्याभवन ।
भरत: (सं. २०२८), नाट्यशास्त्र, चतु.सं., व्या. मधुसुदन शास्त्री, काशी हिन्दू विश्वविद्यालय ।
भामह: (२०१८), काव्यालङ्कार:, संस्करण, हंस प्रकाशन |
मम्मट: (२०१६), काव्यप्रकाश:, द्वि.सं., व्या.सत्यव्रत सिंह, चौखम्बा विद्या भवन ।
रुद्रट: (१९६५), काव्यालङ्कार:, वासुदेव प्रकाशन ।
वामन: (वि.२०५८), काव्यालङ्कारसूत्राणि, ष. सं., व्या. बेचन झा, चौखम्बा संस्कृत प्रतिष्ठान ।
विद्यानाथ: (सं.२०३८), प्रतापरुद्रीयम्, कृष्णदास अकादमी ।
विश्वनाथ: (२०१५ ), साहित्यदर्पणम्, अष्ट.सं.,व्या. सत्यव्रत सिंह, चौखम्बा विद्याभवन ।
वेदव्यास (ई. २००४), अग्निपुराणम्, व्या. आचार्य शिवप्रसाद द्विवेदी, चौखम्बा सुरभारती प्रकाशन ।
….,(ई. २००३), ऋग्वेदः, व्याख्या. स्वामी जगदीश्वरानन्द सरस्वती, वेदज्योति प्रेस ।
….. (ई. २००३), यजुर्वेद:, व्याख्या. स्वामी जगदीश्वरानन्द सरस्वती, वेदज्योति प्रेस ।
…..(ई. २००४), अथर्ववेद:, व्याख्या. स्वामी जगदीश्वरानन्द सरस्वती, वेदज्योति प्रेस ।