अभिज्ञानशाकुन्तलनाटकस्य चतुर्थाङ्केऽभिव्यक्ता रसभावाः

विख्यातस्य महाकवेः कालिदासस्य कृतिरभिज्ञानशाकुन्तलनाटकं रसमाधुर्या मर्मस्पृशां भावानां तदुपस्स्कारकाणामलङ्काराणां प्रसादगुणसंबलिताया वैदर्भीरीत्याश्च योगेन विश्वसाहित्य एव समुत्कृष्टं मन्यते । अस्य नाटकस्य चतुर्थोऽङ्कस्तत्राप्याधिक्येन रमणीयतरो मन्यते । तस्मिन् चतुर्थाङ्के के रसभावा व्यज्यन्त इत्यस्मिन् विषये बहवो मतभेदा दृश्यन्ते ।